सामग्री पर जाएँ

पृष्ठम्:भारतानुवर्णनम्.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अधिकारश्च विद्याभ्यासे त्रयाणां वर्णानां स- मानः कल्पितः । शूद्राणां वेदाध्ययनस्याभावेऽपि ब्रा- ह्मणादिभ्यो धर्मतत्त्वस्य श्रवणम् अनुमतमेव । स्व- जातिवृत्तावशक्तस्यान्यजातिवृत्तिरनुजज्ञे । गुणविशेषशालिनोऽवरवर्णस्य ब्राह्मणत्वमपि सुलभम् आसीत् । अत एव - 'शूद्रो ब्राह्मणताम् एति ब्राह्मणश्चैति शूद्रताम्' इति मनुराह । - अग्रथवर्णानाम् अवरवर्णात् स्त्रीपरिग्रहणं न निषिद्धम् आसीत् । ईश्वरः साक्षितया स्थित इति विश्वासाद् रह- स्यपि स्वस्वकृत्याद् व्यतिक्रमं प्रायेण वर्णा न चक्रुः । एवं तावच्चातुर्वर्ण्यम् अभिन्नमर्यादम् एकं कु- डुम्बम् इव स्नेहस्यैकमत्यस्य वृत्तिनियमस्य दैवभक्तेश्व परमं फलं परस्सहस्राणि वर्षाण्यनुपद्रुतम् अनुबभूव । केचित् पुनर्ब्राह्मणानां क्षत्रियसहायानां स्वा- 1. Selfishness. Digitized by Google