नारायणपूर्वतापिनीयोपनिषत्

विकिस्रोतः तः

नारायणपूर्वतापिनीयोपनिषत्
प्रथमः खण्डः
अथ ब्रह्माणं भगवन्तं सनत्कुमारः पप्रच्छ । कीदृशं नारायणाष्टाक्षरं भवतीति व्याचष्टे । अथ यो वै नारायणः स भगवान् परब्रह्मण आनन्दो भवति । ज्ञात्वा जीवन्मुक्तो भवति । सच्चिदानन्दस्वरूपपरवस्तु भवति । अष्टाक्षरं अष्टमूर्ति भवति । प्रथमरूपः पृथिवीरूपो भवति । द्वितीयमापो भवति । तृतीयस्तेजो भवति । चतुर्थो वायुर्भवति । पञ्चम आकाशो भवति । षष्ठश्चन्द्रमा भवति । सप्तमः सूर्यो भवति । अष्टमो यजमानः ॥
भूमिरापस्तथा तेजो वायुर्व्योम च चन्द्रमाः ।
सूर्यः पुमांस्तथा चेति मूर्तयश्चाष्ट कीर्तिताः ॥
अकारोकारमकारनादबिन्दुकलानुसन्धानध्यानाष्टविधा अष्टाक्षरं भवति । अकारः सद्योजातो भवति । उकारो वामदेवः । अघोरो मकारो भवति । तत्पुरुषो नादः । बिन्दुरीशानः । कला व्यापको भवति । अनुसन्धानो नित्यः । ध्यानस्वरूपं ब्रह्म । सर्वव्यापकोऽष्टाक्षरः ।।
नारायणः परं ब्रह्म ज्ञानं नारायणः परः ।
नारायणं महापुरुषं विश्वमात्मानमव्ययम् ।।
अन्तर्बहिश्च तत्सर्वं स्थितो नारायणः परः ।
सहस्रशीर्षं देवमक्षरं परमं पदम् ॥
नारायणं शिवं शान्तं सर्ववेदान्तगोचरम् ।
सृष्टि: स्थितिश्च संहारतिरोधानानुसंमतम् ।
पञ्चकृत्यस्य कर्तारं नारायणमनामयम् ॥
इत्याथर्वणरहस्ये नारायणपूर्वतापिनीये प्रथमः खण्डः

 
द्वितीयः खण्डः
स होवाच भगवान् ब्रह्मा नारायणाष्टाक्षरमन्त्रं व्याचष्टे । श्रीमन्नारायणस्य दशमन्त्राः कथ्यन्ते । ॐ नमो नारायणाय इत्यष्टाक्षरो मन्त्रः । स एव मन्त्रराजो भवति । एतन्नारायणस्य तारकं भवति । तदेवोपासितव्यं भवति । इत्युवाच भगवान्नारायणशब्दपरब्रह्मश्रीमहामायाप्रकृतिसर्वमेकजननीलक्ष्मीर्भवति । देवानां देवलक्ष्मीर्भवति । सिद्धानां सिद्धलक्ष्मीर्भवति । मुमुक्षूणां मोक्षलक्ष्मीर्भवति । योगिनां योगलक्ष्मीर्भवति । मुनीनां विवेकबुद्धिर्भवति । राज्ञां राज्यलक्ष्मीर्भवति । सृष्टिरूपा सरस्वती भवति । स्थितिरूपा महालक्ष्मीर्भवति । संहाररूपा रुद्राणी भवति । तिरोधानकरी पार्वती भवति । अनुग्रहरूपा उमा भवति । पञ्चकृत्यरूपा परमेश्वरी भवति । श्रीमहालक्ष्म्यै नम इति सप्ताक्षरो मन्त्रः ॥
सर्वेषामेव भूतानां महासौभाग्यदायिनी ।
महालक्ष्मीर्महादेवी सर्वलोकैकमोहिनी ।।
साम्राज्यदायिनी नित्यं सर्ववेदस्वरूपिणी ।
महाविद्या जगन्माता मुनीनां मोक्षदायिनी ।
ज्ञानिनां ज्ञानदा सत्यं दानवानां विनाशिनी ॥
इति महालक्ष्मीर्मूलप्रकृतिर्भवति । नारायणः स भगवान् परब्रह्मस्वरूपी सर्ववेदान्तगोचरः नित्यशुद्धबुद्धपरब्रह्मानन्दमयो भवति । तस्माल्लक्ष्मीनारायण इति स होवाच भगवान् य एवं वेद । इत्युपनिषत् ॥
इत्याथर्वणरहस्ये नारायणपूर्वतापिनीये द्वितीयः खण्डः
 
