आर्षेयोपनिषत्

विकिस्रोतः तः

आर्षेयोपनिषत्
ॐ ऋषयो वै ब्रह्मोद्यमाह्वयितवा ऊचुः परस्परमिवानुब्रुवाणाः । तेषां विश्वामित्रो विजितीयमिव मन्यमान उवाच । यदेतदन्तरे द्यावापृथिवी अनश्नुवदिव सर्वमश्नवद्यदिदमाकाशमिवेतश्चेतश्च स्तनयन्ति विद्योतमाना इवावस्फूर्जयमाना इव तद्ब्रह्मेति । तस्योपव्याख्यानम् । यदिदमग्निभिर्ज्वलयन्ति पोप्लूययन्त्यद्भिरभिषीवयन्ति वद्धीभिरभिग्रथ्नन्ति वरत्राभिरभिघ्नंत्ययोघनैर्विध्यंति सूचीभिः निखानयंति शंकुभिरभितृन्दन्ति पड़्वीशिकाभिरभिलिम्पन्ति मृत्स्नया तक्ष्णुवंति वासीभिः कृष्णंति फलिभिर्नहैव शक्नुवत इति नास्येशीमहि नैनमतीयीमहि ॥
तदु ह जमदग्निर्नानुमेने आर्तमिव वा एष तन्मेने यदिदमन्तरेणैनदुपयंति पर्यास इवैष दिवस्पृथिव्योरिति । स होवाच अन्तरिक्षं वा एतद्यदिदमित्थेत्थोपव्याख्ये इति । महिमानं त्वमुष्येह पश्यामीति यदिदमस्मिन्नन्वायत्तमिति । स यदिदमेतस्मिन्नन्वायत्तं वेदाथ तथोपास्तेऽन्वायत्तो हैवास्मिन् भवति । तदेतदविद्वानेवास्मिन्नन्वायत्तमुपास्ते वीवपद्यत् आर्तिमृच्छेत् । तस्मादेवमेवोपासीत ॥
तमितरः पप्रच्छ । कतमत् त्वमनार्तं मन्यस इति । तं होवाच । यदिदमिति द्यावापृथिव्योरनारंभमिव नोपयन्ति नाभिचक्षते नाश्नुवन्ति । तस्योपव्याख्यानम् । यदिदमितश्चेतश्चाण्डकोशा उदयन्ति नापद्यन्त इव न विस्रंसन्त इव न स्खलंतीव न पर्यावर्तन्त इव । न ह वा एनत्केचिदुपधावन्तो विन्दन्ति नाभिपश्यन्ति । यदिदमेक इदप एवाहुस्तम एके ज्योतिरेकेऽवकाशमेके परमं व्योमैक आत्मानमेक इति ॥
तदु ह भरद्वाजो नानुमेने। यदिह सर्वे वेत्थेत्थेति द्यूदिरे नास्य तद्रूपं पर्याप्तमिति । स होवाच । आर्तमिवेदं ते विज्ञानमपि स्विदेनद्रोदस्योरेव पर्यायेणोपवन्वीमहि यदिदमित्थेत्थोपव्याख्यास्याम इति । महिमानं त्वेवास्योपासे। यदिदमत्रान्वायत्तमिति । स यदिदमत्रान्वायत्तं वेदाथ तथैवोपास्तेऽत्रैवान्वायत्तो भवति । स य इहान्वायत्तमिदमविद्वानेवैतदुपास्ते पापीयान् भवत्यार्तिमार्च्छत्यवम्रियते यदेवमेतदन्वायत्तमुपास्ते सर्वमायुरेति वसीयान् भवति । स य एतदेनमुपास्ते ॥
 तमितरः पप्रच्छ । कतमत् त्वमनार्तं मन्यस इति । स होवाच । यदेतस्मिन् मण्डलेऽचिर्दीप्यते बंभ्रम्यमाणमिव चाकश्यमानमिव जाज्वल्यमानमिव देदीप्यमानमिव लेलिहानं तदेव मे ब्रह्म । तस्योपव्याख्यानं यदिदमद्धैव पराः परावतोऽभिपद्यते संपन्नमेवैतत् संमितमेव यथोपयातमात्मैवाभिचक्षत इति । य एतदभिपद्येव गृह्णीयादथो विस्फुरन्तीव धावन्तीवोत्प्लवंतीवोपश्लिष्यंतीव न हैवाभिपद्यन्ते । तदिदमन्तिके दवीयो नेदीय इव दूरतो न वा अस्य महिमानं कश्चिदेतीति
