सामग्री पर जाएँ

तैत्तरीयोपनिषद्भाष्यम्

विकिस्रोतः तः
तैत्तरीयोपनिषद्भाष्यम्
[[लेखकः :|]]


तैत्तिरीयोपनिषद्
शीक्षावल्ली
प्रथम अनुवाक
यस्माज्जातं जगत्सर्वं यस्मिन्नेव प्रलीयते।
येनेदं धार्यते चैव तस्मै ज्ञानात्मने नमः।।1।।
यैरिमे गुरुभिः पूर्वं पदवाक्यप्रमाणतः।
व्याख्याताः सर्ववेदान्तास्तान्नित्यं प्रणतोऽस्म्यहम्।।2।।
तैत्तिरीयकसारस्य मयाचार्यप्रसादतः।
विस्पष्टार्थरुचीनां हि व्याख्येयं संप्रणीयते।।3।।
नित्यान्यधिगतानि कर्माण्युपात्तदुरितक्षयार्थानि, काम्यानि च फलार्थिनां पूर्वस्मिन्ग्रन्थे। इदानीं कर्मोपादानहेतुपरिहाराय ब्राहृविद्या प्रस्तूयते।
कर्महेतुः कामः स्यात्। प्रवर्तकत्वात्। आप्तकामानां हि कामाभावे स्वात्मन्यवस्थानात् प्रवृत्त्यनुपपत्तिः। आत्मकामित्वे चाप्तकामता आत्मा हि ब्राहृ; तद्विदो हि परप्राÏप्त वक्ष्यति। अतोऽविद्यानिवृत्तौ स्वात्मन्यवस्थानं परप्राÏप्त वक्ष्यति। अतोऽविद्यानिवृत्तौ स्वात्मन्यवस्थानं परप्राप्तिः "अभयं प्रतिष्ठां विन्दते" (तै.उ.2/7/1) "एतमानन्दमयमात्मानमुपसंक्रामति" (तै.उ.2/8/22) इत्यादि श्रुतेः।
काम्यप्रतिषिद्धयोरनारम्भादारब्धस्य चोपभोगेन क्षयान्नित्यानुष्ठानेन प्रत्यवायाभावादयत्नत एव स्वात्मन्यवस्थानं मोक्षः। अथवा निरतिशयायाः प्रीतेः स्वर्गशब्दवाच्यायाः कर्महेतुत्वात्कर्मभ्य एव मोक्ष इति चेत्।
न; कर्मानेकत्वात्। अनेकानि ह्रारब्धफलान्यनारब्धफलानि चानेकजन्मान्तरकृतानि विरुद्धफलानि कर्माणि सम्भवन्ति। अतस्तेष्वनारब्धफलानामेकस्मिञ्जन्मन्युपभोगक्षयासंभवाच्छेषकर्मनिमित्तशरीरारम्भोपपत्तिः कर्मशेषसद्भावसिद्धिश्च "तद्य इह रमणीयचरणाः"(छा.उ.5/10/7) "ततः शेषेण"(आ.ध.2/2/2/3, गो.स्मृ.11) इत्यादि श्रुतिस्मृतिशतेभ्यः।
इष्टानिष्टफलानामनारब्धानां क्षयार्थानि नित्यानीति चेत्?
न; अकरणेप्रत्यवायश्रवणात्। प्रत्यवायशब्दो ह्रनिष्टविषयः। नित्याकरणनिमित्तस्य प्रत्यवायस्य दुःखरूपस्यागामिनः परिहारार्थानि नित्यानीत्यभ्युपगमान्नानारब्धफलकर्मक्षयार्थानि।
यदि नामानारब्धकर्मक्षयार्थानि नित्यानि कर्माणि तथाप्यशुद्धमेव क्षपयेयुर्न शुद्धम्। विरोधाभावात्। न हीष्टफलस्य कर्मणः शुद्धरूपत्वान्नित्यैर्विरोध उपपद्यते। शुद्धाशुद्धयोर्हि विरोधो युक्तः।
न च कर्महेतूनां कामानां ज्ञानाभावे निवृत्त्यसंभवादशेषकर्मक्षयोपपत्तिः। अनात्मविदो हि कामोऽनात्मफलविषयत्वात्। स्वात्मनि च कामानुपपत्तिर्नित्यप्राप्तत्वात्। स्वयं चात्मा परं
ब्राहृेत्युक्तम्।
नित्यानां चाकरणमभावस्ततः प्रत्यवायानुपपत्तिरिति। अतः पूर्वोपचितदुरितेभ्यः प्राप्यमाणायाः प्रत्यवायक्रियाया नित्याकरणं लक्षणमिति "अकुर्वन्विहितं कर्म" (मनु.11/44) इति शतुर्नानुपपत्तिः। अन्यथाभावाद्भावोत्पत्तिरिति सर्वप्रमाणव्याकोप इति। अतोऽयत्नतः स्वात्मन्यवस्थानमित्यनुपपन्नम्।
यच्चोक्तं निरतिशयप्रीतेः स्वर्गशब्दवाच्यायाः कर्मनिमित्तत्वात्कर्मारब्ध एव मोक्ष इति, तन्न; नित्यत्वान्मोक्षस्य। न हि नित्यं किञ्चिदारभ्यते लोके। यदारब्धं तदनित्यमिति। अतो न कर्मारब्धो मोक्षः।
विद्यासहितानां कर्मणां नित्यारम्भसामथ्र्यमिति चेत्?
न; विरोधात्। नित्यं चारभ्यत इति विरुद्धम्।
यद्विनष्टं तदेव नोत्पद्यत इति। प्रध्वंसाभाववन्नित्योऽपि मोक्ष आरभ्य एवेति चेत्?
न; मोक्षस्य भावरूपत्वात् प्रध्वंसाभावोऽप्यारभ्यत इति न संभवति; अभावस्य विशेषाभावाद्विकल्पमात्रमेतत्। भावप्रतियोगी ह्रभावः। यथा ह्रभिन्नोऽपि भावो घटपटादिभिर्विशेष्यतेभिन्न इव घटभावः पटभाव इति; एवं निर्विशेषोऽप्यभावः क्रियागुणयोगाद्द्रव्यादिवद्विकल्प्यते। न ह्रभाव उत्पलादिवद्विशेषणसहभावी। विशेषणवत्त्वे भाव एव स्यात्।
विद्याकर्मकर्तृनित्यत्वाद्विद्याकर्मसन्तानजनितमोक्षनित्यत्वमिति चेत्?
न; गङ्गारुाोतोवत्कर्तृत्वस्य दुःखरूपत्वात्। कर्तृत्वोपरमे च मोक्षविच्छेदात्। तस्मादविद्याकामकर्मोपादानहेतुनिवृत्तौ स्वात्मन्यवस्थानं मोक्ष इति। स्वयं चात्मा ब्राहृ। तद्विज्ञानादविद्यानिवृत्तिरिति ब्राहृविद्यार्थोपनिषदारभ्यते।
उपनिषदिति विद्योच्यते, तच्छीलिनां गर्भजन्मजरादिनिशातनातदवसादनाद्वा ब्राहृणो वोपनिगमयितृत्वादुपनिषण्णं वास्यां परं श्रेय इति। तदर्थत्वाद् ग्रन्थोऽप्युपनिषद्।
ॐ शं नो मित्रः शं वरुणः। शं नो भवत्वर्यमा। शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः। नमो ब्राहृणे। नमस्ते वायो। त्वमेव प्रत्यक्षं ब्राहृासि। त्वामेव प्रत्यक्षं ब्राहृ वदिष्यामि। ऋतं वदिष्यामि। सत्यं वदिष्यामि। तन्मामवतु तद्वक्तारमवतु। अवतु माम्। अवतु वक्तारम्। ॐ शान्तिः शान्तिः शान्तिः ।। 1 ।।
शं सुखं प्राणावृत्तेरह्नश्चाभिमानी देवतात्मा मित्रो नोऽस्माकं भवतु। तथैवापानवृत्ते रात्रेश्चाभिमानी देवतात्मा वरुणः। चक्षुष्यादित्ये चाभिमान्यर्यमा। बल इन्द्रः। वाचि बुद्धौ च बृहस्पतिः। विष्णुरुरुक्रमो विस्तीर्णक्रमः पादयोरभिमानी। एवमाद्याध्यात्मदेवताः शं नः। भवत्विति सर्वत्रानुषङ्गः।
तासु हि सुखकृत्सु विद्याश्रवणाधारणोपयोगा अप्रतिबन्धे न भविष्यन्तीति तत्सुखकर्तृत्वं प्राथ्र्यते शं नो भवत्विति।
ब्राहृ विविदिषुणा नमस्कारवन्दनक्रिये वायुविषये ब्राहृविद्योपसर्गशान्त्यर्थं क्रियेते। सर्वक्रियाफलानां तदधीनत्वाद् ब्राहृवायुस्तस्मै ब्राहृणे नमः। प्रह्वीभावं करोमीति वाक्यशेषः नमस्ते तुभ्यं हे वायो नमस्करोमीति। परोक्षप्रत्यक्षाभ्यां वायुरेवाभिधीयते।
किं च त्वमेव चक्षुराद्यपेक्ष्य बाह्रं संनिकृष्टमव्यवहितं प्रत्यक्षं ब्राहृासि यस्मात्तस्मात्त्वामेव प्रत्यक्षं ब्राहृ वदिष्यामि। ऋतं यथाशास्त्रं यथाकर्तव्यं बुद्धौ सुपरिनिश्चितमर्थं तदपि
त्वदधीनत्वात्त्वामेव वदिष्यामि। सत्यमिति स एव वाक्कायाभ्यां संपाद्यमानः, सोऽपि त्वदधीन एव संपाद्य इति त्वामेव सत्यं वदिष्यामि।
तत्सर्वात्मकं वाय्वाख्यं ब्राहृ मयैवं स्तुतं सन्मां विद्यार्थिनमवतु विद्यासंयोजनेन। तदेव ब्राहृ वक्तारमाचार्यं वक्तृत्वसामथ्र्यसंयोजनेनावतु। अवतु मामवतु वक्तारमिति पुनर्वचनमादरार्थम्। ॐ शान्तिः शान्तिः शान्तिरिति त्रिर्वचनमाध्यात्मिकाधिभौतिकाधिदैविकानां विद्याप्राप्त्युपसर्गाणां प्रशमार्थम्।।1।।
इति शीक्षावल्ल्यां प्रथमोऽनुवाकः।।1।।

द्वितीय अनुवाक
अर्थज्ञानप्रधानत्वादुपनिषदो ग्रन्धपाठे यत्नोपरमो मा भूदिति शिक्षाध्याय आरभ्यते -
शीक्षां व्याख्यास्यामः। वर्णः स्वरः। मात्रा बलम्। साम सन्तानः। इत्युक्तः शीक्षाध्यायः।।1।।
शिक्षा शिक्ष्यतेऽनयेति वर्णाद्युच्चारणलक्षणम्। शिक्ष्यन्त इति वा शिक्षा वर्णादयः। शिक्षैव शीक्षा। दैघ्र्यं छान्दसम्। तां शीक्षां व्याख्यास्यामो विस्पष्टमा समन्तात्कथयिष्यामः। चक्षिङो वा ख्याञादिष्टस्य व्याङ्पूर्वस्य व्यक्तवाक्कर्मण एतद्रूपम्।
तत्र वर्णोऽकारादिः, स्वर उदात्तादिः, मात्रा ह्मस्वाद्याः, बलं प्रयत्नविशेषः, सामवर्णानां मध्यमवृत्त्योच्चारणं समता, सन्तानः सन्ततिः संहितेत्यर्थः। एष हि शिक्षितव्योऽर्थः। शिक्षा यस्मिन्नध्याये सोऽयं शीक्षाध्याय इत्येवमुक्त उदितः। उक्त इत्युपसंहारार्थः।।1।।
इति शीक्षावल्ल्यां द्वितीयोऽनुवाकः।।2।।
तृतीय अनुवाक
अधुना संहितोपनिषदुच्यते -
सह नौ यशः। सह नौ ब्राहृवर्चसम्। अथातः सँ#्हिताया उपनिषदं व्याख्यास्यामः। पञ्चस्वधिकरणेषु। अधिलोकमधिज्योतिषमधिविद्यमधिप्रजमध्यात्मम्। ता महासँ#्हिता इत्याचक्षते। अथाधिलोकम्। पृथिवी पूर्वरूपम्। द्यौरुत्तररूपम्। आकाशः संधिः।।1।।
वायुः संधानम्। इत्यधिलोकम्। अथाधिज्यौतिषम्। अग्निः पूर्वरूपम्। आदित्य उत्तररूपम्। आपः संधिः। वैद्युतः संधानम्। इत्यधिज्यौतिषम्। अथाधिविद्यम्। आचार्यः पूर्वरूपम्।।2।।
अन्तेवास्युत्तररूपम्। विद्या संधिः। प्रवचनँ#्संधानम् इत्यधिविद्यम्। अथाधिप्रजम्। माता पूर्वरूपम्। पितोत्तररूपम्। प्रजा संधिः प्रजननँ#् संधानम। इत्याधिप्रजम्।।3।।
अथाध्यात्मम्। अधरा हनुः पूर्वरूपम्। उत्तरा हनुरुत्तररूपम्। वाक्संधिः। जिह्वा संधानम्। इत्यध्यात्मम्। इतीमा महासँ#्हिता य एवमेता महासँ#्हिता व्याख्याता वेद। संधीयते प्रजया पशुभिः। ब्राहृवर्चसेनान्नाद्येन सुवर्गेण लोकेन।।4।।
तत्र संहिताद्युपनिषत्परिज्ञाननिमित्तं यद्यशः प्राथ्र्यते तन्नावावयोः, शिष्याचार्ययोः सहैवास्तु। तन्निमित्तं च यद्ब्राहृवर्चसं तेजस्तच्च सहैवास्त्विति शिष्यवचनमाशीः। शिष्यस्य ह्रकृतार्थत्वात्प्रार्थनोपपद्यते नाचार्यस्य। कृतार्थत्वात्। कृतार्थो ह्राचार्यो नाम भवति।
अथानन्तरमध्ययनलक्षणविधानस्य, अतो यतोऽत्यर्थं ग्रन्थभाविता बुद्धिर्न शक्यते सहसार्थज्ञानविषयेऽवतारयितुमित्यतः संहिताया उपनिषदं संहिताविषयं दर्शनमित्येतद्ग्रन्थसंनिकृष्टामेव व्याख्यास्यामः, पञ्चस्वधिकरणेष्वाश्रयेषु ज्ञानविषयेष्वित्यर्थः।
कानि तानीत्याह अधिलोकं लोकेष्वधि यद्दर्शनं तदधिलोकम्। तथाधिज्यौतिषमधिविद्यमधिप्रजमध्यात्ममिति। ताः एताः पञ्चविषया उपनिषदो लोकादिमहावस्तु विषयत्वात्संहिताविषयत्वाच्च महत्यश्च ताः संहिताश्च महासंहिता इत्याचक्षते कथयन्ति वेदविदः।
अथ तासां यथोपन्यस्तानामधिलोकं दर्शनमुच्यते। दर्शनक्रमविवक्षार्थोऽथशब्दः सर्वत्र। पृथिवी पूर्वरूपं पूर्वो वर्णः पूर्वरूपम्। संहितायाः पूर्वे वर्णे पृथिवीदृष्टिः कर्तव्येत्युक्तं भवति। तथा द्यौः उत्तररूपमाकाशोऽन्तरिक्षलोकः संधिर्मध्यं पूर्वोत्तररूपयोः संधीयेते अस्मिन्पूर्वोत्तररूपे इति। वायुः संधानम्। संधीयतेऽनेनेति संधानम्। इत्यधिलोकं दर्शनमुक्तम्। अथाधिज्यौतिषमित्यादि समानम्। इतीमा इत्युक्ता उप प्रदश्र्यन्ते। यः कश्चिदेवमेता महासंहिता व्याख्याता वेदोपास्ते। वेदेत्युपासनं स्याद्विज्ञानाधिकारात् "इति प्राचीनयोग्योपास्स्व" इति च वचनात्। उपासनं च यथासास्त्रं तुल्यप्रत्ययसन्ततिरसंकीर्णा चातत्प्रत्ययैः शास्त्रोक्तालम्बनविषया इति। प्रसिद्धश्चोपासनशब्दार्थो लोके गुरुमुपास्ते राजानमुपास्त इति। यो हि गुर्वादीन्सन्ततमुपचरति स उपास्त इत्युच्यते। स च फलमाप्नोत्युपासनस्य। अतोऽत्रापि च य एवं वेद संधीयते प्रजादिभिः स्वर्गान्तैः। प्रजादिफलान्याप्नोतीत्यर्थः।।1-4।।
इति शीक्षावल्ल्यां तृतीयोऽनुवाकः।।3।।
चतुर्थ अनुवाक
यश्छन्दसामिति मेधाकामस्य श्रीकामस्य च तत्प्राप्तिसाधनं जपहोमावुच्येते। "स मेन्द्रो मेधया स्पृणोतु"
"ततो मे श्रियामावह"इति च लिङ्गदर्शनात्।
यश्छन्दसामृषभो विश्वरूपः। छन्दोभ्योऽध्यमृतात्संबभूव। स मेन्द्रो मेधया स्पृणोतु। अमृतस्य देव धारणो भूयासम्। शरीरं मे विचर्षणम्। जिह्वा मे मधुमत्तमा। कर्णाभ्यां भूरि विश्रुवम्। ब्राहृणः कोशोऽसि मेधया पिहितः श्रुतं मे गोपाय। आवहन्ती वितन्वाना।।1।।
कुर्वाणाचीरमात्मनः। वासाँ#्सि मम गावश्च। अन्नपाने च सर्वदा। ततो मे श्रियामावह। लोमशां पशुभिः सह स्वाहा। आमायन्तु ब्राहृचारिणः स्वाहा। विमायन्तु ब्राहृचारिणः स्वाहा। प्रमायन्तु ब्राहृचारिणः स्वाहा। दमायन्तु ब्राहृचारिणः स्वाहा। शमायन्तु ब्राहृचारिणः स्वाहा।।2।।
यश्छन्दसां वेदानामृषभ इवर्षभः प्राधान्यात् विश्वरूपः सर्वरूपः सर्ववाग्व्याप्तेः। "तद्यथा शङ्कुना" (छा.उ.2/23/3) इत्यादि श्रुत्यन्तरात्। अत एवर्षभत्वमोङ्कारस्य। ओङ्कारो ह्रत्रोपास्य
इति ऋषभादिशब्दैः स्तुतिन्र्याय्यैवोङ्कारस्य। छन्दोभ्यो वेदेभ्यो वेदा ह्रमृतं तस्मादमृतादधिसंबभूव। लोकदेववेदव्याह्मतिभ्यः सारिष्ठं जिघृक्षोः प्रजापतेस्तपस्यत ओङ्कारः सारिष्ठत्वेन प्रत्यभादित्यर्थः। न हि नित्यस्योङ्कारस्याञ्जसैवोत्पत्तिरेव कल्प्यते। स एवंभूत ओङ्कार इन्द्रः सर्वकामेशः परमेश्वरो मा मां मेधया प्रज्ञया स्पृणोतु प्रीणयतु बलयतु वा प्रज्ञाबलं हि प्राथ्र्यते।
अमृतस्य अमृतत्वहेतुभूतस्य ब्राहृज्ञानस्य तदधिकारात्, हे देव धारणो धारयिता भूयासं भवेयम्। किं च शरीरं मे मम विचर्षणं विचक्षणं योग्यमित्येतत्। भूयादिति प्रथमपुरुषविपरिणामः। जिह्वा मे मधुमत्तमा मधुमत्यतिशयेन मधुरभाषिणीत्यर्थः। कर्णाभ्यां श्रोत्राभ्यां भूरि बहु विश्रुवं व्यश्रवं श्रोता भूयासमित्यर्थः। आत्मज्ञानयोग्यः कार्यकरणसंघातोऽस्त्विति वाक्यार्थः। मेधा च तदर्थमेव हि प्राथ्र्यते।
ब्राहृणः परमात्मन कोशोऽसि। असेरिवोपलब्ध्यधिष्ठानत्वात्। त्वं हि ब्राहृणः प्रतीकः, त्वयि ब्राहृोपलभ्यते। मेधया लौकिकप्रज्ञया पिहित आच्छादितः स त्वं सामान्यप्रज्ञैरविदिततत्त्व इत्यर्थः। श्रुतं श्रवणपूर्वकमात्मज्ञानादिकं मे गोपाय रक्ष। तत्प्राप्त्यविस्मरणादि कुर्वित्यर्थः। जपार्था एते मन्त्रा मेधाकामस्य।
होमार्थास्त्वधुना श्रीकामस्यमन्त्रा उच्यन्ते आवहन्त्यानयन्ती। वितन्वाना विस्तारयन्ती। तनोतेस्तत्कर्मत्वात्। कुर्वाणा निर्वर्तयन्ती, अचीरमचिरं क्षिप्रमेव, छान्दसो दीर्घः, चिरं वा कुर्वाणा आत्मनो मम, किमित्याह - वासांसि वस्त्राणि मम गावश्च गाश्चेति यावत्, अन्नपाने च सर्वदैवमादीनि कुर्वाणा श्रीर्या तां ततो मेधानिर्वर्तनात्परमावहानय। अमेधसो हि श्रीरनर्थायैवेति।
किंविशिष्टाम्। लोमशामजाव्यादियुक्तामन्यैश्च पशुभिः संयुक्तामावहेत्यधिकारादोङ्कार एवाभिसंबध्यते। स्वाहा स्वाहाकारो होमार्थमन्त्रान्तज्ञापनार्थः। आयन्तु मामिति व्यवहितेन संबन्धः। ब्राहृचारिणो विमायन्तु प्रमायन्तु दमायन्तु शमायन्त्वित्यादि।।1-2।।
यशो जनेऽसानि स्वाहा। श्रेयान् वस्यसोऽसानि स्वाहा। तं त्वा भग प्रविशानि स्वाहा। स मा भग प्रविश स्वाहा। तस्मिन् सहरुाशाखे निभगाहं त्वयि मृजे स्वाहा। यथापः प्रवता यन्ति यथा
मासा अहर्जरम्। एवं मां ब्राहृचारिणो धातरायन्तु सर्वतः स्वाहा। प्रतिवेशोऽसि प्र मा पाहि प्र मा पद्यस्व।।3।।
यशो यशस्वी जने जनसमूहेऽसानि भवानि। श्रेयान्प्रशस्यतरो वस्यसो वसीयसो वसुतराद्वसुमत्तराद्वासानीत्यन्वयः। किं च तं ब्राहृणः कोशभूतं त्वा त्वां हे भग भगवन्पूजावन्प्रविशानि प्रविश्य चानन्यस्त्वदात्मैव भवानीत्यर्थः। स त्वमपि मा मां भग भगवन् प्रविश। आवयोरेकत्वमेवास्तु। तÏस्मस्त्वयि सहरुाशाखे बहुशाखाभेदे हे भगवन्, निमृजे शोधयाम्यहं पापकृत्याम्।
यथा लोक आपः प्रवता प्रवणवता निम्नवता देशेन यन्ति गच्छन्ति। यथा च मासा अहर्जरं संवत्सरोऽहर्जरः। अहोभिः परिवर्तमानो लोकाञ्जरयतीत्यहानि वास्मिञ्जीर्यन्त्यन्तर्भवन्तीत्यहर्जरः। तं च यथा मासा यन्त्येवं मां ब्राहृचारिणो हे धातः सर्वस्य विधातः मामायन्त्वागच्छन्तु सर्वतः सर्वदिग्भ्यः।
प्रतिवेशः - श्रमापनयनस्थानमासन्नगृहमित्यर्थः। एवं त्वं प्रतिवेश इव प्रतिवेशस्त्वच्छीलिनां सर्वपापदुःखापनयनस्थानमसि, अतो मा मां प्रति प्रभाहि प्रकाशयात्मानं प्रपद्यस्व च। मां
रसविद्धमिव लोहं त्वन्मयं त्वदात्मानं कुर्वित्यर्थः।
श्रीकामाऽस्मिन्विद्याप्रकरणेऽभिधीयमानो धनार्थः। धनं च कर्मार्थम्। कर्म चेपात्तदुरितक्षयाय। तत्क्षये हि विद्या प्रकाशते। तथा च स्मृतिः "ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः। यथादर्शतले प्रख्ये पश्यन्त्यात्मानमात्मनि" (महा.शा.204/8, गरुड. 1/237/6) इति ।।3।।
इ ति शीक्षावल्ल्यां चतुर्थोऽनुवाकः।।4।।
पञ्चम अनुवाक
संहिताविषयमुपासनमुक्तं तदनु मेधाकामस्य श्रीकामस्य मन्त्रा अनुक्रान्ताः। ते च पारम्पर्येण विद्योपयोगार्था एव। अनन्तरं व्याह्मत्यात्मनो ब्राहृणोऽन्तरुपासनं स्वराज्यफलं प्रस्तूयते -
भूर्भुवः सुवरिति वा एतास्तिरुाो व्याह्मतयः। तासामुह स्मैतां चतुर्थीं माहाचमस्यः प्रवेदयते। मह इति। तद्ब्राहृ। स आत्मा। अङ्गान्यन्या देवताः। भूरिति वा अयं लोकः। भुव इत्यन्तरिक्षम्। सुवरित्यसौ लोकः।।1।।
मह इत्यादित्यः। आदित्येन वाव सर्वे लोका महीयन्ते। भूरिति वा अग्निः। भुव इति वायुः। सुवरित्यादित्यः। मह इति चन्द्रमाः। चन्द्रमसा वाव सर्वाणि ज्योतीं#ँ#्षि महीयन्ते। भूरिति वा ऋचः। भुव इति सामानि। सुवरिति यजूँ#्षि।।2।।
मह इति ब्राहृ ब्राहृणा वाव सर्वे वेदा महीयन्ते। भूरिति वै प्राणः। भुव इत्यपानः। सुवरिति व्यानः। मह इत्यन्नम्। अन्नेन वाव सर्वे प्राणा महीयन्ते। ता वा एताश्चतरुाश्चतुर्धा चतरुाश्चतरुाो व्याह्मतयः। ता यो वेद। स वेद ब्राहृ। सर्वेऽस्मै देवा बलिमावहन्ति।।3।।
भूर्भुवः सुवरिति; इतीत्युक्तोपप्रदर्शनार्थः। एतास्तिरुा इति च प्रदर्शितानां परामर्शार्थः। परामृष्टाः स्मार्यन्ते वा इत्यनेन। तिरुा एताः प्रसिद्धा व्याह्मतयः स्मार्यन्ते तावत्। तासामियं चतुर्थी व्याह्मतिर्मह इति। तामेतां चतुर्थी महाचमसस्यापत्यं माहाचमस्यः प्रवेदयते। उ ह स्म इत्येतेषां वृत्तानुकथनार्थत्वाद्विदितवान्ददर्शेत्यर्थः। माहाचमस्यग्रहणमार्षानुस्मरणार्थम्। ऋषिस्मरणमप्युपासनाङ्गमिति गम्यत इहोपदेशात्।
येयं माहाचमस्येन दृष्टा व्याह्मतिर्मह इति तद्ब्राहृ महद्धि ब्राहृ महश्च व्याह्मतिः किं पुनस्तत्? स आत्मा आप्नोतेव्र्याप्तिकर्मणः आत्मा इतराश्च व्याह्मतयो लोका देवा वेदाः प्राणश्च मह इत्यनेन व्याह्मत्यात्मनादित्यचन्द्रब्राहृान्नभूतेन व्याप्यन्ते यतः अतोऽङ्गान्यवयवा अन्या देवताः। देवताग्रहणमुपलक्षणार्थं लोकादीनाम्। मह इत्येतस्य व्याह्मत्यात्मनो देवलोकादयः सर्वेऽवयवभूता यतोऽत आहादित्यादिभिर्लोकादयो महीयन्ते इति। आत्मनो ह्रङ्गानि महीयन्ते महनं वृद्धिरुपचयः। महीयन्ते, वर्धन्त इत्यर्थः।
अयं लोकोऽग्निर्ऋग्वेदः प्राण इति प्रथमा व्याह्मतिर्भूरिति। एवमुत्तरोत्तरैकैका चतुर्धा भवति। मह इति ब्राहृ। ब्राहृेत्योङ्कारः, शब्दाधिकारोऽन्यस्यासंभवात्। उक्तार्थमन्यत्।
ता वा एताश्चतरुाश्चतुर्धेति। ता वा एता भूर्भुवः सुवर्मह इति चतरुा एकैकशश्चतुर्धा चतुष्प्रकाराः। धाशब्दः प्रकारवचनः। चतरुाश्चतरुाः सत्यश्चतुर्धा भवन्तीत्यर्थः तासां यथावलृप्तानां
पुनरुपदेशस्तथैवोपासननियमार्थः। ता यथोक्तव्याह्मतीर्यो वेद स वेद विजानाति। किम्? ब्राहृ।
ननु "तत् ब्राहृ स आत्मा" इति ज्ञाते ब्राहृणि न वक्तव्यमविज्ञातवत्स वेद ब्राहृेति।
न, तद्विशेषविवक्षुत्वाददोषः। सत्यं विज्ञातं चतुर्थव्याह्मत्यात्मा ब्राहृेति न तु तद्विशेषो ह्मदयान्तरुपलभ्यत्वं मनोमयत्वादिश्च। 'शान्तिसमृद्धम्' इत्येवमन्तोविशेषणविशेष्यरूपो धर्मपूगो न विज्ञायत इति तद्विवक्षु हि शास्त्रमविज्ञातमिव ब्राहृ मत्वा स वेद ब्राहृेत्याह। अतो न दोषः। यो हि वक्ष्यमाणेन धर्मपूगेन विशिष्टं ब्राहृ वेद स वेद ब्राहृेत्यभिप्रायः। अतो वक्ष्यमाणानुवाकेनैकवाक्यतास्य उभयोह्र्रनुवाकयोरेकमुपासनम्।
लिङ्गाच्च, भूरित्यग्नौ प्रति-तिष्ठतीत्यादिकं लिङ्गमुपासनैकत्वे। विधायकाभावाच्च। न हि 'वेद' 'उपासितव्यः' इति विधायकः कश्चिच्छब्दोऽस्ति। व्याह्मत्यानुवाके 'ता यो वेद' इति च
वक्ष्यमाणार्थत्वान्नोपासनभेदकः। वक्ष्यमाणार्थत्वं च तद्विशेषविवक्षुत्वादित्यादिनोक्तम्। सर्वे देवा अस्मा एवं विदुषेऽङ्गभूता आवहन्त्यानयन्ति बलिं स्वाराज्यप्राप्तौ सत्यामित्यर्थः।।1-3।।
इति पञ्चमोऽनुवाकः।।5।।
षष्ठ अनुवाक
