६४. ईशानशिवगुरुदेवपद्धतौ [सामान्यपाद. भित्तिर्मध्यगता स्मृता यवमिता तद्गर्तयोः लक्ष्णयोः कर्षाज्यस्थिति गोप्पदाकृति च तत्पृष्ठे यवाभ्यां स्फिजौ ॥ ५ ॥ स्फिङ्मध्येन यवप्रमाणविहिता रेखा च वक्रादधः • कण्ठः पङ्कलक्षणस्तु तदधो दण्डः सुवृत्तः समः । दण्डाग्रं परिणाहतोऽङ्गुलमितं मूलं ततोऽध्यर्धतः स्याद् गोपुच्छनिभं गलात् प्रभृति तत् स्थूलं हि मूलं यथा ॥ ६ ॥ बाहुमात्रियोऽरत्निमात्रियो वा स्रुच इत्यन्ये । स्रुक्स्रुवाधिकारः । भित्त्वा शोभनशाखिकां यदि भवेच्छम्युद्गताश्वत्थजा नो चेत् केवलपिप्पलात् तदरणिर्भान्वङ्गुलैरायता | नाहोऽस्यास्तु षडङ्गुलेन तु शिरो मूलेऽङ्घ्ररग्रे स्मृतो योनिर्मंध्यगताङ्गुलैः श्रुतिमितैर्मन्थानयोग्या भवेत् ॥ ७ ॥ अश्वत्थेन तथोत्तरारणिरपि स्यात् षड्भिरेवाङ्गुलै: कुर्याद् भ्रामकमस्य खादिरमृजुं नेत्रं च रज्जुं दृढाम् । तत्राग्निं जनयेत् तथेन्धनमपि त्वग्वर्जितं सारवद् भिन्नं शस्ततरूद्भवं घमनमप्यग्नेर्धवित्रादिना ॥ ८ ॥ अरण्यादिविधिः । वक्राः शीर्णदलाः कृशाः कृमिहता भिन्नास्त्वशस्त्राहृता ह्रस्वाः स्थूलगतत्वचोऽप्युपहता दीर्घाग्निदग्धादयः । वर्ज्याः स्युः समिधः शुचिस्थलभुवः शेषाः समं छेदिता मध्यांनामिकयोस्तु नाहसदृशाः शस्ताः कनिष्ठाघमाः ।। ९ ।। तालामतास्तु समिधः खलु शान्तिकादौ सप्ताङ्गुला भ्रमणचाटनकेषु शस्ताः । विद्वेषसाधनविधौ चतुरङ्गुलास्ता वक्राः षडङ्गुलमिता अपि मारणेषु ॥ १० ॥
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२०१
दिखावट