सामग्री पर जाएँ

आपस्तम्बीय श्रौतप्रयोगः/निरूढपशुबन्धप्रयोगः

विकिस्रोतः तः

॥ निरूढपशुबन्धप्रयोगः ॥
सङ्कल्पः :-
सर्वांल्लोकान् पशुबन्धयाज्यभिजयति । तेन यक्ष्यमाणोऽमावास्यायां पौर्णमास्यां वा प्रातरग्निहोत्रं हुत्वा । दर्भेष्वासीनो दंर्भान धारयमाणः पवित्रपाणिः पत्न्या सह प्राणानायम्य ऐन्द्राग्नेन निरूढ पशुबन्धेन यक्ष्ये इति सङ्कल्प्य । समारोप्य देवयजनं गत्वा पुण्याहं वाचयित्वा 1 मथित्वा लौकिके वोपावरोह्य आयतने निधाय । विद्युदसि । अस्मिन् पशुबन्धे अध्वर्युं त्वां वृणीमहे । एवं ब्रह्माणं होतारं आग्नीध्रं प्रतिप्रस्थातारं प्रशास्तारं च वृणीते ।
अन्वाधानाङ्गं आग्नावैष्णवेष्टिः :-
अध्वर्युः :- गार्हपत्यादाहवनीयं प्रणीय सकृद्गृहीत्वा षड्ढोतारं मनसानुद्रुत्य आहवनीये सग्रहं जुहोति । सूर्यं ते चक्षुः । वातं प्राणः । द्यां पृष्ठम् । अन्तरिक्षमात्मा । अङ्गैर्यज्ञम् । पृथिवीꣳ शरीरैः । वाचस्पतेऽच्छिद्रया वाचा । अच्छिद्रया जुह्वा । दिवि देवावृधꣳ होत्रा मेरयस्व स्वाहा । वाचस्पतये ब्रह्मण इदम् । अग्निं परित्यज्य 2। आग्नावैष्णवमेकादशकपालन्निर्वपति 3 । अग्न्यन्वधानस्य प्रत्याम्नायो भवति । विहृत्य । देवा गातुविद इत्यादि । अद्य यज्ञाय । आग्नावैष्णवꣳ हविः । पौर्णमासं तन्त्रम् । पञ्चदश सामिधेन्यः । पात्रप्रयोगकाले एकादश कपालानि स्फ्यश्च द्वन्द्वम् । अन्वाहार्यस्थालीवर्जमितराणि प्रकृतिवत् । निर्वपणकाले अग्नाविष्णुभ्यां जुष्टं निर्वपामि । अग्नाविष्णू हव्यꣳ रक्षेथाम् । अग्नाविष्णुभ्यां वो जुष्टं प्रोक्षामि । अग्नाविष्णुभ्यां जुष्टमधिवपामि । कपालानामुपधानकाले अष्टावुपधाय । तूष्णीं त्रीणि । अग्नाविष्णुभ्यां जुष्टꣳ संवपामि । तूष्णीमभिघारणम् । प्रियेणेत्यासादनम् । अयं यज्ञो, ममाग्ने चतुर्होता इत्यासन्नाभिमर्शनम् । प्रचरणकाले अग्नाविष्णुभ्यामनुब्रूहि । अग्नाविष्णू यज । अग्नाविष्णुभ्यामिदम् । अग्नाविष्ण्वोरहं देवयज्यया वृत्रहा भूयासम् । न पार्वणहोमः । नारिष्ठान् हुत्वा । अविरुज्य प्राशित्रम् । न चतुर्धाकरणम् । न दक्षिणादानम् । इदं यजमानस्य । वेदेन यजमानभागं परिहृत्य । हविश्शेषानुद्वास्येत्यादि । यज्ञो बभूव । यज्ञ शं च म वृष्टिवर्जम् । समाप्य धारयत्याहवनीयम्
१. गृहे एव पुण्याहं कर्तव्यं न देवयजने पुनःकरणमस्ति इति द्राविडाचारः । आरब्धे श्रौतकर्मणि स्मार्तं नैव मध्ये भवितव्यमिति । प्रथमपशुबन्धे पुण्याहं वाचयित्वा नान्दीश्राद्धं कृत्वा ऋत्विजो वृत्वा मधुपर्केणार्हयेत् ।
२. पशुबन्धे षड्ढोतारं हुत्वा कूष्माण्डैर्जुहुयात् ।
३. सत्याषाढस्तु अत्र अनुग्रहमाह। अपि वा चतुर्गृहीतमाज्यमाग्नावैष्णव्यर्चाहवनीये जुहोतीति । तथा पशुबन्धे अग्नाविष्णुभ्यामिति चतुर्गृहीतं स्यादिति भारद्वाजः । उभयपक्षेऽपि इष्टिवदग्नी प्रणयति । चतुर्गृहीताज्येन आग्नावैष्णव याज्यया अग्नाविष्णुभ्यां स्वाहा इति वा जुहुयात् । होमोत्तरं नाग्नित्यागः ।
 
शाखाहरणं, यूपाहरणञ्च :-
शाखाहरणमिष्ट्यन्ते वायवस्थादिकं न हि ।
इषे त्वा इत्यादि शाखामाहृत्य । तूष्णीं प्लक्षशाखामाहृत्य व्रतप्रवेशः । आदित्योपस्थानान्ते स्रुवेणाहवनीये यूपाहुतिं जुहोति । उरु विष्णो विक्रमस्वोरु क्षयाय न: कृधि । घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर स्वाहा । विष्णव इदम् । स्रुवमाज्यशेषं चाध्वर्युरादत्ते । तक्षा शस्त्रम् । यत्र यूपस्तद्यन्ति । यूप्या वृक्षाः पलाशखदिरबिल्वरौहीतकाः । समे जातमशाखाजं बहुपर्णशाखमप्रतिशुष्काग्रमसुशिरमव्यावृत्तमघूर्णमृजुमूर्ध्वमूर्ध्वशकलमग्रे ईशदुपावनतं प्रागुदक्प्रत्यग्वोपनतम् । न दक्षिणावनतम् । अतिक्रम्य यूप्यान् यं जोषयते तमभिमन्त्रयते अत्यन्यानगान्नान्यानुपागामर्वाक्त्वा परैरविदं परोऽवरैः । अथैनमुपस्पृशति तं त्वा जुषे वैष्णवं देवयज्यायै । देवस्त्वा सविता मध्वानक्तु स्रुवेण सर्वतो मूलं प्रदक्षिणं पर्यणक्ति । ओषधे त्रायस्वैनम् ऊर्ध्वाग्रं दर्भमन्तर्धाय । स्वधिते मैनꣳ हिꣳसीः स्वधितिना प्रहरति । प्रथमपरापातिनं शकलमाहरति । तं प्रज्ञातं निदधाति । गुल्फदघ्ने वृश्चेज्जानुदघ्नेऽनक्षसङ्गं वा । दिवमग्रेण मा लेखीरन्तरिक्षं मध्येन मा हिꣳसीः पृथिव्या सम्भव प्राञ्चं पातयति । वनस्पते शतवल्शो वि रोह स्वाहा आव्रश्चने जुहोति । वनस्पतय इदम् । सहस्रवल्शा वि वयꣳ रुहेम आत्मानं प्रत्यभिमृश्याप उपस्पृश्य । यं त्वा यᳪँ、 स्वधितिस्तेऽतिजानः प्रणिनाय महते सौभगाय अन्वग्रमद्गांश्छिनत्ति । अच्छिन्नो रायस्सुवीरः अग्रं परिवासयति । पञ्चारत्निः 1 मूलतोऽतष्टमुपरम् । अष्टाश्रिरनुपूर्वोऽग्रतोऽणीयान्प्रज्ञाताग्निष्ठाश्श्रिरस्थूलोऽनणुः । अवतक्षणानां स्वरुरधिमन्थनश्च शकलः । अग्राच्चषालं पृथमात्रमष्टाश्रि मध्ये सन्नतम् । यावदुत्तममङ्गुलिकाण्डं तावदूर्ध्वं चषालाद्यूपस्यातिरिक्तं द्व्यङ्गुलं त्र्यङ्गुलं चतुरङ्गुलं वा ।
उत्तरवेदिमानं, उत्तरवेदिकरणं च :-
निरूढपशुबन्धस्योत्तरवेदिररत्निभिश्चतुर्भिः पश्चात् षड्भिः प्राची त्रिभिः पुरस्तात् । पश्चादुदीचीं एकं, द्वे, त्रीणि, चत्वारि, । पश्चात्प्राचीं एकं, द्वे, त्रीणि, चत्वारि, पञ्च, षट् । पुरस्तादुदीची एकं, द्वे, त्रीणि । त्वया वेदिं इति वेदं कृत्वा देवस्य त्वा इत्यादि । पूर्वपरिग्रहे ऋतमसि, ऋतसदनमसि, ऋतश्रीरसि । अपाररुम इत्यादि, सन्नमनवर्जं प्रागुत्तरात् परिग्राहात् कृत्वापरेण यूपावटदेशं सञ्चरमवशिष्य वेद्यां शम्यामात्रीमुत्तरवेदिं करोति । शम्यां पुरस्तादुदगग्रान्निधाय । स्फ्येनोदीचीमभ्यन्तरं परिलिखति वित्तायनी मेऽसि । अप उपस्पृश्य । एवं दक्षिणतः प्राचीं तिक्तायनी मेऽसि । पश्चादुदीचीं अवातान्मा नाथितम् । उत्तरतः प्राचीं अवतान्मा व्यथितम् । उत्तरस्माद्वेद्यंसादुदक्प्रक्रमे चात्वालः । तमुत्तरवेदिवत्तूष्णीं शम्यया परिमित्य । देवस्य त्वा --- हस्ताभ्यामाददेऽभ्रिरसि नारिरसि अभ्रिमादाय
१. त्र्यरत्निश्चतुररत्निर्वा पालाशो निरूढपशुबन्धस्यातोऽन्यः सौम्यस्याध्वरस्येति वाजसनेयकम् ।
 