भूर्भुवःसुवःस्वरूपा मह इत्येतस्य व्याह्मत्यात्मनो ब्राहृणोऽङ्गान्यन्या देवता इत्युक्तम्। यस्य ता अङ्गभूतास्तस्य ब्राहृणः साक्षादुपलब्ध्यर्थमुपासनार्थं च ह्मदयाकाशः स्थानमुच्यते शालग्राम इव विष्णोः। तास्मिन्हि तद्ब्राहृोपास्यमानं मनोमयत्वादिघर्मविशिष्टं साक्षादुपलभ्यते पाणाविवामलकम्। मार्गश्च सर्वात्मभावप्रतिपत्तये वक्तव्य इत्यनुवाक आरभ्यते -
स य एषोऽन्तह्र्मदय आकाशः। तस्मिन्नयं पुरुषो मनोमयः। अमृतो हिरण्मयः। अन्तरेण तालुके। य एष स्तन इवावलम्बते। सेन्द्रयोनिः। यत्रासौ केशान्तो विवर्तते। व्यषोह्र शीर्षकपाले भूरित्यग्नौ प्रतितिष्ठति। भुव इति वायौ।।1।।
सुवरित्यादित्ये। मह इति ब्राहृणि। आप्नोति स्वाराज्यम्। आप्नोति मनसस्पतिम्। वाक्पतिश्चक्षुष्पतिः। श्रोत्रपतिर्विज्ञानपतिः। एतत्ततो भवति। आकाशशरीरं ब्राहृ। सत्यात्म प्राणारामं मन आनन्दम्। शान्तिसमृद्धममृतम्। इति प्राचीनयोग्योपास्स्व।।2।।
'सः' इति व्युत्क्रम्य 'अयं पुरुषः' इत्यनेन संबध्यते। य एषोऽन्तह्र्मदये ह्मदयस्यान्तह्र्मदयमिति पुण्डरीकाकारोमांसपिण्डः प्राणायतनोऽनेकनाडीसुषिर ऊध्र्वनालोऽधोमुखो विशस्यमाने पशौ प्रसिद्ध उपलभ्यते। तस्यान्तर्य एष आकाशः प्रसिद्ध एव करकाकाशवत्, तस्मिन्सोऽयं पुरुषः। पुरि शयनात्पूर्णा वा भूरादयो लोका येनेति पुरुषः। मनोमयो मनोविज्ञानम् मनुतेज्र्ञानकर्मणः, तन्मयस्तत्प्रायस्तदुपलम्भत्वात्। मनुतेऽनेनेति वा मनोऽन्तःकरणं तदभिमानी तन्मयस्तल्लिङ्गो वा; अमृतोऽमरणधर्मा हिरण्मयो ज्योतिर्मयः।
तस्यैवंलक्षणस्य ह्मदयाकाशे साक्षात्कृतस्य विदुष आत्मभूतस्येन्द्रस्येदृशस्वरूप प्रतिपत्तये मार्गोऽभिधीयते। ह्मदयादूध्र्वं प्रवृत्ता सुषुम्ना नाम नाडी योगशास्त्रेषु च प्रसिद्धा। सा चान्तरेण मध्ये प्रसिद्धे तालुके तालुकयोर्गता। यश्चैष तालुकयोर्मध्ये स्तन इवावलम्बते मांसखण्डस्य चान्तरेणेत्येतत्। यत्र च केशान्तः केशानामन्तोऽवसानं मूलं केशान्तो विवर्तते विभागेन वर्तते
मूर्धप्रदेश इत्यर्थः तं देशं प्राप्य तत्र विनिःसृता व्यपोह्र विभज्य विदार्य शीर्षकपाले शिरःकपाले विनिर्गता या सेन्द्रियोनिरिन्द्रस्य ब्राहृणो योनिर्मार्गः स्वरूपप्रतिपत्तिद्वारमित्यर्थः।
तयैवं विद्वान्मनोमयात्मदर्शी मूध्र्नो विनिष्क्रम्यास्य लोकस्याधिष्ठाता भूरिति व्याह्मतिरूपो योऽग्निर्महतो ब्राहृणोऽङ्गभूतस्तस्मिन्नग्नौ प्रतितिष्ठत्यग्न्यात्मनेमं लोकं व्याप्नोतीत्यर्थः। तथा भुव इति द्वितीयव्याह्मत्यात्मनि वायौ। प्रतितिष्ठतीत्यनुवर्तते। सुवरिति तृतीयव्याह्मत्यात्मन्यादित्ये। मह इत्यङ्गिनि चतुर्थव्याह्मत्यात्मनि ब्राहृणि प्रतितिष्ठति।
तेष्वात्मभावेन स्थित्वाप्नोति ब्राहृभूतः स्वाराज्यं स्वराड्भावं स्वयमेनं राजाधिपतिर्भवति, अङ्गभूतानां देवानां यथा ब्राहृ। देवाश्च सर्वेऽस्मै बलिमावहन्त्यङ्गभूता यथा ब्राहृणे। आप्नोति मनसस्पतिम्। सर्वेषां हि मनसां पतिः सर्वात्मकत्वाद् ब्राहृणः। सर्वैर्हि मनोभिस्तन्मनुते। तदाप्नोत्येवं विद्वान्। किं च वाक्पतिः सर्वासां वाचां पतिर्भवति। तथैव चक्षुष्पतिश्चक्षुषां पतिः। श्रोत्रपतिः श्रोत्राणां पतिः। विज्ञानपतिर्विज्ञानानां च पतिः। सर्वात्मकत्वात्सर्वप्राणिनां करणैस्तद्वान्भवतीत्यर्थः।
किं च ततोऽप्यधिकतरमेतद्भवति। किं तत्? उच्यते। आकाशशरीरमाकाशः शरीरमस्याकाशवद्वा सूक्ष्मं शरीरमस्येत्याकाशशरीरम्। किं तत्? प्रकृतं ब्राहृ। सत्यात्म सत्यं मूर्तामूर्तमवितथं स्वरूपं चात्मा स्वभावोऽस्य तदिदं सत्यात्म। प्राणारामं प्राणेष्वाराम आक्रीडा यस्य
तत्प्राणारामम्। प्राणानां वारामो यÏस्मस्तत्प्राणारामम्। मन आनन्दम्। आनन्दभूतं सुखकृदेव यस्य मनस्तन्मन आनन्दम्। शान्तिसमृद्धं शान्तिरुपशमः, शान्तिश्च तत्समृद्धं च शान्तिसमृद्धम्। शान्त्या वा समृद्धं तदुपलभ्यत इति शान्तिसमृद्धम्। अमृतममरणधर्मि। एतच्चाधिकरणविशेषणं
तत्रैव मनोमय इत्यादौ द्रष्टव्यमिति। एवं मनोमयत्वादिधर्मैर्विशिष्टं यथोक्तं ब्राहृ हे प्राचीनयोग्य, उपास्स्वेत्याचार्यवचनोक्तिरादरार्था। उक्तस्तूपासनाशब्दार्थः।।1-2।।
इति षष्ठोऽनुवाकः।।4।।
सप्तम अनुवाक
यदेतद् व्याह्मत्यात्मकं ब्राहृोपास्यमुक्तं तस्यैवेदानीं पृथिव्यादिपाङ्क्तस्वरूपेणोपासनमुच्यते। पञ्चसंख्यायोगात्पङ्क्तिच्छब्दः - संपत्तिः। ततः पाङ्क्तत्वं सर्वस्य। पाङ्क्तश्च यज्ञः। "पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः" इति श्रुतेः। तेन यत्सर्वं लोकाद्यात्मान्तं च पाङ्क्तं परिकल्पयति। यज्ञमेव तत्परिकल्पयति। तेन यज्ञेन परिकल्पितेन पाङ्क्तात्मकं प्रजापतिमभिसंपद्यते। तत्कथं पाङ्क्तमिदं सर्वमित्यत आह -
पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशः। अग्निर्वायुरादित्यश्चद्रमा नक्षत्राणि। आप ओषधयो वनस्पतय आकाश आत्मा। इत्यधिभूतम्। अथाध्यात्मम्। प्राणोव्यानोऽपान उदानः समानः। चक्षुः श्रोत्रं मनो वाक् त्वक्। चर्म माँ#्सँ#्स्नावास्थि मञ्जा। एतदधि विधाय ऋषिरवोचत्। पाङ्क्तं वा इदँ#् सर्वम्। पाङ्क्तेनैव पाङ्क्तँ्स्पृणोतीति।। 1 ।।
पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिश इति लोकपाङ्क्तम्। अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणीति देवतापाङ्क्तम्। आप ओषधयो वनस्पतय आकाश आत्मेति भूतपाङ्क्तम्। आत्मेति विराड्भूताधिकारात्। इत्यधिभूतमित्यधिलोकाधिदैवतपाङ्क्तद्वयोपलक्षणार्थम्।
लोकदेवतापाङ्क्तयोश्चाभिहितत्वात्।
अथानन्तरमध्यात्मं पाङ्क्तत्रयमुच्यते 'प्राणादिवायुपाङ्क्तम्। चक्षुरादीन्द्रियपाङ्क्तम्। चर्मादि धातुपाङ्क्तम्।' एतावद्धीदं सर्वमध्यात्मम्, बाह्रं च पाङ्क्तमेवेत्येतदेवमधिविधाय परिकल्प्यर्षिर्वेद एतद्दर्शनसंपन्नो वा कश्चिदृषिरवोचदुक्तवान्। किमित्याह - पाङ्क्तं वा इदं सर्वं पाङ्क्तेनैवाध्यात्मिकेन संख्यासामान्यात्पाङ्क्तं बाह्रं स्पृणोति वलयति पूरयति। एकात्मतयोपलभ्यत इत्येतत्। एवं पाङ्क्तमिदं सर्वमिति यो वेद स प्रजापत्यात्मैव भवतीत्यर्थः।।1।।
इति शीक्षावल्ल्यां सप्तमोऽनुवाकः।।7।।
अष्टम अनुवाक
व्याह्मत्यात्मनो ब्राहृण उपासनमुक्तम्। अनन्तरं च पाङ्क्तस्वरूपेण तस्यैवोपासनमुक्तम्। इदानीं सर्वोपासनाङ्कभूतस्योङ्कारस्योपासनं विधित्स्यते। परापरब्राहृदृष्ट¬ा उपास्यमान ओङ्कारः शब्दमात्रोऽपि परापरब्राहृप्राप्तिसाधनं भवति। स ह्रालम्बनं ब्राहृणः परस्यापरस्य च, प्रतिमेव विष्णोः "एतेनैवायतनेनैकतरमन्वेति" (प्र.उ.5/2) इति श्रुतेः।
ओमिति ब्राहृ। ओमितीदसर्वम्। ओमित्येतदनुकृतिर्ह स्म वा अप्यो श्रावयेत्याश्रावयन्ति। ओमिति सामानि गायन्ति। ओंशोमिति शस्त्राणि शँसन्ति। ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति। ओमिति ब्राहृा प्रसौति। ओमित्यग्निहोत्रमनुजानाति। ओमिति ब्रााहृणः प्रवक्ष्यन्नाह ब्राहृोपाप्नवानीति। ब्राहृैवोपाप्नोति।।1।।
ओमिति इति शब्दः स्वरूपपरिच्छेदार्थः, ओमित्येतच्छब्दरूपब्राहृेति मनसा धारयेदुपासीत। यत ओमितीदं सर्वं हि शब्दरूपमोङ्कारेण व्याप्तम्। 'तद्यथा शङ्कुना' (छा.उ.2/23/3) इति श्रुत्यन्तरात्। अभिधानतन्त्रं ह्रभिधेयमित्यत इदं सर्वमोङ्कार इत्युच्यते।
ओङ्कारस्तुत्यर्थमुत्तरो ग्रन्थः।
उपास्यत्वात्तस्य। ओमित्येतदनुकृतिरनुकरणम्। करोमि यास्यामि चेति कृतमुक्तमोमित्यनुकरोत्यन्यः। अत
ओङ्कारोऽनुकृतिः। ह स्म वा इति प्रसिद्धार्थावद्योतकाः प्रसिद्धमोङ्कारस्यानुकृतित्वम्।
अपि च 'ओ श्रावय'इति प्रैषपूर्वकमाश्रावयन्ति। तथोमिति सामानि गायन्ति सामगाः। ॐशोमितिशस्त्राणि शंसन्ति शस्त्रशंसितारोऽपि। तथोमित्यध्वर्युः प्रतिगरं प्रतिगृणाति। ओमिति ब्राहृा प्रसोत्यनुजानाति प्रैषपूर्वकमाश्रावयति। ओमित्यग्निहोत्रमनुजानाति। जुहोमीत्युक्त ओमित्येवानुज्ञां प्रयच्छति।
ओमित्येव ब्रााहृणः प्रवक्ष्यन् प्रवचनं करिष्यन्नध्येष्यमाण ओमित्येवाह। ओमित्येव प्रतिपद्यतेऽध्येतुमित्यर्थः। ब्राहृवेदमुपाप्नवानीति प्राप्नुयां ग्रहीष्यामीत्युपाप्नोत्येव ब्राहृ। अथवा ब्राहृ परमात्मा तमुपाप्नवानीत्यात्मानं प्रवक्ष्यन्प्रापयिष्यन्नोमित्येवाह स च तेनोङ्कारेण ब्राहृ प्राप्नोत्येव। ओङ्कारपूर्वं प्रवृत्तानां क्रियाणां फलवत्त्वं यस्मात्तस्मादोङ्कारं ब्राहृेत्युपासीतेति वाक्यार्थः।।1।।
इति शीक्षावल्ल्यां अष्टमोऽनुवाकः।।8।।
नवम अनुवाक
विज्ञानादेवाप्नोति स्वाराज्यमित्युक्तत्वाच्छ्रौतस्मार्तानां कर्मणामानर्थक्यं प्राप्तमित्यतस्तन्माप्रापदिति कर्मणां पुरुषार्थं प्रति साधनत्वदर्शनार्थमिहोपन्यासः -
ऋतं च स्वाध्यायप्रवचने च। सत्यं च स्वाध्यायप्रवचने च। तपश्च स्वाध्यायप्रवचने च। दमश्च स्वाध्यायप्रवचने च। शमश्च स्वाध्यायप्रवचने च। अग्नयश्च स्वाध्यायप्रवचने च। अग्निहोत्रं च स्वाध्यायप्रवचने च। अतिथयश्च स्वाध्यायप्रवचने च। मानुषं च स्वाध्यायप्रवचने च। प्रजा च स्वाध्यायप्रवचने च। प्रजनश्च स्वाध्यायप्रवचने च। प्रजातिश्च स्वाध्यायप्रवचने च। सत्यमिति सत्यवचा राथीतरः। तप इति तपोनित्यः पौरुशिष्टिः। स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः। तद्धि तपस्तद्धि तपः।। 1 ।।
ऋतमिति व्याख्यातम्। स्वाध्यायोऽध्ययनम्। प्रवचनमध्यापनं ब्राहृयज्ञोवा। एतान्यृतादीन्यनुष्ठेयानीति वाक्यशेषः। सत्यं च सत्यवचनं यथाव्याख्यातार्थं वा। तपः कृच्छ्रादि। दमो बाह्रकरणोपशमः। शमोऽन्तःकरणोपशमः। अग्नय आधातव्याः। अग्निहोत्रं च होतव्यम्। अतिथयश्च पूज्याः। मानुषमिति लौकिकः संव्यवहारः, तच्च यथा प्राप्तमनुष्ठेयम्। प्रजा चोत्पाद्य प्रजनश्च प्रजनमृतौ भार्यागमनमित्यर्थः। प्रजातिः पौत्रोत्पत्तिः पुत्रो निवेशयितव्य इत्येतत्।
सर्वैरेतैः कर्मभिर्युक्तस्यापि स्वाध्याय प्रवचने यत्नतोऽनुष्ठेये इत्येवर्थं सर्वेण सह स्वाध्यायप्रवचनग्रहणम्। स्वाध्यायाधीनं ह्रर्थज्ञाम्, अर्थज्ञानायत्तं च परं श्रेयः, प्रवचनं च तदविस्मरणार्थं धर्मप्रवृद्ध्यर्थं च। अतः स्वाध्यायप्रवचनयोरादरः कार्यः।
सत्यमिति सत्यमेवानुष्ठातव्यमिति सत्यमेव वचो यस्य सोऽयं सत्यवचा नाम वा तस्य। राथीतरो रथीतरस्य गोत्रो राथीतराचार्यो मन्यते। तप इति तप एव कर्तव्यमिति तपोनित्यस्तपसि नित्यस्तपः परस्तपोनित्य इति वा नाम पौरुशिष्टिः पुरुशिष्टस्यापत्यं पौरुशिष्टिराचार्यो मन्यते। स्वाध्यायप्रवचने एवानुष्ठेये इति नाको नामतो मुद्गलस्यापत्यं मौद्गल्य आचार्यो मन्यते। तद्धि तपस्तद्धि तपः। हि यस्मात्स्वाध्यायप्रवचने एव तपस्तस्मात्ते एवानुष्ठेये इति। उक्तानामपि सत्यतपः स्वाध्यायप्रवचनानां पुनग्र्रहणमादरार्थम्।।1।।
इति शीक्षावल्ल्यां नवमोऽनुवाकः।।9।।
दशम अनुवाक
अहं वृक्षस्य रेरिवेति स्वाध्यायार्थो मन्त्राम्नायः। स्वाध्यायश्च विद्योत्पत्तये। प्रकरणात्। विद्यार्थं हीदं
प्रकरणम्। न चान्यार्थत्वमवगम्यते। स्वाध्यायेन च विशुद्धसत्त्वस्य विद्योत्पत्तिरवकल्पते।
अहं वृक्षस्य रेरिवा। कीर्तिः पृष्ठं गिरेरिव। ऊध्र्वपवित्रो वाजिनीव स्वमृतमस्मि
द्रविणँ#्सवर्चसम्। सुमेधा अमृतोक्षितः। इति त्रिशङ्कोर्वेदानुवचनम्।।1।।
अहं वृक्षस्योच्छेदात्मकस्य संसारवृक्षस्य रेरिवा प्रेरयिताऽन्तर्याम्यात्मना। कीर्तिः ख्यातिगिरैः पृष्ठमिवोच्छ्रिता मम। ऊध्र्वपवित्र ऊध्र्वं कारणं पवित्रं पावनं ज्ञानप्रकाश्यं पवित्रं परमं ब्राहृ यस्य सर्वात्मनो मम सोऽहमूध्र्वपवित्रः। वाजिनीव वाजवतीव। वाजमन्नं तद्वति सवितरीत्यर्थः। यथा सवितर्यमृतमात्मतत्त्वं विशुद्धं प्रसिद्धं श्रुतिस्मृतिशतेभ्य एवं स्वमृतं शोभनं विशुद्धमात्मतत्त्वमस्मि भवामि।
द्रविणं धनं सवर्चसं दीप्तिमत्तदेवात्मतत्त्वमस्मीत्यनुवर्तते। ब्राहृज्ञानं वात्मतत्त्वप्रकाशकत्वात्सवर्चसम्। द्रविणमिव द्रविणं मोक्षसुखहेतुत्वात्। आ पक्षे प्राप्तं मयेत्यध्याहारः।
सुमेधाः शोभना मेधा सर्वज्ञलक्षणा यस्य मम सोऽहं सुमेधाः। संसारस्थित्युत्पत्युपसंहारकौशलयोगात्सुमेधस्त्वम्। अत एवामृतोऽमरणधर्माक्षितोऽक्षीणोऽव्ययः, अक्षतो वा; अमृतेन वोक्षितः सिक्तः। "अमृतोक्षितोऽहम्" इत्यादि ब्रााहृणम्।
इत्येवं त्रिशङ्कोऋषेब्र्राहृभूतस्य ब्राहृविदो वेदानुवचनम्; वेदो वेदनमात्मैकत्वविज्ञानं तस्य प्राप्तिमनुवचनं वेदानुवचनम्। आत्मनः कृतकृत्यताख्यापनार्थं वामदेववत्त्त्रिशङ्कुनार्षेण दर्शनेन दृष्टो मन्त्राम्नाय आत्मविद्याप्रकाशक इत्यर्थः।
अस्य च जपो विद्योत्पत्यर्थोऽवगम्यते। ऋतं चेत्यादिकर्मोपन्यासादनन्तरं च वेदानुवचनपाठादेतदवगम्यत एवं श्रौतस्मार्तेषु नित्येषु कर्मसु युक्तस्य निष्कामस्य परं ब्राहृ विविदिषोरार्षाणि दर्शनानि प्रादुर्भवन्त्यात्मादिविषयाणीति।।1।।
इति शीक्षावल्ल्यां दशमोऽनुवाकः।।10।।
एकादश अनुवाक
वेदमनूच्येत्येवमादिकर्तव्यतोपदेशारम्भः प्राग्ब्राहृविज्ञानान्नियमेन कर्तव्यानि श्रौतस्मार्तकर्माणीत्येवमर्थः। अनुशासनश्रुतेः पुरुषसंस्कारार्थत्वात्। संस्कृतस्य हि विशुद्धसत्त्वस्यात्मज्ञानमञ्जसैवोत्पद्यते "तपसा कल्मषं हन्ति विद्ययामृतमश्नुते" (मनु.12/104) इति स्मृतिः। वक्ष्यति च "तपसा ब्राहृ विजिज्ञासस्व" (तै.उ.3/2/5) इति। अतो विद्योत्पत्त्यर्थमनुष्ठेयानि कर्माणि। अनुशास्तीत्यनुशासनशब्दादनुशासनातिक्रमो हि दोषोत्पत्तिः।
प्रागुपन्यासाच्च कर्मणाम्। केवलब्राहृविद्यारम्भाच्च पूर्वकर्माण्युपन्यस्तानि। उदितायां च ब्राहृविद्यायाम् "अभयं प्रतिष्ठां विन्दते" (तै.उ.2/7/1) "न बिभेति कुतश्च" ((तै.उ.2/9/1) "किमहं साधुनाकरवम्" (तै.उ.2/9/1) इत्येवमादिना कर्मनैष्किञ्चन्यं दर्शयिष्यति; इत्यतोऽवगम्यते पूर्वोपचितदुरितक्षयद्वारेण विद्योत्पत्त्यर्थानि कर्माणीति। मन्त्रवर्णाच्च "अविद्यया मृत्युं तीत्र्वा विद्ययामृतमश्नुते" (ई.उ.11) इति। ऋतादीनां पूर्वत्रोपदेश आनर्थक्यपरिहारार्थः। इह तु ज्ञानोत्पत्त्यर्थत्वात्कर्तव्यतानियमार्थः।
वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति। सत्यं वद। धर्मं चर। स्वाध्यायान्मा प्रमदः। अचार्याय
प्रियं धनमाह्मत्य प्रजातन्तुं मा व्यवच्छेत्सीः। सत्यान्न प्रमदितव्यम्। धर्मान्न प्रमदितव्यम्। कुशलान्न प्रमदितव्यम्। भूत्यै न प्रमदितव्यम्। स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्।।1।।
देवपितृकार्याभ्यां न प्रमदितव्यम्। मातृदेवो भव। पितृदेवो भव। आचार्यदेवो भव। अतिथिदेवो भव। यान्यनवद्यानि कर्माणि। तानि सेवितव्यानि। नो इतराणि। यान्यस्माकँ#्सुचरितानि। तानि त्वयोपास्यानि।।2।।
नो इतराणि। ये के चास्मच्छØत्याँ#्सो ब्रााहृणाः। तेषां त्वयासनेन प्रश्वसितव्यम्। श्रद्धया देयम्। अश्रद्धयाऽदेयम्। श्रिया देयम्। ह्यिया देयम्। भिया देयम्। संविदा देयम्। अथ यदि ते कर्मविचिकित्सा वा
वृत्तिविचिकित्सा वा स्यात्।।3।।
ये तत्र ब्रााहृणाः संमर्शिनः। युक्ता आयुक्ताः। अलूक्षा धर्मकामाः स्युः। यथा ते तत्र वर्तेरन्। तथा तत्र वर्तेथाः। अथाभ्याख्यातेषु। ये तत्र ब्रााहृणाः।
संमर्शिनः। युक्ता आयुक्ताः। अलूक्षा धर्मकामाः स्युः। यथा ते तेषु वर्तेरन्। तथा तेषु वर्तेथाः। एष आदेशः। एष उपदेशः। एषा वेदोपनिषत्। एतदनुशासनम्। एवमुपासितव्यम्। एव मु चैतदुपास्यम्।।4।।
वेदमनूच्याध्याप्याचार्योऽन्तेवासिनं शिष्यमनुशास्ति ग्रन्थग्रहणादनु पश्चाच्छास्ति तदर्थं ग्राहयतीत्यर्थः, अतोवगम्यतेऽधीतवेदस्य धर्मजिज्ञासामकृत्वा गुरुकुलान्न समावर्तितव्यमिति। "बुद्ध्वा कर्माणि चारभेत्" इति स्मृतेश्च। कथमनुशास्तीत्याह -
सत्यं वद यथाप्रमाणावगतं वक्तव्यं तद्वद। तद्वद्धर्मं चर। धर्म इत्यनुष्ठेयानां सामान्यवचनंसत्यादिविशेषनिर्देशात्। स्वाध्यायादध्ययनान्मा प्रमदः प्रमादं मा कार्षीः। आचार्यायाचार्यार्थं प्रियमिष्टं धनमाह्मत्यानीय दत्त्वा विद्यानिष्क्रम्यार्थम्, आचार्येण चानुज्ञातोऽनुरूपान्दारानाह्मत्य प्रजातन्तुं प्रजासन्तानं मा व्यवच्छेत्सीः। प्रजासन्ततेर्विच्छित्तिर्न कर्तव्या। अनुत्पद्यमानेऽपि पुत्रे
पुत्रकाम्यादिकर्मणा तदुत्पत्तौ यत्नः कर्तव्य इत्यभिप्रायः। प्रजाप्रजनप्रजातित्रयनिर्देशसामथ्र्यात्। अन्यथा प्रजनश्चेत्येतदेकमेवावक्ष्यत्।
सत्यान्न प्रमदितव्यं प्रमादो न कर्तव्यः। सत्याच्च प्रमदनमनृतप्रसङ्गः, प्रमादशब्दसामथ्र्यात्। विस्मृत्याप्यनृतं न वक्तव्यमित्यर्थः। अन्यथासत्यवदनप्रतिषेध एव स्यात्। धर्मान्न प्रमदितव्यम्। धर्मशब्दस्यानुष्ठेयविषयत्वादननुष्ठानं प्रमादः स न कर्तव्यः। अनुष्ठातव्य एव धर्म इति यावत्। एवं कुशलादात्मरक्षार्थात्कर्मणो न प्रमदितव्यम्। भूतिर्विभूतिस्तस्यै भूत्यै भूत्यर्थान्मङ्गलयुक्तात्कर्मणो न प्रमदितव्यम्। स्वाध्यायोऽध्ययनं प्रवचनमध्यापनं ताभ्यां न प्रमादितव्यम्। ते हि नियमेन कर्तव्ये इत्यर्थः।।1।।
तथा देवपितृकार्याभ्यां न प्रमदितव्यम्। दैवपित्र्ये कर्मणी कर्तव्ये।
मातृदेवो माता देवो यस्य स त्वं मातृदेवो भव स्याः। एवं पितृदेव आचार्यदेवो भव। देवतावदुपास्या एत इत्यर्थः। यान्यपि चान्यान्यनवद्यान्यनिन्दितानि शिष्टाचारलक्षणानि कर्माणि तानि सेवितव्यानि कर्तव्यानि त्वया। नो न कर्तव्यानि त्वया। नो न कर्तव्यानीतराणि सावद्यानि शिष्टकृतान्यपि। यान्यस्माकमाचार्याणां सुचरितानि शोभनचरितान्याम्नायाद्यविरुद्धानि तान्येव त्वयोपास्यान्यदृष्टार्थान्यनुष्ठेयानि, नियमेन कर्तव्यानीति यावत्।।2।। नो इतराणि
विपरीतान्याचार्यकृतान्यपि।
ये के च विशेषिता आचार्यत्वादिधर्मैरस्मदस्मत्तः श्रेयांसः प्रशस्यतरास्ते च ब्रााहृणा न क्षत्रियादयस्तेषामासनेनासनदानादिना त्वया प्रश्वसितव्यम्। प्रश्वसनं प्रश्वासः श्रमापनयः। तेषां श्रमस्त्वयापनेतव्य इत्यर्थः। तेषां चासने गोष्ठीनिमित्ते समुदिते तेषु न प्रश्वसितव्यं प्रश्वासोऽपि न कर्तव्यः केवलं तदुक्तसारग्राहिणा भवितव्यम्।
किं च यत्किचिद्देयं तच्छØद्ध्यैव दातव्यम्। अश्रद्धया अदेयं न दातव्यम्। श्रिया विभूत्या देयं दातव्यम्। ह्यिया लज्जया च देयम्। भिया भीत्या च देयम्। संविदा च मैत्र्यादिकार्येण देयम्।
अथैवं वर्तमानस्य यदि कदाचित्ते तव श्रौते स्मार्ते वा कर्मणि वृत्ते वाचारलक्षणे विचिकित्सा संशयः स्यात्।।3।। ये तत्र तस्मिन् देशे काले वा ब्रााहृणास्तत्र कर्मादौ युक्ता इति व्यवहितेन संबन्धः कर्तव्यः। संमर्शिनो विचारक्षमाः। युक्ता अभियुक्ताः कर्मणि वृत्ते वा आयुक्ता अपरप्रयुक्ताः। अलूक्षा अरूक्षा अक्रूरमतयः। धर्मकामा अदृष्टार्थिनोऽकामहता इत्येतत्, स्युर्भवेयुः। ते यथा येन प्रकारेण ब्रााहृणास्तत्र तस्मिन् कर्मणि वृत्ते वा वर्तेरंस्तथा त्वमपि वर्तेथाः। अथाभ्याख्यातेषु, अभ्याख्याता अभ्युक्ता दोषेण संदिह्रमानेन संयोजिता। केन चित्तेषु च यथोक्तं सर्वमुपनयेद्ये तत्रेत्यादि।
एष आदेशो विधिः। एष उपदेशः पुत्रादिभ्यः पित्रादीनाम्। एषा वेदोपनिषद्वेदरहस्यं वेदार्थं इत्येतत्। एतदेवानुशासनमीश्वरवचनम्। आदेशवाक्यस्य विधेरुक्तत्वात्सर्वेषां वा प्रमाणभूतानामनुशासनमेतत्। यस्मादेवं तस्मादेवं यथोक्तं सर्वमुपासितव्यं कर्तव्यम्। एवमु चैतदुपास्यमुपास्यमेव चैतन्नानुपास्यमित्यादरार्थं पुनर्वचनम्।।4।।
अत्रैतच्चिन्त्यते विद्याकर्मणोर्विवेकार्थं किं कर्मभ्य एव केवलेभ्यः परं श्रेय उत विद्यासव्यपेक्षेभ्य
आहोस्विद्विद्याकर्मभ्यां संयताभ्यां विद्याया वा कर्मापेक्षाया उत केवलाया एव विद्याया इति?
