सामग्री पर जाएँ

पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५) क्षाचपञ्चरत्नस्तवस्तथा । तथा शिखरिणीमाला ब्रह्मतर्कस्तवादयः॥ शिवतत्वविवेकश्च शिवकर्णामृतन्तथा । शिवार्चनाचन्द्रिकाच तड़या- 'ख्याबालचन्द्रिके'त्यादिपद्यैश्शिवार्चना चंद्रिकायाअपिस्वकृतित्वं प्रति- पादितवन्तः। तस्मान्निरङ्कुशमप्पयदीक्षितविरचितमेवेदं ग्रन्थरत्नमि- ति । अस्यचग्रन्थरत्नस्य दुर्लभ तयाविरळप्रचार तामालोकयन्तः परो- पकारधुरन्धराश्शिवभक्तिभरिताः श्रीमन्तोदेवसालपुरवास्तव्याचे- ष्टिवर्याः स्त्रपुरे शिवागमपरिपालनार्थ प्रतिष्ठिते अन्वर्थाभिधाने शिवागमपरिपालनस ऽग्रासनाधिपोपाय | सनाधिपकार्यदर्थ्यागमा- र्जकागमपोषकादिपदभाजः निखिलरौवग्रन्थरत्नमुद्रणकार्यमङ्गळ- त्वेन शिवार्चनाचन्द्रिकामेनां प्रथमंमुद्रयित्वाप्रकाशयामासुः । अ- न्यान्यप्यष्टप्रकरण सिद्धान्तशेखर पौष्करवृत्ति मृगेन्द्रवृत्यादीनि ग्र- स्थरत्नानिकामिकादिमूलागमांञ्चाचिरादेवमुद्रणेनप्रकाशयिष्यन्ति ॥ (आदर्शदातृनामानि ) अस्यच शिवार्चना चन्द्रिकाख्यग्रन्थस्य मुद्रणविषये प्रथमं मा तृकादातारः कण्डदेव्यग्रहाराभिजनाश्शिवागममुद्रणप्रोत्साहकाः श्री- मन्तः पण्डितवर्याः काळीश्वर शिवाचार्याः । एतेषां मातृकामनुसृत्यै- वमुद्रितमेतद् ग्रन्धरत्नम् ॥ शोधनार्थन्तु काळीश्वरपुरवास्तव्याः का ळीश्वरशिवाचार्याः तथामधुरान्तकवास्तव्याः सुब्रह्मण्यशिवाचार्याः तथा कुंबघोणनगरवास्तव्यास्स बृजिष्टरधिकारस्थिताः कृष्णस्वामि- शास्त्रिणश्च एकैकंमातृकारत्नं प्रदाय उपाकुर्वन् । एतेषां प्रत्युपकार- विपये अशक्ताः प्रेमपूर्वकाननन्तान् प्रणामान् समर्पयन्ति शिवागम- सङ्घाध्यक्षा इति शिवम् ॥ इत्थं, अळ. अरु. राम. अरुणाचलश्रेष्ठी. देवसालपुरी जमीन्तार्, आगमार्जकः,