 
। परिलिखितꣳ रक्षः परिलिखिता अरातय इदमहꣳ रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपि कृन्तामि त्रिः प्रदक्षिणं परिलिख्य । तूष्णीं जानुदघ्नं त्रिवितस्तं वा खात्वोत्तर वेद्यर्थान्पांसून् हरति विदेरग्निर्नभो नामाग्ने अङ्गिरो योऽस्यां पृथिव्यामस्यायुषा नाम्नेहि यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वाऽऽदधे । सिꣳहीरसि महिषीरसि उत्तरवेद्यां निवपति । एतेनैव विदेरग्निर्नभो नामाग्ने अङ्गिरो यो द्वितीयस्यां पृथिव्यामस्यायुषा नाम्नेहि यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वाऽऽदधे इति द्वितीयम् । विदेरग्निर्नभो नामाग्ने अङ्गिरो यस्तृतीयस्यां पृथिव्यामस्यायुषा नाम्नेहि यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वाऽऽदधे इति तृतीयम् । तूष्णीं चतुर्थं हृत्वा । सिꣳहीरसि महिषीरसि इति निवपति । उरु प्रथस्वोरु ते यज्ञपतिः प्रथतां प्रथयित्वा । ध्रुवासि शम्यया संहत्य । देवेभ्यः कल्पस्व अभिमन्त्र्य । देवेभ्यश्शुन्धस्व अद्भिरवोक्ष्य । देवेभ्यश्शुम्भस्व सिकताभिरवकीर्य । प्रोक्षणीशेषमुत्तरत उत्तरवेद्यै निनीय । आपो रिप्रं निर्वहत स्फ्येनोदीचीमेकस्फ्यां निस्सार्य । विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा विराजति उत्तरवेद्या अन्तान्त्संमृशति । अथास्या मध्ये प्रादेशमात्रीं गोपदमात्रीमश्वशफमात्रीं वोत्तरनाभिं चतुस्स्रक्तिं कृत्वा । चतुश्शिखण्डे युवती कनीने घृतप्रतीके भुवनस्य मध्ये । तयोर्देवा अधि सं वसन्त उत्तमे नाक इह मादयन्तां उभे अभिमन्त्र्य । इन्द्रघोषस्त्वा वसुभिः पुरस्तात्पातु पुरस्तात्प्रत्यतिष्ठन्नुत्तरवेदिं प्रोक्षति । मनोजवास्त्वा पितृभिर्दक्षिणतः पातु दक्षिणतः । प्रचेतास्त्वा रुद्रैः पश्चात्पातु पश्चात् । विश्वकर्मा त्वादित्यैरुत्तरत: पातु उत्तरतः । त्वष्टा त्वा रूपैरुपरिष्टात्पातु मध्यम् । प्रोक्षणीशेषं दक्षिणत उत्तरवेद्यै निनयेत् शुचा त्वार्पयमि पाप्मन् । आपो रिप्रं निर्वहत । पूर्ववदेकस्फ्यां दक्षिणतो निस्सार्य्य ।
उत्तरवेदिव्याघारणम् सम्भारनिवपनञ्च :-
जुह्वां पञ्चगृहीतं गृहीत्वा । सर्वत्र हिरण्यमुपास्यन्नक्ष्णयोरुत्तरवेदिमुत्तरनाभिं वा व्याघारयति । सिꣳहीरसि सपत्नसाही स्वाहा । सिᳪँ、ह्या इदम् । दक्षिणमंसम् । सिꣳहीरसि सुप्रजावनिस्स्वाहा । सिᳪँ、ह्या इदम् । उत्तरां श्रोणिम् । सिꣳहीरसि रायस्पोषवनिस्स्वाहा । सिᳪँ、ह्या इदम् । दक्षिणां श्रोणिम् । सिꣳहीरस्यादित्यवनिस्स्वाहा। सिᳪँ、ह्या इदम् । उत्तरमंसम् । सिꣳहीरस्यावह देवान्देवयते यजमानाय स्वाहा । सिᳪँ、ह्या इदम् । मध्यम् । भूतेभ्यस्त्वा स्रुचमुद्गृह्य । पौतुद्रवै: (देवदारू) परिधिभिरुत्तरवेदिं परिदधाति । विश्वायुरसि पृथिवीं दृꣳह मध्यमम् । ध्रुवक्षिदस्यन्तरिक्षं दृꣳह दक्षिणम । अच्युतक्षिदसि दिवं दृꣳह उत्तरम । अग्नेर्भस्मास्यग्ने: पुरीषमसि उत्तरवेद्यां सम्भारान्निवपति । गुल्गुलु सुगन्धितेजनं श्वेतामूर्णास्तुकाम पेत्वस्यान्तराशृङ्गीयाम् 1 ।।
१. पेत्वः विगतपुंस्को मेषः । तस्य शृङयोरन्तरा भवा ऊर्णास्तुका ।
 
अग्निप्रणयनम् :-
आहवनीये प्रणयनीयमिध्ममादीप्य सिकताभिरुपयम्य अग्नये प्रणीयमानायानुब्रू३हि इति सम्प्रेष्यति । उद्यम्याग्निमाहवनीय उद्यतहोमं जुहोति यत्ते पावक चकृमा कच्चिदागः पूर्वो यत्सन्नपरो भवासि । घृतेन त्वं तन्वं वर्धयस्व मा मा हिꣳसीरधिगतं पुरस्तात् स्वाहा । अपादानभूताय पावकायेदम् । प्रथमायां निरनूक्तायां उपयमनीभिरुपयम्य हरति । ऊर्णावन्तं प्रथमस्सीद योनिमिति होतुरभिज्ञाय । अग्ने बाधस्व वि मृधो नुदस्वापामीवा अप रक्षाꣳसि सेध । अस्मात्समुद्राद्बृहतो दिवो नोऽपां भूमानमुप नस्सृजेह । यज्ञ प्रतितिष्ठ सुमतौ सुशेवा आ त्वा वसूनि पुरुधा विशन्तु । दीर्घमायुर्यजमानाय कृण्वन्नधाऽमृतेन जरितारमङ्ग्धीह यज्ञः प्रत्यष्ठात् सम्भारेषु प्रतिष्ठाप्य । अग्ने: पुरिषमसि उत्तरत उपयमनीर्न्युप्य । मनुष्वत्वा निधीमहि मनुष्वत्समिधीमहि । अग्ने मनुष्वदङ्गिरो देवान्देवायते यज उपसमिध्य । द्वादशगृहीतेन स्रुचं पूरयित्वा सप्त ते अग्ने समिधस्सप्त जिह्वास्सप्तऋषयस्सप्त धाम प्रियाणि । सप्त होत्रास्सप्तधा त्वा यजन्ति सप्त योनीरा पृणस्वा घृतेन स्वाहा । अग्नये सप्तवत इदम् । सप्तवत्या पूर्णाहुतिं जुहोति । अग्निर्यज़ं नयतु प्रजानन्मैनं यज्ञहनो विदन् । देवेभ्यो यज्ञं प्रब्रूतात्प्रप्र यज्ञपतिं तिर स्वाहा। अग्नय इदम् । वायुर्यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन् । देवेभ्यो यज्ञं प्रब्रूतात्प्रप्र यज़पतिं तिर स्वाहा । वायव इदम् । आदित्यो यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन् । देवेभ्यो यज्ञं प्रब्रूतात्प्रप्र यज्ञपतिं तिर स्वाहा । आदित्यायेदम् । विष्णुर्यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन् । देवेभ्यो यज्ञं प्रब्रूतात्प्रप्र यज्ञपतिं तिर स्वाहा। विष्णव इदम् । चतस्रोऽतिमुक्तीर्जुहोति । एष पशुबन्धस्याहवनीयो यतः प्रणयति स गार्हपत्यः । प्रणीते चेदग्निहोत्रकाल एतस्मिन्नेवाग्निहोत्रं जुहोति । एवमन्यत्र विप्रक्रान्ते
तन्ने ।
इध्माबर्हिषः आहरणम् :-
इध्माबर्हिराहरति । त्रयोविंशतिदारुरिध्मः । आश्ववालः प्रस्तरः । ऐक्षवी विधृती, कार्ष्मर्यमयाः परिधयः । असिदादानादि ततस्त्वां त्रयोविꣳशतिधा सम्भरामि । नेध्मप्रव्रश्चनं, न वेदकरणम् । अन्तर्वेदि शाखाया इत्यादि । न तृतीयस्यै । यज्ञे पवित्रं पोतृतमं पशुꣳ हव्यं करोतु मे । समूहनादि पशुकुम्भीलेपनान्तम् । नवा पशुकुम्भी यावच्छर्करं गोमयेनानुलिप्ता भवति । इमौ पर्णं च । परिस्तृणीत । देवा देवेषु । कर्मणे वां इत्यादि ।
पशुबन्धस्य पात्रप्रयोगः :-
पात्रप्रयोगकाले स्फ्यमग्निहोत्रहवणीमपरतः । स्रुवस्स्वधित्यौ जुहू वसाहोमहवन्यौ च द्वन्द्वम् । उपभृत्पृषदाज्यधान्यौ ध्रुवया द्वन्द्वम् । स्थाल्यौ (दध्याज्य) वेदेन द्वन्द्वम् । उपवेषमिडापात्रेण द्वन्द्वम् ।
 