तत्र केवलेभ्य एव कर्मभ्यः स्यात्। समस्तवेदार्थज्ञानवतः कर्माधिकारात् "वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना" इति स्मरणात्। अधिगमश्च सहोपनिषदर्थेनात्मज्ञानादिना।
"विद्वान्यजते""विद्वान्याजयति"इतिच विदुष एव कर्मव्यधिकारः प्रदश्र्यते सर्वत्र "ज्ञात्वा चानुष्ठानं" इतिच। कृत्स्नश्च वेदः कर्मार्थ इति हि मन्यन्ते केचित्। कर्मभ्यश्चेत्परं श्रेयो नावाप्यते वेदोऽनर्थकः स्यात्।
न; नित्यत्वान्मोक्षस्य, नित्यो हि मोक्ष इष्यते। कर्मकार्यस्यानित्यत्वं प्रसिद्धं लोके। कर्मभ्यश्चेच्छ्रेयो नित्यं स्यात्तच्चानिष्टम्। "तद्यथेह कर्मचितो लोकः क्षीयते" (छा.उ.8।1।6) इति न्यायानुगृहीतश्रुतिविरोधात्।
काम्यप्रतिषिद्धयोरनारम्भादारब्धस्य च कर्मण उपभोगेन क्षयान्नित्यानुष्ठानाच्च तत्प्रत्यवायानुत्पत्तेज्र्ञाननिरपेक्ष एव मोक्ष इति चेत्?
तच्च न; शेषकर्मसंभवात्तन्निमित्तशरीरान्तरोत्पत्तिः प्राप्नोतीति प्रत्युक्तम्। कर्मशेषस्य च नित्यामुष्ठानेनाविरोधात्क्षयानुपपत्तिरिति च।
यदुक्तं समस्तवेदार्थज्ञानवतः कर्माधिकारादित्यादि, तच्च न, श्रुतज्ञानव्यतिरेकादुपासनस्य। श्रुतज्ञानमात्रेण हि कर्मण्यधिक्रियते नोपासनामपेक्षते। उपासनं च श्रुतज्ञानमात्रेण हि
कर्मण्यधिक्रियते नोपासनामपेक्षते। उपासनं च श्रुतज्ञानादर्थान्तरं विधीयते। मोक्षफलमर्थान्तरप्रसिद्धं च स्यात्। 'श्रोतव्यः' इत्युक्त्वातद्व्यतिरेकेण 'मन्तव्यो निदिध्यासितव्यः' इतियत्नान्तरविधानात्। मनननिदिध्यासनयोश्च प्रसिद्धं श्रवणज्ञानार्थान्तरत्वम्।
एवं तर्हि विद्यासव्यपेक्षेभ्यः कर्मभ्यः स्यान्मोक्षः विद्यासहितानां च कर्मणां भवेत्कार्यान्तरारम्भसामथ्र्यम्। यथा स्वतो मरणज्वरादिकार्यारम्भसमर्थानामपि विषदध्यादीनां मन्त्रशर्करादिसंयुक्तानां कार्यान्तरारम्भसामथ्र्यम्, एवं विद्यासहितैः कर्मभिर्मोक्ष आरभ्यत इति चेत्?
न; आरभ्यस्यानित्यत्वादित्युक्तो दोषः।
वचनादारभ्योऽपि नित्य एवेति चेत्?
न; ज्ञापकत्वाद्वचनस्य। वचनं नाम यथाभूतस्यार्थस्य ज्ञापकं नाविद्यामानस्य कर्तृ। न हि वचनशतेनापि नित्यमारभ्यत आरब्धं वाविनाशि भवेत्।
एतेन विद्याकर्मणोः संहतयोर्मोक्षारम्भकत्वं प्रत्युक्तम्।
विद्याकर्मणी मोक्षप्रतिबन्धहेतुनिवर्तके इति चेत् - न, कर्मणः फलान्तरदर्शनात्। उत्पत्तिसंस्कारविकाराप्तयो हि फलं कर्मणो दृश्यते। उत्पत्त्यादिफलविपरीतश्च मोक्षः।
गतिश्रुतेराप्य इति चेत्। 'सूर्यद्वारेण', 'तयोध्र्वमायन्' (क.उ.2.3.16) इत्येवमादिगतिश्रुतिभ्यः प्राप्यो मोक्ष इति चेत्।
न; सर्वगतत्वाद्गन्तृभिश्चानन्यत्वादाकाशादिकारणत्वात्सर्वगतं ब्राहृ। ब्राहृाव्यतिरिक्ताश्च सर्वे विज्ञानात्मनः। अतो नाप्यो मोक्षः। गन्तुरन्यद्विभिन्नं देशं प्रति भवति गन्तव्यम्। न हि ये नैवाव्यतिरिक्तं यत्तत्तेनैव गम्यते। तदनन्यत्वप्रसिद्धेश्च "तत्सृष्ट्वा तदेवानुप्राविशत्" (तै.उ.2.6.1) 'क्षेत्रज्ञं चापि मां विद्धि' (गीता 13.2) इत्येवमादिश्रुतिस्मृतिशतेभ्यः।
गत्यैश्वर्यादिश्रुतिविरोध इति चेत्। अथापि स्याद्यद्यप्राप्यो मोक्षस्तदा गतिश्रुतीनां "स एकधा"(छा.उ.7.26.2) "स यदि पितृलोककामो भवति" (छा.उ.8.2.1) "स्त्रीभिर्वा यानैर्वा"
(छा.उ.8.12.3) इत्यादि श्रुतीनां च कोपः स्यादिति चेत्।
न; कार्यब्राहृविषयत्वात्तासाम्। कार्ये हि ब्राहृणि स्त्र्यादयः स्युर्न कारणे। "एकमेवाद्वितीयम्" (छा.उ.6.2.1) "यत्र नान्यत्पश्यति" (छा.उ.7.24.1) "तत्केन कं पश्येत्" (बृ.उ.2.4.14; 4.5.15) इत्यादि श्रुतिभ्यः।
विरोधाच्च विद्याकर्मणोः समुच्चयानुपपत्तिः। प्रविलीनकत्र्रादिकारकविशेषतत्त्वविषया हि विद्या तद्विपरीतकारकसाध्येन कर्मणा विरुध्यते न ह्रेकं वस्तु परमार्थतः कत्र्रादिविशेषवत्तच्छून्यं चेत्युभयथा द्रष्टुं शक्यते। अवश्यं ह्रन्यतरन्मिथ्या स्यात्। अन्यतरस्य च मिथ्यात्वप्रसङ्गे युक्तं यत्स्वाभाविकाज्ञानविषयस्य द्वैतस्य
मिथ्यात्वम्। "यत्र हि""द्वैतमिव भवति" (बृ.उ.2.4.14) "मृत्योः स मृत्युमाप्नोति" (क.उ.2.1.10, बृ.उ.4.4.19)) "अथ यत्रान्यत्पश्यति ........तदल्पम्" (छा.उ.7.24.1) अन्योऽसावन्योऽहमस्मि (बृ.उ.1.4.10) "उदरमन्तरं कुरुते अथ तस्य भयं भवति" (तै.उ.2.7.1) इत्यादिश्रुतिशतेभ्यः।
सत्यत्वं चैकत्वस्य एकधैवानुद्रष्टव्यम् (बृ.उ.4.4.20) "एकमेवाद्वितीयम्"(छा.उ.6.2.1) "ब्राहृैवेद #ँ#्सर्वम्"(मु.उ.2.2.11) "आत्मैवेदंसर्वम्"(छा.उ.7.25.2) इत्यादिश्रुतिभ्यः। न च संप्रदानादिकारकभेदादर्शने कर्मोपपद्यते। अन्यत्वदर्शनापवादश्च विद्याविषये सहरुाशः श्रूयते। अतो
विरोधो विद्याकर्मणोः। अतश्च समुच्चयानुपपत्तिः। तत्र यदुक्तं संहताभ्यां विद्याकर्मभ्यां मोक्ष इति, अनुपपन्नं तत्।
विहितत्वात्कर्मणां श्रुतिविरोध इति चेत्। यद्युपमृद्य कत्र्रादिकारकविशेषमात्मैकत्वविज्ञानं विधीयते सर्पादिभ्रान्तिविज्ञानोपमर्दकरज्जवादिविषयविज्ञानवत्प्राप्तः कर्मविधिश्रुतीनां निर्विषयत्वाद्विरोधः। विहितानि च कर्माणि। स च विरोधो न युक्तः प्रमाणत्वाच्छØतीनामिति चेत्?
न; पुरुषार्थोपदेशपरत्वाच्छØतीनाम्। विद्योपदेशपरा तावच्छØतिः संसारात्पुरुषो मोक्षयितव्य इति संसारहेतोरविद्याया विद्यया निवृत्तिः कर्तव्येति विद्याप्रकाशकत्वेन प्रवृत्तेति न विरोधः।
एवमपि कत्र्रादिकारकसद्भावप्रतिपादनपरं शास्त्रं विरुध्यत एवेति चेत्?
न; यथाप्राप्तमेव कारकास्तित्वमुपादायोपात्तदुरितक्षयार्थं कर्माणि विदधच्छास्त्रं मुमुक्षूणां फलार्थिनां च फलसाधनं न कारकास्तित्वे व्याप्रियते। उपचितदुरितप्रतिबन्धस्य हि विद्योत्पत्तिर्नावकल्पते। तत्क्षये च विद्योत्पत्तिः स्यात्ततश्चाविद्यानिवृत्तिस्तत आत्यन्तिकः संसारोपरमः।
अपि चानात्मदर्शिनो ह्रनात्मविषयः कामः। कामयमानश्च करोति कर्माणि। ततस्तत्फलोपभोगाय शरीराद्युपादानलक्षणः संसारः। तद्व्यतिरेकेणात्मैकत्वदर्शिनो विषयाभावात्कामानुत्पत्तिरात्मनि चानन्यत्वात्कामानुत्पत्तौ स्वात्मन्यवस्थानं मोक्ष इत्यतोऽपि विद्याकर्मणोर्विरोधः। विरोधादेव विद्या मोक्षं प्रति न कर्माण्यपेक्षते।
स्वात्मलाभे तु पूर्वोपचितप्रतिबन्धापनयद्वारेण विद्याहेतुत्वं प्रतिपद्यन्ते कर्माणि नित्यानीति। अत एवास्मिन्प्रकरण उपन्यस्तानि कर्माणीत्यवोचाम। एवं चाविरोधः कर्मविधिश्रुतीनाम् अतः केवलाया एव विद्यायाः परं श्रेय इति सिद्धम्।
एवं तह्र्राश्रमान्तरानुपपत्तिः कर्मनिमित्तत्वाद्विद्योत्पत्तेः। गार्हस्थ्ये च विहितानि कर्माणीत्यैकाश्रम्यमेव। अतश्च यावज्जीवादिश्रुतयोऽनुकूलतराः।
न; कर्मानेकत्वात्। न ह्रग्निहोत्रादीन्येव कर्माणि। ब्राहृचर्यं तपः सत्यवदनं शमो दमोऽहिंसेत्येवमादीन्यपि कर्माणीतराश्रमप्रसिद्धानि विद्योत्पत्तौ साधकतमान्यसंकीर्णत्वाद्विद्यन्ते ध्यानधारणादिलक्षणानि च। वक्ष्यति च - "तपसा ब्राहृ विजिज्ञासस्व" (तै.उ.3.2.5) इति।
जन्मान्तरकृतकर्मभ्यश्च प्रागपि गार्हस्थ्याद्विद्योत्पत्तिसंभवात्कर्मार्थत्वाच्च गार्हस्थ्यप्रतिपत्तेः कर्मसाघ्यायां च विद्यायां सत्यां गार्हस्थ्यप्रतिपत्तिरनर्थिकैव।
लोकार्थत्वाच्च पुत्रादीनाम्; पुत्रादि साध्येभ्यश्चायं लोकः पितृलोको देवलोक इत्येतेभ्यो व्यावृत्तकामस्य नित्यसिद्धात्मलोकदर्शिनः कर्मणि प्रयोजनमपश्यतः कथं प्रवृत्तिरुपपद्यते। प्रतिपन्नगार्हस्थ्यस्यापि विद्योत्पत्तौ विद्यापरिपाकाद्विरक्तस्य कर्मसु प्रयोजनमपश्यतः कर्मभ्यो निवृत्तिरेव स्यात्। "प्रव्रजिष्यन्वा अरेऽहमस्मात्स्थानादस्मि" (बृ.उ.4.5.2) इत्येवमादिश्रुतिलिङ्गदर्शनात्।
कर्म प्रति श्रुतेर्यत्नाधिक्यदर्शनादयुक्तमिति चेदग्निहोत्रादि कर्म प्रति श्रुतेरधिको यत्नो महांश्च कर्मण्यायासोऽनेकसाधनसाध्यत्वादग्निहोत्रादीनाम्। तपोब्राहृचर्यादीनां चेतराश्रमकर्मणां गार्हस्थ्येऽपि समानत्वादल्पसाधनापेक्षत्वाच्चेतरेषां न युक्तस्तुल्यवद्विकल्प आश्रमिभिस्तस्येति चेत्।
न; जन्मान्तरकृतानुग्रहात्। यदुक्तं कर्मणि श्रुतेरधिको यत्न इत्यादि नासौ दोषः यतो
जन्मान्तरकृतमप्यग्निहोत्रादिलक्षणं कर्म ब्राहृचर्यादिलक्षणं चानुग्राहकं भवति विद्योत्पतिं्त प्रति। येन जन्मनैव विरक्ता दृश्यन्ते केचित्। केचित्तु कर्मसु प्रवृत्ता अविरक्ता विद्याविद्वेषिणः। तस्माज्जन्मान्तरकृतसंस्कारेभ्यो
विरक्तानामाश्रमान्तरप्रतिपत्तिरेवेष्यते।
कर्मफलबाहुल्याच्च; पुत्रस्वर्गब्राहृवर्चसादिलक्षणस्य कर्मफलस्यासंख्येयत्वात्, तत्प्रति च पुरुषाणां कामबाहुल्यात्तदर्थः श्रुतेरधिको यत्नः कर्मसूपपद्यते। आशिषां बाहुल्यदर्शनादिदं मे स्यादिदं मे स्यादिति।
उपायत्वाच्च उपायभूतानि हि कर्माणि विद्यां प्रतीत्यवोचाम। उपायेऽधिको यत्नः कर्तव्यो नोपेये।
कर्मनिमित्तत्वाद्विद्यया यत्नान्तरानर्थक्यमिति चेत्कर्मभ्यः एव पूर्वोपचितदुरितप्रतिबन्धक्षयादेव विद्योत्पद्यते चेत्कर्मभ्यः पृथगुपनिषच्छ्रवणादियत्नोऽनर्थक इति चेत्।
न; नियमाभावात्। न हि प्रतिवन्धक्षयादेव विद्योत्पद्यते न त्वीश्वरप्रसादतपोध्यानाद्यनुष्ठानादिति नियमोऽस्ति। अहिंसाब्राहृचर्यादीनां च विद्यां प्रत्युपकारकत्वात्साक्षादेव च कारणत्वाच्छ्रवणमनननिदिध्यासनानाम्। अतः सिद्धान्याश्रमान्तराणि सर्वेषां चाधिकारे विद्यायां परं च श्रेयः केवलाया विद्याया एवेति सिद्धम्।
इति शिक्षावल्यामेकादशोऽनुवाकः।।11।।
द्वादश अनुवाकः
अतीतविद्याप्राप्त्युपसर्गशमनार्थं शाÏन्त पठति -
शं नो मित्रः शं वरुणः। शं नो भवत्यर्यमा इत्यादि व्याख्यातमेतत्पूर्वम्।।1।।
इति शीक्षावल्ल्यां द्वादशोऽनुवाकः।।12।।
ब्राहृानन्दवल्ली
प्रथम अनुवाक
अतीतविद्याप्राप्त्युपसर्गप्रशमनार्था शान्तिः पठिता। इदानीं तु वक्ष्यमाणब्राहृविद्याप्राप्त्युपसर्गोपशमनार्था शान्तिः पठ¬ते -
ॐ सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवावहै। तेजस्वि नावधीतमस्तु। मा विद्विषावहै।
ॐ शान्तिः!शान्तिः!!शान्तिः!!!
सह नाववतु। नौ शिष्याचार्यौ सहैवावतु रक्षतु। सह नौ भुनक्तु भोजयतु। सह वीर्यं विद्यादिनिमित्तं सामथ्र्यं करवावहै निर्वर्तयावहै। तेजस्वि नावावयोस्तेजस्विनोरधीतं स्वधीतमस्तु। अर्थज्ञानयोग्यमस्त्वित्यर्थः। मा विद्विषावहै;विद्याग्रहणनिमित्तं शिष्यस्याचार्यस्य वा प्रमादकृतादन्यायाद्विद्वेषः प्राप्तस्तच्छमनाय इयमाशीर्मा विद्विषावहा इति। मैवेदरेतरं
विद्वेषमापद्यावहै।
शान्तिः शान्तिः शान्तिरिति त्रिर्वचनमुक्तार्थम्। वक्ष्यमाणविद्याविघ्नप्रशमनार्था चेयं शान्तिः। अविघ्नेनात्मविद्याप्राप्तिराशास्यते तन्मूलं हि परं श्रेय इति।
संहितादिविषयाणि कर्मभिरविरुद्धान्युपासनान्युक्तानि। अनन्तरं चान्तःसोपाधिकात्मदर्शनमुक्तं व्याह्मतिद्वारेण स्वाराज्यफलम्। न चैतावताशेषतः संसारबीजस्योपमर्दनमस्तीत्यतोऽशेषोपद्रवबीजस्याज्ञानस्य निवृत्त्यर्थं विधूतसर्वोपाधिविशेषात्मदर्शनार्थमिदमारभ्यते - ब्राहृविदाप्नोति परमित्यादि।
प्रयोजनं चास्या ब्राहृविद्याया अविद्यानिवृत्तिस्तत आत्यन्तिकः संसाराभावः। वक्ष्यति च - विद्वान्न बिभेति कुतश्चन (तै.उ.2।9।1)इति। संसारनिमित्ते च सत्यभयं प्रतिष्ठां च विन्दत इत्यनुपपन्नम्, कृताकृते पुण्यपापे न तपत इति च। अतोऽवगम्यतेऽस्माद्विज्ञानात्सर्वात्मब्राहृविषयादात्यन्तिकः संसाराभाव इति।
स्वयमेव च प्रयोजनमाह ब्राहृविदाप्नोति परमित्यादावेव सम्बन्धप्रयोजनज्ञापनार्थम्। निज्र्ञातयोर्हि सम्बन्धप्रयोजनयोर्विद्याश्रवणग्रहणधारणाभ्यासार्थं प्रवर्तते। श्रवणादिपूर्वकं हि विद्याफलम् "श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" (बृ.उ.2।4।5)इत्यादिश्रुत्यन्तरेभ्यः।
ब्राहृविदाप्नोति परम्। तदेषाभ्युक्ता। सत्यं ज्ञानमनन्तं ब्राहृ। यो वेद निहितं गुहायां परमे व्योमन्।
सोऽश्नुते सर्वान् कामान् सह ब्राहृणा विपश्चितेति। तस्माद्वा एतस्मादात्मन आकाशः संभूतः। आकाशाद्वायुः। वायोरग्निः। अग्नेरापः। अद्भ्यः पृथिवी। पृथिव्या ओषधयः। ओषधीभ्योऽन्नम्। अन्नात्पुरुषः। स वा एष पुरुषोऽन्नरसमयः। तस्येदमेव शिरः। अयं दक्षिणः पक्षः। अयमुत्तर पक्षः। अयमात्मा। इदं पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति।। 2.1.1 ।।
ब्राहृविद् ब्राहृेति वक्ष्यमाणलक्षणं बृहत्तमत्वाद् ब्राहृ तद्वेत्ति विजानातीति ब्राहृविदाप्नोति परं निरतिशयं तदेव ब्राहृ परम्। न ह्रन्यस्य विज्ञानादन्यस्य प्राप्तिः। स्पष्टं च श्रुत्यन्तरं ब्राहृप्राप्तिमेव ब्राहृविदो दर्शयति "स यो ह वै तत्परमं ब्राहृ वेद ब्राहृैव भवति" (मु.उ.3.2.9)इत्यादि।
ननु सर्वगतं सर्वस्यात्मभूतं ब्राहृ वक्ष्यति। अतो नाप्यम्। प्राप्तिश्चान्यस्यान्येन परिच्छिन्नस्य च परिच्छिन्नेन दृष्टा। अपरिच्छिन्नं सर्वात्मकं च ब्राहृेत्यतः परिच्छिन्नवदनात्मवच्च तस्याप्तिरनुपन्ना।
नायं दोषः;कथम्?दर्शनादर्शनापेक्षत्वाद्ब्राहृण आप्त्यनाप्त्योः परमार्थतो ब्राहृरूपस्यापि सतोऽस्य जीवस्य भूतमात्राकृतबाह्रपरिच्छिन्नान्नमयाद्यात्मदर्शिनस्तदासक्तचेतसः प्रकृतसंख्यापूरणस्यात्मनोऽव्यवहितस्यापि बाह्रसंख्येयविषयासक्तवित्ततया स्वरूपाभावदर्शनवत्परमार्थब्राहृस्वरूपाभावदर्शनलक्षणयाविद्ययान्नमयादीन्बाह्राननात्मन आत्मत्वेन प्रतिपन्नत्वादन्नमयाद्यनात्मभ्यो नान्योऽहमस्मीत्यभिमन्यते। एवमविद्ययात्मभूतमपि ब्राहृानाप्तं स्यात्।
तस्यैवमविद्ययानाप्तब्राहृस्वरूपस्य प्रकृतसंख्यापूरणस्यात्मनोऽविद्ययानाप्तस्य सतः केनचित्स्मारितस्य पुनस्तस्यैव विद्ययाप्तिर्यथा तथा श्रुत्युपदिष्टस्य सर्वात्मब्राहृण आत्मत्वदर्शनेन विद्यया तदाप्तिरुपपद्यत एव।
ब्राहृविदाप्नोति परमिति वाक्यं सूत्रभूतम्। सर्वस्य वल्ल्यर्थस्य ब्राहृविदाप्नोति परमित्यनेन वाक्येन वेद्यतया सूत्रितस्य ब्राहृणोऽनिर्धारितस्वरूपविशेषस्य सर्वतो
व्यावृत्तस्वरूपविशेषसमर्पणसमर्थस्य लक्षणस्याविशेषेण चोक्तवेदनस्य ब्राहृणो वक्ष्यमाणलक्षणस्य विशेषेण प्रत्यगात्मतयाऽनन्यरूपेण विज्ञेयत्वाय, ब्राहृविद्याफलं च ब्राहृविदो यत्परब्राहृप्राप्तिलक्षणमुक्तं स सर्वात्मभावः सर्वसंसारधर्मातीतब्राहृस्वरूपत्वमेव नान्यदित्येतत्प्रदर्शनायैषर्गुदाह्यियते - - तदेषाभ्युक्तेति।
तत्तस्मिन्नेव ब्रााहृणवाक्योक्तेऽर्थं एषर्गभ्युक्ताम्नाता। सत्यं ज्ञानमनन्तं ब्राहृेति ब्राहृणो लक्षणार्थं वाक्यम्। सत्यादीनि हि त्रीणि विशेषणार्थानि पदानि विशेष्यस्य ब्राहृणः। विशेष्यं ब्राहृ विवक्षितत्वाद्वेद्यतया। वैद्यत्वेन यतो ब्राहृप्राधान्येन विवक्षितं तस्माद्विशेष्यं विज्ञेयम् अतः अस्माद् विशेषणविशेष्यत्वादेव सत्यादीनि एकविभक्त्यन्तानि पदानि समानाधिकरणानि। सत्यादिभिस्त्रिभिर्विशेष्यमाणं ब्राहृ विशेष्यान्तरेभ्यो निर्धार्यते। एवं हि तज्ज्ञानं भवति यदन्येभ्यो निर्धारितम्। यथा लोके नीलं महत्सुगन्ध्युत्पलमिति।
ननु विशेष्यं विशेषणान्तरं व्यभिचरद्विशेष्यते। यथा नीलं रक्तं चोत्पलमिति। यदा ह्रनेकानि द्रव्याण्येकजातीयान्यनेकविशेषणयोगीनि च तदा विशेषणस्यार्थवत्त्वम्। न ह्रेकस्मिन्नेव वस्तुनि विशेषणान्तरायोगात्। यथासावेक आदित्य इति, तथैकमेव च ब्राहृ न ब्राहृान्तराणि येभ्यो विशेष्येत नीलोत्पलवत्।
न;लक्षणार्थत्वाद्विशेषणानाम्। नायं दोषः कस्मात्?यस्माल्लक्षणार्थप्रधानानि विशेषणानि न विशेषणप्रधानान्येव। कः पुनर्लक्षणलक्ष्ययोर्विशेषणविशेष्ययोर्वा विशेष इति?उच्यते;समानजातीयेभ्य एव निवर्तकानि विशेषणानि विशेष्यस्य। लक्षणं तु सर्वत एव यथावकाप्रदात्राकाशमिति। लक्षणार्थं च वाक्यमित्यवोचाम।
सत्यादिशब्दा न परस्परं संबध्यन्ते परार्थत्वात्। विशेष्यार्था हि ते। अत एकैको विशेषणशब्दः परस्परं निरपेक्षो ब्राहृशब्देन संबध्यते। सत्यं ब्राहृ ज्ञानं ब्राहृानन्तं ब्राहृेति।
सत्यमिति यद्रूपेण यन्निश्चितं तद्रूपं न व्यभिचरति तत्सत्यम्। यद्रूपेण निश्चितं यत्तद्रूपं व्यभिचरदनृतमित्युच्यते। अतो विकारोऽनृतम्। "वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्" (छा.उ.6।1।4) एवं सदेव सत्यमित्यवधारणात्। अतः सत्यं ब्राहृेति ब्राहृ विकारान्निवर्तयति।
अतः कारणत्वं प्राप्तं ब्राहृणः। कारणस्य च कारकत्वं वस्तुत्वान्मृद्वदचिद्रूपता च प्राप्तात इदमुच्यते ज्ञानं
ब्राहृेति ज्ञानं ज्ञाप्तिरवबोधः, भावसाधनो ज्ञानशब्दो न तु ज्ञानकर्तृ ब्राहृविशेषणत्वात्सत्यानन्ताभ्यां सह। न हि सत्यताऽनन्तता च ज्ञानकर्तृत्वे सत्युपपद्यते. ज्ञानकर्तृत्वेन हि विक्रियमाणं कथं सत्यं भवेदनन्तं च। यद्धि न कुतश्चित्प्रविभज्यते तदनन्तम्। ज्ञानकर्तृत्वे च ज्ञेयज्ञानाभ्यां प्रविभक्तमित्यनन्तता न स्यात्। "यत्र नान्यद्विजानाति स भूमा अथ यत्रान्यद्विजानाति तदल्पम्" (छा.उ.7।24।1) इति श्रुत्यन्तरात्।
नान्यद्विजानातीति विशेषप्रतिषेधादात्मानं विजानातीतिचेन्न;भूमलक्षणविधिपरत्वाद्वाक्यस्य। यत्र नान्यत्पश्यतीत्यादि भूम्नो लक्षणविधिपरं वाक्यम्। यथा प्रसिद्धमेवान्योऽन्यत्पश्यतीत्येतदुपादाय यत्र तन्नास्ति स भूमेति भूमस्वरूपं तत्र ज्ञाप्यते। अन्यग्रहणस्य प्राप्तप्रतिषेधार्थत्वान्न स्वात्मनि क्रियास्तित्वपरं वाक्यम्। स्वात्मनि च भेदाभावाद्विज्ञानानुपपत्तिः। आत्मनश्च विज्ञेयत्वे ज्ञात्राभावप्रसङ्गः;ज्ञेयत्वेनैव विनियुक्तत्वात्।
एक एवात्मा ज्ञेयत्वेन ज्ञातृत्वेन चोभयथा भवतीति चेत्?