 तदु ह न मेने गौतमो यदिदमार्तमिव स्तिमितमिव पर्यायेण पश्यन्तीवेमं मोघं संविदाना इति । य इमे पुण्ड्राः सुह्माः कुलुम्भा दरदा बर्बरा इति । न ह वा असंविदाना एव द्रागिवाभि तत्पद्यन्त इति । महिमानं त्वेवास्योपासे । य एतदस्मिन्नन्तरे हिरण्मयः पुरुषो हिरण्यवर्णो हिरण्यश्मश्रुरानखाग्रेभ्यो दीप्यमान इव । स य एवमेनमुपास्तेऽतीव सर्वभूतानि तिष्ठंति सर्वमायुरेति वसीयान् भवति । न ह वा एष परमतीवोदेति । यस्त्वेनं परमतीवोद्यन्तं पश्यन्नुपास्ते पापीयान् भवति वीवपद्यत आर्तिमृच्छति । यस्त्वेनं परमनूद्यन्तं वेदाथ तथोपास्ते परं ज्योतिरुपसंपद्यते सर्वमायुरेति वसीयान् भवति । स य एवमेनमुपास्ते ॥
तमितरः पप्रच्छ। कतमत् त्वमनार्तं मन्यस इति । तं होवाच । विस्फुरंतीरेवेमा लेलायन्तीरिव संजिहाना इव नेदीयसितमा इव दवीयसितमा एव दवीयसितमा इव नेदीयसितमा एवेति । यदपि बहुधाचक्षीरन्न किञ्च प्रतिपद्यत इति तन्मे ब्रह्मेति ॥
तदु ह वसिष्ठो नानुमेने । यदिमा विस्फूर्जयत एवाभिपद्यन्ते वीवयन्ति मिथु चेति विचक्षतेऽकाण्ड इवेमा न ह वै परमित्था कश्चनाश्नोत्यसंविदान इव । अप ये संविद्रते तदेतदन्तर्विचक्षत इति । महिम्नः पश्येमा विजान इति । स य एवमिमा महिम्न एवास्य पश्यन्नुपास्ते महिम्न एवाश्नोति सर्वमायुरेति वसीयान् भवति । यस्त्विमा अवयतीरेवोपास्ते न परा संपद्यमाना नो एव परेति पापीयान् भवति वीवपद्यते प्रमीयते । अथ य इमाः परा संपद्यमाना एवोपास्ते परैव संपद्यते सर्वमायुरेति वसीयान् भवति ।
तमितरः पप्रच्छ । कतमत् त्वमनार्तं मन्यस इति । महाविज्ञानमिव प्रतिपदेनाध्यवसायमिव यत्रैतदित्थेत्थेत्यभिपश्यति । अथ नेति नेत्येतदित्थेत्थेति । स वा अयमात्मा अनन्तोऽजरोऽपारो न वा अरे बाह्यो नान्तरः सर्वविद्भारूपो विघसः प्रसरणोऽन्तर्ज्योतिर्विश्वभुक् सर्वस्य वशी सर्वस्येशानः सर्वममिक्षिपन्न तमश्नोति कश्चन ॥
परोवरीयांसमभिप्रणुत्यमन्तर्जुषाणं भुवनानि विश्वा ।
यमश्नवन्न कुशिकासो अग्निं वैश्वानरमृतजातं गमध्ययी ॥१॥
भरेभरेषु तमुपह्वयाम प्रसासहिं युध्ममिन्द्रं वरेण्यम् ।
सत्रासा [ह] मवसे जनानां पुरुहूतमृग्मिणं विश्ववेदसम् ॥ २ ॥
अहिघ्नं तमर्णवे शयानं वावृहाणं तवसा परेण ॥ ३ ॥
तदु ह प्रतिपेदिरे । ते वाभिवाद्यैवोपसमीयुः । नमोऽग्नये । नम इन्द्राय । नमः प्रजापतये । नमो ब्रह्मणे । नमो ब्रह्मणे ॥
इत्यार्षेयोपनिषत् समाप्ता


बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=आर्षेयोपनिषत्&oldid=369113" इत्यस्माद् प्रतिप्राप्तम्