प्लक्षशाखां हृदयशूलं वपाश्रपण्यौ पशूखां शाखापवित्रेण द्वन्द्वम् । औदुम्बरेण मैत्रावरुणदण्डेन आस्यदघ्नेन चुबुकदघ्नेन वा रशने योक्त्रेण सार्धम् । परिवासनानि दर्भास्स्वरुं च द्वन्द्वम् । यूपेन सार्धं यवा दर्भौ । शकलैस्सह यूषार्थपात्रं लौकिकमाज्यपात्रं च प्रयुज्य 1 । पवित्रे स्थो इति पवित्रे कृत्वा । भूपते भुवनपते इति ब्रह्मवरणम् । उपविष्टे ब्रह्मणि यजमान वाचं यच्छ । अग्निꣳ होतारम् । कस्त्वा युनक्ति । संविशन्ताम् वाग्यतः पात्राणि संमृश्य । प्रोक्षणीस्संस्कृत्य ब्रह्माणमामन्त्र्य । उत्तानानि पात्राणि पर्यावर्त्य शुन्धध्वम् । पात्राणि प्रोक्ष्यात्र वाचं विसृजते । तूष्णीं स्फ्यमादाय ब्रह्मन्नुत्तरं परिग्राहं इत्यादि । वसवस्त्वा परिगृह्णन्तु इत्यादि । था असि स्वधा असि । प्रोक्षणीरासादायेध्माबर्हिरुपसादय स्रुवं च स्वधितिं च स्रुचश्च संमृड्ढि पत्नीꣳ सन्नह्याज्येन दध्नो देहीति सम्प्रेष्यति । स्रुक्संमार्जनं, आज्यदघ्नः निर्वापः ग्रहणञ्च :-
स्रुचां संमार्जनकाले स्रुवं संमृज्य तस्यावृता स्वधितिम् । गोष्ठं मा निर्मृक्षम् । वाचं प्राणम् इति जुहूवद्वसहोमहवनीम् । चक्षुश्श्रोत्रम् इत्युपभृद्वत् पृषदाज्यधानीम् । ध्रुवां संमृज्य । अग्नेर्वस्तेजिष्ठेन इत्यादि । पूषा वां बिले विष्यतु । अदिती स्थोऽच्छिद्र पत्रे । महीनां पयोऽसि इत्याज्यं निरुप्य । तेनैव दधि निर्वपति । इदं विष्णुः इत्याज्यमधिश्रित्य न दध्यधिश्रयति सर्वत्र । इषे त्वा इत्यादि अधिश्रयणं शालामुखीये तेजसे त्वा इत्यन्तं कृत्वा । तेजसी स्थस्तेजोऽनु प्रेतम् हरति । अग्नेर्जिह्वे स्थस्सुभुवौ देवानां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे भवतम् स्फ्यलेखायामासादयति । आज्यं दधि स्थस्सत्ये स्थस्सत्यस्याध्यक्षे स्थो हविषी स्थो वैश्वानरे वैश्वदेवे उत्पूतशुष्मे सत्यौजसौ सहसी स्थस्सहमाने स्थस्सहेथामरातीस्सहेथामरातीयतस्सहेथां पृतनास्सहेथां पृतन्यतः । सहस्रवीर्ये स्थस्ते मा जिन्वतमाज्यस्याज्यं दध्नो दधि स्थस्सत्यस्य सत्ये स्थस्सत्यायुषी स्थस्सत्यशुष्मे स्थस्सत्येन वामभिघारयामि तयोर्वां भक्षीय । शुक्रमसि इत्यादि आज्यमुत्पूय दध्युत्पुनाति । अद्भिराज्यं दध्याज्येन दध्नापस्सम्यक् पुनीत सवितुः पवित्रैः । ता देवीश्शक्वरीश्शाक्वराभ्यामिमं यज्ञमवत संविदानाः । आज्यग्रहणकाले चतुर्जुह्वां गृह्णाति चतुरुपभृति, पञ्चावत्तिनामपि । दधन्याज्यमानीय । महीनां पयोऽसि विश्वेषां देवानां तनूर्ऋध्यासमद्य पृषतीनां ग्रहं पृषतीनां ग्रहोऽसि विष्णोर्हृदयमस्येकमिष विष्णुस्त्वानु वि चक्रमे भूतिर्दध्ना घृतेन वर्धतां तस्य मेष्टस्य वीतस्य द्रविणमागम्याग्ज्योतिरसि वैश्वानरं पृश्नियै दुग्धम् । अपि वा ज्योतिरसि विश्वरूपं विश्वेषां देवानाꣳ समित् इति वा पृषदाज्यधान्यां पञ्चगृहीतं पृषदाज्यं गृह्णाति । चतुर्ध्रुवायाम् । आपो देवीः इत्यादि ।
१. अरणी अपि प्रयोज्ये इति द्रा . प्र।
 
स्रुचां आसादनम् :-
आज्यानां सादनकाले जुहूमासाद्य । उपभृदसि इत्युपभृद्वत्पृषधाज्यधानीमासादयति । अवाहं बाध इति यजमान: । ऋषभौ स्थ: शाक्वरौ घृताचीनाꣳ सूनू प्रियेण नाम्ना प्रिये सदसि सीदतम् स्रुवस्वधिती युगपदासादयति । स्योनौ मे सीदतꣳ सुषदौ पृथिव्यां प्रथयि प्रजया पशुभिस्सुवर्गे लोके । दिवि सीदतं पृथिव्यामन्तरिक्षेऽहमुत्तरो भूयासमधरे मत्सपत्नाः । इमौ स्रुवस्वधिती अभि जिहृतो होमाञ्छतक्षरौ छन्दसानुष्टुभेन । सर्वा यज्ञस्य समङ्क्तो विष्ठा बार्हस्पत्येन शर्मणा दैव्येन । इमे स्थाल्यौ घृतस्य दध्नः पूर्णे अच्छिन्नपयसौ शतधारावुत्सौ । मारुतेन शर्मणा दैव्येन । एता असदन्न् इत्यादि । अयं यज्ञो, ममाग्ने, पञ्च होता इत्यासन्नाभिमर्शनम्
यूपसंस्काराः :-
यूपे संभावित समस्तदोषप्रायश्चित्तार्थं सर्वप्रायश्चित्ताहुतिं होष्यामि । भूर्भुवस्सुवस्स्वाहा । प्रजापतय इदम् ।
अग्रेणाहवनीयं यूपावटं परिलिखति । अर्धमन्तवेद्यर्धं बहिर्वेदि । देवस्य त्वा सवितुः --- हस्ताभ्यामाददेऽभ्रिरसि नारिरसि पूर्ववदभ्रिमादाय । परिलिखितं इति परिलिख्य खनति यथाऽनाविरुपरं भविष्यति । अग्रेणावटं प्राञ्चं यूपं निधाय । यत्ते शिक्व: परावधीत्तक्षा हस्तेन वास्या। आपस्तत्सर्वं जीवलाश्शुन्धन्तु शुचयश्शुचिम् यूपं प्रक्षाल्याथैनं यवमतीभिः प्रोक्षति । पृथिव्यै त्वा मूलम् । अन्तरिक्षाय त्वा मध्यम् । दिवे त्वा अग्रम् । शुन्धतां लोकः पितृषदनः प्राचीनावीती प्रोक्षणीशेषमवटेऽवनीय यज्ञोपवीत्यप उपस्पृश्य । यवोऽसि यवयास्मद्द्वेषो यवयाराती: यवमवास्य । पितृणाꣳ सदनमसि प्राचीनावीती अवाचीनाग्रेण बर्हिषावस्तीर्य यज्ञोपवीत्यप उपस्पृश्य । स्वावेशोऽस्यग्रेगा नेतृणां वनस्पतिरधि त्वा स्थास्यति तस्य वित्तात् प्रथम परापातिनं शकलमवास्य । घृतेन द्यावापृथिवी आ पृणेथाᳪ、 स्वाहा । द्यावापृथिवीभ्यामिदम् । स्रुवेण शकले हुत्वा ।
यूपाञ्जनम् :-
यूपायाज्यमानायानुब्रू३हि इति सम्प्रेष्यति । अथैनमसंस्कृतेनाज्येन यजमानोऽग्रतश्शकलेनानक्ति । अध्वर्युः ऐन्द्रमसि संस्कृताज्येन चषालमङ्क्त्वा । सुपिप्पलाभ्यस्त्वौषधीभ्य: प्रतिमुच्य । देवस्त्वा सविता मध्वानक्तु स्रुवेण सन्ततमविच्छिन्दन्नग्निष्ठामश्रिमनक्त्योपरात् । सर्वतो यूपं संमृशति । रशनादेशे त्रिः । आञ्जनादि यूपं यजमानो नोत्सृजत्या परिव्ययणात् ।
यूपोच्छ्रयणं, प्रतिष्ठापनं च :
२. यूपायोच्छ्रीयमाणायानुबू३हि इति सम्प्रेष्यति । उद्दिवᳪँ、 स्तभानान्तरिक्षं पृण पृथिवीमुपरेण दृꣳह उच्छ्रयति । ते ते धामान्युष्मसी गमध्ये गावो यत्र भूरिशृङ्गा अयास: । अत्राह
 