न;युगपदनंशत्वात्। न हि निरवयवस्य युगपज्ज्ञेयज्ञातत्वोपपत्तिः। आत्मनश्च घटादिवद्विज्ञेयत्वे ज्ञानोपदेशानर्थक्यम्। न हि घटादिवत्प्रसिद्धस्य ज्ञानोपदेशोऽर्थत्वान्। तस्माज्ज्ञातृत्त्वे सति आनन्त्यानुपपत्तिः। सन्मात्रत्वं चानुपपन्नं ज्ञानकर्तृत्वादिविशेषवत्त्वे सति। सन्मात्रत्वं सत्यत्वम्। "तत्सत्यम्" (छा.उ. 6।8।16) इति श्रुत्यन्तरात्। तस्मात्सत्यानन्तशब्दाभ्यां सह विशेषणत्वेन ज्ञानशब्दस्य प्रयोगाद्भावसाधनो ज्ञानशब्दः। ज्ञानं ब्राहृेति कर्तृत्वादिकारकनिवृत्त्यर्थं मृदादिवदचिद्रूपतानिवृत्त्यर्थं च प्रयुज्यते।
ज्ञानं ब्राहृेतिवचनात्प्राप्तमन्तवत्त्वम्। लौकिकस्य ज्ञानस्यान्तवत्त्वदर्शनात्। अतस्तन्निवृत्त्यर्थमाह अनन्तमिति।
सत्यादीनामनृतादिधर्मनिवृत्तिपरत्वाद्विशेष्यस्य ब्राहृण उत्पलादिवदप्रसिद्धत्वात्। "मृगतृष्णाम्भसि स्नातः स्वपुष्पकृतशेखरः। एष वन्ध्यासुतो याति शशशृङ्गधनुर्धरः"इतिवच्छून्यार्थतैव प्राप्ता सत्यादिवाक्यस्येति चेत्?
न;लक्षणार्थत्वात्। विशेषणत्वेऽपि सत्यादीनां लक्षणार्थप्राधान्यमित्यवोचाम। शून्ये हि लक्ष्येऽनर्थकं लक्षणवचनं लक्षणार्थत्वान्मन्यामहे न शून्यार्थतेति। विशेषणार्थत्वेऽपि च सत्यादीनां स्वार्थापरित्याग एव। शून्यार्थत्वे हि सत्यादिशब्दानां विशेष्यनियन्तृत्वानुपपत्तिः। सत्याद्यर्थैरर्थवतत्त्वे तु तद्विपरीतधर्मवद्भ्यो विशेषेभ्यो ब्राहृणो विशेष्यस्य नियन्तृत्वमुपपद्यते। ब्राहृशब्दोऽपि स्वार्थेनार्थवानेव। तत्रानन्तशब्दोऽन्तवत्त्वप्रतिषेधद्वारेण विशेषणम्। सत्यज्ञानशब्दौ तु स्वार्थसमर्पणेनैव विशेषणे भवतः।
"तस्माद्वा एतस्मादात्मन"इति ब्राहृण्येवात्मशब्दप्रयोगाद्वेदितुरात्मै ब्राहृ। "एतमानन्दमयमात्मानमुपसंक्रामतीति" (तै.उ.2।8।5) इति चात्मतां दर्शयति। तत्प्रवेशाच्च;"तत्सृष्ट्वा तदेवानुप्राविशत्: (तै.उ.2।6।1) इति च तस्यैव शरीरप्रवेशं दर्शयति। अतो वेदितुः स्वरूपं ब्राहृ।
एवं तह्र्रात्मत्वाज्ज्ञानकर्तृत्वम्। आत्मा ज्ञातेति हि प्रसिद्धम्। "सोऽकामयत" (तै.उ.2।6।1)
इति च कामिनो ज्ञानकर्तृत्वाज्ज्ञाप्तिब्र्राहृेत्युक्तम्
अनित्यत्वप्रसङ्गाच्च। यदि नाम ज्ञप्तिज्र्ञानमिति भावरूपता ब्राहृणस्तथाऽप्यनित्यत्वं प्रसज्येत पारतन्त्र्यं च। धात्वर्थानां कारकापेक्षत्वात्। ज्ञानं च धात्वर्थोऽतोऽस्यानित्यत्वं परतन्त्रता च।
न;स्वरूपाव्यतिरेकेण कार्यत्वोपचारात्। आत्मनः स्वरूपं ज्ञप्तिर्न ततो व्यतिरिच्यतेऽतो नित्यैव।तथापि बुद्धेरुपाधिलक्षणायाश्चक्षुरादिद्वारैर्विषयाकारेण परिणामिन्या ये शब्दाद्याकारावभासाः त आत्मविज्ञानस्य विषयभूता उत्पद्यमाना एवात्मविज्ञानेन व्याप्ता उत्पद्यन्ते। तस्मादात्मविज्ञानावभासाश्च ते विज्ञानशब्दवाच्याश्च धात्वर्थभूता आत्मन एव धर्मा विक्रियारूपा इत्यविवेकिभिः परिकल्प्यन्ते।
यत्तु यद् ब्राहृणो विज्ञानं तत् सवितृप्रकाशवदग्न्युष्णवच्च ब्राहृस्वरूपाव्यतिरिक्तं स्वरूपमेव तत्;न तत्कारणान्तरसव्यपेक्षम्। नित्यस्वरूपत्वात्। सर्वभावानां च तेनाविभक्तदेशकालत्वात् कालाकाशादिकारणत्वाच्च निरतिशयसूक्ष्मत्वाच्च। न तस्यान्यदविज्ञेयं सूक्ष्मं व्यवहितं विप्रकृष्टं भूतं
भवद्भविष्यद्वास्ति। तस्मात्सर्वज्ञं तद्ब्राहृ।
मन्त्रवर्णाच्च - "अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स श्रृणोत्यकर्णः। स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम्" (श्वे.उ.3।19) इति। न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु
तद्द्वितीयमस्ति (बृ.उ.4।3।30) इत्यादि श्रुतेश्च। विज्ञातृस्वरूपाख्यव्यतिरेकात्करणादिनिमित्तानपेक्षत्वाच्च ब्राहृणो ज्ञानस्वरूपत्वेऽपि नित्यत्वप्रसिद्धिरतो नैव धात्वर्थस्तदक्रियारूपत्वात्।
अत एव च न ज्ञानकर्तृ, तस्मादेव च न ज्ञानशब्दवाच्यमपि तद्ब्राहृ। तथाऽपि तदाभासवाचकेन बुद्धिधर्मविषयेण ज्ञानशब्देन तल्लक्ष्यते न तूच्यते। शब्दप्रवृत्तिहेतुजात्यादिधर्मरहितत्वात्। तथा सत्यशब्देनापि सर्वविशेषप्रत्यस्तमितस्वरूपत्वाद् ब्राहृणो बाह्रसत्तासामान्यविषयेण सत्यशब्देन लक्ष्यते सत्यं ब्राहृेति न तु सत्यशब्दवाच्यमेव ब्राहृ।
एवं सत्यादिशब्दा इतरेतरसंनिधावन्योन्यनियम्यनियामकाः सन्तः सत्यादिशब्दावाच्यात्तन्निवर्तका ब्राहृणो लक्षणार्थाश्च भवन्तीत्यतः सिद्धं "यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" (तै.उ.2।4।1) "अनिरुक्तेऽनिलयने" (तै.उ.2।7।1) इति चावाच्यत्वं नीलोत्पलवदवाक्यार्थत्वं च ब्राहृणः।
तद्यथाव्याख्यातं ब्राहृ यो वेद विजानाति निहितं स्थितं गुहायाम्। गूहतेः संवरणार्थस्य निगूढा अस्यां ज्ञानज्ञेयज्ञातृपदार्था इति गुहा बुद्धिः। गूढावस्यां भोगापवर्गौ पुरुषार्थाविति वा तस्यां परमे प्रकृष्टे व्येमन्व्योम्न्याकाशेऽव्याकृताख्ये। तद्धि परमं व्योम "एतस्मिन्खल्वक्षरे गाग्र्याकाशः" (बृ.उ.3।8।11) इत्यक्षरसंनिकर्षात्। गुहायां व्योम्नीति वा सामानाधिकरण्यादव्याकृताकाशमेव गुहा। तत्रापि निगूढाः सर्वे पदार्थास्त्रिषु कालेषु कारणत्वात्सूक्ष्मतरत्वाच्च। तस्मिन्नन्तर्निहितं ब्राहृ।
हार्दमेव तु परमं व्योमेति न्याय्यं विज्ञानाङ्गत्वेनोपासनाङ्गत्वेन व्योम्नो विवक्षितत्वात्। "यो वै स बहिर्धा पुरुषादाकाशः (छा.उ.3।12।7) "यो वै सोऽन्तः पुरुष आकाश" (छा.उ.3।12।8) "योऽयमन्तह्र्मदय आकाशः" (छा.उ.3।12।9) इति श्रुत्यन्तरात्प्रसिद्धं हार्दस्य व्योम्नः परमत्वम्।
तस्मिन्हार्दे व्योम्नि या बुद्धिर्गुहा तस्यां निहितं ब्राहृ तद्वृत्त्या विविक्ततयोपलभ्यत इति। न ह्रन्यथा विशिष्टदेशकालसंबन्धोऽस्ति ब्राहृणः सर्वगतत्वान्निर्विशेषत्वाच्च।
स एवं ब्राहृ विजानन्किमित्याह - अश्नुते भुङ्क्ते सर्वान्निरवशिष्टान्कामान्भोगानित्यर्थः। किमस्मदादिवत्पुत्रस्वर्गादीन्पर्यायेण नेत्याह। सह युगपदेकक्षणोपारूढानेव एकयोपलब्ध्या सवितृप्रकाशवत् नित्यया ब्राहृस्वरूपाव्यतिरिक्तया यामवोचाम सत्यं ज्ञानमनन्तमिति। एतदुच्यते - ब्राहृणा सहेति।
ब्राहृभूतो विद्वान्ब्राहृरूपेणैव सर्वान्कामान्सहाश्नुते, न यथोपाधिकृतेन स्वरूपेणात्मना जलसूर्यकादिवत्प्रतिबिम्बभूतेन संसारिकेण धर्मादिनिमित्तापेक्षांश्चक्षुरादिकरणापेक्षांश्च कामान् पर्यायेणाश्नुते लोकः;कथं तर्हि?यथोक्तेन प्रकारेण सर्वज्ञेन सर्वगतेन सर्वात्मना नित्यब्राहृात्मस्वरूपेण धर्मादिनिमित्तानपेक्षांश्चक्षुरादिकरणनिरपेक्षांश्च सर्वान्कामान्सहैवाश्नुत इत्यर्थः। विपश्चिता मेधाविना सर्वज्ञेन। तद्धि वैपश्चित्यं यत्सर्वज्ञत्वं तेन सर्वज्ञस्वरूपेण ब्राहृणाश्नुत इति। इति शब्दो मन्त्रपरिसमाप्त्यर्थः।
सर्व एव वल्ल्यर्थो ब्राहृविदाप्नोति परमिति ब्रााहृणवाक्येन सूत्रितः। स च सूत्रितोऽर्थः संक्षेपतो मन्त्रेण व्याख्यातः। पुनस्तस्यैव विस्तरेणार्थनिर्णयः कर्तव्य इत्युत्तरस्तद्वृत्तिस्थानीया ग्रन्थ आरभ्यते तस्माद्वा एतस्मादित्यादिः।
तत्र च सत्यं ज्ञानमनन्तं ब्राहृेत्युक्तं मन्त्रादौ तत्कथं सत्यं ज्ञानमनन्तं चेत्यत आह। तत्र त्रिविधं ह्रानन्त्यं देशतः कालतो वस्तुतश्चेति। तद्यथा देशतोऽनन्त आकाशः। न हि देशतस्तस्य परिच्छेदोऽस्ति। न तु कालतश्चानन्त्यं वस्तुतश्चाकाशस्य। कस्मात्कार्यत्वात्। नैवं ब्राहृण आकाशवत्कालतोऽप्यन्तवत्त्वमकार्यात्वात्। कार्यं हि वस्तु कालेन परिच्छिद्यते। अकार्यं च ब्राहृ। तस्मात्कालतोऽप्यनन्तम्।
तथा वस्तुतः। कथं पुनर्वस्तुत आनन्त्यं सर्वानन्यत्वात्। भिन्नं हि वस्तु वस्त्वन्तरस्यान्तो भवति, वस्त्वन्तरबुद्धिर्हि प्रसक्ताद्वस्त्वन्तरान्निवर्तते यतो यस्य बुद्धेर्विनिवृत्तिः स तस्यान्तः। तद्यथा गोत्वबुद्धिरश्वत्वाद्विनिवर्तत इति अश्वत्वान्तं न गोत्वमित्यन्तवदेव भवति। स चान्तो भिन्नेषु वस्तुषु दृष्टः। नैवं ब्राहृणो भेदः। अतो वस्तुतोऽप्यानन्त्यम्।
कथं पुनः सर्वानन्यत्वं ब्राहृण इत्युच्यते - सर्ववस्तुकारणत्वात्। सर्वेषां हि वस्तूनां कालाकाशादीनां कारणं ब्राहृ। कार्यापेक्षया वस्तुतोऽन्तवत्त्वमिति चेन्न अनृतत्वात्कार्यवस्तुतः। न हि कारणव्यतिरेकेण कार्यं नाम
वस्तुतोऽस्ति यतः कारणबुद्धिर्विनिवर्तेत। "वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्" (छा.उ.6।1।4) एवं सदेव सत्यमिति श्रुत्यन्तरात्।
तस्मादाकाशादिकारणत्वाद् देशतस्तावदनन्तं ब्राहृ। आकाशो ह्रनन्त इति प्रसिद्धम् देशतः;तस्येदं कारणं तस्मात्सिद्धं देशत आत्मन आनन्त्यम्। न ह्रसर्वगतात्सर्वगतमुत्पद्यमानं लोके किंचिद् दृश्यते। अतो निरतिशयमात्मन आनन्त्यं देशतस्तथा कार्यत्वात्कालत तद्भिन्नवस्त्वन्तराभावाच्च वस्तुतः। अत एव निरतिशयसत्यत्वम्।
तस्मादिति मूलवाक्यसूत्रितं ब्राहृ परामृश्यते। एतस्मादिति मन्त्रवाक्येणानन्तरं यथालक्षितम्। यद्ब्राहृादौ ब्रााहृणवाक्येन सूत्रितं यच्च सत्यं ज्ञानमनन्तं ब्राहृेत्यनन्तरमेव लक्षितं
तस्मादेतस्माद्ब्राहृण आत्मन आत्मशब्दवाच्यात्। आत्मा हि तत्सर्वस्य "तत्सत्यं स आत्मा" (छा.उ.6।8-16) इति श्रुत्यन्तरादतो ब्राहृात्मा। तस्मादेतस्माद्ब्राहृण आत्मस्वरूपादाकाशः संभूतः समुत्पन्नः।
आकाशो नाम शब्दगुणोऽवकाशकरो मूर्तद्रव्याणाम् तस्मादे आकाशात्स्वेन स्पर्शगुणेन पूर्वेण च कारणगुणेन शब्देन द्विगुणो वायुः संभूत इत्यनुवर्तते। वायोश्च स्वेन रूपगुणेन पूर्वाभ्यां च त्रिगुणोऽग्निः संभूतः। अग्नेः स्वेन रसगुणेन पूर्वैश्च त्रिभिश्चतुर्गुणा आपः संभूताः। अद्भ्यः स्वेन गन्धगुणेन पूर्वैश्चतुर्भिः पञ्चगुणा पृथिवी संभूताः। पृथिव्या ओषधयः। ओषधीभ्योऽन्नम्। अन्नाद्रेतोरूपेण परिणतात् पुरुषः शिरःपाण्याद्याकृतिमान्।
स वा एष पुरुषोऽन्नरसमयोऽन्नरसविकारः। पुरुषाकृतिभावितं हि सर्वेभ्योऽङ्गेभ्यस्तेजः संभूतं रेतो बीजम्, तस्माद्यो जायते सोऽपि तथा पुरुषाकृतिरेव स्यात्। सर्वजातिषु जायमानानां जनकाकृतिनियमदर्शनात्।
सर्वेषामप्यन्नरसविकारत्वे ब्राहृवंश्यत्वे चाविशिष्टे कस्मात्पुरुष एव गृह्रते?
प्रधान्यात्।
किं पुनः प्रधान्याम्?
कर्मज्ञानाधिकारः। पुरुष एव हि शक्तत्वादर्थित्वादपर्युदस्तत्वाच्च कर्मज्ञानयोरधिक्रियते - "पुरुषे त्वेवाऽऽविस्तरामात्मा स हि प्रज्ञानेन संपन्नतमो विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोकौ मत्र्येनामृतमीक्षतीत्येवं संपन्नः। अथेतरेषां पशूनामशनायापिपासे एवाभिविज्ञानम्"इत्यादिश्रुत्यन्तरदर्शनात्।
स हि पुरुष इह विद्ययान्तरतमं ब्राहृ संक्रामयितुमिष्टः। तस्य च बाह्राकारविशेषेष्वनात्मस्वात्मभाविता बुद्धिरनालम्ब्य विशेषं कंचित्सहसान्तरतमप्रत्यगात्मविषय निरालम्बना च कर्तुमशक्येति दृष्टशरीरात्मसामान्यकल्पनया शाखाचन्द्रनिदर्शनवदन्तः प्रवेशयन्नाह
तस्येदमेव शिरः। तस्यास्य पुरुषस्यान्नरसमयस्येदमेव शिरः प्रसिद्धम्। प्राणमयादिष्वशिरसां शिरस्त्वदर्शनादिहापि तत्प्रसङ्गो मा भूदितीदमेव शिर इत्युच्यते। एवं पक्षादिषु योजना। अयं दक्षिणो बाहुः पूर्वाभिमुखस्य दक्षिणः पक्षः। अयं सव्यो बाहुरुत्तरः पक्षः। अयं मध्यमो देहभाग आत्माङ्गानाम्। "मध्यं ह्रेषामङ्गानामात्मा"इति श्रुतेः। इदमिति नाभेरधस्ताद्यदङ्गं तत्पुच्छं प्रतिष्ठा। प्रतितिष्ठत्यनयेति प्रतिष्ठा पुच्छमिव पुच्छम् अधोलम्बनसामान्याद्यथा गोः पुच्छम्।
एतत्प्रकृत्योत्तरेषां प्राणमयादीनां रूपकत्वसिद्धिः। मूषानिषिक्तदुतताम्रप्रतिमावत्। तदप्येषश्लोको भवति। तत्तस्मिन्नवार्थे ब्रााहृणोक्तेऽन्नमयात्मप्रकाशक एष श्लोको मन्त्रो भवति।।2.1.1।।
इति ब्राहृानन्दवल्ल्यां प्रथमोऽनुवाकः।।1।।
द्वितीय अनुवाक
अन्नाद्वै प्रजाः प्रजायन्ते। याः काश्चपृथिवीं#ँ#्श्रिताः। अथो अन्नेनैव जीवन्ति। अथैनदपि यन्त्यन्ततः। अन्नँ#्हि भूतानां ज्येष्ठम्। तस्मात्सर्वौषधमुच्यते। सर्वं वै तेऽन्नमाप्नुवन्ति येऽन्नं
ब्राहृोपासते। अन्न #ँहि भूतानां ज्येष्ठम्। तस्मात्सर्वौषधमुच्यते। अन्नाद्भूतानि जायन्ते। जातान्यन्नेन वर्धन्ते। अद्यतेऽत्ति च भूतानि। तस्मादन्नं तदुच्यत इति। तस्माद्वा एतस्मादन्नरसमयादन्योऽन्तर आत्मा प्राणमयः। तेनैष पूर्णः।
स वा एष पुरुषविध एव। तस्य पुरुषविधतामन्वयं पुरुषविधः। तस्य प्राण एव शिरः। व्यानो दक्षिणः पक्षः। अपान उत्तर पक्षः। आकाश आत्मा। पृथिवी पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति।।2.2.1।।
अन्नाद्रसादिभावपरिणतात्, वा इति स्मरणार्थः, प्रजाः स्थावरजङ्गमाः प्रजायन्ते। याः काशचाविशिष्टाः पृथिवीं श्रिताः पृथिवीमाश्रितास्ताः सर्वा अन्नादेव प्रजायन्ते। अथो अपि जाता अन्नेनैव जीवन्ति प्राणान्धारयन्ति वर्धन्त इत्यर्थः। अथाप्येनदन्नमपियन्त्यपिगच्छन्ति। अपि शब्दः प्रतिशब्दार्थे। अन्नं प्रति प्रलीयन्त इत्यर्थः। अन्ततोऽन्ते जीवनलक्षणाया वृत्तेः परिसमाप्तौ।
कस्मात् ? अन्नं हि यस्माद् भूतानां प्राणिनां ज्येष्ठं प्रथमजम्। अन्नमयादीनां हीतरेषां भूतानां कारणमन्नमतोऽन्नप्रभवा अन्नजीवना अन्नप्रलयाश्च सर्वाः प्रजाः यस्माच्चैवं तस्मात्सर्वौषधं सर्वप्राणिनां
देहदाहप्रशमनमन्नमुच्यते।
अन्नब्राहृविदः फलमुच्यते - सर्वं वै ते समस्तमन्नजातमाप्नुवन्ति। के? येऽन्नं ब्राहृा यथोक्तमुपासते। कथम्?अन्नजोऽन्नात्मान्नप्रलयोऽहं तस्मादन्नं ब्राहृेति।
कुतः पुनः सर्वान्नप्राप्तिफलमन्नात्मोपासनमित्युच्यते। अन्नं हि भूतानां ज्येष्ठम्। भूतेभ्यः पूर्वं निष्पन्नत्वाज्ज्येष्ठं हि यस्मात्तस्मात्सर्वौषधमुच्यते। तस्मादुपपन्ना सर्वान्नात्मोपासकस्य सर्वान्नप्राप्तिः। अन्नाद्भूतानिजायन्ते। जातान्यन्नेन वर्धन्त इत्युपसंहारार्थं पुनर्वचनम्।
इदानीमन्ननिर्वचनमुच्यते-अद्यते भूज्यते चैव यद्भूतैरन्नमत्ति च भूतानि स्वयं तस्माद्भूतैर्भुज्यमानत्वाद्भूतभोक्तृत्वाच्चान्नं तदुच्यते। इति शब्दः प्रथमकोशपरिसमाप्त्यर्थः।
अन्नमयादिभ्य आनन्दमयान्तेभ्य आत्मभ्योऽभ्यन्तरतमं ब्राहृ विद्यया प्रत्यगात्मत्वेन दिदर्शयिषुःशास्त्रमविद्याकृतपञ्चकोशापनयनेनानेकतुषकोद्रवविषीकरणेनेव तदन्तर्गततण्डुलान् प्रस्तौति तस्माद्वा एतस्मादन्नरसमयादित्यादि।
तस्मादेतस्माद्यथोक्तादन्नरसमयात्पिण्डादन्यो व्यतिरिक्तोऽन्तरोऽभ्यन्तरो आत्मा पिण्डवदेव मिथ्या परिकल्पित आत्मत्वेन प्राणमयः प्राणो वायुस्तन्मयस्तत्प्रायः। तेन प्राणमयेनान्नरसमय आत्मैष पूणौ वायुनेव दृतिः। स वा एष प्राणमय आत्मा पुरुषविध एव पुरुषाकार एव, शिरः पक्षादिभिः।
किं स्वत एव नेत्याह। प्रसिद्धं तावदन्नरसमयस्यात्मनः पुरुषविधत्वम्। तस्यान्नरसमयस्य पुरुषविधतां पुरुषाकारतामनु अयं प्राणमयः पुरुषविधो भूषानिषिक्तप्रतिभावन्न स्वत एव। एवं पूर्वस्य पूर्वस्य पुरुषविधतामनूत्तरोत्तरः पुरुषविधो भवति पूर्वः पूर्वश्चोत्तरोत्तरेण पूर्णः।
कथं पुनः पुरुषविधतास्य इत्युच्यते। तस्य प्राणमयस्य प्राण एव शिरः। प्राणमयस्य
वायुविकारस्य प्राणो मूखनासिकानिःसरणो वृत्तिविशेषः शिर एव परिकल्प्यते वचनात्। सर्वत्र वचनादेव पक्षादिकल्पना। व्यानो व्यानवृत्तिर्दक्षिणः पक्षः। अपान उत्तरः पक्षः। आकाश आत्मा। य आकाशस्थो वृत्तिविशेषः समानाख्यः स आत्मेवात्मा, प्राणवृत्त्यधिकारात्। मध्यस्थत्वादितराः पर्यन्ता वृत्तीरपेक्ष्यात्मा। "मध्यं ह्रेषामङ्गानामात्मा"इति श्रुतिप्रसिद्धं मध्यमस्थस्यात्मत्वम्।
पृथिवी पुच्छं प्रतिष्ठा। पृथिवीति पृथिवीदेवताध्यात्मिकस्य प्राणस्य धारयित्री स्थितिहेतुत्वात्। "सैषा पुरुषस्यापानमवष्टभ्य"(प्र.उ.3/8) इति हि श्रुत्यन्तरम्। अन्यथोदानवृत्त्योध्र्वगमनं गुरुत्वाच्च पतनं वा स्याच्छरीरस्य। तस्मात्पृथिवी देवता पुच्छं प्रतिष्ठा प्राणमयस्यात्मनः। तत्तस्मिन्नेवार्थे प्राणमयात्मविषय एष श्लोको भवति।।2।2।1।।
इति ब्राहृानन्दवल्ल्यां द्वितीयोऽनुवाकः।।2।।
तृतीय अनुवाक
प्राणं देवा अनु प्राणन्ति। मनुष्याः पशवश्च ये। प्राणो हि भूतानामायुः। तस्मात्सर्वायुषमुच्यते। सर्वमेव त आयुर्यन्ति ये प्राणे ब्राहृोपासते। प्राणो हि भूतानामायुः। तस्मात्सर्वायुषमुच्यत इति। तस्यैष एव
शारीर आत्मा यः पूर्वस्य। तस्माद्वा एतस्मात्प्राणमयादन्योऽन्तर आत्मा मनोमयः। तेनैष पूर्णः। स
वा एष पुरुषविध एव। तस्य पुरुषविधतामन्वयं पुरुषविधः। तस्य यजुरेव शिरः। ऋग्दक्षिणः पक्षः। सामोत्तरः पक्षः। आदेश आत्मा। अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति।।2।3।1।।
प्राणं देवा अनु प्राणन्ति। देवा अग्न्यादयः प्राणं वाय्वात्मानं प्राणनशक्तिमन्तमनु तदात्मभूताः सन्तः प्राणन्ति प्राणनकर्म कुर्वन्ति प्राणनक्रियया क्रियावन्तो भवन्ति। अध्यात्माधिकारात् देवा इन्द्रियाणि प्राणमनु प्राणन्ति मुख्यप्राणमनुचेष्टन्त इति वा। तथा मनुष्याः पशवश्च ये ते प्राणनकर्मणैव चेष्टावन्तो भवन्ति।
अतश्च नान्नमयेनैव परिच्छिन्नेनात्मनात्मवन्तः प्राणिनः। किं तर्हि? तदन्तर्गतेन प्राणमयेनापि साधारणेनैव सर्वपिण्डव्यापिनात्मवन्तो मनुष्यादयः। एवं मनोमयादिभिः पूर्वपूर्वव्यापिभिरुत्तरोत्तरैः सूक्ष्मैरानन्दमयान्तैराकाशादिभूतारब्धैरविद्याकृतैरात्मवन्तः सर्वे प्राणिनः। तथा स्वाभाविकेनाप्याकाशादि कारणेन नित्येनाविकृतेन सर्वगतेन सत्यज्ञानानन्तलक्षणेन पञ्चकोशातिगेन सर्वात्मनात्मवन्तः। स हि परमार्थत आत्मा सर्वेषामित्येतदप्यर्थादुक्तं भवति।
प्राणं देवा अनु प्राणन्तीत्युक्तं तत्कस्मादित्याह। प्राणो हि यस्माद् भूतानां प्राणिनामायुर्जीवनम्। यावद्ध्यस्मिञ्शरीरे प्राणो वसति तावदायुः (कौ.उ.3।2) इति श्रुत्यन्तरात्। तस्मात्सर्वायुषम्। सर्वेषामायुः सर्वायुः सर्वायुरेव सर्वायुषमित्युच्यते। प्राणापगमे मरणप्रसिद्धेः। प्रसिद्धं हि लोके सर्वायुष्ट्वं प्राणस्य।
अतोऽस्माद्बाह्रादसाधारणादन्नमयादात्मनोऽपक्रम्यान्तः साधारणं प्राणमयमात्मानं ब्राहृोपासते येऽहमस्मि प्राणः सर्वभूतानामात्मायुर्जीवनहेतुत्वादिति ते सर्वमेवायुरस्मि #ँल्लोके यन्ति, नापमृत्युना म्रियन्ते प्राक्प्राप्तादायुष इत्यर्थः। शतं वर्षाणीति तु युक्तं सर्वमायुरेति (छा.उ.2।11-20, 4।11-13) इति श्रुतिप्रसिद्धेः।
किं कारणं प्राणो हि भूतानामायुस्तस्मात्सर्वायुषमुच्यत इति। यो यद्गुणकं ब्राहृोपास्ते स तद्गुणभाग्भवतीति विद्याफलप्राप्तेर्हेत्वर्थ पुनर्वचनं प्राणो हीत्यादि तस्य पूर्वस्यान्नमयस्यैष एव शरीरेऽन्नमये भवः शारीर आत्मा। कः? य एष प्राणमयः।
तस्माद्वा एतस्मादित्युक्तार्थमन्यत्। अन्योऽन्तर आत्मा मनोमयः। मन इति संकल्पाद्यात्मकमन्तःकरणं तन्मयो मनोमयो यथान्नमयः। सोऽयं प्राणमयस्याभ्यन्तर आत्मा। तस्य यजुरेव शिरः। यजुरित्यनित्यताक्षरपादावसानो मन्त्रविशेषस्तज्जातीयवचनो यजुःशब्दस्तस्य शिरस्त्वं प्राधान्यात्। प्राधान्यं च यागादौ संनिपत्योपकारकत्वात्। यजुषा हि हविर्दीयते स्वाहाकारादिना।
वाचनिकी वा शिर आदिकल्पना सर्वत्र। मनसो हि स्थानप्रयत्ननादस्वरवर्णपदवाक्यविषया
तत्संकल्पात्मिका तद्भाविता वृत्तिः श्रोत्रादिकरणद्वारा यजुःसंकेतविशिष्टा यजुः इत्युच्यते। एवमृगेवं साम च।
एवं च मनोवृत्तित्वे मन्त्राणां वृत्तिरेवावत्र्यत इति मानसो जप उपपद्यते। अन्यथाविषयत्वान्मन्त्रो नावर्तयितुं शक्यो घटादिवदिति मानसो जपो नोपपद्यते मन्त्रावृत्तिश्च चोद्यते बहुशः कर्मसु।
अक्षरविषयस्मृत्यावृत्त्या मन्त्रावृत्तिः स्यादिति चेत्?
