पृष्ठम्:भारतानुवर्णनम्.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०३ तादृशं कविवाक्यं 'चित्रम्' इत्युच्यते; 'अधमका- व्यम्' इति च ॥ यथा-- पूर्णचन्द्र इवानन्दं दत्ते पुत्रमुखं पितुः । अत्र पुत्रमुखे चन्द्रसाम्यं प्रतिपाद्यत इति सालङ्कारम् इदं वाक्यम् । एवञ्जातीयकेषूत्तममध्यमाघमेषु त्रिषु भेदेषु पूर्वोक्ताः सर्वे काव्यभेदा अन्तर्भवन्ति ॥ - शब्दचित्रम् – यस्मिन् कविवाक्ये वर्णानां पदानां वावृत्त्या प्रकारान्तरेण वा किञ्चिच्चारुत्वं स्फु रति, अर्थः पुनरचारुरेव, तत्र 'शब्दालाङ्कार' उच्य- ते । अनेन युक्तं काव्यम् अधमाधमं मन्यन्ते सूरयः । प्राञ्च स्त्विदमप्यधमकाव्यैः सह गणयन्ति || साहित्यशास्त्रकाराः. त एते काव्यभेदाः समग्राः साहित्यशास्त्रकारैः पूर्वैराचार्यैर्विस्तरेण लक्षिताः । १५ Digezed by Google