निरूढपशुबन्धप्रयोगः
तदुरुगायस्य विष्णो: परमं पदमवभाति भूरेः अवटेऽवदधाति ॥ विष्णो: कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यस्सखा ॥ तद्विष्णोः परमं पदꣳ सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् द्वाभ्यामाहवनीयेनाग्निष्ठां सम्मिनोति । ब्रह्मवनिं त्वा क्षत्रवनिꣳ सुप्रजावनिꣳ रायस्पोषवनिं पर्यूहामि प्रदक्षिणं पांसुभि: पर्यूह्य । ब्रह्म दृꣳह क्षत्रं दृꣳह प्रजां दृꣳह रायस्पोषं दृꣳह मैत्रावरुणदण्डेन समं भूमिं परिदृंहणं कृत्वा । उन्नम्भय पृथिवीं भिन्धीदं दिव्यं नभः । उद्नो दिव्यस्य नो देहीशानो वि सृजा दृतिम् अद्भिः परिषिञ्चति । यूपपरिव्ययणम् :-
दर्भमय्यौ रशने भवतो द्विगुणा द्विव्यायामा पशुरशना त्रिगुणा त्रिव्यायामा यूपस्य । देवस्य त्वा - -- आददे यूपरशनामादाय । विष्णो: कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यस्सखा सरशनेन पाणिना यूपमुन्मार्ष्टि । तद्विष्णो: परमं पदꣳ सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् इत्यग्रं प्रेक्षते । यूपायपरिवीयमाणायानुब्रूहि सम्प्रेष्यति । परिवीरसि परि त्वा दैवीर्विशो व्ययन्तां परीमꣳ रायस्पोषो यजमानं मनुष्याः नाभिदघ्ने रशनया त्रिः प्रदक्षिणं यूपं परिव्ययति । मध्यदेशे वा । आन्तं तस्य प्रवेष्ट्य । अणिमति स्थविमत्प्रवीय । दिवस्सूनुरसि स्वरुमादाय । अन्तरिक्षस्य त्वा सानाववगूहामि उत्तरेणाग्निष्ठां मध्यमे रशनागुणेऽवगूहति ।
पशुसंस्कारः :-
पशुं स्नपयन्ति अध्वर्युब्रह्मयजमाना: । यद्यङ्गहीनस्स्यादङ्गतो वा विरुज्येत । अथैकेषां वैष्णवीमाग्नावैष्णवीं सारस्वतीं बार्हस्पत्यामिति च हुत्वा प्रयोजयेत् । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पाꣳसुरे स्वाहा । विष्णव इदम् । अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः । द्युम्नैर्वाजेभिरागतᳪँ、 स्वाहा । अग्नाविष्णुभ्यामिदम् । प्र णो देवी सरस्वती वाजेभिर्वाजिनीवती । धीनामवित्र्यवतु स्वाहा । सरस्वत्या इदम् । बृहस्पते अति यदर्यो अर्हाद्द्युमद्विभाति क्रतुमज्जनेषु । यद्दीदयच्छवसर्तप्रजात तदस्मासु द्रविणं धेहि चित्रᳪँ、 स्वाहा । बृहस्पतय इदम् । भूर्भुवस्सुवस्स्वाहा । प्रजापतय इदम् ।
पशोरुपाकरणम् :- इषे त्वा । इषे त्वा बर्हिषी आदत्ते । उपवीरसि प्लक्षशाखाम् । बर्हिर्भ्यां प्लक्षशाखया च पुरस्तात्प्रत्यञ्चं पशुमुपस्पृशन्नुपाकरोति । उपो देवान्दैवीर्विशः प्रागुर्वह्नीरुशिजो बृहस्पते धारया वसूनि हव्या ते स्वदन्तां देवत्वष्टर्वसुरण्व रेवती रमध्वम् ॥ प्रजापतेर्जायमानाः प्रजा जाताश्च या इमाः । तस्मै प्रति प्रवेदय चिकित्वाꣳ अनुमन्यताम् ॥ इमं पशुं पशुपते ते अद्य
 
बध्नाम्यग्ने सुकृतस्य मध्ये ॥ अनु मन्यस्व सुयजा यजाम जुष्टं देवानामिदमस्तु हव्यमिन्द्राग्निभ्यां त्वा जुष्टमुपाकरोमि पञ्च कृत्वो देवतोपदेशनं, उपाकरणे नियोजने प्रोक्षणे वपाया उद्धरणे हृदयस्याभिघारण इति । प्रज्ञाते बर्हिषी निधाय । उपाकृत्य पञ्च जुहोति । प्रजानन्तः प्रतिगृह्णन्ति पूर्वे प्राणमङ्गेभ्यः पर्याचरन्तम् । सुवर्गं याहि पथिभिर्देवयानैरोषधीषु प्रतितिष्ठा शरीरैस्स्वाहा । पशव इदम् । येषामीशे पशुपति: पशूनां चतुष्पदामुत च द्विपदाम् । निष्क्रीतोऽयं यज्ञियं भागमेतु रायस्पोषा यजमानस्य सन्तु स्वाहा । पशुपतय इदम् । ये बध्यमानमनु बध्यमाना अभ्यैक्षन्त मनसा चक्षुषा च । अग्निस्ताꣳ अग्रे प्रमुमोक्तु देवः प्रजापतिः प्रजया संविदान: स्वाहा । अग्नय इदम् । य अरण्याः पशवो विश्वरूपा विरूपास्सन्तो बहुधैकरूपाः । वायुस्ताꣳ अग्रे प्रमुमोक्तु देव: प्रजापति: प्रजया संविदानस्स्वाहा । वायव इदम् । प्रमुञ्चमाना भुवनस्य रेतो गातुं धत्त यजमानाय देवाः । उपाकृतꣳ शशमानं यदस्थाज्जीवं देवानामप्येतु पाथस्स्वाहा । देवेभ्य इदम् ।
अग्निमन्थनम् :
पञ्च हुत्वाग्निं मन्थति । अग्नेर्जनित्रमसि अधिमन्थनशकलं निदधाति । वृषणौ स्थ: प्राञ्चौ दर्भौ । उर्वश्यसि अधरारणिमादत्ते । पुरूरवाः उत्तरारणिम् । देवो वाꣳ सविता मध्वानक्तु आज्यस्थाल्या बिले अङ्क्त्वा । घृतेनाक्ते वृषणं दधाथां उभे अभिमन्त्र्य । आयुरसि समवधाय । अग्नये मथ्यमानायानुब्रू३हि इति सम्प्रेष्यति । प्रथमायां त्रिरनूक्तायां त्रिः प्रदक्षिणमग्निं मन्थति । गायत्रं छन्दोऽनु प्र जायस्व प्रथमम् । त्रैष्टुभं छन्दोऽनु प्र जायस्व द्वितीयम् । जागतं छन्दोऽनु प्र जायस्व तृतीयम् । ततो यथा प्राशु मन्थति । जातायाऽनुब्रू३हि जाते सम्प्रेष्यति । प्रह्रियमाणायानुब्रू३हि प्रहरन् सम्प्रेष्यति । भवतं नस्समनसौ समोकसावरेपसौ । मा यज्ञꣳ हिꣳसिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतमद्य न: अग्रेणोत्तरं परिधिमाहवनीये प्रहरति सन्धिना वा । अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अधिराज एषः । स्वाहाकृत्य ब्रह्मणा ते जुहोमि मा देवानां मिथुया कर्भागधेयᳪँ、 स्वाहा । प्रविष्टायाग्नय इदम् । प्रहृत्य स्रुवेणाभि जुहोति ।।
पशोः नियोजनम् :-
देवस्य त्वा --- हस्ताभ्यामाददे पशुरशनामादाय । पशोर्दक्षिणे बाहौ परिवीयोर्ध्वमुत्कृष्य । ऋतस्य त्वा देव हवि: पाशेनारभे दक्षिणेऽर्धे शिरसि पाशेनाक्ष्णया प्रतिमुच्य । धर्षा मानुषानिन्द्राग्निभ्यां त्वा जुष्टन्नियुनज्मि उत्तरतो यूपस्य नियुनक्ति ।
प्रोक्षणम् :-
 अद्भ्यस्त्वौषधीभ्यः प्रोक्षामीन्द्राग्निभ्यां त्वा जुष्टं प्रोक्षामि प्रोक्षति । अपां पेरुरसि पाययति । स्वात्तं चित्सदेवꣳ हव्यमापो देवी: स्वदतैनं उपरिष्टादधस्तात्सर्वतश्च प्रोक्ष्य, वेदं निधाय सामिधेनीभ्यः प्रतिपद्यते । अयं वेद इत्यादि । स्रुच्यमाघार्य प्रत्याक्रम्य जुह्वा पशुं समनक्ति
पशोः समञ्जनम् :-
सं ते प्राणो वायुना गच्छतां शिरसि ।सं यजत्रैरङ्गानि द्वि: अंसोच्चलयोः । सं यज्ञपतिराशिषा श्रोण्याम् । मखस्य शिरोऽसि इति ध्रुवासमञ्जनादि कर्म प्रतिपद्यते ।
प्रवरः :-
दैवं च मानुषं च होतारौ वृत्वा पुनराश्राव्य मैत्रावरुणं प्रवृणीते । मित्रावरुणौ प्रशास्तारौ प्रशास्त्रात् अमुक शर्मा मानुषः ।
प्रयाजाः :-
घृतवतिशब्दे जुहूपभृतावादाय तिष्ठति पशावेकादश प्रयाजान् यजति । आश्राव्य प्रत्याश्राविते समिद्भ्यः प्रेष्य प्रथमं सम्प्रेष्यति । प्रेष्य प्रेष्य इतीतरान् । चतुर्थाष्टमयोः प्रतिसमानीय, दशेष्ट्वैकादशायाज्यमवशिनष्टि । तान् यजमान: प्राकृतैरादितश्चतुर्भिश्चतुरोऽनुमन्त्र्य चतुर्थस्यानुमन्त्रणेन दुरः प्रभृतींस्त्रीन्, उत्तमेन शेषम् । अध्वर्युः - प्रत्याक्रम्य जुह्वा स्वरुस्वधिती अनक्ति, त्रिस्स्वरुं सकृत्स्वधितेरन्यतरां धाराम् । स्वरुमन्तर्धाय स्वधितिना पशुं समनक्ति । घृतेनाक्तौ पशुं त्रायेथाम् शिरसि । न वा स्वधितिना स्वरुणैव । घृतेनाक्तः पशुं त्रायस्व इत्युपदेशमतम् । अक्तया धारया शृतस्यावद्यति । पशुमितरया विशास्ति । शमित्रे स्वधितिं प्रयच्छन्नाह शमितरेषा तेऽश्रिः स्पष्टाऽस्तु । पुन: स्वरुमवगूह्य आयतने स्रुचौ सादयित्वा ।
पर्यग्निकरणम् :-
पर्यग्नये क्रियमाणायानुब्रू३हि सम्प्रेष्यति । आहवनीयादुल्मुकमादायाग्नीध्रः परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् । दधद्रत्नानि दाशुषे त्रिः प्रदक्षिणं पर्यग्नि करोति पशुम् । यूपमाहवनीयं शामित्रदेशं चात्वालम् । आज्यानि चेत्येके । अध्वर्यु: पर्यग्नौ क्रियमाणेऽपाव्यानि जुहोति । प्रजानन्तः --- शरीरैस्स्वाहा । पशव इदम् । पशुपतेः पशवो विरुपास्सदृशा उत । तेषां यं वव्रिरे देवास्तᳪँ、 स्वराडनुमन्यताᳪँ、 स्वाहा। पशुपतय इदम् । आग्नीध्रः प्रत्यपिसृज्य उल्मुकं त्रिः प्रतिपर्येति । ये बध्यमानमनु --- संविदान: स्वाहा । अग्नय इदम् । प्रमुच्यमाने । स्रुवेण आज्यं गृहीत्वा निधाय ।
संज्ञपनार्थं पशोः हरणम् :-
 