न;मुख्यार्थासंभवात् "त्रिः प्रथमामन्वाह त्रिरुत्तमाम्"इति ऋगावृत्तिः श्रूयते। तत्रर्चोऽविषयत्वे तद्विषयस्मृत्यावृत्त्या मन्त्रावृत्तौ च क्रियमाणायाम् त्रिः प्रथमामन्वाह इति ऋगावृत्तिर्मुख्योऽर्थश्चोदितः परित्यक्तः स्यात्। तस्मान्मनोवृत्त्युपाधिपरिच्छिन्नं मनोवृत्तिनिष्ठमात्मचैतन्यमनादिनिधनं यजुःशब्दवाच्यमात्मविज्ञानं मन्त्रा इति। एवं च नित्यत्वोपपत्तिर्वेदानाम्। अन्यथा विषयत्वे रूपादिवदनित्यत्वं च स्यान्नैतद्युक्तम्। "सर्वे वेदा यत्रैकं भवन्ति स मानसीन आत्मा"इति च श्रुतिर्नित्यात्मनैकत्वं ब्राुवत्युगादीनां नित्यत्वे समञ्जसा स्यात्। "ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः"(श्वे.उ.4।8) इति च मन्त्रवर्णः।
आदेशोऽत्र ब्रााहृणम् अतिदेष्टव्यविशेषानतिदिशतीति। अथर्वाङ्गिरसा च दृष्टा मन्त्रा ब्रााहृणं च शान्तिकपौष्टिकादिप्रतिष्ठाहेतुकर्मप्रधानत्वात्पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति मनोमयात्मप्रकाशकः पूर्ववत्।।1।।
इति ब्राहृानन्दवल्ल्यां तृतीयोऽनुवाकः ।।3।।
चतुर्थ अनुवाक
यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह। आनन्दं ब्राहृणो विद्वान्। न बिभेति कदाचनेति। तस्यैष एव शारीर आत्मा यः पूर्वस्य। तस्माद्वा एतस्मान्मनोमयादन्योऽन्तर आत्मा विज्ञानमयस्तेनैष पूर्णः। स वा एष पुरुषविध एव। तस्य पुरुषविधतामन्वयं पुरुषविधः। तस्य श्रद्धैव शिरः। ऋतं दक्षिणः पक्षः। सत्यमुत्तरः पक्षः। योग आत्मा। महः पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति।।2.4.1।।
यतो वाचो निवर्तन्ते। अप्राप्य मनसा सहेत्यादि। तस्य पूर्वस्य प्राणमयस्यैष एवात्मा शारीरः शरीरे प्राणमये भवः शारीरः। कः? य एष मनोमयः। तस्माद्वा एतस्मादित्यादि पूर्ववत्। अन्योऽन्तर आत्मा विज्ञानमयो मनोमयस्याभ्यन्तरो विज्ञानमयः।
मनोमयो वेदात्मोक्तः। वेदार्थविषया बुद्धिर्निश्चयात्मिका विज्ञानं
तच्चाध्यवसायलक्षणमन्तःकरणस्य धर्मः। तन्मयो निश्चयविज्ञानैः प्रमाणस्वरूपैर्निर्वर्तित आत्मा विज्ञानमयः। प्रमाणविज्ञानपूर्वको हि यज्ञादिस्तायते। यज्ञादिहेतुत्वं च वक्ष्यति श्लोकेन।
निश्चयविज्ञानवतो हि कर्तव्येष्वर्थेषु पूर्वं श्रद्धोत्पद्यते। सा सर्वकर्तव्यानां प्राथम्याच्छिर इव शिरः। ऋतसत्ये यथाव्याख्याते एव। योगो युक्तिः समाधानम्, आत्मेवात्मा। आत्मवतो हि युक्तस्य समाधानवतोऽङ्गानीव श्रद्धादीनि यथार्थप्रतिपत्तिक्षमाणि भवन्ति। तस्मात्समाधानं योग आत्मा विज्ञानमयस्य। महः पुच्छं प्रतिष्ठा।
मह इति महत्तत्त्वं प्रथमजम् "महद्यक्षं प्रथमजं वेद"(बृ.उ.5।4।1) इति श्रुत्यन्तरात्। पुच्छं प्रतिष्ठा कारणत्वात्। कारणं हि कार्याणां प्रतिष्ठा। यथा वृक्षवीरुधां पृथिवी। सर्वबुद्धिविज्ञानानां च महत्तत्त्वं कारणम्। तेन तद्विज्ञानमयस्यात्मनः प्रतिष्ठा। तदप्येष श्लोको भवति पूर्ववत्। यथान्नमयादीनां ब्रााहृणोक्तानां प्रकाशकाः श्लोका एवं विज्ञानमयस्यापि।।2.4.1।।
इति ब्राहृानन्दवल्ल्यां चतुर्थोऽनुवाकः।।4।।
पञ्चम अनुवाक
विज्ञानं यज्ञं तनुते। कर्माणि तनुतेऽपि च। विज्ञानं देवाः सर्वे। ब्राहृ ज्येष्ठमुपासते। विज्ञानं ब्राहृ चेद्वेद। तस्माच्चेन्न प्रमाद्यति। शरीरे पाप्मनो हित्वा। सर्वान्कामान्समश्नुत इति। तस्यैष एव शारीर आत्मा यः पूर्वस्य। तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्मानन्दमयः। तेनैष पूर्णः। स वा एष पुरुषविध एव। तस्य पुरुषविधतामन्वयं पुरुषविधः। तस्य प्रियमेव शिरः। मोदो दक्षिणः पक्षः। प्रमोद उत्तरः पक्षः। आनन्द आत्मा। ब्राहृ पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति।।2.5.1।।
विज्ञानं यज्ञं तनुते। विज्ञानवान्हि यज्ञं तनोति श्रद्धादिपूर्वकम्। अतो विज्ञानस्य कर्तृत्वं तनुत इति कर्माणि च तनुते। यस्माद्विज्ञानकर्तृकं सर्वं तस्माद्युक्तं विज्ञानमय आत्मा ब्राहृेति। किं च विज्ञानं ब्राहृ सर्वे देवा इन्द्रादयो ज्येष्ठं प्रथमजत्वात्सर्वप्रवृत्तीनां वा तत्पूर्वकत्वात्प्रथमजं विज्ञानं ब्राहृोपासते ध्यायन्ति तस्मिन्विज्ञानमये ब्राहृण्यभिमानं कृत्वोपासत इत्यर्थः। तस्मात्ते महतो ब्राहृण उपासनाज्ज्ञानैश्वर्यवन्तो भवन्ति।
तच्च विज्ञानं ब्राहृ चेद्यदि वेद विजानाति न केवलं वेदैव तस्माद् ब्राहृणश्चेन्न प्रमाद्यति बाह्रेष्वेवानात्मस्वात्मभावितत्वात्प्राप्तं विज्ञानमये ब्राहृण्यात्मभावनायाः प्रमदनं तन्निवृत्त्यर्थमुच्यते तस्माच्चेन्न प्रमाद्यतीति, अन्नमयादिष्वात्मभावं हित्वा केवले विज्ञानमये ब्राहृण्यात्मत्वं भावयन्नास्ते चेदित्यर्थः।
ततः किं स्यादित्युच्यते - शरीरे पाप्मनो हित्वा, शरीराभिमाननिमित्ता हि सर्वे पाप्मानः तेषां च विज्ञानमये ब्राहृण्यात्माभिमानान्निमित्तापाये हानमुपपद्यते, छत्रापाय इवच्छायापायः। तस्माच्छरीराभिमाननिमित्तान् सर्वान्पाप्मनः शरीरप्रभवाञ्शरीर एव हित्वा विज्ञानमयब्राहृस्वरूपापन्नस्तत्स्थान्सर्वान्कामान्विज्ञानमयेनैवात्मना समश्नुते सम्यग्भुङ्क्त इत्यर्थः।
तस्य पूर्वस्य मनोमयस्यात्मैष एव शरीरे मनोमये भवः शारीरः। कः?य एष विज्ञानमयः। तस्माद्वा
एतस्मादित्युक्तार्थम्। आनन्दमय इति कार्यात्मप्रतीतिरधिकारान्मयट्शब्दाच्च। अन्नादिमया हि
कार्यात्मानो भौतिका इहाधिकृताः। तदधिकारपतितश्चायमानन्दमयः, मयट् चात्र विकारार्थे दृष्टो यथान्नमय इत्यत्र। तस्मात्कार्यात्मानन्दमयः प्रत्येतव्यः।
संक्रमणाच्च;आनन्दमयमात्मानमुपसंक्रामतीति वक्ष्यति। कार्यात्मनां च संक्रमणमनात्मनां दृष्टम्। संक्रमणकर्मत्वेन चानन्दमय आत्मा श्रूयते। यथान्नमयमात्मानमुपसंक्रामतीति। न चात्मन एवोपसंक्रमणम्। अधिकारविरोधादसंभवाच्च। न ह्रात्मनैवात्मन उपसंक्रमणं संभवति। स्वात्मनि भेदाभावात्। आत्मभूतं च ब्राहृ सङ्क्रमितुः।
शिरआदिकल्पनानुपपत्तेश्च। न हि यथोक्तलक्षण आकाशादिकारणेऽकार्यपतिते शिरआद्यवयवरूपकल्पनोपपद्यते। "अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने"(तै.उ.2।7।1) "अस्थूलमनणु"(बृ.उ.3।8।8) "नेति नेत्यात्मा"(बृ.उ.3।9।23) इत्यादिविशेषापोहश्रुतिभ्यश्च।
मन्त्रोदाहारणानुपपत्तेश्च। न हि प्रियशिरआद्यवयवविशिष्टे प्रत्यक्षतोऽनुभूयमान आनन्दमयआत्मनि ब्राहृणि नास्ति ब्राहृेत्याशङ्काभावात् "असन्नेव स भवति। असद्ब्राहृेति वेद चेत्"(तै.उ.2।6।1) इति मन्त्रोदाहरणमुपपद्यते। ब्राहृपुच्छं प्रतिष्ठेत्यपि चानुपपन्नं पृथग्ब्राहृणः
प्रतिष्ठात्वेन ग्रहणम्। तस्मात्कार्यपतित एवानन्दमयो न पर एवात्मा।
आनन्द इति विद्याकर्मणोः फलं तद्विकार आनन्दमयः। स च विज्ञानमयादान्तरः। यज्ञादिहेतोर्विज्ञानमयादस्यान्तरत्वश्रुतेः। ज्ञानकर्मणेर्हि फलं भोक्त्रर्थत्वादन्तरतमं स्यात्। आन्तरतमश्चानन्दमय आत्मा पूर्वेभ्यः। विद्याकर्मणोः प्रियाद्यर्थत्वाच्च। प्रियादिप्रयुक्ते हि विद्याकर्मणी। तस्मात्प्रियादीनां फलरूपाणामात्मसंनिकर्षाद्विज्ञानमयस्याभ्यन्तरत्वमुपपद्यते। प्रियादिवासनानिर्वृतो ह्रानन्दमयो विज्ञानमयाश्रितः स्वप्न उपलभ्यते।
तस्यानन्दमयस्यात्मन इष्टपुत्रादिदर्शनजं प्रियं शिर इव शिरः प्राधान्यात्। मोद इति प्रियलाभनिमित्तो हर्षः। स एव च प्रकृष्टो हर्षः प्रमोदः। आनन्द इति सुखसामान्यमात्मा प्रियादीनां सुखावयवानाम्। तेष्वनुस्यूतत्वात्।
आनन्द इति परं ब्राहृ। तद्धि शुभकर्मणा प्रत्युपस्थाप्यमाने पुत्रमित्रादिविषयविशेषोपाधावन्तःकरणवृत्तिविशेषे तमसा प्रच्छाद्यमाने प्रसन्नेऽभिव्यज्यते। तद्विषयसुखमिति प्रसिद्धं लोके। तद्वृत्तिविशेषप्रत्युपस्थापकस्य कर्मणोऽनवस्थितत्वात्सुखस्य क्षणिकत्वम्। तद्यदान्तःकरणं तपसा तमोघ्नेन विद्यया ब्राहृचर्येण श्रद्धया च निर्मलत्वमापद्यते। यावद्यावत्तावत्तावद्विविक्ते प्रसन्नेऽन्तःकरण आनन्दविशेष उत्कृष्यते विपुलीभवति। वक्ष्यति च - "रसो वै सः। रसँ#्ह्रेवायं लब्ध्वानन्दी भवति एष ह्रेवानन्दयाति"(तै.उ.2।7।1।) "एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति" (बृ.उ.4।3।32) इति च श्रुत्यन्तरात्। एवं च कामोपशमोत्कर्षापेक्षया शतगुणोत्तरोत्तरोत्कर्ष आनन्दस्य वक्ष्यते।
एवं चोत्कृष्यमाणस्यानन्दमयस्यात्मनःपरमार्थब्राहृविज्ञानापेक्षया ब्राहृा परमेव। यत्प्रकृतं सत्यज्ञानानन्दलक्षणम्, यस्य च प्रतिपत्त्यर्थं पञ्चान्नादिमयाः कोशा उपन्यस्ताः, यच्च तेभ्य आभ्यन्तरम्, येन च ते सर्व आत्मवन्तः, तद्ब्राहृ पुच्छं प्रतिष्ठा तदेव च सर्वस्याविद्यापरिकल्पितस्य द्वैतस्यावसानभूतमद्वैतं ब्राहृ प्रतिष्ठा आनन्दमयस्य। एकत्वावसानत्वात्। अस्ति तदेकमविद्याकल्पितस्य द्वैतस्यावसानभूतमद्वैतं ब्राहृ प्रतिष्ठा पुच्छम्। तदेतस्मिन्नप्यर्थं एष श्लोको भवति।।1।।
इति ब्राहृानन्दवल्ल्यां पञ्चमोऽनुवाकः।।5।।
पष्ठ अनुवाक
असन्नेव स भवति। असद्ब्राहृेति वेद चेत्। अस्ति ब्राहृेति चेद्वेद। सन्तमेनं ततो विदुरिति। तस्यैष
एव शारीर आत्मा यः पूर्वस्य। अथातोऽनुप्रश्नाः। उताविद्वानमुं लोकं प्रेत्य कश्चन गच्छति 3। आहो विद्वानमुँ लोकं प्रेत्य कश्चित्समश्नुता 3 उ। सोऽकामयत। बहु स्यां प्रजायेयेति। स तपोऽतप्यत। स तपस्तप्त्वा इदँसर्वमसृजत यदिदं किंच। तत्सृष्ट्वा तदेवानुप्राविशत्। तदनुप्रविश्य सच्च त्यच्चाभवत्। निरुक्तं चानिरुक्तं च। निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च। सत्यं चानृतं च सत्यमभवत्। यदिदं किंच। तत्सत्यमित्याचक्षते। तदप्येष श्लोको
भवति।।2.6.1।।
असन्नेवासत्सम एव यथासन्न पुरुषार्थसंबन्ध्येवं स भवति अपुरुषार्थसंबन्धी। कोऽसौ? योऽसदविद्यमानं ब्राहृेति वेद विजानति चेद्यदि। तद्विपर्ययेण यत्सर्वविकल्पास्पदं सर्वप्रवृत्तिबीजंसर्वविशेषप्रत्यस्तमितमप्यस्ति तद्ब्राहृेति वेद चेत्।
कुतः पुनराशङ्का तन्नास्तित्वे?व्यवहारातीतत्वं ब्राहृण इति ब्राूमः। व्यवहारविषये हि वाचारम्भणमात्रेऽस्तित्वभाविता बुद्धिस्तद्विपरीते व्यवहारातीते नास्तित्वमपि प्रतिपद्यते। यथा घटादिव्र्यवहारविषयतयोपपन्नः संस्तद्विपरीतोऽसन्निति प्रसिद्धम्। एवं तत्सामान्यादिहापि स्याद् ब्राहृणो नास्तित्वप्रत्याशङ्का। तस्मादुच्यते - अस्ति ब्राहृेति चेद्वेदेति।
किं पुनः स्यात्तदस्तीति विजानतस्तदाह - सन्तं विद्यमा न ब्राहृस्वरूपेण परमार्थसदात्मापन्नमेनमेवंविदं विदुब्र्राहृविदस्ततस्तस्मादस्तित्ववेदनात्सोऽन्येषां ब्राहृवद्विज्ञेयो भवतीत्यर्थः।
अथवा यो नास्ति ब्राहृेति मन्यते स सर्वस्यैव सन्मार्गस्य वर्णाश्रमादिव्यवस्थालक्षणस्याश्रद्दधानतया नास्तित्वं प्रतिपद्यतेऽब्राहृप्रतिपत्त्यर्थत्वात्तस्य। अतो नास्तिकः सोऽसन्नसाधुरुच्यते लोके। तद्विपरीतः सन्योऽस्ति ब्राहृेति चेद्वेद स तद्ब्राहृप्रतिपत्तिहेतुं सन्मार्गं वर्णाश्रमादिव्यवस्थालक्षणं श्रद्दधानतया यथावत्प्रतिपद्यते यस्मात्ततस्तस्मात् सन्तं साधुमार्गस्थमेनं विदुः साधवः। तस्मादस्तीत्येव ब्राहृ प्रतिपत्तव्यमिति वाक्यार्थः।
तस्य पूर्वस्य विज्ञानमयस्यैष एव शरीरे विज्ञानमये भवः शारीर आत्मा। कोऽसौ?य एष आनन्दमयः तं प्रति नास्त्याशङ्का नास्तित्वे। अपोढसर्वविशेषत्वात्तु ब्राहृणो नास्तित्वं प्रत्याशङ्का युक्त। सर्वसामान्याच्च ब्राहृणः। यस्मादेवमतस्तस्मात्, अथानन्तरं श्रोतुः शिष्यस्यानुप्रश्ना आचार्योक्तिमनु एते प्रश्ना अनुप्रश्नाः।
सामान्यं हि ब्राहृाकाशादिकारणत्वाद्विदुषोऽविदुषश्च। तस्मादविदुषोऽपि ब्राहृप्राप्तिराशङ्क्यते - उत अपि अविद्वानमुं लोकं परमात्मानमितः प्रेत्य कश्चन, चनशब्दोऽप्यर्थे, अविद्वानपि गच्छति प्राप्नोति किं वा न गच्छतीति द्वितीयोऽपि प्रश्नो द्रष्टव्योऽनुप्रश्ना इति
बहुवचनात्।
विद्वांसं प्रत्यन्यौ प्रश्नौ। यद्यविद्वान्सामान्यं कारणमपि ब्राहृ न गच्छति ततो विदुषोऽपि ब्राहृागमनमाशङ्क्यते। अतस्तं प्रति प्रश्न आहो विद्वानिति। उकारं च वक्ष्यमाणमधस्तादपकृष्य
तकारं च पूर्वस्मादुतशब्दाद्व्यासज्याहो इत्येतस्मात्पूर्वमुतशब्दं संयोज्य पृच्छति - उताहो विद्वानिति विद्वान्ब्राहृविदपि कश्चिदितः प्रेत्यामुं लोकं समश्नुते प्राप्नोति। समश्नुते उ इत्येवंस्थिते, अयादेशे यलोपे च कृतेऽकारस्य प्लुतिः समश्नुता 3 उ इति। विद्वान्समश्नुतेऽमुं लोकम्। किं यथाविद्वानेवं विद्वानपि न समश्नुत इत्यपरः प्रश्नः।
द्वावेव वा प्रश्नौ विद्वदविद्वद्विषयौ। बहुवचनं तु सामथ्र्यप्राप्तप्रश्नान्तरापेक्षया घटते। असद्ब्राहृेति वेद चेत्। 'अस्ति ब्राहृेति चेद्वेद'इति श्रवणादस्ति नास्तीति संशयस्ततोऽर्थप्राप्तः किमस्ति नास्तीति प्रथमोऽनुप्रश्नः। ब्राहृणोऽपक्षपातत्वादविद्वान् गच्छति न गच्छतीति द्वितीयः। ब्राहृणः समत्वेऽप्यविदुष इव विदुषोऽप्यगमनमाशङ्क्यते किं विद्वान्समश्नुते न समश्नुत इति तृतीयोऽनुप्रश्नः।
एतेषां प्रतिवचनार्थमुत्तरग्रन्थ आरभ्यते। तत्रास्तित्वमेव तावदुच्यते। यच्चोत्क्तम्। 'सत्यं ज्ञानमनन्तं ब्राहृ'इति तच्च कथं सत्यत्वमित्येतद्वक्तव्यमितीदमुच्यते सत्त्वोक्त्यैव सत्यत्वमुच्यते। उक्तं हि "सदेव सत्यम्"इति। तस्मात्सत्त्वोक्त्यैव सत्यत्वमुच्यते। कथमेवमर्थतावगम्यतेऽस्य ग्रन्थस्य शब्दानुगमात्। अनेनैव ह्रर्थेनान्वितान्युत्तराणि वाक्यानि "तत्सत्यमित्याचक्षते"(तै.उ.2।6।1) "यदेष आकाश आनन्दो न स्यात्"(तै.उ.2।7।1।) इत्यादीनि।
तत्रासदेव ब्राहृेत्याशङ्क्यते। कस्मात्?यदस्ति तद्विशेषतो गृह्रते यथा घटादि। यन्नास्ति तन्नोपलभ्यते यथा शशविषाणादि। तथा नोपलभ्यते ब्राहृ। तस्माद्विशेषतोऽग्रहणान्नास्तीति।
तन्न, आकाशादिकारणत्वाद्ब्राहृणः। न नास्ति ब्राहृ। कस्मादाकाशादि हि सर्वं कार्यं ब्राहृणो जातं गृह्रते। यस्माच्च जायते किंचित्तदस्तीति दृष्टं लोके;यथा घटाङ्कुरादिकारणं मृद्बीजादि। तस्मादाकाशादिकारणत्वादस्ति ब्राहृ।
न चासतो जातं किंचिद् गृह्रते लोके कार्यम्। असतश्चेन्नामरूपादि कार्यं निरात्मकत्वान्नोपलभ्येत। उपलभ्यते तु;तस्मादस्ति ब्राहृ। असतश्चेत्कार्यं गृह्रमाणमप्यसदन्वितमेव तत् स्यात्। न चैवम्;तस्मादस्ति ब्राहृ तत्र। "कथमसतः सज्जायेत"(छा.उ.6।2।2) इति श्रुत्यन्तरमसतः। सज्जन्मासंभवमान्वाचष्टे न्यायतः तस्मात्सदेव ब्राहृेति युक्तम्।
तद्यदि मृद्बीजादिवत्कारणं स्यादचेतनं तर्हि?