तृतीयः खण्डः
स होवाच भगवान् ब्रह्मा नारायणमन्त्रः कीदृशो भवति । " ॐ नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् " इति गायत्री भवति । " इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पाꣳसुरे।", " अतो देवा भवन्तु नो यतो विष्णुर्विचक्रमे । पृथिव्याः सप्तधामभिः” इति मन्त्रद्वयेन नारायणप्रतिपादितं भवति । “स ब्रह्मा स शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट्" । नारायणायेति पञ्चाक्षरं भवति । ॐ नमो विष्णव इति षडक्षरं विज्ञातम् । नमो नारायणायेति सप्ताक्षरं भवति । ॐ नमो भगवते वासुदेवायेति द्वादशं परिकीर्तितम् । ॐ श्रीं ह्रीं क्लीं नमो नारायणाय स्वाहा । यस्य कस्यापि न देयम् ।
पुत्रो देयः शिरो देयं न देया षोडशाक्षरी ।
न वदेद्यस्य कस्यापि किं तु शिष्याय तां वदेत् ॥
ॐ श्रीं ह्रीं नमो भगवते लक्ष्मीनारायणाय विष्णवे वासुदेवाय स्वाहा ॥
श्रीमहाविष्णवे तुभ्यं नमो नारायणाय च ।
गोविन्दाय च रुद्राय हरये ब्रह्मरूपिणे ॥
नारायण महाविष्णो श्रीधरानन्त केशव ।
वासुदेव जगन्नाथ हृषीकेश नमो नमः ॥
इत्यनुष्टुब्द्वयं मन्त्रं व्याख्यातम् । अथ मालामन्त्रं व्याख्यास्यामः । स होवाच भगवान् ब्रह्मा य एवं वेद । इत्युपनिषत् ॥
इत्याथर्वणरहस्ये नारायणपूर्वतापिनीये तृतीयः खण्डः
 
चतुर्थः खण्डः
स होवाच भगवान् पितामहः गायत्रीं व्याचष्टे । गोविन्दाय विद्महे वासुदेवाय धीमहि । तन्नो नारायणः प्रचोदयात् । कामदेवाय विद्महे पुष्पबाणाय धीमहि । तन्नोऽनङ्गः प्रचोदयात् । महादेव्यै च विद्महे विष्णुपत्नी च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् । “ विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजाꣳसि। यो अस्कभायदुत्तरꣳ सधस्थं विचक्रमाणस्त्रेधोरुगायः", " त्रिर्देवः पृथिवीमेष एताम् । विचक्रमे शतर्चसं महित्वा । प्रविष्णुरस्तु तवसस्तवीयान् । त्वेषꣳ ह्यस्य स्थविरस्य नाम ।"
सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमकृत ।
अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधिवाचि ॥
“प्रतद्विष्णुस्तवते वीर्याय । मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेषु । अधिक्षियन्ति भुवनानि विश्वा ।", “य ईꣳ शृणोत्यलकꣳ शृणोति । न हि प्रवेद सुकृतस्य पन्थाम् ।" अक्षन्वन्तः कर्णवन्तः सखायो मनो जीवेष्वसमा बभूवुः । तस्मालक्ष्मीनारायणं सर्वबीजं सर्वभूताधिवासं यो वेत्ति स विद्वान् भवति । उपासकानां मोक्षप्राप्तिर्भवति । स जीवन्मुक्तो भवति । स होवाच भगवान् उपासनविधिं व्याचष्टे । ब्रह्मा ऋषिर्भवति । गायत्री छन्द उच्यते । श्रीमन्नारायणपरमात्मा देवता । प्रणवं बीजम् । नमः शक्तिरुच्यते । कीलकं नारायणेति ॥
धर्मार्थकाममोक्षेषु विनियोगोऽथ भावना ।
महोल्काय वीरोल्काय वृद्धोल्काय पृथूल्काय विद्युल्काय ज्वलदुल्काय च षडङ्गकल्पिता: नमःस्वाहावषड्वौषट्पदान्ता अङ्गन्यासा भवन्ति ।
नीलजीमूतसंकाशं पीतकौशेयवाससम् ।
किरीटकुण्डलधरं कौस्तुभोद्भासितोरसम् ॥
 