रेवतीर्यज्ञपतिं प्रियधाऽऽविशत वपाश्रपणीभ्यां पशुमन्वारभेतेऽध्वर्युर्यजमानश्च । आश्राव्य प्रत्याश्राविते सम्प्रेष्यति उपप्रेष्य होतर्हव्या देवेभ्यः। प्रास्मा अग्निमिति होतुरभिज्ञाय आहवनीयादुल्मुकमादायाग्नीध्रः पूर्व: प्रतिपद्यते । शमिता पशुं नयति । उरो अन्तरिक्ष सजूर्देवेन वातेनास्य हविषस्त्मना यज समस्य तनुवा भव वर्षीयो वर्षीयसि यज्ञे यज्ञपतिं धाः अन्तरा चात्वालोत्करावुदञ्चं पशुं नयन्ति अध्वर्युयजमानाग्नीध्रशमितार: । प्रतिप्रस्थाता प्रमुञ्चमाना --- पाथ: स्वाहा । देवेभ्य इदम् । प्रणीयमाने । नाना प्राणो यजमानस्य पशुना यज्ञो देवेभिस्सह देवयानः । जीवं देवानामप्येतु पाथस्सत्यास्सन्तु यजमानस्य कामा: अध्वर्युर्जपति । ऊवध्यगोहं पार्थिवं खनतादिति होतुरभिज्ञायोवध्यगोहं खनति 1। उत्तरेण पशुमुल्मुकं निदधाति । स शामित्र: । तं दक्षिणेन प्रत्यञ्चं पशुमवस्थाप्य ।
संज्ञपनम् :-
पृथिव्यास्सम्पृचः पाहि तस्याधस्तात् बर्हिरुपास्यत्युपाकरणयोरन्यतरत् । तस्मिन् संज्ञपयन्ति प्रत्यक्शिरसमुदीचीनपादम् । अमायुं कृण्वन्तं संज्ञपयत इत्युक्त्वा पराङावर्ततेऽध्वर्युः । स्वर्विदसि स्वर्वित्त्वा स्वरिहि स्वर्मह्यᳪँ、 स्व: पशुभ्यो लोकविदसि लोकं वित्वा लोकमिहि लोकं मह्यं लोकं पशुभ्यो गातुविदसि गातुं वित्वा गातुमिहि गातुं मह्यं गातु पशुभ्यो नाथविदसि नाथं वित्वा नाथमिहि नाथं मह्यं नाथं पशुभ्यः ॥ न वा उ वेतन्म्रियसे न रिष्यसि देवाꣳ इदेषि पथिभिस्सुगेभिः । यत्र यन्ति सुकृतो नापि दुष्कृतस्तत्र त्वा देवस्सविता दधातु ॥ आशानां त्वाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः । इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् ॥ विश्वा आशा मधुना सꣳ सृजाम्यनमीवा आप ओषधयो भवन्तु । अयं यजमानो मृधो व्यस्यतामगृभीताः पशव: सन्तु सर्वे इत्युक्त्वा पराङावर्तते यजमानः । नाना प्राणो यजमानस्य पशुना यज्ञो देवेभिस्सह देवयानः । जीवं देवानामप्येतु पाथस्सत्यास्सन्तु यजमानस्य कामा: अध्वर्युर्जपति । यासामूधश्चतुर्बिलं मधोः पूर्णं घृतस्य च । ता नस्सन्तु पयस्वतीरस्मिन् गोष्ठे वयोवृधः । इह पशवो विश्वरूपा रमन्तामस्मिन्, यज्ञे विश्वविदो घृताचीः । अग्निं कुलायमभिसंवसाना अस्माꣳ अवन्तु पयसा घृतेन पृषदाज्यमवेक्षमाणौ वाग्यतावासाते अध्वर्युर्यजमानश्च । इन्द्रस्य भागस्सुविते दधातनेमं यज्ञं यजमानं च सूरौ । यो नो द्वेष्ट्यनु तꣳ रवस्वाऽनागसो यजमानस्य वीरा: इति वाग्यत एव यजमानो वाश्यमानेऽवेक्षते ।
संज्ञप्तहोमः :-
यदस्य पारे रजस: शुक्रं ज्योतिरजायत । तन्नः पर्षदति द्विषोऽग्ने वैश्वानरः स्वाहा ।
१. अध्वर्योरन्यत्र व्यापृतत्वात् अस्य कर्मणः कर्ता प्रतिप्रस्थाता ।
 
अग्नये वैश्वानरायेदम् । यस्माद्भीषा वाशिष्ठास्ततो नो अभयं कृधि । प्रजाभ्यस्सर्वाभ्यो मृड नमो रुद्राय मीढुषे स्वाहा । रुद्राय मीढुष इदम् । अप उपस्पृश्य । य इदमकस्तस्मै नमस्तस्मै स्वाहा । रुद्राय मीढुष इदम् । अप उपस्पृश्य । यदस्य पारे --- वैश्वानरः स्वाहा ॥ यस्माद्धीषा न्यषदस्ततो नो अभयं कृधि । प्रजाभ्यस्सर्वाभ्यो मृड नमो रुद्राय मीढुषे स्वाहा । रुद्राय मीढुष इदम् । अप उपस्पृश्य । य इदमकः --- तस्मै स्वाहा ॥ यदस्य पारे --- वैश्वानरः स्वाहा ॥ यस्माद्भीषाऽवेपिष्ठास्ततो नो अभयं कृधि । प्रजाभ्यस्सर्वाभ्यो मृड नमो रुद्राय मीढुषे स्वाहा । य इदमकः --- तस्मै स्वाहा ॥ यदस्य पारे --- वैश्वानरः स्वाहा ।। यस्माद्भीषा पलायिष्ठास्ततो नो अभयं कृधि । प्रजाभ्यस्सर्वाभ्यो मृड नमो रुद्राय मीढुषे स्वाहा ॥ य इदमकः --- तस्मै स्वाहा ॥ यदस्य पारे --- वैश्वानरः स्वाहा ।। यस्माद्भीषा समज्ञास्थास्ततो नो अभयं कृधि । प्रजाभ्यस्सर्वाभ्यो मृड नमो रुद्राय मीढुषे स्वाहा ॥ य इदमकः --- तस्मै स्वाहा ॥ यदस्य पारे --- वैश्वानरः स्वाहा ॥ यस्माद्भीषा निमेहसि ततो नो अभयं कृधि । प्रजाभ्यस्सर्वाभ्यो मृड नमो रुद्राय मीढुषे स्वाहा ॥ यदस्य पारे - -- वैश्वानर: स्वाहा ॥ यस्माद्भीषा शकृत्करोषि ततो नो अभयं कृधि । प्रजाभ्यस्सर्वाभ्यो मृड नमो रुद्राय मीढुषे स्वाहा ॥ नोभयत्र य इदमकः । भूर्भुवस्सुवः स्वाहा । प्रजापतय इदम् । यत्पशुर्मायुमकृतोरो वा पद्भिराहते । अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वꣳहसस्स्वाहा । अग्नय इदम् । संज्ञप्ते संज्ञप्तहोमं जुहोति । वपोद्धरणार्थं गमनं, आप्यायनं च :-
निष्टप्तꣳ रक्षो निष्टप्तोऽघशꣳस: सप्लक्षशाखे वपाश्रपण्याहवनीये प्रतितप्य । शमितार उपेतन यज्ञं देवेभिरिन्वितम् । पाशात्पशुं प्रमुञ्चत बन्धाद्यज्ञपतिं परि वपाश्रपणीभ्यां पशुमुपेतोऽध्वर्युर्यजमानश्च । अदितिः पाशं प्रमुमोक्त्वेतन्नम: पशुभ्यः पशुपतये करोमि अध्वर्यु: पशो: पाशं प्रमुञ्चति । संवेष्ट्य रशनां ग्रीवासु निधायैकशूलयोपसज्य । अरातीयन्तमधरं कृणोमि चात्वालमुदस्यति । ततः प्रतिप्रस्थाता पत्नीमुदानयति । नमस्त आतान पत्न्यादित्यमुपतिष्ठते । अनर्वा प्रेहि घृतस्य कुल्यामनु सह प्रजया सह रायस्पोषेण प्राचीमुदानयति । आपो देवीः शुद्धायुवः शुद्धा यूयं देवाꣳ ऊढ्वꣳ शुद्धा वयं परिविष्टा: परिवेष्टारो वो भूयास्म चात्वाले पत्न्यपोवमृशति, ऋत्विजो यजमानश्च । अद्भिः पशो: सर्वान्प्राणानाप्याययति । सर्वाण्यङ्गान्यध्वर्युरभिषिञ्चति पत्न्याप्याययत्येतद्वा विपरीतम् । वाक्त आप्यायताम् । शमद्भ्यः । प्राणास्त आप्यायताम् । शमद्भ्यः । चक्षुस्त आप्यायताम् । शमद्भ्यः । श्रोत्रं त आप्यायताम् । शमद्भ्यः ।
 