न, कामयितृत्वात्। न हि कामयित्रचेतनमस्ति लोके। सर्वज्ञं हि ब्राहृेत्यवोचाम। अतः कामयितृत्वोपपत्तिः।
कामयितृत्वादस्मदादिवदनाप्तकाममिति चेत्?
न, स्वातन्त्र्यात्। यथान्यान् परवशीकृत्य कामादिदोषाः प्रवर्तयन्ति न तथा ब्राहृणः प्रवर्तकाः कामाः। कथं तर्हि सत्यज्ञानलक्षणाः स्वात्मभूतत्वाद्विशुद्धा न तैब्र्राहृ प्रवत्र्यते। तेषां तु तत्प्रवर्तकं ब्राहृ प्राणिकर्मापेक्षया। तस्मात्स्वातन्त्र्यं कामेषु ब्राहृणः। अतो नानाप्तकामं ब्राहृ।
साधनान्तरानपेक्षत्वाच्च। किं च यथान्येषामनात्मभूता धर्मादिनिमित्तापेक्षाः कामाः स्वात्मव्यतिरिक्तकार्यकरणसाधनान्तरापेक्षाश्च न तथा ब्राहृणो निमित्ताद्यपेक्षत्वम्। किं तर्हि
स्वात्मनोऽनन्याः।
तदेतदाह सोऽकामयत स आत्मा यस्मादाकाशः संभूतोऽकामयत कामितवान्। कथम्?बहुस्यां बहु प्रभूतं स्यां भवेयम्। कथमेकस्यार्थान्तराननुप्रवेशे बहुत्वं स्यादित्युच्यते।
प्रजायेयोत्पद्येय। न हि पुत्रोत्पत्त्यवार्थान्तरविषयं बहुवचनम्, कथं तर्हि?आत्मस्थानभिव्यक्तनामरूपाभिव्यक्त्या। यदात्मस्थे अनभिव्यक्ते नामरूपे व्याक्रियेते तदा नामरूपे आत्मस्वरूपापरित्यागेनैव ब्राहृणाप्रविभक्तदेशकाले सर्वावस्थासु व्याक्रियेते तदा तन्नामरूपव्याकरणं ब्राहृणो बहुभवनम्। नान्यथा निरवयवस्य ब्राहृणो बहुत्वापत्तिरुपपद्यतेऽल्पत्वं वा। यथाकाशस्याल्पत्वं बहुत्वं च वस्त्वान्तरकृतमेव। अतस्तद्द्वारेणैवात्मा बहु भवति।
न ह्रात्मनोऽन्यदनात्मभूतं तत्प्रविभक्तदेशकालं सूक्ष्मं व्यवहितं विप्रकृष्टं भूतं भवद्भविष्यद्वा वस्तु विद्यते। अतो नामरूपे सर्वावस्थे ब्राहृणैवात्मवती, न ब्राहृ तदात्मकम्। ते तत्प्रत्याख्याने न स्त एवेति तदात्मके उच्येते। ताभ्यां चोपाधिभ्यां ज्ञातृज्ञेयज्ञानशब्दार्थादिसर्वसंव्यवहारभाग्ब्राहृ।
स आत्मैवंकामः संस्तपोऽतप्यत। तप इति ज्ञानमुच्यते। "यस्य ज्ञानमयं तपः"
(मु.उ.1।1।8) इति श्रुत्यन्तरात्। आप्तकामत्वाच्चेतरस्यासंभव एव तपसः। तत्तपोऽतप्यत तप्तवान्। सृज्यमानजगद्रचनादिविषयामालोचनामकरोदात्मेत्यर्थः।
स एवमालोच्य तपस्तप्त्वा प्राणिकर्मादिनिमित्तानुरूपमिदं सर्वं जगद्देशतः कालतो नाम्ना रूपेण च यथानुभवं सर्वैः प्राणिभिः सर्वावस्थैरनुभूयमानमसृजत सृष्टवान्। यदिदं किं च यÏत्क चेदमविशिष्टम्। तदिदं जगत्सृष्ट्वा किमकरोदित्युच्यते - तदेव सृष्टं जगदनुप्राविशदिति।
तत्रैतच्चिन्त्यं कथमनुप्राविशदिति। किं यः रुाष्टा स तेनैवात्मनानुप्राविशदुतान्येनेति किं तावद्युक्तम्?क्त्वाप्रत्ययश्रवणाद्यः रुाष्टा स एवानुप्राविशदिति।
ननु न युक्तं मृद्वच्चेत्कारणं ब्राहृ तदात्मकत्वात्कार्यस्य। कारणमेव हि कार्यात्मना परिणतमित्यतोऽप्रविष्ट इव कार्योत्पत्तेरूध्र्वं पृथक्कारणस्य पुनः प्रवेशोऽनुपपन्नः। न हि घटपरिणामव्यतिरेकेण मृदो घटे प्रवेशोस्ति। यथा घटे चूर्णात्मना मृतोऽनुप्रवेश एवमन्येनात्मना नामरूपकार्येऽनुप्रवेश आत्मन इति चेच्छØत्यन्तराच्च "अनेन जीवेनात्मनानुप्रविश्य"(छा.उ.6।3।2) इति।
नैवं युक्तमेकत्वाद्ब्राहृणः मृदात्मनस्त्वनेकत्वात्सावयवत्वाच्च युक्तो घटे मृदश्चूर्णात्मनानुप्रवेशः। मृदश्चूर्णस्याप्रविष्टदेशवत्त्वाच्च। न त्वात्मन एकत्वे सति निरवयवत्वादप्रविष्टदेशाभावाच्च प्रवेश उपपद्यते। कथं तर्हि प्रवेशः स्यात्?युक्तश्चप्रवेशः श्रुतत्वात्तदेवानुप्राविशदिति।
सावयवमेवास्तु तर्हि। सावयवत्वान्मुखे हस्तप्रवेशवन्नामरूपकार्ये जीवात्मनानुप्रवेशो युक्त एवेति चेत्?
नाशून्यदेशत्वात्। न हि कार्यात्मना परिणतस्य नामरूपकार्यदेशव्यतिरेकेणात्मशून्यः प्रदेशोऽस्ति यं प्रविशेज्जीवात्मना। कारणमेव चेत्प्रविशेज्जीवात्मत्वं जह्राद्यथा घटो मृत्प्रवेशे घटत्वं जहाति। तदेवानुप्राविशदिति च श्रुतेर्न कारणानुप्रवेशो युक्तः।
कार्यान्तरमेव स्यादिति चेत्?तदेवानुप्राविशदिति जीवात्मरूपं कार्यं नामरूपपरिणतं कार्यान्तरमेवापद्यत इति चेत्?
न;विरोधात्। न हि धटो घटान्तरमापद्यते। व्यतिरेकश्रुतिविरोधाच्च। जीवस्य नामरूपकार्यव्यतिरेकानुवादिन्यः श्रुतयो विरुध्येरन्। तदापत्तौ मोक्षासंभवाच्च। न हि यतो मुच्यमान -स्तदेवापद्यते। न हि श्रृङ्खलापत्तिर्बद्धस्य तस्करादेः।
बाह्रान्तर्भेदेन परिणतमिति चेत्तदेव कारणं ब्राहृ शरीराद्याधारत्वेन तदन्तर्जीवात्मनाधेयत्वेन च परिणतमिति चेत्?
न;बहिःष्ठस्य प्रवेशोपपत्तेः। न हि यो यस्यान्तःस्थः स एव तत्प्रविष्ट उच्यते। बहिःष्ठस्यानुप्रवेशः स्यात्प्रवेशशब्दार्थस्यैवं दृष्टत्वात्। यथा गृहं कृत्वा प्राविशदिति।
जलसूर्यकादिप्रतिबिम्बवत्प्रवेशः स्यादिति चेन्न;अपरिच्छिन्नत्वादमूर्तत्वाच्च। परिच्छिन्नस्य मूर्तस्यान्यस्यान्यत्र प्रसादस्वभावके जलादौ सूर्यकादिप्रतिबिम्बोदयः स्यात्। न त्वात्मनः;अमूर्तत्वादाकाशादिकारणस्यात्मनो व्यापकत्वात्। तद्विप्रकृष्टदेशप्रतिबिम्बाधारवस्त्वन्तराभावाच्च प्रतिबिम्बवत्प्रवेशो न युक्तः।
एवं तर्हि नैवास्ति प्रवेशो न च गत्यन्तरमुपलभामहे 'तदेवानुप्राविशत्'इति श्रुतेः। श्रुतिश्च
नोऽतीन्द्रियविषये विज्ञानोत्पत्तौ निमित्तम्। न चास्माद्वाक्याद्यत्नवतामपि विज्ञानमुत्पद्यते। हन्त तह्र्रनर्थकत्वाद्पोह्रमेतद्वाक्यम् 'तत्सृष्ट्वा तदेवानुप्राविशत्'इति।
न, अन्यार्थत्वात्। किमर्थमस्थाने चर्चा। प्रकृतो ह्रन्यो विवक्षितोऽस्य वाक्यस्यार्थोऽस्ति म स्मर्तव्यः। "ब्राहृविदाप्नोति परम्"(तै.उ.2।1।1) "सत्यं ज्ञानमनन्तं ब्राहृ"(तै.उ.2।1।1) "यो वेद निहितं गुहायाम्"(तै.उ.2।1।1) इति तद्विज्ञानं च विवक्षितं प्रकृतं च तत्। ब्राहृस्वरूपानुगमाय चाकाशाद्यन्नमयान्तं कार्यं प्रदर्शितं ब्राहृानुगमश्चारब्धः। तत्रान्नमयादात्मनोऽन्योऽन्तर आत्मा प्राणमयस्तदन्तर्मनोमयो विज्ञानमय इति विज्ञानगुहायां प्रवेशितस्तत्र चानन्दमयो विशिष्ट आत्मा प्रदर्शितः।
अतः परमानन्दमयलिङ्गाधिगमद्वारेणानन्दविवृद्ध्यवसान आत्मा ब्राहृ पुच्छं प्रतिष्ठा सर्वविकल्पास्पदो निर्विकल्पोऽस्यामेव गुहायामधिगन्तव्य इति तत्प्रवेशः प्रकल्प्यते। न ह्रन्यत्रोपलभ्यते ब्राहृ निर्विशेषत्वात्। विशेषसंबन्धो ह्रुपलब्धिहेतुर्दृष्टः यथा राहोश्चन्द्रार्कविशिष्टसंबन्धः। एवमन्तःकरणगुहात्मसंबन्धो ब्राहृण उपलब्धिहेतुः। संनिकर्षादवभासात्मकत्वाच्चान्तःकरणस्य।
यथा चालोकविशिष्टा घटाद्युपलब्धिरेवं बुद्धिप्रत्ययालोकविशिष्टात्मोपलब्धिः स्यात्तस्मादुपलब्धिहेतौ गुहायां निहितमिति प्रकृतमेव। तद्वृत्तिस्थानीये त्विह पुनस्तत्सृष्ट्वा तदेवानुप्राविशदित्युच्यते।
तदेवेदमाकाशादिकारणं कार्यं सृष्ट्वा तदनुप्रविष्टमिवान्तर्गुहायां बुद्धौद्रष्टृ श्रोतृ मन्तृ विज्ञात्रित्येवं विशेषवदुपलभ्यते। स एव तस्य प्रवेशस्तस्मादस्ति तत्कारणं ब्राहृ। अतोऽस्तित्वादस्तीत्येवोपलब्धव्यं तत्।
तत्कार्यमनुप्रविश्य, किम्?सच्च मूर्तं त्यच्चामूर्तमभवत्। मूर्तामूर्ते ह्रव्याकृतनामरूपे आत्मस्थे अन्तर्गतेनात्मना व्याक्रियेते व्याकृते मूर्तामूर्तशब्दवाच्ये। ते आत्मना त्वप्रविभक्तदेशकाले इति कृत्वात्मा ते अभवदित्युच्यते।
किं च निरुक्तं चानिरुक्तं च। निरुक्तं नाम निष्कृष्य समानासमानजातीयेभ्यो
देशकालविशिष्टतयेदं तदित्युक्तमनिरुक्तं तद्विपरीतं निरुक्तानिरुक्ते अपि मूर्तामूर्तयोरेव विशेषणे। यथा सच्च त्यच्च प्रत्यक्षपरोक्षे, तथा निलयनं चानिलयनं च। निलयनं नीडमाश्रयो मूर्तस्यैव धर्मः। अनिलयनं तद्विपरीतममूर्तस्यैव धर्मः।
त्यदनिरुक्तानिलयनान्यमूर्तधर्मत्वेऽपि व्याकृतिविषयाण्येव। सर्गोत्तरकालभावश्रवणात्। त्यदिति प्राणाद्यनिरुक्तं तदेवानियनं च अतो विशेषणान्यमूर्तस्य व्याकृतविषयाण्येवैतानि।
विज्ञानं चेतनमविज्ञानं तद्रहितमचेतनं पाषाणादि सत्यं च व्यवहारविषयमधिकारान्न परमार्थसत्यम्। एकमेव हि परमार्थसत्यं ब्राहृ। इह पुनव्र्यवहारविषयमापेक्षिकं सत्यम्, मृगतृष्णिकाद्यनृतापेक्षयोदकादि सत्यमुच्यते। अनृतं च तद्विपरीतम्। किं पुनः?एतत्सर्वमभवत्, सत्यं परमार्थसत्यम्। किं पुनस्तत्?ब्राहृ, सत्यं ज्ञानमनन्तं ब्राहृेति प्रकृतत्वात्।
यस्मात्सत्त्यदादिकं मूर्तामूर्तधर्मजातं यÏत्कचेदं सर्वमविशिष्टं विकारजातमेकमेव सच्छब्दवाच्यं ब्राहृाभवत्तद्व्यतिरेकेणाभावान्नामरूपविकारस्य, तस्मात्तद्ब्राहृ सत्यमित्याचक्षते ब्राहृविदः।
अस्ति नास्तीत्यनुप्रश्नः प्रकृतस्तस्य प्रतिवचनविषय एतदुक्तमात्माकामयत बहु स्यामिति। स यथाकामं चाकाशादिकार्यं सत्यदादिलक्षणं सृष्ट्वा तदनुप्रविश्य पश्यञ्श्रृण्वन्मन्वानो विजानन् बह्वभवत्तस्मात्तदेवेदमाकाशादिकारणं कार्यस्थं परमे व्योमन् ह्मदयगुहायां निहितं तत्प्रत्ययावभासविशेषेणोपलभ्यमानमस्ति इत्येवं विजानीयादित्युक्तं भवति।
तदेतस्मिन्नर्थे ब्रााहृणोक्त एष श्लोको मन्त्रो भवति। यथा पूर्वेषु अन्नमयाद्यात्मप्रकाशकाः पञ्चस्वप्येवं सर्वान्तरतमात्मास्तित्वप्रकाशकोऽपि मन्त्रः कार्यद्वारेण भवति।।2.6.1।।
इति ब्राहृानन्दवल्ल्यां षष्ठोऽनुवाकः।।6।।
सप्तम अनुवाक
असद्वा इदमग्र आसीत्। ततो वै सदजायत। तदात्मनँ#्स्वयमकुरुत। तस्मात्तत्सुकृतमुच्यत इति। यद्वै तत्सुकृतं रसो वै सः। रसँ#्ह्रेवायं लब्ध्वानन्दी भवति। को ह्रेवान्यात्कः। प्राण्याद् यदेष आकाश आनन्दो न स्यात्। एष ह्रेवानन्दयाति। यदा ह्रेवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते। अथ सोऽभयं गतो भवति। यदा ह्रेवैष एतस्मिन्नुदरमन्तरं कुरुते। अथ तस्य भयं भवति। तत्त्वेव भयं विदुषो मन्वानस्य। तदप्येष श्लोको भवति।।2.7.1।।
असद्वा इदमग्र आसीत्। असदिति व्याकृतनामरूपविशेषविपरीतरूपमव्याकृतं ब्राहृोच्यते। न पुनरत्यन्तमेवासत्। न ह्रस्तः सज्जन्मास्ति। इदमिति नामरूपविशेषवद्व्याकृतं जगदग्रे पूर्वं प्रागुत्पत्तेब्र्राहृेवासच्छब्दवाच्यमासीत्। ततोऽसतो वै सत्प्रविभक्तनामरूपविशेषमजायतोत्पन्नम्।
किं ततः प्रविभक्तं कार्यमिति पितुरिव पुत्रः, नेत्याह। तदसच्छब्दवाच्यं स्वयमेवात्मानमेवाकुरुत कृतवत्। यस्मादेवं तस्माद्ब्राहृैव सुकृतं स्वयंकर्तृच्यते। स्वयंकर्तृ ब्राहृेति प्रसिद्धं लोके सर्वकारणत्वात्।
यस्माद्वा स्वयमकरोत्सर्वं सर्वात्मना तस्मात्पुण्यरूपेणापि तदेव ब्राहृ कारणं सुकृतमुच्यते।
सर्वथापि तु फलसंबन्धादिकारणं सुकृतशब्दवाच्यं प्रसिद्धं लोके। यदि पुण्यं यदि वान्यत्सा प्रसिद्धिर्नित्ये चेतनवत्कारणे सत्युपपद्यते। तस्मादस्ति तद्ब्राहृ सुकृतप्रसिद्धेः। इतश्चास्ति। कुतः?रसत्वात्। कुतो रसत्वप्रसिद्धिब्र्राहृणः इत्यत आह -
यद्वै तत्सुकृतम्। रसो वै सः। रसो नाम तृप्तिहेतुरानन्दकरो मधुराम्लादिः प्रसिद्धो लोके। रसमेवायं लब्ध्वा प्राप्यानन्दी सुखी भवति। नासत् आनन्दहेतुत्वं दृष्टं लोके बाह्रानन्दसाधनरहिता अप्यनीहा निरेषणा ब्रााहृणा बाह्ररसलाभादिव सानन्दा दृश्यन्ते विद्वांसः;नूनं ब्राहृेव रसस्तेषाम्। तस्मादस्ति तत्तेषामानन्दकारणं रसवद्ब्राहृ।
इतश्चास्ति, कुतः?प्राणनादिक्रियादर्शनात्। अयमपि हि पिण्डो जीवतः प्राणेन प्राणित्यपानेनापानिति। एवं वायवीया ऐन्द्रियकाश्च चेष्टाः संहतैः कार्यकरणैर्निर्वत्र्यमाना दृश्यन्ते। तच्चैकार्थवृत्तित्वेन संहननं नान्तरेण चेतनमसंहतं संभवति। अन्यत्रादर्शनात्।
तदाह - तद्यदि एष आकाशे परमे व्योम्नि गुहायां निहित आनन्दो न स्यान्न भवेत्को ह्रेव लोकेऽन्यादपानचेष्टां कुर्यादित्यर्थः। कः प्राण्यात्प्राणनं वा कुर्यात्तस्मादस्ति तद्ब्राहृ। यदर्थाः
कार्यकरणप्राणनादिचेष्टास्तत्कृत एव चानन्दो लोकस्य।
कुतः?एष ह्रेव पर आत्मा आनन्दयात्यानन्दयति सुखयति लोकं धर्मानुरूपम्। स एवात्मानन्दरूपोऽविद्यया परिच्छिन्नो विभाव्यते प्राणिभिरित्यर्थः। भयाभयहेतुत्वाद्विद्वदविदुषोरस्ति तद्ब्राहृ। सद्वस्त्वाश्रयणेन ह्रभयं भवति। नासद्वस्त्वाश्रयणेन भयनिवृत्तिरुपपद्यते।
कथमभयहेतुत्वमित्युच्यते - यदा ह्रेव यस्मादेष साधक एतस्मिन्ब्राहृणि किंविशिष्टेऽदृश्ये दृश्यं नाम द्रष्टव्यं विकारो दर्शनार्थत्वाद्विकारस्य। न दृश्यमदृश्यमविकारइत्यर्थः। एतस्मिन्नदृश्येऽविकारेऽविषयभूते अनात्म्येऽशरीरे। यस्माददृश्यं तस्मादनात्म्यं यस्मादनात्म्यं तस्मादनिरुक्तम्। विशेषो हि निरुच्यते विशेषश्च विकारः। अविकारं च ब्राहृ,
सर्वविकारहेतुत्वात्तस्मादनिरुक्तम्। यत एवं तस्मादनिलयनं निलयनं नीड आश्रयो न निलयनमनिलयनमनाधारं तस्मिन्नेतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने सर्वकार्यधर्मविलक्षणे ब्राहृणीति वाक्यार्थः। अभयमिति क्रियाविशेषणम्। अभयामिति वा लिङ्गान्तरं परिणम्यते। प्रतिष्ठां स्थितिमात्मभावं विन्दते लभते। अथ तदा स तस्मिन्नानात्वस्य भयहेतोरविद्याकृतस्यादर्शनादभयं गतो भवति।
स्वरूपप्रतिष्ठो ह्रसौ यदा भवति तदा नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति। अन्यस्य ह्रन्यतो भयं भवति नात्मन एवात्मनो भयं युक्तम्। तस्मादात्मैवात्मनोऽभयकारणम्। सर्वतो हि निर्भया ब्रााहृणा दृश्यन्ते सत्सु भयहेतुषु तच्चायुक्तमसति भयत्राणे ब्राहृणि। तस्मात्तेषामभयदर्शनादस्ति तदभयकारणं ब्राहृेति।
कदासावभयं गतो भवति साधको यदा नान्यत्पश्यत्यात्मनि चान्तरं भेदं न कुरुते तदाभयं गतो भवतीत्यभिप्रायः। यदा पुनरविद्यावस्थायां हि यस्मादेषोऽविद्यावानविद्यया प्रत्युपस्थापितं वस्तु तैमिरिकद्वितीयचन्द्रवत्पश्यत्यात्मनि चैतस्मिन् ब्राहृणि उदपि, अरमल्पमप्यन्तरं छिद्रं भेददर्शनं कुरुते। भेददर्शनमेव हि भयकारणमल्पमपि भेदं पश्यतीत्यर्थः। अथ तस्माद्भेददर्शनाद्धेतोरस्य भेददर्शिन आत्मनो भयं भवति। तस्मादात्मैवात्मनो भयकारणमविदुषः।
तदेतदाह। तद्ब्राहृ त्वेव भयं भेददर्शिनो विदुष ईश्वरोऽन्यो मत्तोऽहमन्यः संसारी इत्येवं
विदुषो भेददृष्टमीश्वराख्यं तदेव ब्राहृाल्पमप्यन्तरं कुर्वतो भयं भवत्येकत्वेनामन्वानस्य। तस्माद्विद्वानप्यविद्वानेवासौ योऽयमेकमभिन्नमात्मतत्त्वं न पश्यति।
उच्छेदहेतुदर्शनाद्ध्युच्छेद्याभिमतस्य भयं भवति। अनुच्छेद्यो ह्रुच्छेदहेतुस्तत्रासत्युच्छेदहेतावुच्छेद्ये न तद्दर्शनकार्यं भयं युक्तम्। सर्वं च जगद्भयवद् दृश्यते। तस्माज्जगतो भयदर्शनाद्गम्यते नूनं तदस्ति भयकारणमुच्छेदहेतुरनुच्छेद्यात्मकं यतो जगद्विभेतीति। तदेतस्मिन्नप्यर्थ एष श्लोको भवति।।1।।
इति ब्राहृानन्दवल्ल्यां सप्तमोऽनुवाकः ।।7।।
अष्टम अनुवाक
भीषस्माद्वातः पवते। भीषोदेति सूर्यः। भीषास्मादग्निश्चेन्द्रश्च। मृत्युर्धावति पञ्चम इति। सैषानन्दस्य मीमाँसा भवति। युवा स्यात्साधुयुवाध्यायक आशिष्ठो दृढिष्ठो बलिष्ठस्तस्येयं पृथिवी
सर्वा वित्तस्य पूर्णा स्यात्। स एको मानुष आनन्दः। ते ये शतं मानुषा आनन्दाः ।।1।।
स एको मनुष्यगन्धर्वाणामानन्दः। श्रोत्रियस्य चाकामहतस्य। ते ये शतं मनुष्यगन्धर्वाणामानन्दाः। स एको देवगन्धर्वाणामानन्दः। श्रोत्रियस्य चाकामहतस्य। ते ये शतं देवगन्धर्वाणामानन्दः। स एकः पितृणां चिरलोकलोकानामानन्दः। श्रोत्रियस्य चाकामहतस्य। ते ये शतं पितृणां चिरलोकलोकानामानन्दाः। स एक आजानजानां देवानामानन्दः।।2।।
श्रोत्रियस्य चाकामहतस्य। ते ये शतमाजानजानां देवानामानन्दाः। स एकः कर्मदेवानां देवानामानन्दः। ये कर्मणा देवानपियन्ति। श्रोत्रियस्य चाकामहतस्य। ते ये शतं कर्मदेवानां देवानामानन्दाः। स एको देवानामानन्दः। श्रोत्रियस्य चाकामहतस्य। ते ये शतं देवानामानन्दाः। स एक इन्द्रस्यानन्दः।।3।।
श्रोत्रियस्य चाकामहतस्य। ते ये शतमिन्द्रस्यानन्दाः। स एको बृहस्पतेरानन्दः। श्रोत्रियस्य
चाकामहतस्य। ते ये शतं बृहस्पतेरानन्दाः। स एकः प्रजापतेरानन्दः। श्रोत्रियस्य चाकामहतस्य। ते ये शतं प्रजापतेरानन्दाः। स एको ब्राहृण आनन्दः। श्रोत्रियस्य चाकामहतस्य।।4।।
आनन्दः। श्रोत्रियस्य चाकामहतस्य।।4।।
भीषा भयेनास्माद्वातः पवते। भीषोदेति सूर्यः भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चम इति। वातादयो हि महार्हाः स्वयमीश्वराः सन्तः पवनादिकार्येष्वायासबहुलेषु नियताः प्रवर्तन्ते। तद्युक्तं प्रशास्तरि सति यस्मान्नियमेन तेषां प्रवर्तनम्। तस्मादस्ति भयकारणं तेषां प्रशास्तृ ब्राहृ। यतस्ते भृत्या इव राज्ञोऽस्माद्ब्राहृणो भयेन प्रवर्तन्ते। तच्च भयकारणमानन्दं ब्राहृ।
तस्यास्य ब्राहृण आनन्दस्यैषा मीमांसा विचारणा भवति। किमानन्दस्य मीमांस्यमित्युच्यते। किमानन्दो विषयविषयिसंबन्धजनितो लौकिकानन्दवदाहोस्वित् स्वाभाविक इत्येवमेषानन्दस्य मीमांसा।
तत्र लौकिक आनन्दो बाह्राद्ध्यात्मिकसाधनसंपत्तिनिमित्त उत्कृष्टः। स य एष निर्दिश्यते ब्राहृानन्दानुगमार्थम्। अनेन हि प्रसिद्धेनानन्देन व्यावृत्तविषबुद्धिगम्य आनन्दोऽनुगन्तुं शक्यते।
लौकिकोऽप्यानन्दोब्राहृानन्दस्यैव मात्रा अविद्यया तिरस्क्रियमाणे विज्ञान उत्कृष्यमाणायां
चाविद्यायां ब्राहृादिभिः कर्मवशाद्यथाविज्ञानं विषयादिसाधनसंबन्धवशाच्च विभाव्यमानश्च लोकेऽनवस्थितो लौकिकः संपद्यते। स एवाविद्याकामकर्मापकर्षेण मनुष्यगन्धर्वाद्युत्तरोत्तरभूमिष्वकामहतविद्वत्च्छ्रोत्रियप्रत्यक्षो विभाव्यते शतगुणोत्तरोत्तरोत्कर्षेण यावद्धिरण्यगर्भस्य ब्राहृण आनन्द इति। निरस्ते त्वविद्याकृते विषयविषयिविभागे विद्यया स्वाभाविकः परिपूर्ण एक आनन्दोऽद्वैतो भवतीत्येतमर्थं विभावयिष्यन्नाह।
