<poem>
स त्वामवोचन्मा भुङ्क्ष्व दुर्भिक्षोपहतस्य मे ।
कण्ठे यियासवः प्राणा वर्तन्ते भोजनं विना ॥ २३० ॥
वारितः पार्श्वगेनाआपि तस्मै त्वं प्रीतिपू्ैकम् ।
पूपार्धं वारिकुम्भीं च प्रादाः प्रियमुदीरयन् ॥ २३१ ॥
पात्रे प्रसन्नचित्तस्य काले दानेन तेन ते ।
अखण्डितानामाज्ञानां शतमासीत्रिविष्टपे ॥ २३२॥
तेन वारिप्रदानेन वाञ्छामात्रेपि दर्शिते।
प्रादुर्भवन्ति सुस्वादा नद्यो मरूपथेष्वपि ॥ २३३ ॥
सत्क्षेत्रप्रतिपदितः प्रियवचोबद्धालावालावलि-
निर्दोषेण मनःप्रसादपयसा निष्पन्नसेकक्रियः।
दातुस्तत्तदभीप्सितं किल फलन्कालेतिबालोप्यसौ
राजन्दानमदीरुदो विजयते कल्पद्रुमादीनपि ॥ २३७ ॥
अल्पावशोषास्तास्त्वद्य सन्त्याज्ञास्तव भूपते ।
वचोलङ्घ्यं क्षपयतो यत्र तत्राविचारतः ॥ २२५ ॥
अपि चेतरभूपालसुलभं महतः सतः।
कस्माव्दिचारशून्यत्वं तवापि ह्रुदि रोहति ॥ २३६ ॥
दिनानि कतिचिद्यानि कश्मिरेषु घनागमे ।
जायन्ते तानि पूर्वाब्धौ फलानि शिशिरे कुतः ॥ २३७ ॥
विगाहसे दिशं यां यां तत्र तत्रैव तत्पतेः ।
त्वदाज्ञाग्रहणे यत्न्ः पूवदानप्रभावतः ॥ २३८ ॥
आशां श्रितस्य माहेन्द्रीमाज्ञा स्वल्पापि तेधुना ।
गृहीता कथमप्येषा राक्रेणाभग्नशक्तिना ॥ २२९ ॥
विना प्रयोजनं मुख्यं तस्मादाज्ञास्त्वया क्वचित् ।
नैवमेव पुनर्देया विरलाः सन्ति ता यतः ॥ २७० ॥
</poem>