सामग्री पर जाएँ

क्रियाधिकारः/पञ्चविंशोऽध्यायः

विकिस्रोतः तः
← चतुर्विंशोऽध्यायः क्रियाधिकारः
पञ्चविंशोऽध्यायः
[[लेखकः :|]]
षड्विंशोऽध्यायः →


पञ्चविंशोंऽध्याय:
स्नपनप्रायश्चितम्
अत: परं प्रवक्ष्यामि स्नपने दोषनिष्कृतिम्।
नाऽर्पयित्वाऽङ्कुरं विष्णो: स्नपनं क्रियते यदि ।। 25.1 ।।
अङ्कुरार्पणहीने
ब्रह्मादीनान्तु षण्णां वै मन्त्रानौपासने यजेत्।
मूर्तिभिश्च जयादीनां (हीने वाऽप्यधिकेऽपि वा।
मन्त्रं तद्देवतानाञ्च) प्रत्येकं विंशतिं यजेत् ।। 25.2 ।।
अष्टोत्तरशतं हुत्वा व्याहृतीश्च सवैष्णवम्।
(1)पुष्पै: प्रपूर्वं पात्राणि श्वेतैर्वा तण्डुलैरपि (1.) पत्रादिभि: सितै: पुष्पै: पालिकादीन् प्रपूर्य च. आ. ।। 25.3 ।।
अङ्कुरानिति सङ्कल्प्य पुनश्च स्नापयेद्धरिम्।
प्रमाणे पालिकादीनां हीने वाऽच्यधिकेऽपि वा ।। 25.4 ।।
मन्त्रं तद्देवतानाञ्च वैष्णवं विंशातिं यजेत्।
पालिकानामलाभे तु शरावेष्वथवाऽर्पयेत् ।। 25.5 ।।
स्नपनालयम्
हीनाधिकेन मानेन कुर्याच्चेत्स्नपनालयम्।
वैष्णवं भूमिदैत्यं प्रत्येकं साष्टकं शतम् ।। 25.6 ।।
आलयस्योत्तरं कुर्याच्दान्तिकं स्नपनालायम्।
पुष्टिकामस्तु पूर्वस्मिन् मुक्तिकामस्तु दक्षिणे ।। 25.7 ।।
जलकामस्तु वारुण्यां सर्वकामसतु शाङ्करे।
आग्नेये नैऋते चैव वायव्ये न समाचरेत् ।। 25.8 ।।
तत्रैव यदि कुर्याच्चेतृपुन: स्नपनमाचरेत्।
तद्दिक्पालकमन्त्रञ्च वैष्णवं विंशतिं यजेत् ।। 25.9 ।।
कलशेषु
प्रमाणे कलशानाञ्च न्यूने वाऽप्यधिकेऽपि वा।
वैष्णवं जुहुयाद्ब्राह्यं महाव्याहृतिसंयुतम् ।। 25.10 ।।
व्याहृत्यन्तं पृथग्घुत्वा गृह्णीयाल्लक्षणान्वितम्।
वस्त्रे
वस्त्रहीने महान् दोषो भवेद्वस्त्रादिहीनता ।। 25.11 ।।
आचार्य पूजयेद्वस्त्रै: श्रीमन्त्रं वैष्णवं यजेत्।
तोरणादौ
तोरणे देषयुक्ते तु मन्त्रौ दौवारिकौ यजेत् ।। 25.12 ।।
तत्तद्दवाराधिपं हुत्वा वैष्णवेन समन्वितम्।
कूर्चादौ
प्रमाणहीने कूर्चादौ वैष्णवं ब्राह्मसंयुतम् ।। 25.13 ।।
सौरं षोडशकृत्वस्तु हुत्वा कुर्यात्सलक्षणम्।
पङ्क्तौ
पङ्क्तौ प्रमाणहीनायां पङ्क्तीशञ्च समर्चयेत् ।। 25.14 ।।
पङ्क्तीशमन्त्रं जुहुयाद्वैष्णवं पाञ्चभौतिकम्।
विमानपालको मित्र: पङ्क्तीश इति कीर्त्यते ।। 25.15 ।।
श्वभ्रे,मृत्सु
श्वभ्रे प्रमाणहीने च मेदिन्यादीन् सुहूयताम्।
यथोक्तस्थानमूद्धीने यथालाभं प्रगृह्य च ।। 25.16 ।।
जुहुयाद्भूमिदैवत्यं वैष्णवं ब्राह्मसंयुतम्।
अथवा पश्चिमे श्वभ्रं कृत्वा तु स्नपनालये ।। 25.17 ।।
पङ्क्तिं तस्याग्रत: कृत्वा द्रव्यन्यासार्थमेव वा।
मृदादीनि यथास्थानं पङ्क्तौ द्रव्याणि सन्न्यसेत् ।। 25.18 ।।
मध्ये शुद्धोदकै: पूर्णं कुम्भं वस्त्रादिवेष्टितम्।