शङ्खचक्रगदाखङ्गधारिणं वनमालिनम् ।
वामभागे महालक्ष्म्यालिङ्गितार्धशरीरिणम् ॥
सनकादिभिः संसेव्यं स्तूयमानं महर्षिभिः ।
ब्रह्मादिभिः सदा ध्येयं ध्यात्वा नारायणं विभुम् ॥
कर्मणा मनसा वाचा संस्मरेत् प्रजपेत् सुधीः ।
अयुतं जपमात्रेण सर्वज्ञानप्रदो भवेत् ॥
लक्षमात्रं तु प्रजपेत् स्वस्वरूपं भवेन्मनुः ।
अत ऊर्ध्वं सदा ध्यायेत् साक्षान्नारायणो हरिः ।।
स होवाच भगवान् य एवं वेद ।
इत्युपनिषत् ॥
इत्याथर्वणरहस्ये नारायणपूर्वतापिनीये चतुर्थः खण्डः
पञ्चमः खण्डः
स होवाच भगवान् ब्रह्मा दशकळात्मकोऽवतारः कथ्यते ॥
 जरा पालिनिका शान्तिरीश्वरी रतिकामिका ।
वरदा ह्लादिनी प्रीतिर्दीर्घा दशकला हरेः ॥
नारायणादवतारा मन्त्ररूपा जायन्ते । ॐ नमो नारायणाय स्वाहा । एवं दशाक्षरो महामन्त्रो भवति । तत्र प्रथमो मत्स्यावतारः । द्वितीयः कूर्म. । तृतीयो वराहः । चतुर्थो नरसिह्मः । पञ्चमो वामनः । षष्ठो जमदग्निः । सप्तमो रामचन्द्रः । अष्टमः कृष्णः परमात्मा । नवमो बुद्धावतारः । दशमः कल्किर्जनार्दनः । ॐ मत्स्यावताराय नमः । श्री कूर्मावताराय नमः । ह्रीं वराहावताराय नमः । हुं नृसिंहावताराय नमः ।
 
सौः वामनावताराय नमः । ऐं परशुरामावताराय नमः । ग्लौं रामचन्द्राय नमः । क्लीं कृष्णाय नमः । ब्लूं बुद्धावताराय नमः । सः कल्क्यवताराय नमः इति । प्रजापतिः प्रजायते । तस्मान्नारायणः प्रजायते । ब्रह्मा जायते । ब्रह्मणःसकाशात् पञ्चमहाभूतानि तन्मात्राणि जायन्ते । ज्ञानेन्द्रियकर्मेन्द्रियाणि मनोबुद्धिचित्ताहंकारा जायन्ते । प्रकृतिर्जायते । चतुर्विंशतितत्त्वात्मको नारायणः । पञ्चविंशतितत्त्वात्मकः पुरुषत्वं परब्रह्म भवेत् । शिवश्च नारायणः । शक्रश्च नारायणः । दिशश्च नारायणः । ऊर्ध्वञ्च नारायणः । अन्तश्च नारायणः । नारायणः सर्वं खल्विदं ब्रह्म । तस्मान्नारायणादण्डजस्वेदजोद्भिज्जजरायुजमनसिजादयः सर्वे महाभूताः प्रजायन्ते ॥
अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीꣳ सरूपाम् ।
अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥
अण्डजाः सर्वखगरूपा जायन्ते । स्वेदजाः क्रिमिकीटादयः । उद्भिज्जास्तरुगुल्मलतादयः । जरायुजा नरपशुमृगादयो जायन्ते । मनसिजा नारदादयः सर्वे ऋषयः । नारायणः स्थावरजङ्गमात्मको भवति । अष्टवसवो नारायणः । एकादशरुद्रा नारायणः । नारायणात् द्वादशादित्याः । सर्वे देवा ऋषयो मुनयः सिद्धगन्धर्वयक्षरक्षःपिशाचाः सर्वे नारायणः । नारायण एवेदं सर्वम् । लक्ष्मीर्मूलप्रकृतिरिति विज्ञायते । वस्त्वेकं परब्रह्म नारायणः सनातनः ॥
साक्षान्नारायणो देवः परब्रह्माभिधीयते ।
सच्चिदानन्दात्मकाः स्युर्विष्णौ नित्ये प्रकल्पिताः ।
नानाविधानि रूपाणि हाटके कटकादिवत् ॥
 
