यवित्वं वाऽणूनां न सम्भवति । स्वरूपभेदस्तु अदृश्यरूपसन्ततौ यदि नयनादिसाहित्येनोत्पद्यते [तदा] अदृश्येन्द्रियादि-
सन्ततौ दृश्येन्द्रियक्षणप्रसवप्रसङ्गः । केषाञ्चिदेवाश्यानां दृश्यजननशक्तिनियमात् न दृश्यजनकत्वं सर्वेषामिति चेन्न, अणुरूपस्य दर्शनविषयताविरोधे स्वरूपविशेषस्यानुपाधित्वात् । धूमस्वभावभेदस्येव दहनजन्यत्वे । तथा च पारमर्षे सूत्रम् - "नातीन्द्रियत्वादणूनामिति”। [गौ०सू०२|१|३६ | अस्य सूत्रैकदेशस्य
"सेनावनवद्ग्रग्रहणमिति चे" दित्यादिः।] स्थूलावभासानुपपत्तेश्च ।
ननु किं पूर्वापरादिदेशमवष्टभ्य दृश्यानामेव परमाणूनां सत्त्वं
स्थौल्यं एकस्यैव वा तावद्देशव्यापित्वम् । तत्राचं तावत्परमाणुषु
सम्भवत्येव । द्वितीयत्य तु नास्त्येवावभासो यस्यानुपपत्तिरिति
न्यायलीलावतीकण्ठाभरणम्
भेद एव दृश्यताप्रयोजकः स्यादित्यत आह - स्वरूपेति । एवं सति चक्षुरादेरपि कदाचित् प्रत्यक्षं स्यादित्यर्थः । 'क्षणो' व्यक्तिः । सन्तानविशेषे तादृशस्वरूपभेदो न तु सर्व्व सन्ततावित्यत आह–केषांचिदिति । अणुत्वस्यायोग्यत्वव्याप्यतया निरूपाधित्वेन उत्पाद विशेषस्यातन्त्रत्वादिस्यर्थः । धूमत्वावच्छेदेनैव वह्निव्याप्यत्वे धूमविशेषस्यानुपाधित्ववत् अन्यथा विशेषस्योपाधित्वे सकलानुमानोच्छेद इत्यर्थः । अणुत्वावच्छेदेनैवातीन्द्रियत्वमित्यत्र सूत्रकृन्मतमाह -तथा चेति । अभ्युपेत्याह -- स्थूलेति । परमाणोः प्रत्यक्षत्वेऽपि स्थौल्यं नानुभुयेतेत्यर्थः । दृश्यपरमाणुसमूहस्य नानादेशव्यापित्वं स्थौल्यमनुभूयत एवेति न विरोधः । स्थौल्यान्तरन्तु अनुभवबाधित मिति शङ्कते---- नन्विति । बहूनां परमाणूनां स्थौल्यबुद्धिविषयत्वं चेत्तदा एकत्व-
न्यायलीलावतीप्रकाशः
इत्याह -- क्त्रेषां चिदेव्रेति । परमाणुमात्रस्यातीन्द्रियत्वे स्वरूपविशेषः साध्याव्यापकत्वान्नोपाधिरित्याह–अणुरूपस्येति । उक्तयुक्तिमेव