यथालिङ्गमाप्याययति । या ते प्राणाञ्च्छुग्जगाम या चक्षुर्या श्रोत्रं यत्ते क्रूरं यदास्थितं तत्त आप्यायतां तत्त एतेन शुन्धताम् । शमद्भ्यः । हृदयदेशम् । नाभिस्त आप्यायताम् । शमद्भ्यः नाभिम् । पायुस्त आप्यायताम् । शमद्भ्यः पायुम् । मेढ्रं त आप्यायताम् । शमद्भ्य: मेढ्रम् । पादानेकीकृत्य । शुद्धाश्चरित्राश्शमद्भ्य: पादान् । एकैकमाप्याय्य जपति शमद्भ्य इति, पुरा स्तोकानां , भूमेः प्रापणात् । शमोषधीभ्यः शं पृथिव्यै शमहोभ्यां भूम्यां शेषं निनीय । पशुमुत्तानं निपात्य । ओषधे त्रायस्वैनं उपाकरणायोरवशिष्टम् । दक्षिणेन नाभिमन्तर्धाय । स्वधिते मैनꣳ हिꣳसी: स्वधितिना पार्श्वतस्तिर्यगाच्छ्यति । बर्हिषोऽग्रं सव्येन पाणिनादत्ते । अथ मध्यं यत आच्छ्यति तदुभयतो लोहितेनाङ्क्त्वा । रक्षसां भागोऽसि उत्तरमपरमवान्तरदेशं निरस्य । रक्षोभ्य इदम् । अप उपस्पृश्य । इदमहꣳ रक्षोवबाध इदमहꣳ रक्षोऽधमं तमो नयामि योस्मान्द्वेष्टि यं च वयं द्विष्म इदमेनमधमं तमो नयामि अथैनत्सव्येन पदाधितिष्ठति ।
वपोद्धरणम् :-
इषे त्वा वपामुत्खिद्य । घृतेन द्यावापृथिवी प्रोर्ण्वाथां वपया द्विशूलां प्रच्छाद्य । ऊर्जे त्वा तनिष्ठेऽन्तत एकशूलयोपतृणत्ति । देवेभ्य: कल्पस्व अभिमन्त्र्य । देवेभ्यश्शुन्धस्व अद्भिरवोक्ष्य । देवेभ्यश्शुम्भस्व स्वधितिना वपां निमृज्य । अच्छिन्नो रायस्सुवीर इन्द्राग्निभ्यां त्वा जुष्टामुत्कृन्तामि उत्कृन्तति । अप उपस्पृश्य । मुष्टिना शमिता वपोद्धरणमपिधायास्त आ वपया होमात् । प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातयः शामित्रे वपां प्रतितप्य । नमस्सूर्यस्य सन्दृशे आदित्यमुपस्थाय । उर्वन्तरिक्षमन्विहि अभिप्रव्रजति । उल्मुकैकदेशमादायाग्नीध्रः पूर्वः प्रतिपद्यते । वपाश्रपणी पुनरन्वारभते यजमानः । आग्नीध्रः उल्मुकैकदेशमाहवनीये प्रत्यपिसृजति ।
वपायाः श्रपणं, आसादनं च :-
अध्वर्युः निर्दग्धꣳ रक्षो निर्दग्धा अरातयः आहवनीयस्यान्तमेऽङ्गारे वपां निकूड्यान्तरा यूपमाहवनीयं च दक्षिणाऽतिहृत्य प्रतिप्रस्थात्रे प्रयच्छति । तां दक्षिणत आसीन: प्रतिप्रस्थाता आहवनीये श्रपयति । वायो वीहि स्तोकानां बर्हिषोऽग्रमधस्ताद्वपाया उपास्यति । त्वामु ते दधिरे हव्यवाहꣳ शृतङ्कर्तारमुत यज्ञियं च । अग्ने सदक्षस्सतनुर्हि भूत्वाथ हव्या जातवेदो जुषस्व स्वाहा स्रुवेण वपामभि जुहोति । अग्नये जातवेदस इदम् । प्रादुर्भूतेषु स्तोकेषु स्तोकेभ्योऽनुब्रूहि सम्प्रेष्यति । अलोहिनीं सुशृतां कृत्वा यस्त आत्मा इत्यभिघार्य । दृꣳह इत्युद्वास्य । सुपिप्पला ओषधी: कृधि दक्षिणस्यां वेदिश्रोण्यां बर्हिषि प्लक्षशाखायामासाद्य । प्रयुता द्वेषाꣳसि वपाश्रपणी प्रवृह्य । तूष्णीं निधाय । इदमिन्द्रिय --- शृतं मयि श्रयताम् । अयं यज्ञो, ममाग्ने पञ्चहोता इत्यासन्नाभिमर्शनम् ।
 एकादशः प्रयाजाः, आज्यभागौ, वपाहवनञ्च :-
घृतवति शब्दे जुहूपभृतावादाय दक्षिणातिक्रम्याश्राव्य प्रत्याश्राविते सम्प्रेष्यति स्वाहाकृतीभ्यः प्रेष्य वषट्कृते जुहोति । यजमान: - पृथिवी होता । अग्नय इदम् । हेमन्तशिशिरावृतूनां प्रीणामि । अध्वर्युः - प्रत्याक्रम्य शेषेण ध्रौवमभिघार्य पृषदाज्यद्वयमभिघारयत्यथ वपाम् । नोपभृतम् । आज्यभागौ यजति । अग्नय आज्यस्याऽनुब्रू३हि । अग्नय आज्यस्य प्रेष्य । अग्नय इदम् । अग्निना यज्ञः । सोमायाज्यस्याऽनुब्रू३हि । सोमायाज्यस्य प्रेष्य । सोमायेदम् । सोमेन यज्ञः । प्रत्याक्रम्य । स्वाहा देवेभ्यः । देवेभ्य इदम् । पूर्वं परिवप्यं हुत्वा जुह्वामुपस्तीर्य । स्रुवेण हिरण्यशकलमादाय तेनैव कृत्स्नां वपामादाय हिरण्यशकलमुपरिष्टात्कृत्वाभिघारयति । एवं पञ्चावत्ता भवति । चतुरवत्तिनोऽपि पञ्चावत्ततैव स्यात् । इन्द्राग्निभ्यां छागस्य वपाया मेदसोऽनुब्रू३हि । इन्द्राग्निभ्यां छागस्य वपाया मेदसः प्रेष्य इति सम्प्रेष्यति । जातवेदो वपया गच्छ देवान्त्वꣳ हि होता प्रथमो बभूथ । घृतेन त्वं तनुवो वर्धयस्व स्वाहाकृतꣳ हविरदन्तु देवास्स्वाहा वषट्कृते जुहोति । इन्द्राग्निभ्यामिदम् । इन्द्राग्नियोरहं देवयज्ययेन्द्रियावी भूयासम् । जेमानं महिमानं इति वा । प्रत्याक्रम्य । देवेभ्यस्स्वाहा । देवेभ्य इदम् । उत्तरं परिवप्यं हुत्वा वपोद्धरणमभिघारयत्युत्तरतस्तिष्ठन् । स्वाहोर्ध्वनभसं मारुतं गच्छतम् प्रतिप्रस्थाताऽहवनीये वपाश्रपणीं प्राचीं द्विशूलां प्रतीचीमेकशूलां कृत्वा प्रहरति । ऊर्ध्वनभसे मारुतायेदम् । अथैने अध्वर्युः संस्रावेणाभि जुहोति । स्वाहा । प्रजापतय इदम् । प्रस्तरादन्यत्र स्रुचोस्सादनम् । अत्र यजमानो वरं ददात्यनड्वाहं तिस्रो वा धेनूः तिस्रो वा दक्षिणाः । अन्तर्वेदि वरमनड्वाहं निधाय ब्रह्मन् ब्रह्मासि इत्यादि । यजमानः – ब्रध्न पिन्वस्व, सहस्रधार उत्सो अक्षीयमाणः --- तेनानडुहातितराणि मृत्युम् । अहिंसन्तः यथाभागं प्रतिगृह्णीध्वम् । रुद्राय गां इति प्रतिग्रहः 1 ।
वपामार्जनम् :-
समुत्क्रम्य सहपत्नीका: पञ्चभिश्चात्वाले मार्जयन्ते आपो हि ष्ठा इति तिसृभिः । इदमाप: प्रवहतावद्यं च मलं च यत् । यद्वाभिदुद्रोहानृतं यद्वा शेपे अभीरुणम् । आपो मा तस्मादेनसो विश्वान्मुञ्चत्त्वꣳहसः । निर्मा मुञ्चामि शपथान्निर्मा वरुणादधि । निर्मा यमस्य पड्बीशात्सर्वस्माद्देवकिल्बिषादथो मनुष्यकिल्बिषात् । हुतायां वपायां मार्जयित्वा ।
पशुपुरोडाशस्य निर्वापः :-
१. गौर्वै वरः इति सूत्रात् वरशब्देन गोजातिमात्रं उच्यते । अथवा अनड्वाहं वरं इति विशेषणविशेष्यो वा ।
 