युवा प्रथमवयाः। साधुयुवेति साधुश्चासौ युवा चेति यूनो विशेषणम्। युवाप्यसाधुर्भवति साधुरप्ययुवातो विशेषणं युवा स्यात्साधुयुवेति। अध्यायकोऽधीतवेदः। आशिष्ठ आशास्तृतमः। दृढिष्ठो दृढतमः। बलिष्ठो बलवत्तमः। एवमाध्यात्मिकसाधनसंपन्नः। तस्येयं पृथिव्युर्वी सर्वा वित्तस्य
वित्तेनोपभोगसाधनेन दृष्टार्थेनादृष्टार्थेन च कर्मसाधनेन संपन्ना पूर्णा राजा पृथिवीपतिरित्यर्थः। तस्य च य आनन्दः स एको मानुषो मनुष्याणां प्रकृष्ट एक आनन्दः।
ते ये शतं मानुषा आनन्दाः स एको मनुष्यगन्धर्वाणामानन्दः। मानुषानन्दाच्छतगुणेनोत्कृष्टो मनुष्यगन्धर्वाणामानन्दो भवति। मनुष्याः सन्तः कर्मविद्याविशेषाद्गन्धर्वत्वं प्राप्ता मनुष्यगन्धर्वाः। ते
ह्रन्तर्धानादिशक्तिसंपन्नाः सूक्ष्मकार्यकरणाः। तस्मात्प्रतिघाताल्पत्वं तेषां द्वन्द्वप्रतिघातशक्तिसाधनसंपत्तिश्च। ततोऽप्रतिहन्यमानस्य प्रतीकारवतो मनुष्यगन्धर्वस्य स्याच्चित्तप्रसादः। तत्प्रसादविशेषात्सुखविशेषाभिव्यक्तिः। एवं पूर्वस्याः पूर्वस्या भूमेरुत्तरस्यामुत्तरस्यां भूमौ प्रसादविशेषतः शतगुणेनानन्दोत्कर्ष उपपद्यते।
प्रथमं त्वकामहताग्रहणं मनुष्यविषयभोगकामानभिहतस्य श्रोत्रियस्य मनुष्यानन्दाच्छतगुणेनानन्दोत्कर्षौ मनुष्यगन्धर्वेण तुल्यो वक्तव्य इत्येवमर्थम्। साधुयुवाध्यायक इति श्रोत्रियत्वावृजिनत्वे गृह्रेते। ते ह्रविशिष्टे सर्वत्र। अकामहतत्वं तु विषयोत्कर्षाकर्षतः सुखोत्कर्षापकर्षाय विशेष्यते। अतोऽकामहतग्रहणम्, तद्विशेषतः शतगुणसुखोत्कर्षोपलब्धेरकामहतत्वस्य परमानन्दप्राप्तिसाधनत्वविधानार्थम्। व्याख्यातमन्यत्।
देवगन्धर्वा जातित एव। चिरलोकलोकानामिति पितॄणां विशेषणम्। चिरकालस्थायी लोको येषां पितॄणां ते चिरलोकलोका इति। आजान इति देवलोकस्तस्मिन्नाजाने जाता आजानजा देवाः स्मार्तकर्मविशेषतो देवस्थानेषु जाताः।
कर्मदेवा ये वैदिकेन कर्मणाग्निहोत्रादिना केवलेन देवानपियन्ति। देवा इति त्रयÏस्त्रशद्धविर्भुजः। इन्द्रस्तेषां स्वामी तस्याचार्यो बृहस्पतिः। प्रजापतिर्विराट्। त्रैलोक्यशरीरो ब्राहृा समष्टिव्यष्टिरूपः संसारमण्डलव्यापी।
यत्रैत आनन्दभेदा एकतां गच्छन्ति धर्मश्च तन्निमित्तो ज्ञानं च तद्विषयमकामहतत्वं च निरतिशयं यत्र स एष हिरण्यगर्भो ब्राहृा, तस्यैष आनन्दः श्रोत्रियेणावृजिनेनाकामहतेन च सर्वतः प्रत्यक्षमुपलभ्यते। तस्मादेतानि त्रीणि साधनानीत्यवगम्यते। तत्र श्रोत्रियत्वावृजिनत्वे नियते अकामहतत्वं तूत्कृष्यत इति प्रकृष्टसाधनतावगम्यते।
तस्याकामहतत्वप्रकर्षतश्चोपलभ्यमानः श्रोत्रियप्रत्यक्षो ब्राहृण आनन्दो यस्य परमानन्दस्य मात्रैकदेशः।
"एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति"(बृ.उ.4।3।32) इति श्रुत्यन्तरात्। स एष आनन्दो यस्य मात्राः समुद्राम्भस इव विप्रुषः प्रविभक्तो यत्रैकतां गताः स एष परमानन्दः
स्वभाविकोऽद्वैतत्वादानन्दानन्दिनोश्चाविभागोऽत्र।।1-4।।
तदेतन्मीमांसाफलमुपसंह्यियते -
स यश्चायं पुरुषे यश्चासावादित्ये स एकः। स य एवंविदस्माल्लोकात्प्रेत्य। एतमन्नमयमात्मानमुपसंक्रामति। एतं प्राणमयमात्मानमुपसंक्रामति। एतं मनोमयमात्मानमुपसंक्रामति। एतं विज्ञानमयमात्मानमुपसंक्रामति। एतमानन्दमयमात्मानमुपसंक्रामति। तदप्येष श्लोको भवति।।5।।
यो गुहायां निहितः परमे व्योम्न्याकाशादिकार्यं सृष्ट्वान्नमयान्तं तदेवानुप्रविष्टः स य इति निर्दिश्यते। कोऽसौ?अयं पुरुषे, यश्चासावादित्ये यः परमानन्दः श्रोत्रियप्रत्यक्षो निर्दिष्टो
यस्यैकदेशं ब्राहृादीनि भूतानि सुखार्हाण्युपजीवन्ति स यश्चासावादित्य इति निर्दिश्यते। स एको भिन्नप्रदेशस्थघटाकाशैकत्ववत्।
ननु तन्निर्देशे स यश्चायं पुरुष इत्यविशेषतोऽध्यात्मं न युक्तो निर्देशः, यश्चायं दक्षिणेऽक्षन्निति तु युक्तः, प्रसिद्धत्वात्।
न, पराधिकारात्। परो ह्रात्मात्राधिकृतोऽदृश्येऽनात्म्ये भीषास्माद्वातः पवते सैषानन्दस्य मीमांसेति। न ह्रकस्मादप्रकृतो युक्तो निर्देष्टुम्। परमात्मविज्ञानं च विवक्षितम्। तस्मात्पर एव निर्दिश्यते 'स एकः'इति।
नन्वानन्दस्य मीमांसा प्रकृता तस्या अपि फलमुपसंहर्तव्यम्। अभिन्नः स्वाभाविक आनन्दः परमात्मैव न विषयविषयिसंबन्धजनित इति।
ननु तदनुरूप एवायं निर्देशः 'स यश्चायं पुरुषे यश्चासावादित्ये स एकः'इति भिन्नाधिकरणस्थविशेषोपमर्देन।
नन्वेवमप्यादित्यविशेषग्रहणमनर्थकम्।
नानर्थकम्, उत्कर्षापकर्षापोहार्थत्वात्। द्वैतस्य हि मूर्तामूर्तलक्षणस्य पर उत्कर्षः सवित्रभ्यन्तर्गतः स चेत्पुरुषगतविशेषोपमर्देन परमानन्दमपेक्ष्य समो भवति न कश्चिदुत्कर्षोऽपकर्षो वा तां गतिं गतस्येत्यभयं प्रतिष्ठां विन्दत इत्युपपन्नम्।
अस्ति नास्तीत्यनुप्रश्नो व्याख्यातः। कार्यरसलाभप्राणनाभयप्रतिष्ठाभयदर्शनोपपत्तिभ्योऽस्त्येव तदाकाशादिकारणं ब्राहृोत्यपाकृतोऽनुप्रश्न एकः। द्वावन्यावनुप्रश्नौ विद्वदविदुषोब्र्राहृप्राप्त्यप्राप्तिविषयौ तत्र विद्वान्समश्नुते न समश्नुत इत्यनुप्रश्नोऽन्त्यस्तदपाकरणायोच्यते :मध्यमोऽनुप्रश्नोऽन्त्यापाकरणादेवापाकृत इति तदपाकरणाय न यत्यते।
स यः कश्चिदेवं यथोक्तं ब्राहृ उत्सृज्योत्कर्षापकर्षमद्वैतं सत्यं ज्ञानमनन्तमस्मीत्येवं वेत्तीत्येवंवित्। एवंशब्दस्य प्रकृतपरामर्शार्थत्वात् स किम्?अस्माल्लोकात्प्रेत्य दृष्टादृष्टेष्टविषयसमुदायो ह्रयं लोकस्तस्माल्लोकात्प्रेत्य प्रत्यावृत्त्य निरपेक्षो भूत्वैवं यथाव्याख्यातमन्नमयमात्मानमुपसंक्रामति। विषयजातमन्नमयात्पिण्डात्मनो व्यतिरिक्तं न पश्यति। सर्वं स्थूलभूतमन्नमयमात्मानं पश्यतीत्यर्थः।
ततोऽभ्यन्तरमेतं प्राणमयं सर्वान्नमयात्मस्थमविभक्तम्। अथैतं मनोमयं विज्ञानमयमानन्दमयमात्मानमुपसंक्रामति। अथादृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते।
तत्रैतच्चिन्त्यम्। कोऽयमेवंवित्कथं वा संक्रामतीति। किं परस्मादात्मनोऽन्यः संक्रमणकर्ता प्रविभक्त उत स एवेति।
किं ततः?
यद्यन्यः स्याच्छØतिविरोधः। "तत्सृष्ट्वा तदेवानुप्राविशत्"(तै.उ.2।6।1) "अन्योऽसावन्योऽहमस्मीति। न स वेद"(बृ.उ.1।4।10) "एकमेवाद्वितीयम्"(छा.उ.6।2।1) "तत्त्वमसि"(छा.उ.6।8।16) इति। अथ स एव, आनन्दमयात्मानमुपसंक्रामतीति कर्मकर्तृत्वानुपपत्तिः, परस्यैव च संसारित्वं पराभावो वा।
यद्युभयथा प्राप्तो दोषो न परिहर्तुं शक्यत इति व्यर्था चिन्ताः। अथान्यतरस्मिन्पक्षे
दोषाप्राप्तिस्तृतीये वा पक्षेऽदुष्टे स एव शास्त्रार्थं इति व्यर्थैव चिन्ता।
न;तन्निर्धारणार्थत्वात्। सत्यं प्राप्तो दोषो न शक्यः परिहर्तुमन्यतरÏस्मस्तृतीये वा पक्षेऽदुष्टेऽवधृते व्यर्था चिन्ता स्यान्न तु सोऽवधृत इति तदवधारणार्थत्वादर्थवत्येवैषा चिन्ता।
सत्यमर्थवती चिन्ता शास्त्रार्थावधारणार्थत्वात्। चिन्तयसि च त्वं न तु निर्णेष्यसि।
किं न निर्णेतव्यमिति वेदवचनम्?
न।
कथं तर्हि?
बहुप्रतिपक्षत्वात्। एकत्ववादी त्वम्, वेदार्थपरत्वात्, बहवो हि नानात्ववादिनो वेदबाह्रास्त्वत्प्रतिपक्षाः। अतो ममाशङ्कां न निर्णेष्यसीति।
एतदेव मे स्वस्त्ययनं यन्मामेकयोगिनमनेकयोगिबहुप्रतिपक्षमात्थ। अतो जेष्यामि सर्वान्, आरभे च चिन्ताम्।
स एव तु स्यात्तद्भावस्य विवक्षितत्वात्। तद्विज्ञानेन परमात्मभावो ह्रत्र विवक्षितो ब्राहृविदाप्नोति परमिति। न ह्रन्यस्यान्यभावापत्तिरुपपद्यते। ननु तस्यापि तद्भावापत्तिरनुपपन्नैव? न;अविद्याकृततादात्म्यापोहार्थत्वात्। या हि ब्राहृविद्यया स्वात्मप्राप्तिरुपदिश्यते साविद्याकृतस्यान्नादिविशेषात्मन आत्मत्वेनाध्यारोपितस्यानात्मनोऽपोहार्था।
कथमेवमर्थतावगम्यते?
विद्यामात्रोपदेशात्। विद्यायाश्च दृष्टं कार्यमविद्यानिवृत्तिस्तच्चेह विद्यामात्रमात्मप्राप्तौ साधनमुपदिश्यते।
मार्गविज्ञानोपदेशवदिति चेत् तदात्मत्वे विद्यामात्रसाधनोपदेशोऽहेतुः। कस्मात्?देशान्तरप्राप्तौ मार्गविज्ञानोपदेशदर्शनात्। न हि ग्राम एव गन्तेति चेत्?
न, वैधम्र्यात्। तत्र हि ग्रामविषयं विज्ञानं नोपदिश्यते। तत्प्राप्तिमार्गविषयमेवोपदिश्यते विज्ञानम्। न तथेह ब्राहृविज्ञानं व्यतिरेकेण साधनान्तरविषयं विज्ञानमुपदिश्यते।
उक्तकर्मादिसाधनापेक्षं ब्राहृविज्ञानं परप्राप्तौ साधनमुपदिश्यत इति चेन्न, नित्यत्वान्मोक्षस्येत्यादिना प्रत्युक्तत्वात्। श्रुतिश्च तत्सृष्ट्वा तदेवानुप्राविशदिति कार्यस्थस्य तदात्मत्वं दर्शयति। अभयप्रतिष्ठोपपत्तेश्च। यदि हि विद्यावान्स्वात्मनोऽन्यन्न पश्यति ततोऽभयं प्रतिष्ठां विन्दत इति स्याद्भयहेतोः परस्यान्यस्याभावात्। अन्यस्य चाविद्याकृतत्वे विद्ययावस्तुत्वदर्शनोपपत्तिस्तद्धि द्वितीयस्य चन्द्रस्य सत्त्वं यदतैमिरिकेण चक्षुष्मता न गृह्रते।
नैवं न गृह्रत इति चेत्?
न सुषुप्तसमाहितयोरग्रहणात्
सुषुप्तेऽग्रहणमन्यासक्तवदिति चेत्?
न सर्वाग्रहणात्। जाग्रत्स्वप्नयोरन्यस्य ग्रहणात्सत्त्वमेवेति चेन्न;अविद्याकृतत्वाज्जाग्रस्वप्नयोः;यदन्यग्रहणं जाग्रत्स्वप्नयोस्तदविद्याकृतमविद्याभावेऽभावात्।
सुषुप्तेऽग्रहणमप्यविद्याकृतमिति चेत्?
न, स्वाभाविकत्वात्। द्रव्यस्य हि तत्त्वमविक्रिया परानपेक्षत्वात्। विक्रिया न तत्त्वं परापेक्षत्वात्। न हि कारकापेक्षं वस्तुनस्तत्त्वम्। सतो विशेषः कारकापेक्षः, विशेषश्च विक्रिया।
जाग्रत्स्वप्नयोश्च ग्रहणं विशेषः। यद्धि यस्य नान्यापेक्षं स्वरूपं तत्तस्य तत्त्वम्, यदन्यापेक्षं न तत्तत्त्वम्, अन्याभावेऽभावात्। तस्मात्स्वाभाविकत्वाज्जाग्रत्स्वप्नवन्न सुषुप्ते विशेषः।
येषां पुनरीश्वरोऽन्य आत्मनः कार्यं चान्यत्तेषां भयानिवृत्तिर्भयस्यान्यनिमित्तत्वात्। सतश्चान्यस्यात्महानानुपपत्तिः। न चासत आत्मलाभः। सापेक्षस्यान्यस्य भयहेतुत्वमिति चेन्न,
तस्यापि तुल्यत्वात्। यदधर्माद्यनुसहायीभूतं नित्यमनित्यं वा निमित्तमपेक्ष्यान्यद्भयकारणं स्यात्तस्यापि तथाभूतस्यात्महानाभावाद्भयानिवृत्तिः, आत्महाने वा सदसतोरितरेतरापत्तौ सर्वत्रानाश्वास एव।
एकत्वपक्षे पुनः सनिमित्तस्य संसारस्य अविद्याकल्पितत्वाददोषः। तैमिरिकदृष्टस्य हि द्वितीयचन्द्रस्य नात्मलाभो नाशो वास्ति। विद्याविद्ययोस्तद्धर्मत्वमिति चेन्न, प्रत्यक्षत्वात्। विवेकाविवेकौ रूपादिवत्प्रत्यक्षावुपलभ्येते
अन्तःकरणस्थौ। न हि रूपस्य प्रत्यक्षस्य सतो द्रष्टृधर्मत्वम्। अविद्या च स्वानुभवेन रूप्यते मूढोऽहमविविक्तं मम विज्ञानमिति।
तथा विद्याविवेकोऽनुभूयते। उपदिशन्ति चान्येभ्य आत्मनो विद्याम्। तथा चान्येऽवधारयन्ति तस्मान्नामरूपपक्षस्यैव विद्याविद्ये नामरूपे च नात्मधर्मौ। "नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्राहृ"(छा.उ.8।14।1) इति श्रुत्यन्तरात्। ते च पुनर्नामरूपे सवितर्यहोरात्रे इव कल्पिते न परनार्थतो विद्यमाने।
अभेदे "एतमानन्दमयमात्मानमुपसंक्रामति"(तै.उ.2।8।5) इति कर्मकर्तृत्वानुपपत्तिरिति चेत्?
न;विज्ञानमात्रत्वात्संक्रमणस्य। न जलूकादिवत्संक्रमणमिहोपदिश्यते, किं तर्हि? विज्ञानमात्रं संक्रमणश्रुतेरर्थः।
ननु मुख्यमेव संक्रमणं श्रूयत उपसंक्रामतीति चेत्
न;अन्नमयोऽदर्शनात्। न ह्रन्नमयमुपसंक्रामतो बाह्रादस्माल्लोकाज्जलूकावत्संक्रमणं दृश्यतेऽन्यथा वा।
मनोमयस्य बहिर्निर्गतस्य विज्ञानमयस्य वा पुनः प्रत्यावृत्त्यात्मसंक्रामणमिति चेत्?
न;स्वात्मनि क्रियाविरोधादन्योऽन्नमयमन्यमुपसंक्रामतीति प्रकृत्य मनोमयो विज्ञानमयो वास्वात्मानमेवोपसंक्रामतीति विरोधः स्यात्। तथा नानन्दमयस्यात्मसंक्रामणमुपपद्यते। तस्मान्न प्राप्तिः संक्रमणं नाप्यन्नमयादीनामन्यतमकर्तृकम्।
पारिशेष्यादन्नमयाद्यानन्दमयान्तात्मव्यतिरिक्तकर्तृकं ज्ञानमात्रं च संक्रमणमुपपद्यते।
ज्ञानमात्रत्वे चानन्दमयान्तःस्थस्यैव सर्वान्तरस्याकाशाद्यन्नमयान्तं कार्यं सृष्ट्वानुप्रविष्टस्य ह्मदयगुहाभिसंबन्धादन्नमयादिष्वनात्मस्वात्मविभ्रमः संक्रमणेनात्मविवेकविज्ञानोत्पत्त्या विनश्यति। तदेतस्मिन्नविद्याविभ्रमनाशे संक्रमणशब्द उपचर्यते न ह्रन्यथा सर्वगतस्यात्मनः संक्रमणमुपपद्यते।
वस्त्वन्तराभावाच्च। न च स्वात्मन एव संक्रमणम्। न हि जलूकात्मानमेव संक्रामति। तस्मात्सत्यं ज्ञानमनन्तं ब्राहृेति। यथोक्तलक्षणात्मप्रतिपत्त्यर्थमेव बहुभवनसर्गप्रवेशरसलाभाभयसंक्रमणादि परिकल्प्यते ब्राहृणि सर्वव्यवहारविषये, न तु परमार्थतो निर्विकल्पे ब्राहृणि कश्चिदपि विकल्प उपपद्यते।
तमेतं निर्विकल्पमात्मानमेवंक्रमेणोपसंक्रम्य विदित्वा न बिभेति कुतश्चनाभयं प्रतिष्ठां विन्दत इत्येतस्मिन्नर्थेऽप्येष श्लोको भवति। सर्वस्यैवास्य प्रकरणस्यानन्दवल्ल्यर्थस्य संक्षेपतः प्रकाशनायैष मन्त्रो भवति।।5।।
इति ब्राहृानन्दवल्ल्यामष्टमोऽनुवाकः।
नवम अनुवाक
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह। आनन्दं ब्राहृणो विद्वान् न बिभेति कुतश्चनेति। एतँ#्ह वाव न तपति। किमहँ साधु नाकरवम्। किमहं पापमकरवमिति। स य एवं विद्वानेते आत्मानँस्पृणुते। उभे ह्रेवैष एते आत्मानँस्पृणुते। य एवं वेद। इत्युपनिषद्।।1।।
यतो यस्मान्निर्विकल्पाद्यथोक्तलक्षणादद्वयानन्दादात्मनो वाचोऽभिधानि द्रव्यादिसविकल्पवस्तुविषयाणि वस्तुसामान्यान्निर्विकल्पेऽद्वयेऽपि ब्राहृणि प्रकाशनाय प्रयुज्यमानान्यप्राप्याप्रकाश्यैव निवर्तन्ते स्वसामथ्र्याद्धीयन्ते--
मन इति प्रत्ययो विज्ञानम्। तच्च यत्राभिधानं वृत्तमतीन्द्रियेऽप्यर्थे तदर्थे च प्रवर्तते प्रकाशनाय। यत्र च विज्ञानं तत्र वाचः प्रवृत्तिः। तस्मात्सहैव वाङ्मनसयोरभिधानप्रत्ययोः प्रवृत्तिः सर्वत्र।
तस्माद्ब्राहृप्रकाशनाय सर्वथा प्रयोक्तृभिः प्रयुज्यमाना अपि वाचो यस्मादप्रत्ययविषयादनभिधेयाददृश्यादविशेषणात्सहैव मनसा विज्ञानेन सर्वप्रकाशनसमर्थेन निवर्तन्ते तं ब्राहृण आनन्दं श्रोत्रियस्यावृजिनस्याकामहतस्य सर्वैषणाविनिर्मुक्तस्यात्मभूतं विषयविषयिसंबन्धविनिर्मुक्तं स्वाभाविकं नित्यमविभक्तं परमानन्दं ब्राहृणो विद्वान्यथोक्तेन विधिना न बिभेति कुतश्चन निमित्ताभावात्।
न हि तस्माद्विदुषोऽन्यद्वस्त्वन्तरमस्ति भिन्नं यतो बिभेति। अविद्यया यदोदरमन्तरं कुरुते, अथ तस्य भयं
भवतीति ह्रुक्तम्। विदुषश्चाविद्याकार्यस्य तैमिरिकदृष्टद्वितीयश्चन्द्रवन्नाशाद्भयनिमित्तस्य न बिभेति कुतश्चनेति युज्यते।
मनोमयो चोदाह्मतो मन्त्रो मनसो ब्राहृविज्ञानसाधनत्वात्। तत्र ब्राहृत्वमध्यारोप्य तत्स्तुत्यर्थं न बिभेति कदाचनेति भयमात्रं प्रतिषिद्धमिहाद्वैतविषये न बिभेति कुतश्चनेति भयनिमित्तमेव
प्रतिषिध्यते।
नन्वस्ति भयनिमित्तं साध्वकरणं पापक्रिया च?
नैवम् ;कथमित्युच्यते - एतं यथोक्तमेवंविदम्, ह वावेत्यवधारणार्थौ, न तपति नोद्वेजयति च संतापयति। कथं पुनःसाध्वकरणं पापक्रिया च न तपतीत्युच्यते। किं कस्मात्साधुशोभनं कर्म नाकरवं न कृतवानस्मीति पश्चात्संतापो भवत्यासन्ने मरणकाले। तथा किं कस्मात्पापं प्रतिषिद्धं कर्माकरवं कृतवानस्मीति च नरकपतनादिदुःखभयात्तापो भवति। ते एते साध्वकरणपापक्रिये एवमेनं न तपतो यथाविद्वांसं तपतः।
कस्मात्पुनर्विद्वांसं न तपत इत्युच्यते - स य एवं विद्वानेते साध्वसाधुनी तापहेतू इत्यात्मानं स्पृणुते प्रीणयति बलयति वा परमात्मभावेनोभे पश्यतीत्यर्थः। उभे पुण्यपापे हि यस्मादेवमेष विद्वानेत्ते आत्मानमात्मरूपेणैव पुण्यपापे स्वेन विशेषरूपेण शून्ये कृत्वात्मानं स्पृणुत एव। को य एवं वेद यथोक्तमद्वैतमानन्दं ब्राहृ वेद तस्यात्मभावेन दृष्टे पुण्यपापे निर्वीर्ये अतापके जन्मान्तरारम्भके न भवतः।
इतीयमेवं यथोक्तास्यां वल्ल्यां ब्राहृविद्योपनिषत्सर्वाभ्यो विद्याभ्यः परमरहस्यं दर्शितमित्यर्थः।
परं श्रेयोऽस्यां निषण्णमिति ।।1।।
इति ब्राहृानन्दवल्ल्यां नवमोऽनुवाकः
भृगुवल्ली
प्रथम अनुवाक
सत्यं ज्ञानमनन्तं ब्राहृाकाशादिकार्यमन्नमयान्तं सृष्ट्वा तदेवानुप्रविष्टं विशेषवदिवोपलभ्यमानं यस्मात्तस्मात्सर्वकार्यविलक्षणमदृश्यादिधर्मकमेवानन्दं तदेवाहमिति विजानीयादनुप्रवेशस्य तदर्थत्वात्तस्यैवे विजानतः शुभाशुभे कर्मणी जन्मान्तरारम्भके न भवत इत्येवमानन्दवल्ल्यां विवक्षितोऽर्थः परिसमाप्ता च ब्राहृविद्या। अतः परं ब्राहृविद्यासाधनं तपो वक्तव्यमन्नादिविषयाणि चोपासनान्यनुक्तानीत्यत इदमारभ्यते।
भृर्गुर्वै वारुणिः वरुणं पितरमुपससार अधीहि भगवो ब्राहृेति। तस्मा एतत्प्रोवाच। अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति। तँ#्होवाच। यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति। तद्विजिज्ञासस्व। तद्ब्राहृेति। स तपोऽतप्यत। स तपस्तप्त्वा।।1।।
आख्यायिका विद्यास्तुतये। प्रियाय पुत्राय पुत्रोक्तेति। भृगुर्वै वारुणिः। वै शब्दः प्रसिद्धानुस्मारको भृगुरित्येवंनामा प्रसिद्धोऽनुस्मार्यते वारुणिर्वरुणस्यापत्यं वारुणिर्वरुणं पितरं ब्राहृ विजिज्ञासुरुपससारोपगतवान्, अधीहि भगवो ब्राहृेत्यनेन मन्त्रेण। अधीहि अध्यापय कथय। स च पिता विधिवदुपसन्नाय तस्मै पुत्रायैतद्वचनं प्रोवाच। अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति।
अन्नं शरीरं तदभ्यन्तरं च प्राणमत्तारमुपलब्धिसाधनानि चक्षुः श्रोत्रं मनो वाचमित्येतानि ब्राहृोपलब्धौ द्वाराण्युक्तवान्। उक्त्वा च द्वारभूतान्येतान्यन्नादीनि तं भृगुं होवाच ब्राहृणो लक्षणम्। किं तत्?
