सामग्री पर जाएँ

पृष्ठम्:भारतानुवर्णनम्.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२७


 अङ्गाः -- मगधदेशात् पूर्वतोऽङ्गदेशः । अत्र प्रधाननगरी 'चम्पा ' []भगल्पुरसमीपेऽस्ति । अत्र रामायणप्रसिद्धो रोमपादो भारतप्रसिद्धः कर्णश्च राजा बभूव ॥

 सुह्मा:-- स 'सुह्मदेशः', यत्र []'कपिशानद्याः ' दक्षिणतीरे निविष्टा []'ताम्रलिप्ती' राजधानी बभूव ॥

 वङ्गाः - - सुह्मदेशात् पूर्वतो 'वङ्गदेशो’ऽस्ति, यत्राद्यत्वे []'कालिघट्टपुरी' भारतचक्रवर्तिनो भारतराजधानी प्रख्यायते । अस्य 'समतटम्' इत्यपि संज्ञा । अत्र गङ्गा सागरेण समागमं प्राप्नोति । अत्र []'कर्णसुवर्णं' नाम प्रधाननगरम् आसीत् ॥

 पुण्ड्राः -- वङ्गदेशाद् उत्तरः []'पुंण्ड्रदेशः' । अयम् 'गौडदेश' इत्यप्याख्यातः ॥

 कामरूपम् – वङ्गदेशात् पूर्वोत्तरः 'कामरूपं ' नाम देशोऽस्ति, यत्र हर्षवर्धनस्य मित्रं []भास्करवर्मा


  1. Bhagalpur.
  2. कपिशानदी - Kossya.
  3. Tamlook.
  4. Calcutta.
  5. Kansona.
  6. Northern Bengal.
  7. अयं हर्षचरिते वर्णितः.