सामग्री पर जाएँ

पृष्ठम्:भारतानुवर्णनम्.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२३

'कुरुजाङ्गलम्' इति च । अत्र कुरुपाण्डवानां महद् युद्धम् अवर्तत ।

 अत्र कमपि महान्तं शिवालयं परितः कानिचित् सरांसि वर्तन्ते, येषां समुदायः 'समन्तपञ्चकम्’ इत्युच्यते । तच्च परशुरामेण निर्मितम् इतीतिहासोऽस्ति । तस्माद् अनतिदूरे द्वैपायनह्रदो भारतप्रसिद्धो विद्यते । ह्रदस्यासन्ने सरस्वती तनीयसा स्रोतसा वहति । भद्रकालीक्षेत्रं च प्रसिद्धं तत्र विद्योतते ।

 कुरुक्षेत्रं स्वात्मन्यन्तर्भावयन् देश: 'कुरुदेशो' भवति । तच्च पाण्डवानां राज्यम् । तत्र []'स्थाण्वीश्वरं' []हास्तिनपुरं []'पाणिप्रस्थम्' ' इन्द्रप्रस्थम् ' इति नगराणि प्रसिद्धानि ।

 कुरुजाङ्गलेनोपलक्षितो जनपद: []'श्रीकण्ठ ' इति कदाचिद् []व्यवहृतः, यत्र 'स्थाण्वीश्वरं' प्रधाननगरम् आसीत् ॥

 पञ्चालाः -- कुरुदेशाद् अनन्तरः []पञ्चाल-


  1. Thanswar (Town ).
  2. Hastinpur.
  3. Panipat
  4. Sarhind.
  5. अयमर्थो हर्षचरिते स्पष्टः"
  6. Rohilkhand.