" चत्वारि वाक्परिमिता पदानि । तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति । तुरीयं वाचो मनुष्या वदन्ति ।" परापश्यन्तीमध्यमावैखरीरूपा सरस्वतीति चतुर्विधा वाचो वदन्ति । वैखरी सर्वविद्यासु प्रशस्ता ॥
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥
आयुर्वेदो धनुर्वेदो गान्धर्वं मन्त्रशास्त्रकम् ।
विद्याश्चाष्टादश प्रोक्ता नारायणनिवेशिताः ||
तस्य निश्वसितमेव ऋग्वेदो यजुर्वेदः सामवेदो ह्यथर्वाङ्गिरश्चेति । सर्ववेदवेदान्तानां नारायणपरब्रह्मण्येव तात्पर्यम् । स होवाच भगवान् य एवं वेद । इत्युपनिषत् ॥
इत्याथर्वणरहस्ये नारायणपूर्वतापिनीये पञ्चमः खण्डः

षष्ठः खण्डः
स होवाच भगवान् ब्रह्मा नारायणयन्त्रमन्त्रावरणपूजामाचचक्षे । त्रिकोणं प्रथमं भवति । द्वितीयं षट्कोणं भवति । वृत्तमष्टदलं तृतीयम् । चतुर्थ द्वादशदलम् । पञ्चमं षोडशदलम् । चतुर्विंशति[:]षष्ठम् । द्वात्रिंशति[:] सप्तमम् । अष्टमं भूपुरम् । एवं यन्त्रं समालिखेत् । मध्ये लक्ष्मीनारायणं विक्षेपशक्त्यावरणं शक्तिप्रभाशक्तित्रिकोणदेवताः षटकोणं वृद्धोल्कादयः पूज्याः । सर्वज्ञानित्वतृप्त्यनादिबोधस्वतन्त्रनित्यमलुप्तानन्तं षट्कोणशक्तयः । सनकसनन्दनसनत्सुजातसनत्कुमारसनातननारदतुम्बुरुसमन्तादयोऽष्टदलाः ।
वसिष्ठवालखिल्यविश्वामित्रकश्यपात्रिभरद्वाजाङ्गीरसजामदग्निगौतमागस्त्यजा बालिकपिला द्वादशदलाः । मत्स्यकूर्मवराहनारसिंहवामनरामरामकृष्णबुद्धकल्किसद्योजातवामदेवा अघोरतत्पुरुषेशानपरमेश्वराः षोडशदलाः । शंखचक्रगदापद्मखड्गश्रीवत्सकौस्तुभवनमालादिकिरीटकुण्डलकेयूरहाराङ्गदशार्ङ्गिशर - नन्दकपद्मवेणुबर्हिपिञ्छशेषानन्तगरुडविष्वक्सेनब्रह्माणश्चतुर्विंशतिदलाः केशवादिचतुर्विंशत्यनुक्रमम् । हरिश्रीकृष्णमुकुन्दकुमुदाक्षपुण्डरीकाक्षधामकशङ्खवर्णसर्वनेत्रसुमुखसुप्रतीका द्वात्रिंशद्दलाः । ऐरावतपुण्डरीकवामनकुमुदाञ्जनपुष्पदन्तसार्वभौमसुप्रतीकाक्षाश्चतुरश्रदेवताः । ॐ नमो नारायणायाष्टाक्षरसंज्ञावरणदेवतापूजा कर्तव्या । स होवाच भगवान् य एवं वेद । इत्युपनिषत् ॥
इत्याथर्वणरहस्ये नारायणपूर्वतापिनीये षष्ठः खण्डः
इति नारायणपूर्वतापिनीयोपनिषत् समाप्ता


बाहरी कडियाँ[सम्पाद्यताम्]