अन्नं यस्माद्वा इमानि ब्राहृादीनि स्तम्बपर्यन्तानि भूतानि जायन्ते। येन जातानि जीवन्ति प्राणान्धारयन्ति वर्धन्ते। विनाशकाले च यत्प्रयन्ति यद्ब्राहृ प्रतिगच्छन्ति, अभिसंविशन्ति तादात्म्यमेव प्रतिपाद्यन्ते। उत्पत्तिस्थितिलयकालेषु यदात्मतां न जहति भूतानि तदेतद्ब्राहृणो लक्षणम्। तद्ब्राहृ विजिज्ञासस्व विशेषेण ज्ञातुमिच्छस्व। यदेवंलक्षणं ब्राहृ तदन्नादिद्वारेण प्रतिपद्यस्वेत्यर्थः। श्रुत्यन्तरं च - "प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुस्ते निचिक्युब्र्राहृ पुराणमग्र्यम्"(बृ.उ.4।4।18) इति ब्राहृोपलब्धौ द्वाराण्येतानीति दर्शयति।
स भृगुब्र्राहृोपलब्धिद्वाराणि ब्राहृलक्षणं च श्रुत्वा पितुस्तपो ब्राहृोपलब्धिसाधनत्वेनातप्यत तप्तवान्। कुतः पुनरनुपदिष्टस्यैव तपसः साधनत्वप्रतिपत्तिर्भृगोः?सावशेषोक्तेः। अन्नादि ब्राहृणः प्रतिपत्तौ द्वारं लक्षणं च यतो वा
इमानीत्याद्युक्तवान्। सावशेषं हि तत्साक्षाद् ब्राहृणोऽनिर्देशात्।
अन्यथा हि स्वरूपेणैव ब्राहृ निर्देष्टव्यं जिज्ञासवे पुत्रायेदमित्थंरूपं ब्राहृेति। न चैवं निरदिशÏत्क तर्हि?सावशेषमेवोक्तवान्। अतोऽवगम्यते नूनं साधनान्तरमप्यपेक्षते पिता ब्राहृ विज्ञानं प्रतीति। तपोविशेषप्रतिपत्तिस्तु सर्वसाधकतमत्वात्। सर्वेषां हि नियतसाध्यविषयाणां साधनानां तप
एव साधकतमं साधनमिति हि प्रसिद्धं लोके। तस्मात्पित्रानुपदिष्टमपि ब्राहृविज्ञानसाधनत्वेन तपः प्रतिपेदे भृगुः। तच्च तपो बाह्रान्तः - करणसमाधानं तद्द्वारकत्वाद्ब्राहृप्रतिपत्तेः। "मनसश्चेन्द्रियाणां च ह्रैकाग्र्यं परमं तपः। तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते"(महा.शा.25।4) इति स्मृतेः। स च तपस्तप्त्वा।।1।।
इति भृगुवल्ल्यां प्रथमोऽनुवाकः।।1।।
द्वितीय अनुवाक
अन्नं ब्राहृेति व्यजानात्। अन्नाद्ध्येव खल्विमानि भूतानि जायन्ते। अन्नेन जातानि जीवन्ति। अन्नं प्रयन्त्यभिसंविशन्तीति। तद्विज्ञाय पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्राहृेति। तँ #् होवाच। तपसा ब्राहृ विजिज्ञासस्व। तपो ब्राहृेति। स तपस्तप्त्वा।।1।।
अन्नं ब्राहृेति व्यजानाद्विज्ञातवान् तद्धि यथोक्तलक्षणोपेतम्। कथम्?अन्नाद्ध्येव खल्विमानि भूतानि जायन्ते;अन्नेन जातानि जीवन्ति अन्नं प्रयन्त्यभिसंविशन्तीति तस्माद्युक्तमन्नस्य ब्राहृत्वमित्यभिप्रायः। स एवं तपस्तप्त्वान्नं ब्राहृेति विज्ञायान्नलक्षणेनोपपत्त्या च पुनरेव संशयमापन्नो वरुणं पितरमुपससार अधीहि भगवो ब्राहृेति।
कः पुनः संशयहेतुरस्येत्युच्यते - अन्नस्योत्पत्तिदर्शनात्। तपसः पुनः पुनरुपदेशः साधनातिशयत्वावधारणार्थः। यावद्ब्राहृणो लक्षणं निरतिशयं न भवति यावच्च जिज्ञासा न निवर्तते तावत्तप एव ते साधनम्। तपसैव ब्राहृ विजिज्ञासस्वेत्यर्थः। ऋज्वन्यत् ।।1।।
इति भृगुवल्ल्यां द्वितीयोऽनुवाकः।।2।।
तृतीय अनुवाक
प्राणो ब्राहृेति व्यजानात्। प्राणाद्ध्येव खल्विमानि भूतानि जायन्ते। प्राणेन जातानि जीवन्ति। प्राणं प्रयन्त्यभिसंविशन्तीति। तद्विज्ञाय पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्राहृेति। तँ#्होवाच। तपसा ब्राहृ विजिज्ञासस्व। तपो ब्राहृेति स तपोऽतप्यत। स तपस्तप्त्वा ।।1।।
इति भृगुवल्ल्यां तृतीयोऽनुवाक।।3।।
चतुर्थ अनुवाक
मनो ब्राहृेति व्यजानात्। मनसो ह्रेव खल्विमानि भूतानि जायन्ते। मनसा जातानि जीवन्ति। मनः प्रयन्त्यभिसंविशन्तीति। तद्विज्ञाय पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्राहृेति। तँ#्होवाच। तपसा ब्राहृ विजिज्ञासस्व। तपो ब्राहृेति। स तपोऽतप्यत। स तपस्तप्त्वा ।।1।।
इति भृगुवल्ल्यां चतुर्थोऽनुवाक।।4।।
पञ्चम अनुवाक
विज्ञानं ब्राहृेति व्यजानात्। विज्ञानाद्ध्येव खल्विमानि भूतानि जायन्ते। विज्ञानेन जातानि जीवन्ति। विज्ञानं प्रयन्त्यभिसंविशन्तीति। तद्विज्ञाय पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्राहृेति। तँ#्होवाच। तपसा ब्राहृ विजिज्ञासस्व। तपो ब्राहृेति स तपोऽतप्यत। स तपस्तप्त्वा ।।1।।
इति भृगुवल्ल्यां पञ्चमोऽनुवाक।।5।।
षष्ठ अनुवाक
आनन्दो ब्राहृेति व्यजानात्। आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते। आनन्देन जातानि जीवन्ति। आनन्दं प्रयन्त्यभिसंविशन्तीति। सैषा भार्गवी वारुणी विद्या परमे व्योमन् प्रतिष्ठिता। स य एवं वेद प्रतितिष्ठति। अन्नवानन्नादो भवति। महान् भवति प्रजया पशुभिब्र्राहृवर्चसेन। महान् कीत्र्या।।1।।
एवं तपसा विशुद्धात्मा प्राणादिषु साकल्येन ब्राहृलक्षणमपश्यञ्शनैःशनैरन्तरनुप्रविश्यान्तरतममानन्दं ब्राहृ विज्ञातवांस्तपसैव साधनेन भृगुः। तस्माद्ब्राहृविजिज्ञासुना बाह्रान्तः करणसमाधानलक्षणं परमं तपःसाधनमनुष्ठेयमिति प्रकरणार्थः।
अधुनाख्यायिकातोऽपसृत्य श्रुतिः स्वेन वचनेनाख्यायिका निर्वत्र्यमर्थमाचष्टे- सैषा भार्गवी भृगुणा विदिता वरुणेन प्रोक्ता वारुणी विद्या परमे व्योमन्ह्मदयाकाशगुहायां परम आनन्देऽद्वैते प्रतिष्ठिता परिसमाप्तान्नमयादात्मनोऽधिप्रवृत्ता। य एव मन्योऽपि तपसैव साधनेनानेनैव क्रमेणानुप्रविश्यानन्दं ब्राहृ वेद स एवं विद्याप्रतिष्ठानात्प्रतितिष्ठत्यानन्दे परमे ब्राहृणि, ब्राहृैव भवतीत्यर्थः।
दृष्टं च फलं तस्योच्यते - अन्नवान्प्रभूतमन्नमस्य विद्यत इत्यन्नवान्। सत्तामात्रेण तु सर्वो ह्रन्नवानिति विद्यया विशेषो न स्यात्। एवमन्नमत्तीत्यन्नादौ दीप्ताग्निर्भवतीत्यर्थः। महान्भवति। केन महत्त्वमित्यत आह - प्रजया पुत्रादिना पशुर्भिगवाश्वादिभिब्र्राहृवर्चसेन शमदमज्ञानादिनिमित्तेन तेजसा महान्भवति कीत्र्या ख्यात्या शुभप्रचारनिमित्तया।।1।।
इति भृगुवल्ल्यां षष्ठोऽनुवाकः।।6।।
सप्तम अनुवाक
अन्नं न निन्द्यात्। तद्व्रतम्। प्राणो वा अन्नम्। शरीरमन्नादम्। प्राणे शरीरं प्रतिष्ठितम्। शरीरे प्राणः प्रतिष्ठितः। तदेतदन्नमन्ने प्रतिष्ठितम्। स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति। अन्नवानन्नादो भवति। महान् भवति प्रजया पशुभिब्र्राहृवर्चसेन। महान्कीत्र्या।।1।।
किं चान्नेन द्वारभूतेन ब्राहृ विज्ञातं यस्मात्तस्माद्गुरुमिव अन्नं न निन्द्यात्तदस्यैवं ब्राहृविदो व्रतमुपदिश्यते। व्रतोपदेशोऽन्नस्तुतये, स्तुतिभाक्त्वं चान्नस्य ब्राहृोपलब्ध्युपायत्वात्।
प्राणो वा अन्नम्, शरीरान्तर्भावात्प्राणस्य। यद्यस्यान्तः प्रतिष्ठितं भवति तत्तस्यान्नं भवतीति। शरीरे च प्राणः प्रतिष्ठितस्तस्मात्प्रणोऽन्नं शरीरमन्नादम्। तथा शरीरमप्यन्नं प्रणोऽन्नादः। कस्मात्?प्राणे शरीरं प्रतिष्ठितम्, तन्निमित्तत्वाच्छरीरस्थितेः। तस्मात्तदेतदुभयं शरीरं प्राणश्चन्नमन्नादश्च। येनान्योन्यस्मिन्प्रतिष्ठितं तेनान्नम्। येनान्योन्यस्य प्रतिष्ठा तेनान्नादः। तस्मात्प्राणः शरीरं
चोभयमन्नमन्नादं च।
स य एवमेतदन्नमन्ने प्रतिष्ठितं वेदप्रतितिष्ठत्यन्नान्नादात्मनैव। किं चान्नवानन्नादौ भवतीत्यादि पूर्ववत्।।1।।
इति भृगुवल्ल्यां सप्तमोऽनुवाक।।7।।
अष्टम अनुवाक
अन्नं न परिचक्षीत। तद्व्रतम्। आपो वा अन्नम्। ज्योतिरन्नादम्। अप्सु ज्योतिः प्रतिष्ठितम्। ज्योतिष्यापः प्रतिष्ठिताः। तदेतदन्नमन्ने प्रतिष्ठितम्। स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति। अन्नवानन्नादो भवति। महान् भवति प्रजया पशुभिब्र्राहृवर्चसेन। महान्कीत्र्या।।1।।
अन्नं न परिचक्षीत न परिहरेत्। तद्व्रतं पूर्ववत्स्तुत्यर्थम्। तदेवं शुभाशुभकल्पनया अपरिह्यियमाणं स्तुतंमहीकृतमन्नं स्यात्। एवं यथोक्तमुत्तरेष्वप्यापो वा अन्नमित्यादिषु योजयेत्।।1।।
इति भृगुवल्ल्यामष्टमोऽनुवाक।।8।।
नवम अनुवाक
अन्नं बहु कुर्वीत। तद्व्रतम्। पृथिवी वा अन्नम्। आकाशोऽन्नादः। पृथिव्यामाकाशः प्रतिष्ठितः।
आकाशे पृथिवी प्रतिष्ठिता। तदेतदन्नमन्ने प्रतिष्ठितम्। स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति। अन्नवानन्नादो भवति। महान्भवति प्रजया पशुभिब्र्राहृवर्चसेन। महान्कीत्र्या।।1।।
अप्सु ज्योतिरित्यब्ज्योतिषोरन्नान्नादगुणत्वेनोपासकस्यान्नस्य बहुकरणं व्रतम्।।1।।
इति भृगुवल्ल्यां नवमेऽनुवाक।।4।।
दशम अनुवाक
न कंचन वसतौ प्रत्याचक्षीत। तद्व्रतम्। तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात्। आराध्यस्मा अन्नमित्याचक्षते। एतद्वै मुखतोऽन्नँ#्राद्धम्। मुखतोऽस्मा अन्नँ#्राध्यते। एतद्वै मध्यतोऽन्नँ#्राद्धम्। मध्यदोऽस्मा अन्नँराध्यते। एतद्वा अन्ततोऽन्नँ#्राद्धम्। अन्ततोऽस्म अन्नँ#्राध्यते।।1।।
य एवं वेद। क्षेम इति वाचि। योगक्षेम इति प्राणापानयोः कर्मेति हस्तयोः। गतिरिति पादयोः। विमुक्तिरिव पायौ। इति मानुषीः समाज्ञाः। अथ दैवीः। तृप्तिरिति वृष्टौ। बलमिति विद्युति।।2।।
यश इति पशुषु। ज्योतिरिति नक्षत्रेषु। प्रजातिरमृतमानन्द इत्युपस्थे। सर्वमित्याकाशे। तत्प्रतिष्ठेत्युपासीत। प्रतिष्ठावान् भवति। तन्मह इत्युपासीत। महान् भवति। तन्मन इत्युपासीत। मानवान् भवति।।3।।
तन्नम इत्युपासीत। नम्यन्तेऽस्मै कामाः। तद्ब्राहृेत्युपासीत। ब्राहृवान् भवति। तद्ब्राहृणः परिमर इत्युपासीत। पर्येणं म्रियन्ते द्विषन्तः सपत्नाः। परियेऽप्रिया भ्रातृव्याः। स यश्चायं पुरुषे यश्चासावादित्ये स एकः।।4।।
तथा पृथिव्याकाशोपासकस्य वसतौ वसतिनिमित्तं कंचन कंचिदपि न प्रत्याचक्षीत वसत्यर्थमागतं न निवारयेदित्यर्थः। वासे च दत्तेऽवश्यं ह्रशनं दातव्यम्। तस्माद्यया कया च विधया येन केन च प्रकारेण बह्वन्नं प्राप्नुयाद्ब्ह्वन्नसंग्रहं कुर्यादित्यर्थः।
यस्मादन्नवन्तो विद्वांसोऽभ्यागतायान्नार्थिनेऽराधि संसिद्धमस्मा अन्नमित्याचक्षते न नास्तीति
प्रत्याख्यानं कुर्वन्ति। तस्माच्च हेतोर्बह्वन्नं प्राप्नुयादिति पूर्वेण संबन्धः। अपि चान्नदानस्य माहात्म्यमुच्यते। यथा यत्कालं प्रयच्छत्यन्यं तथा तत्कालमेव प्रत्युपनमते। कथमिति तदेतदाह -
एतद्वा अन्नं मुखतो मुख्ये प्रथमे वयसि मुख्यया वा वृत्या पूजापुरःसरमभ्यागतायान्नर्थिने राद्धं संसिद्धं प्रयच्छतीति वाक्यशेषः। तस्य किं फलं स्यादित्युच्यते - मुखतः पूर्वे वयसि मुख्यया वा वृत्यास्मा अन्नादायान्नं राध्यते यथादत्तमुपतिष्ठत इत्यर्थः। एवं मध्यतो मध्यमे वयसि मध्यमेन चोपचारेण। तथाऽन्ततोऽन्ते वयसि जघन्येन चोपचारेण परिभवेन तथैवास्मै राध्यते संसिध्यत्यन्नम्।
य एवं वेद य एवमन्नस्य यथोक्तं माहात्म्यं वेद तद्दानस्य च फलम् तस्य यथोक्तं फलमुपनमते।
इदानीं ब्राहृण उपासनप्रकार उच्यते - क्षेम इति वाचि। क्षेमो नामोपात्तपरिरक्षणम्। ब्राहृ वाचि क्षेमरूपेण प्रतिष्ठितमित्युपास्यम्। योगक्षेम इति, योगोऽनुपात्तस्योपादानम्, तौ हि योगक्षेमौ प्राणापानयोः सतोर्भवति यद्यपि तथापि न प्राणापाननिमित्तावेव किं तर्हि ब्राहृनिमित्तौ, तस्माद्ब्राहृ योगक्षेमात्मना प्राणापानयोः प्रतिष्ठितमित्युपास्यम्।
एवमुत्तरेष्वन्येषु तेन तेनात्मना ब्राहृैवोपास्यम्। कर्मणो ब्राहृनिर्वत्र्यत्वाद्धस्तयोः कर्मात्मना ब्राहृ प्रतिष्ठितमित्युपास्यम्। गतिरिति पादयोः। विमुक्तिरिति पायौ। इत्येता मानुषीर्मनुष्येषु भवा मानुष्यः समाज्ञाः, आध्यात्मिक्यः समाज्ञा ज्ञानानि विज्ञानान्युपासनानीत्यर्थः।
अथानन्तरं दैवीर्दैव्यो देवेषु भवाः समाज्ञा उच्यन्ते। तृप्तिरितिवृष्टौ। वृष्टेरन्नादिद्वारेण तृप्तिहेतुत्वाद्ब्राहृैव तृप्त्यात्मना वृष्टौ व्यवस्थितमित्युपास्यम्। तथान्येषु तेन तेनात्मना
ब्राहृैवोपास्यम्। तथा बलरूपेण विद्युति।।2।।
यशोरूपेण पशुषु। ज्योतिरूपेण नक्षत्रेषु। प्रजातिरमृतममृतत्वप्राप्तिः पुत्रेण ऋणविमोक्षद्वारेणानन्दः सुखमित्ये तत्सर्वमुपस्थनिमित्तं ब्राहृैवानेनात्मनौपस्थे प्रतिष्ठितमित्युपास्यम्।
सर्वं ह्राकाशे प्रतिष्ठितमतो यत्सर्वमाकाशे तद्ब्राहृैवेत्युपास्यम्। तच्चाकाशं ब्राहृैव। तस्मात्तत् सर्वस्य
प्रतिष्ठेत्युपासीत। प्रतिष्ठागुणोपासनात्प्रतिष्ठावान्भवति। एवं पूर्वेष्वपि यद्यत्तदधीनं फलं तद्ब्राहृैव तदुपासनात्तद्वान्भवतीति द्रष्टव्यम्। श्रुत्यन्तराच्च - "तं यथा यथोपासते तदेव भवति"इति।
तन्मह इत्युपासीत। महो महत्त्वगुणवत्तदुपासीत। महान् भवति। तन्मन इत्युपासीत। मननं मनः। मानवान्भवति। मननसमर्थो भवति।।3।। तन्नम इत्युपासीत। नमनं नमो नमनगुणवत्तदुपासीत। नम्यन्ते प्रह्वीभवन्त्यस्मा उपासित्रे कामाः काम्यन्त इति भोग्या विषया इत्यर्थः।
तद्ब्राहृेत्युपासीत। ब्राहृ परिवृढतममित्युपासीत। ब्राहृवांस्तद्गुणो भवति। तद्ब्राहृणः परिमर इत्युपासीत। ब्राहृणः परिमरः परिम्रियन्तेऽस्मिन्पञ्च देवता विद्युद्वृष्टिश्चन्द्रमा आदित्योऽग्निरित्येताः। अतो वायुः परिमरः श्रुत्यन्तरप्रसिद्धेः। स एष एवायं वायुराकाशेनानन्य
इत्याकाशो ब्राहृणः परिमरः। तमाकाशं वाय्वात्मानं बहृणः परिमर इत्युपासीत।
एनमेवंविदं प्रतिस्पर्धिनो द्विषन्तोऽद्विषन्तोऽपि सपत्ना यतो भवन्त्यतो विशेष्यन्ते द्विषतः सपत्ना इति, एनं द्विषन्तः सपत्नास्ते परिम्रियन्ते प्राणाञ्जहति। किं च ये चाप्रिया अस्य भ्रातृव्या अद्विषन्तोऽपि ते च परिम्रियन्ते।
'प्राणो वा अन्नं शरीरमन्नादम्'- इत्यारभ्याकाशान्तस्य कार्यस्यैवान्नान्नादत्वमुक्तम्।
उक्तं नाम किं तेन?
तेनैतत्सिद्धं भवति कार्यविषय एव भोज्यभोक्तृत्वकृतः संसारो न त्वात्मनीति। आत्मनि तु भ्रान्त्योपचर्यते।
नन्वात्मापि परमात्मनः कार्यं ततो युक्तस्तस्य संसार इति।
न, असंसारिण एव प्रवेशश्रुतेः। 'तत्सृष्ट्वा तदेवानुप्राविशत्' (तै.उ.2।6।1) इत्याकाशादिकारणस्य ह्रसंसारिण एव परमात्मनः कार्येष्वनुप्रवेशः श्रूयते। तस्मात्कार्यानुप्रविष्टो जीव आत्मा पर एव असंसारी। सृष्ट्वानुप्राविशदिति समानकर्तृकत्वोपपत्तेश्च। सर्गवेशक्रिययोश्चैकश्चेत्कर्ता ततः क्त्वाप्रत्ययोयुक्तः।
प्रविष्टस्य तु भावान्तरापत्तिरिति चेत्?
न, प्रवेशस्यान्यार्थेत्वेन प्रत्याख्यातत्वात्। 'अनेन जीवेनात्मना'(छा.उ.6।3।2) इति विशेषश्रुतेर्धर्मान्तरेणानुप्रवेश इति चेत्?न; 'तत्त्वमसि'इति पुनस्तद्भावोक्तेः। भावान्तरापन्नस्यैव तदपोहार्था संपदिति चेत्?न 'तत्सत्यं स आत्मा तत्त्वमसि ' (छा.उ.6।8-13) इति सामानाधिकरण्यात्।
दष्टं जीवस्य संसारित्वमिति चेत्?
न;उपलब्धरनुपलभ्यत्वात्।
संसारधर्मविशिष्ट आत्मोपलभ्यत इति चेत्?
न?धर्मणां धर्मिणोऽव्यतिरेकात्कर्मत्वानुपपत्तेः, उष्णप्रकाशयोर्दाह्रप्रकाश्यत्वानुपपत्तिवत्। त्रासादिदर्शनाद्दुःखित्वाद्यनुमीयत इति चेत्?न, त्रासादेर्दुःखस्य चोपलभ्यमानत्वान्नोपलब्धृधर्मत्वम्।
कापिलकाणादादितर्कशास्त्रविरोध इति चेत्?
न;तेषां मूलाभावे वेदविरोधे च भ्रान्तत्वोपपत्तेः। श्रुत्युपपत्तिभ्यां च सिद्धमात्मनोऽसंसारित्वमेकत्वाच्च। कथमेकत्वमित्युच्यते - स यश्चायं पुरुषे यश्चासावादित्ये स एक इत्येवमादि पूर्ववत् सर्वम्।।4।।
स य एवंवित्। अस्माल्लोकात्प्रेत्य। एतमन्नमयमात्मानमुपसंक्रम्य। एतं प्राणमयमात्मानमुपसंक्रम्य। एतं मनोमयमात्मानमुपसंक्रम्य। एतं विज्ञानमयमात्मानमुपसंक्रम्य। एतमानन्दमयमात्मानमुपसंक्रम्य। इमाँल्लोकान्कामान्नी कामरूप्यनुसंचरन्। एतत्साम गायन्नास्ते हा 3 वु हा 3 वु हा 3 वु।।5।।
अन्नमयादिक्रमेणानन्दमयमात्मानमुपसंक्रम्यैतत्साम गायन्नास्ते।
सत्यं ज्ञानमित्यस्या ऋचोऽर्थो व्याख्यातो विस्तरेण तद्विवरणभूतयानन्दवल्ल्या। 'सोऽश्नुते सर्वान्कामान्सह ब्राहृणा विपश्चिता'(तै.उ.2।1।1) इति तस्य फलवचनस्यार्थविस्तारो नोक्तः। के ते किंविषया वा सर्वे कामाः कथं वा ब्राहृणा सह समश्नुत इत्येतद्वक्तव्यमितीदमिदानीमारभ्यते -
तत्र पितापुत्राख्यायिकायां पूर्वविद्याशेषभूतायां तपो ब्राहृविद्यासाधनमुक्तम्। प्राणादेराकाशान्तस्य च कार्यस्यान्नान्नादत्वेन विनियोगश्चोक्तः, ब्राहृविषयोपासनानि च। ये च सर्वे कामाः प्रतिनियतानेकसाधनसाध्या आकाशादिकार्यभेदविषया एते दर्शिताः। एकत्वे पुनः कामकामित्वानुपपत्तिः। भेदजातस्य सर्वस्यात्मभूतत्वात्। तत्र
कथं युगपद्ब्राहृस्वरूपेण सर्वान्कामानेवंवित्समश्नुत इत्युच्यते - सर्वात्मत्वोपपत्तेः। कथं सर्वात्मत्वोपपत्तिरित्याहपुरुषादित्यस्थात्मैकत्वविज्ञानेनापोह्रोत्कर्षापकर्षावन्नमयाद्यात्मनोऽविद्याकल्पितान्क्रमेण संक्रम्यानन्दमयान्तान्सत्यं ज्ञानमनन्तं ब्राहृादृश्यादिधर्मकं स्वाभाविकमानन्दमजममृतमभयमद्वैतं फलभूतमापन्न इमाँल्लोकान्भूरादीननुसंचरन्निति व्यवहितेन संबन्धः कथमनुसंचरन्?कामान्नी कामतोऽन्नमस्येति कामान्नी।। तथा कामतो रूपाण्यस्येति कामरूपी। अनुसंचरन्सर्वात्मनेमाँल्लोकानामात्मत्वेनानुभवन् - किम् एतत्साम गायन्नास्ते।
समत्वाद् ब्राहृैव साम सर्वानन्यरूपं गायञ्शब्दयन्नात्मैकत्वं प्रख्यापयँल्लोकानुग्रहार्थं तद्विज्ञानफलं चातीव कृतार्थत्वं गायन्नास्ते तिष्ठति। कथम्?हा 3 वु !हा 3 वु !हा 3 वु !अहो इत्येतस्मिन्नर्थेऽत्यन्तविस्मयख्यापनार्थम्।।5।।
कः पुनरसौ विस्मयः?इत्युच्यते -
अहमन्नमहमन्नमहमन्नम्। अहमन्नादो 3ऽहमन्नादो 3ऽहमन्नादः। अहँश्लोककृदहँश्लोककृदहँश्लोककृत्। अहमस्मि प्रथमजा ऋता 3 स्य। पूर्वं देवेभ्योऽमृतस्य ना 3 भायि। यो मा ददाति स इदेव मा 3 वाः। अहमन्नमन्नमदन्तमा 3द्मि। अहं विश्वं भुवनमभ्यभवा 3म्। सुवर्न ज्योतिः य एवं वेद। इत्युपनिषद्।।6।।
अद्वैत आत्मा निरञ्जनोऽपि सन्नहमेवान्नमन्नादश्च। किं चाहमेव श्लोककृत्। श्लोको नामान्नान्नादयोः संघातस्तस्य कर्ता चेतनावान्। अन्नस्यै वा परार्थस्यान्नादार्थस्य सतोऽनेकात्मकस्य पाराथ्र्येन हेतुना संघातकृत्। त्रिरुक्तिर्विस्मयत्वख्यापनार्था।
अहमस्मि भवामि। प्रथमजाः प्रथमजः प्रथमोत्पन्न ऋतस्य सत्यस्य मूर्तामूर्तस्यास्य जगतः। देवेभ्यश्च पूर्वम्। अमृतस्य नाभिरमृतत्वस्य नाभिर्मध्यं मत्संस्थममृतत्वं प्राणिनामित्यर्थः।
यः कश्चिन्मा मामन्नमन्नार्थिभ्यो ददाति प्रयच्छत्यन्नात्मना ब्रावीति स इदित्थमेवमविनष्टं यथाभूतभावा अवतीत्यर्थः। यः पुनरन्यो मामदत्वार्थिभ्यः काले प्राप्तेऽन्नमत्ति तमन्नमदन्तं भक्षयन्तं पुरुषमहमन्नमेव संप्रत्यद्मि भक्षयामि।
अत्राहैवं तर्हि बिभेमि सर्वात्मत्वप्राप्तेर्मोक्षादस्तु संसार एव यतो मुक्तोऽप्यहमन्नभूत आद्यः स्यामन्नस्य।
एवं मा भैषीः संव्यवहारविषयत्वात्सर्वकामाशनस्य। अतीत्यायं संव्यवहारविषयमन्नान्नादादिलक्षणमविद्याकृतं विद्याया ब्राहृत्वमापन्नो विद्वांस्तस्य नैव द्वितीयं वस्त्वन्तरमस्ति यतो बिभेत्यतो न भेतव्यं मोक्षात्।
एवं तर्हि किमिदमाह - अहमन्नमहमन्नाद इति?उच्यते - योऽयमन्नान्नादादिलक्षणः संव्यवहारः कार्यभूतः स संव्यवहारमात्रमेव न परमार्थवस्तु। स एवंभूतोऽपि ब्राहृनिमित्तो ब्राहृव्यतिरेकेणासन्निति कृत्वा ब्राहृविद्याकार्यस्य ब्राहृभावस्य स्तुत्यर्थमुच्यते। अहमन्नमहमन्नमहमन्नम्। अहमन्नादोऽहमन्नादोऽहमन्नाद इत्यादि। अतो
भयादिदोषगन्धोऽप्यविद्यानिमित्तोऽविद्योच्छेदाद्ब्राहृभूतस्य नास्तीति।
अहं विश्वं समस्तं भुवनं भूतैः संभजनीयं ब्राहृादिभिर्भवन्तीति वास्मिन्भूतानीति भुवनमभ्यभवामभिभवामि परेणेश्वरेण स्वरूपेण। सुवर्न ज्योतिः सुवरादित्यो नकार उपमार्थे। आदित्य इव सकृद्विभातमस्मदीयं ज्योतिज्र्योतिः प्रकाश इत्यर्थः।
इति वल्लीद्वयविहितोपनिषत्परमात्मज्ञानं तामेतां यथोक्तामुपनिषदं शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वा भृगुवत्तपो महदास्थाय य एवं वेद तस्येदं फलं यथोक्तमोक्ष इति।।6।।
इति भृगुवल्ल्यां दशमोऽनुवाकः ।।10।।