सामग्री पर जाएँ

पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म॒ध्यमाधिकारः ७

सर्वत्रैवमुपलब्धं फलसाम्यमतो भूर्गोलाकाराऽस्तीति सिद्धम्‌। न च यत्कल्पितं तत्सिद्धिरिति किं चित्रमतो नाऽस्या गोलत्वसिद्धिरिति वाच्यम्‌। गोलत्व-कल्पनया केवलं स्तम्भविशिष्टत्रिभुजे समद्विबाहुकत्वम् किञ्च सर्वत्र फलगम्यं तु परीक्षामूलकमेव प्रतः शङ्का निरस्ता। वस्तुतरत्तु भूर्दीर्घपिण्डानुकाराऽस्ति |परन्तु तत्र॒ लधुव्यासवृहद् व्यासयोरत्यल्पान्तरत्वात्तयोः समत्वं कल्पितं सर्वैराचार्यवर्यैरिति।

तत्र तावन्नाड़ीवृत्तं कालवृत्तं कृथमित्युच्यते |

प्रवहवायुना भ्राम्यमाणेऽपि भगोले बहुभिरपि वर्षैर्न खलु कासाञ्चित्तारकाणां स्थिरतयोपलब्धध्रु वताराङ्कितध्रु वस्थानाद्‌ द्युज्याचापान्तरमुपलभ्यते । एतातै-वावगतं यद्‌ वास्तवभगोलपृष्ठनिष्ठस्थिरकेन्द्रोत्पन्ननाङीद्युनिशवृत्तयोर्धरातलस्थैर्यम्, तत्रैकरूपोपलब्धप्रवहवायुभ्राम्यमाणोक्तमण्डलद्वयस्यैवावलम्बेन क.लगणनोचिता, श्रनाद्यनन्तस्याच्युतोपमकालस्यागमनिर्णीतसवंदैकरूपत्वात्‌ । इयमेव युक्तिः प्राचीनार्वाचो नघटीयन्त्रादिभिः कालावबोघेऽसीति ।

कदम्बाख्यताराया द्युज्याचापं स्थिरं कदम्बे ताराणां च चलं दृश्यते । तेन भचक्रस्य काचित्प्रवहेतुरनिदानाऽपि गतिरस्त्रीत्यनुमितम् | सा च कदम्बोत्पन्न महद् वृत्तरूपमार्गे स्यादिति गोलयुक्त्यैव स्फुटम् ' श्रस्या प्रान्दोलिकाकारगतेः कारणं प्रवहाधिकरणकभचकत्यागकालिकस्त्रष्टकराघातमेवेत्यनुमितम् । उक्तमहद्वत्ते प्रवहप्रधानमार्गान्नाड़ीमण्डलात्प्रस्तुतगतिम् आन्दोलकं यावन्मितं मचक्रचलनसङ्कलनं तावदेवाचार्यैः प्रागपराख्या प्रयनांशाः परिभाषिताः । तत्साधनमुक्तमहावृत्ता धिकरणकसार्वदिकावस्यानविशिष्टस्य पूर्णप्रकाशवतो नक्षत्रबिम्बस्य ग्रहबिम्बस्य वाऽवलम्बेन कर्तुं शक्यम् अतस्तावत् सूर्यबिम्बस्यैव भचक्रचलनज्ञानं वेघेन निर्णीयते | तत्रोक्तमहावृत्तमार्गनिर्णयार्थं वेघगोलीयस्थिरगोलीय (भगोलीय) नाड़ीवृत्तधरातलान्तरज्ञानेन वेवगोलीयक्रान्तिज्ञानेन च स्थिरगोलीयक्रान्तिज्ञानं कथं भवेदित्यस्यैव ग्रन्थस्य चन्द्रभगणोपपत्तो द्रष्टव्यम् । द्वितीयदिने षष्टिदण्डात्मककालेऽर्काधिष्ठानबिन्दुर्याम्योत्तरे ( ध्रुवप्रोतवृत्ते तत्रैवागतोऽनन्तरं यावता कालेनार्को याम्योत्तरवृत्ते समागतस्तत्कालमानं षड्गुणितं खेनिरक्षोदययोविषुवांशयोरन्तरं स्थाद्याम्योत्तरवृत्तस्य निरक्षदेशीयक्षितित्वात् । क्रान्तिश्चोक्तयुक्तथा ज्ञाता कृत्वैवं बहुषु दिनेषु गोलमेकं स्वाग्ने संस्थाप्य तत्र नाड़ीवृत्ताख्यं महद्वृत्त विधाय तस्थेष्टबिन्दो: पूर्वपूर्वदिशि क्रमेण विषुवांशान्तरान् दत्वेष्टबिन्दो प्रत्यग्र ( दानाग्र ) विन्दौ च कृतध्रुवप्रोतवृत्तेषु तत्तत्क्रान्तो (प्रत्यार्ह्निकक्रान्ती) दत्वा क्रान्तिद्वयाग्रलग्न महद्वृत्तकृतं तत्क्रान्त्यग्रेषु गतमित्युपलब्धम् | तेन रविभ्रमणमार्गो महावृत्तमिति सिद्धम् कान्त्यग्र गतत्वात्तत्क्र.न्तिवृत्तमिति संज्ञा शोभनेति ॥