सामग्री पर जाएँ

पृष्ठम्:भारतानुवर्णनम्.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६


णतो निविशते । सम्प्रति नेपालेष्वन्तर्गता 'जनकपुरी' अस्य राजधानी सम्भाव्यते ॥

वत्सदेशः -- स ' वत्सदेशः ' यत्र 'उदयनो' नाम राजा बभूव । तस्य राजधानी कौशाम्बी । तस्या नातिदूरे 'प्रयागो’ऽस्ति ॥

काशयः ––स 'काशिदेशो' नाम, यत्र महानगरी वाराणसी सन्निविष्टा । वाराणस्याः 'काशी ' इत्यपि नामधेयम् अस्ति । एषात्युत्तमं पुण्यस्थलम् आर्याणाम् ।

इयं पुरा सर्वासां विद्यानां मतानां च मुख्यं प्रवचनस्थानम् आसीत् ॥

मगधाः ---' मगधदेशो' गङ्गाया दक्षिणतोऽस्ति । अत्र 'गिरिव्रजं' 'पाटलीपुत्रं' च प्रधाननगरे । 'गया' 'उरुविल्वम्' इति चात्र नगरे, ये बुद्धमुनिरध्युवास ॥

1. Janakpur. 2. अयं कथासरित्सागरे वर्ण्यते. 3. Kosam about 30 miles above Allahabad. 4. Benares. 5. Sacred place.

6. उपदेशस्थानम्. 7. Behar. 8. Rajgir. 9. Patna

10. Buddhagaya. . Digitized by Google