११२ अत्र वाच्योऽर्थो नदीतीरे शार्दूलवासः । 'अ- तस्तत्र सञ्चारं मा कुरु' इत्ययम् अर्थो व्यङ्ग्यः । व्यङ्ग्य एव चार्थोऽत्र प्रधानभूतः । काचिद् वक्रोक्तिः कश्चिद् अर्थ सूचयति; कि- न्सु सोऽर्थः प्रधानभूतं वाच्यार्थी प्रति केवलम् उप- कारको भवति । तादृशं कविवाक्यं 'गुणीभूतव्य- ट्र्यम्' इत्युच्यते; 'मध्यमकाव्यम्' इति च ॥ यथा-- तस्य मन्यामहे राज्ञो जयलक्ष्मीं करस्थिताम् । सहायाः सुभटा यस्य मानवन्तो महौजसः ॥ अत्र मानवन्त इति शब्दश्चित्तसमुन्नतिशालि - त्वं स्पष्टं वदन् युद्धेष्वपलायित्वं भटानां सूचयति । स एष सूच्योऽर्थो न प्रधानभूतः; किन्तु जयसिद्धि. रूपं पूर्वार्धवाच्यम् अर्थ साधयति केवलम् । अपरा वक्रोक्तिर्वाच्यार्थमात्रे विश्रान्ति लभते । 1. गुणीभूतव्यङ्गघम् is a division of kavya in which the charm of the suggested sense is not more striking than that of the expressed one. Digitized by Google
पृष्ठम्:भारतानुवर्णनम्.djvu/१२७
दिखावट