पशुपुरोडाशस्य पात्रसंसादनादि कर्म प्रतिपद्यते । एकादश कपालानि शूर्पं च द्वन्द्वम् । कृष्णाजिनाद्युपलान्तम् । पुरत: पात्रीं प्राशित्रहरणं विभक्तवेदाग्राणि मदन्त्यर्थं मेक्षणमुपवेषमुत्पवनार्थपात्रं तृणं च । पवित्रे कृत्वा यजमान वाचं यच्छ । न यज्ञयोगः । निर्वपणकाले व्रीहिमयं पुरोडाशं निर्वपत्येकादशकपालं द्वादशकपालं वा । यद्देवत: पशुस्तद्देवतो भवति । इन्द्राग्निभ्यां जुष्टं निर्वपामि । इन्द्राग्नी हव्यꣳ रक्षेथाम् । इन्द्राग्निभ्यां वो जुष्टं प्रोक्षामि । सर्वाभिरद्भिस्त्रिः प्रोक्षति । हविष्कृता वाचं विसृज्य । अङ्गानां उद्धरणं श्रपणञ्च :-
पशुं विशास्ति । गुदं मा निर्व्लेषीर्वनिष्ठुं मा निर्व्लेषी: सम्प्रेष्यति । हृदयाद्युद्धरणम् । हृदयं जिह्वा वक्षो यकृद्वृक्यौ सव्यं दोरुभे पार्श्वे दक्षिणा श्रोणिर्गुदतृतीयमिति दैवतानि । दक्षिणं दोः सव्याः श्रोणिर्गुदतृतीयमिति सौविष्टकृतानि । क्लोमानं प्लीहानं पुरीततं वनिष्ठुमध्यूध्नीं मेदो जाघनीमित्युद्धरति । हृदयशूलं शाखापवित्रमुपवेषं कुम्भीं च निष्टप्तꣳ रक्षो निष्टप्तोऽघशꣳसः शामित्रे प्रतितप्य । धृष्टिरसि इत्युपवेषादानादि । उदक् शाखा पवित्रमत्यादधातीत्यन्तं कृत्वा, सव्येन शाखा पवित्रमन्वारभ्य । देवस्त्वा सविता पुनातु इति सकलमांसजातं कुम्भ्यां प्रक्षिपति । देवस्त्वा सविता इति शूले प्रणीक्ष्य हृदयं शामित्रे श्रपयति ।
पुरोडाशकरणादिप्रचारान्तम् :-
अवरक्षो दिव इत्यवहननादि कर्म प्रतिपद्यते । इन्द्राग्निभ्यां जुष्टमधिवपामि । कपालानामुपधानकालेऽष्टावुपधाय तूष्णीं त्रीणि । इन्द्राग्निभ्यां जुष्टꣳ संवपामि । अन्या आपो यजुषोत्पूय । समापो अद्भिः । आप्यलेपं बर्हिषि निनीय । न रेखाकरणम् । एकतायेत्यादि । घृतागेह्यग्निस्त्वाह्वयति देवयज्यायै । प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातयः । अनिशितमसि सपत्नक्षयणम् । रूपं वर्णम् इत्यन्यैः दर्भैः । अग्नेस्त्वा तेजिष्ठेन । अयं प्राणश्चेति प्रस्तरे पवित्रेऽपिसृज्य । इदमहꣳ सेनाया इत्यादि । तूष्णीमभिघार्य । प्रियेणेत्यासादयति । अयं यज्ञो, ममाग्ने पञ्चहोतेत्यासन्नाभिमर्शनम् । अत्र विरमेदा पशुश्रपणात् । शृते पशौ पुनः पञ्चहोता जुह्वामुपस्तीर्येत्यादि । इन्द्राग्निभ्यां पुरोडाशस्याऽनुब्रू३हि । इन्द्राग्निभ्यां पुरोडाशस्य प्रेष्य । इन्द्राग्निभ्यामिदम् । इन्द्राग्नियोरहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् । न पार्वणनारिष्ठाः । स्विष्टकृति अग्नयेऽनुब्रू३हि । अग्नये प्रेष्य । अग्नय इदम् । अग्नेरहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् । प्रत्याक्रम्य । प्राशित्रमवदायेडाम् । न यजमानभागम् । उपहूतां मैत्रावरुणषष्ठा भक्षयित्वा पूर्ववत्प्रस्तरे मार्जयित्वा ।
 
शामित्रसंवादः -
स्रुवेण पृषदाज्यस्योपहत्य वेदेनोपयम्य । शृतꣳ हवी३श्शमितः इति पृच्छति । शृतं इतीतरः प्रत्याह । पूषा मा पशुपाः पातु प्रथमेऽभिप्रव्रजति । अर्धाध्वे द्वितीयं पृच्छति शृतꣳ हवी३श्शमितः । शृतम् । पूषा मा पथिपाः पातु । कुम्भीं प्राप्य तृतीयं पृच्छति शृतꣳ हवी३श्शमितः । शृतम् । शूलात्प्रवृह्य हृदयं कुम्भ्यामवधाय । पूषा माऽधिपाः पातु । उत्तरतो गत्वा । सन्ते मनसा मनस्सं प्राणेन प्राणो जुष्टं देवेभ्यो हव्यं घृतवत्स्वाहेन्द्राग्निभ्यां त्वा जुष्टमभिघारयामि पृषदाज्येन हृदयमभिघारयति । यस्त आत्मा --- मह्यम् । आज्येन पशुमभिघारयति । स्वाहोष्मणो व्यथिष्यै उद्यन्तमूष्माणमनुमंत्रयते । दृꣳह इति कुम्भीमुद्वास्य पशुं हरन् पार्श्वतो हृदय शूलं धारयन्ननुपस्पृशन्नात्मानमितरांश्च । अन्तरा यूपमाहवनीयं च दक्षिणातिहृत्याग्निर्होतेति पञ्चहोत्रा दक्षिणस्यां वेदिश्रोण्यामासादयति । यजमान: - इदमिन्द्रियं, अयं यज्ञो, ममाग्ने, पञ्चहोतेत्यासन्नाभिमर्शनं करोति ।
होमार्थं अङ्गावदानं, वसाग्रहणं च :-
अध्वर्युः - चतसृषूपस्तृणीते जुहूपभृतोर्वसाहोमहवन्यां समवत्तधान्यामिति । जुहूपभृतोर्हिरण्यशकलाववधाय बर्हिषि प्लक्षशाखायामवदानान्यवद्यन् सम्प्रेष्यति मनोतायै हविषोऽवदीयमानस्यानुब्रू३हि । यजमान: - पञ्चहोतारं वदेत् । हृदयाद्वृक्याच्च मेदो गृहीत्वान्यत्र निधाय स्वधितेरक्तया धारया मा भेर्मा संविक्था इति हृदयस्यावदाय स्वधितिनैव हरति । ततो द्वितीयाद्यवदानम् । अथ जिह्वाया अथ वक्षस इत्यादि । यथोद्धृतानां दैवतानां द्विर्द्विरवदाय जुह्वामवदधाति । गुदं त्रैधं विभज्य स्थविमदुपयड्भ्यो निधाय मध्यमं द्वैधं विभज्य दैवतेष्ववदधाति अणिमत्सौविष्टकृतेषु । दक्षिणं दो: सव्या श्रोणिर्गुदतृतीयमिति सौविष्टकृतानि तूष्णीमभिघार्य सकृत्सकृदवदायोपभृत्यवदधाति । त्रेधा मेधोऽवद्यति द्विभागं स्रुचोस्तृतीयं समवत्तधान्याम् । यूषे मेदोऽवधाय मेदसा स्रुचौ प्रावृत्य हिरण्यशकलमुपरिष्टात्कृत्वाऽभिघारयति । समवत्तधान्यां तूष्णीं षडाद्यानीडामवद्यति वनिष्ठुं सप्तमम् । वृक्यान्तं तूष्णीम् । न सुरूपवर्षवर्ण: । अनस्थिभिरिडां वर्धयति । क्लोमानं प्लीहानं पुरीततं इत्यन्ववधाय मेदसा प्रावृत्य यूष्णोपसिच्याभिघारयति । अपां त्वौषधीनाꣳ रसं गृह्णामि वसाहोमहवन्यां वसाहोमं गृह्णाति । स्वधितिना धारां छिनत्ति सव्येन । द्वि: पञ्चावत्तिन: अप उपस्पृश्य । अभिघार्य । श्रीरस्यग्निस्त्वा श्रीणात्वापस्समरिणन् स्वधितिना वसाहोमं प्रयौति । वातस्य त्वा ध्रज्यै पूष्णो रᳪँ、ह्या अपामोषधीनाꣳ रोहिष्यै तेनापिदधाति । ऐन्द्रः प्राणो अङ्गेअङ्गे नि देध्यदैन्द्रोऽपानो अङ्गेअङ्गे वि बोभुवद्देवत्वष्टर्भूरि ते सꣳ समेतु विषुरूपा यत्सलक्ष्माणो भवथ देवत्रा यन्तमवसे सखायोऽनु त्वा माता पितरो मदन्तु अनवदानीयान्यङ्गानि शृतैस्सन्निधाय संमृशति ।
 
हविः प्रचारः, वसाहोमश्च :-
अथ हविषा प्रचरति । इन्द्राग्निभ्यां छागस्य हविषोऽनुब्रूहि । इन्द्राग्निभ्यां छागस्य हविष: प्रेष्य सम्प्रेष्यति । याज्याया अर्धर्चे प्रतिप्रस्थाता वसाहोमं जुहोति घृतं घृतपावान: पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविरसि स्वाहा त्वान्तरिक्षाय स्वाहा । अन्तरिक्षायेदम् । दिशस्स्वाहा । दिग्भ्य इदम् । प्रदिशस्स्वाहा । प्रदिग्भ्य इदम् । आदिशस्स्वाहा । आदिग्भ्य इदम् । विदिशस्स्वाहा । विदिग्भ्य इदम् । प्रतिदिशं जुहोति । उद्दिशस्स्वाहा । उद्दिग्भ्य इदम् । मध्ये । स्वाहा दिग्भ्यः । दिग्भ्य इदम् । पश्चादारभ्य प्राञ्चं हुत्वा । नमो दिग्भ्य: इत्युपतिष्ठते । वषट्कृते जुहोति । इन्द्राग्निभ्यामिदम् । इन्द्राग्नियोरहं देवयज्ययेन्द्रियावी भूयासम् । जेमानं इति वा । प्रत्याक्रम्य नारिष्ठान् हुत्वा । जुह्वामुपस्तीर्य । सकृत्पृषदाज्यस्योपहत्य द्विरभिघार्य । पञ्चावत्तिनां द्विः पृषदाज्यस्योपहत्य द्विरभिघारयेत् । वनस्पतयेऽनुब्रूहि । वनस्पतये प्रेष्य । वनस्पतय इदम् । वनस्पतेरहं देवयज्ययाऽऽयुष्मान् यज्ञेन प्रतिष्ठां गमेयम् । तत्रस्थ एवोपर्याहवनीये जुह्वामौपभृतानि विपर्यस्यन्नाह । अग्नये स्विष्टकृतेऽनुब्रू३हि । अग्नये स्विष्टकृते प्रेष्य । अग्नये स्विष्टकृत इदम् । अग्नेस्स्विष्टकृतोऽहं देवयज्ययाऽऽयुष्मान् यज्ञेन प्रतिष्ठां गमेयम् । प्रत्याक्रम्य जुह्वामप आनीय । वैश्वानरे हविः । आयतने स्रुचौ सादयित्वा। हविषः इडाभक्षणम् :-
पर्वाञ्जनादि । मेद उपस्तीर्य । मेदसाभिघारयति । उपहूतां मैत्रावरुणषष्ठा भक्षयन्ति । प्रतिप्रस्थाता सप्तमः । वनिष्ठुमग्नीधे षडवत्तं सम्पादयति । तमाग्नीध्रः इडावद्भक्षयति । अध्यूध्नीं होत्रे हरति । पूर्ववत्प्रस्तरे मार्जयित्वा ।
अनूयाजा उपयड्ढोमश्च :-
अग्नीदौपयजानङ्गारानाहरोपयष्टरुपसीद ब्रह्मन् प्रस्थास्यामस्समिधमाधाय इत्यादि सम्प्रेष्यति । आग्नीध्रः शामित्रादङ्गारानाहृत्योत्तरस्यां वेदिश्रोण्यां निधाय तस्य पश्चात्प्रतिप्रस्थातोपविशति । ब्रह्मा देव सवितः इत्यादि । अध्वर्युः इध्मसन्नहनप्रहरणान्ते पृषदाज्यं जुह्वामानीय पृषदाज्यधानीमुपभृतं कृत्वा तेनैकादशानूयाजान् यजति । देवेभ्यः प्रेष्य इति प्रथमं सम्प्रेष्यति । प्रेष्य प्रेष्य इतीतरान् । पञ्चमप्रभृतिषु दशमवर्जितेषु मैत्रावरुणेन सह यजेति ब्रूयात् । आद्यांश्चतुरो दशमं च पूर्वार्धे समिधि जुहोति । पञ्चमप्रभृति चतुरो मध्ये, नवमैकादशे पश्चार्धे हुत्वेतरावनुसंभिनत्ति । प्रतिप्रस्थाता गुदकाण्डमेकादशधा तिर्यक्छित्वा असंभिन्दन्नपर्यावर्तयन् अनूयाजानां वषट्कृते वषट्कृते एकैकं गुदकाण्डं हस्तेन जुहोति समुद्रं गच्छ स्वाहेत्येतैः प्रतिमन्त्रं । समुद्रं गच्छ स्वाहा । अन्तरिक्षं गच्छ स्वाहा । देवꣳ सवितारं गच्छ स्वाहा । अहोरात्रे गच्छ स्वाहा । मित्रावरुणौ गच्छ
 
स्वाहा । सोमं गच्छ स्वाहा । यज्ञं गच्छ स्वाहा । छन्दाꣳसि गच्छ स्वाहा । द्यावापृथिवी गच्छ स्वाहा । नभो दिव्यं गच्छ स्वाहा । अग्निं वैश्वानरं गच्छ स्वाहा ।
यजमानः - अग्नय इदं, समुद्रायेदं, बर्हिषोऽहं देवयज्यया प्रजावान् भूयासम् । अग्नय इदं, अन्तरिक्षायेदं, द्वारामहं देवयज्यया प्रजावान् भूयासम् । अग्नय इदं, देवाय सवित्र इदं, उषासानक्तयोरहं देवयज्यया प्रजावान् भूयासम् । अग्नय इदं, अहोरात्राभ्यामिदं, जोष्ट्रयोरहं देवयज्यया प्रजावान् भूयासम् । अग्नय इदं, मित्रावरुणाभ्यामिदं, ऊर्जाहुत्योरहं देवयज्यया पशुमान् भूयासम् । अग्नय इदं, सोमायेदं, दैव्ययोर्होत्रोरहं देवयज्यया पशुमान् भूयासम् । अग्नय इदं , यज्ञायेदं, तिसृणां तिसृणां देवीनामहं देवयज्यया पशुमान् भूयासम् । अग्नय इदं, छन्दोभ्य इदं, नराशꣳसस्याहं देवयज्यया पशुमान् भूयासम् । अग्नय इदं, द्यावापृथिवीभ्यामिदं, वनस्पतेरहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् । अग्नय इदं, नभसे दिव्यायेदं, बर्हिषो वारितीनामहं देवयज्यया प्रजावान् भूयासम् । अग्नय इदं, अग्नये वैश्वानरायेदं, अग्नेस्स्विष्टकृतोऽहं देवयज्ययाऽऽयुष्मान् यज्ञेन प्रतिष्ठां गमेयम् । प्रतिप्रस्थाता अद्भ्यस्त्वौषधीभ्यः बर्हिषि लेपं निमृज्य । मनो मे हार्दि यच्छ तनून्त्वचं पुत्रं नप्तारमशीय जपति ।
स्वरुहोमः, सूक्तवाकः, शंयुवाकश्च :-
अध्वर्युः :- प्रत्याक्रम्य जुह्वां स्वरुमवधायानूयाजान्ते जुहोति । द्यां ते धूमो गच्छत्वन्तरिक्षमर्चिः पृथिवीं भस्मना पृणस्व स्वाहा । स्वरव इदम् । आयतने स्रुचौ सादयित्वा । वाजवतीभ्यामित्यादि । जूहद्वयमुपभृद्द्वयं च करोति । जुह्वैव परिध्यञ्जनम् । प्रस्तरं द्वयोर्द्वयोरनक्ति । जुह्वामेव प्रतिष्ठाप्याश्राव्य प्रत्याश्राविते अग्निमद्य होतारमिति सूक्तवाकप्रैषं मैत्रावरुणो ब्रूयात् । अग्नेरहम् । सोमस्याहम् । इन्द्राग्नियोरहम् । वनस्पतेरहम् । अग्नेस्स्विष्टकृतोऽहं इत्यादि । जूहूद्वयेनोपभृद्द्वयेन च संस्रावहोमः।
पत्नीसंयाजाः :-
अग्नेर्वोपन्नगृहस्य सदसि सादयामि सुम्नाय सुम्निनीस्सुम्ने मा धत्त धुरि धुर्यौ पात स्फ्ये स्रुचस्सादयेत् । दक्षिणेन विहारं जाघनीं हृत्वाज्येन सोमत्वष्टाराविष्ट्वा जुह्वामुपस्तीर्य उत्तानायै जाघन्यै देवानां पत्नीभ्योऽवद्यति । नीच्या अग्नये गृहपतये । उत्तानायै होत्र इडामवद्यति । नीच्या अग्नीधे । तां पत्न्यै प्रयच्छति । तां साध्वर्यवेऽन्यस्मै वा ब्राह्मणाय । बाहुं शमित्रे । तं स ब्राह्मणाय यद्यब्राह्मणो भवति । सम्पत्नीयं हुत्वा या सरस्वती इत्यादि तिस्रो जुहोति ।
प्रायश्चित्तानि, समिष्टयजूंषि च :-
यथेतमाहवनीयं गत्वा ब्रह्मप्रतिष्ठेत्यादि सर्वप्रायश्चित्तं हुत्वा त्रीणि समिष्टयजूंषि जुहोति । यज्ञ
 

यज्ञं गच्छ यज्ञपतिं गच्छ स्वां योनिं गच्छ स्वाहा । यज्ञायेदम् । एष ते यज्ञो यज्ञपते सह सूक्तवाकस्सुवीरस्स्वाहा । यज्ञपतय इदम् । देवा गातुविदो गातुं वित्वा गातुमित मनसस्पत इमं नो देव देवेषु यज्ञᳪँ、 स्वाहा वाचि स्वाहा वाते धास्स्वाहा । देवेभ्यो गातुविद्भ्य इत्यादि । अभिस्तृणीहि । यं देवा मनुष्येषु ।
हृदयशूलोद्वासनं, समिदाधानमुपस्थानं च :-
अनुपस्पृशन् हृदयशूलमुदङ्परेत्यासञ्चरेऽप उप निनीय शुष्कार्द्रयोः सन्धावुद्वासयति शुगसि तं पाप्मानमभि शोच योऽस्मान् द्वेष्टि यं च वयं द्विष्मः । सुमित्रा न आप ओषधयस्सन्तु दुर्मित्रास्तस्मै भूयासुर्योऽस्मान् द्वेष्टि यं च वयं द्विष्मः तस्मिन् सहपत्नीका मार्जयित्वा । धाम्नो धाम्नो राजन्नितो वरुण नो मुञ्च यदापो अघ्निया वरुणेति शपामहे ततो वरुण नो मुञ्च ॥ उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमᳪँ、 श्रथाय । अथा वयमादित्य व्रते तवानागसो अदितये स्याम आदित्यमुपस्थाय । एधोऽस्येधिषीमहि । समिदसि । तेजोऽसि तेजो मयि धेहि । आहवनीये तिस्रस्समिध आधाय । अपो अन्वचारिषꣳ रसेन समसृक्ष्महि । पयस्वाꣳ अग्न आगमं तम्मा सꣳसृज वर्चसा उपतिष्ठन्ते । आग्नीध्रः शुगसीत्यादि । ब्रह्मा अयाडग्निः इत्युपस्थाय यथेतं प्रति निष्क्रामति । यजमानः 1अग्निना देवेन इत्यादि गोमज्जपान्ते ।
यूपोपस्थानं, कर्मसमापनञ्च :-
नमः स्वरुभ्यः सन्नान्मावगातात्पश्चाद्दघ्वान्नं भूयासम् । शृङ्गाणीवेच्छृङ्गिणाꣳ सन्ददृश्रिरे चषालवन्तस्स्वरवः पृथिव्याम् । ते देवासस्स्वरवस्तस्थिवाꣳसो नमस्सखिभ्यस्सन्नान्मावगात । आशासानस्सुवीर्यꣳ रायस्पोषᳪँ、 स्वश्वियम् । बृहस्पतिना राया स्वगाकृतो मह्यं यजमानाय तिष्ठ यूपमुपस्थाय । वायवेष ते वायो इति जपति । यज्ञ शं च म इति जपति । वृष्टिरसि। ब्राह्मणाᳪ、स्तर्पयितवै । प्राजहितं समारोप्य गच्छति । सन्तिष्ठते पशुबन्धः ।
॥ इति निरूढपशुबन्धप्रयोगः ॥
१. तूष्णीं चतुरो विष्णुक्रमान् प्राचो क्रामति इति द्रा. प्र।