सन्न्यस्य धान्यपीठोर्ध्वे मृदादिस्नपनात्परम् ।। 25.19 ।।
जप्त्वा पुरुषसूक्तञ्च स्नापयेदिति केचन।
कारयेत्स्नपनश्चवभ्रं शिलयेष्टकयाऽथवा ।। 25.20 ।।
हस्तमात्रोच्द्रयं पीठमधिष्ठानोक्तवच्चरेत्।
अधिष्ठानतलोर्ध्वे चेन्मञ्चान्तं वेदिकादिकम् ।। 25.21 ।।
तलोपुरि तलं नैव कुर्यादित्याह पूर्वज:।
तदूर्ध्वे कारयेच्छ्वभ्रमौपासनविधानत: ।। 25.22 ।।
हस्तमात्रोच्छ्रयं (1)पीठं कृत्वा यज्ञोक्तदारुभि:।
पङ्?क्तिमध्ये प्रतिष्ठाप्य जलधारां तदुत्तरे (?) (1.) पद्मं ख. ।। 25.23 ।।
संस्नाप्य देवं तच्छ्वभ्रे स्नापयेदिति ?केचन।
अथ नित्याभिषेकार्य मण्डपस्य तथोत्तरे ।। 25.24 ।।
स्थापयित्वा तथा देवं देवीभ्यां स्नापयेत्सह।
तावदायमविस्तारयुतं श्वभ्रं प्रकल्पयेत् ।। 25.25 ।।
प्रागादिकन्तु (?) पंरित: पीठानान्तु पृथक्पृथक्।
द्विवेदिसहितं कुर्यादौपासनविधानत: ।। 25.26 ।।
हस्तोच्छये षडंशे वा (1)मुखमेकांशकं भवेत्।
त्रिभागं कण्ठतुङ्गं स्याद्दिवभागं चोर्ध्वपट्टि?का ।। 25.27 ।।
कुण्डस्यौपासनस्येव निम्यं तसय विधीयते।
श्वभ्रं नित्याभिषेकार्थ केचिंदेवं वदन्ति वै ।। 25.28 ।।
पर्वतादौ
हीनाधिकेन मानेन पर्वतान् कारयेद्यदि।
आग्नेयं वैष्णवं हुतृवा व्याहत्यन्तं प्रतिप्रति ।। 25.29 ।।
धान्यानाम्
अलाभे सर्वधान्यानां केवलं यवमेव वा
व्रीहेरूर्ध्व यथालाभं धान्यं प्रक्षिप्य चार्चयेत् ।। 25.30 ।।
वायव्यं वैष्णवं ब्राह्मं जहुयात्तस्य शान्तये।
अङ्कुराणाम्
अङ्कुराणामलाभे तु (2)पूर्वाङ्कुरमथापि वा (2.) द्रव्याङ्कुरं आ. ।। 25.31 ।।
तद्दैवत्यञ्चजुहुयाद्वैष्णवं सौम्यमेव च।
मङ्गलानाम्
हीनाधिकप्रमाणेन मङ्गलान् कुरुते यदि ।। 25.32 ।।
ऐन्द्रं यजेद्वैष्णव़ञ्च महाव्याहृतिभिस्सह।
पञ्छगव्ये
यथोक्तयोगहीने तु पञ्चगव्यस्य बुद्धिमान् ।। 25.33 ।।
रौद्रञ्च वैष्णवं मन्त्रं प्रत्येकं विंशातिं यजेत्।
कपिलाया घृतं श्रेष्ठं रक्ताया दधि चाऽहरेत् ।। 25.34 ।।
श्वेतायास्तु तथा क्षीरं कृष्णाया गोमयं भवेत्।
कपोतगलवर्णाया गोमूत्रमपि चाऽहरेत् ।। 25.35 ।।
अलाभे चोक्तवर्णानां यथालाभमथापि वा।
पूर्वोक्तैरेव मन्त्रैस्तु तत्संयोगमथाऽचरेत् ।। 25.36 ।।
संयोगे पञ्चदव्यस्य मन्त्रहीनं कृते सति।
संयोगविहितं मन्त्रं द्विर्जपेत्पाणिना स्पृशन् ।। 25.37 ।।
प्रधानद्रव्येषु
ग्राह्यं क्षीरञ्च दध्याज्यमाजमाहिषवर्जितम्।
आजं वा माहिषं वाऽपि गृहीत्वा स्नापयेद्यदि ।। 25.38 ।।
पौरुषं जुहुयात्सूक्तं विष्णुसूक्तमत: परम्।
पारमात्मिकमीङ्काराद्यङ्गहोमं सकृत्सकृत् ।। 25.39 ।।
सद्यस्तप्तं सुवर्णाभं समपक्वं घृतं हरेत्।
कृमिकीटपतङ्गादि यदि दृशेत तदंघृते ।। 25.40 ।।
उत्पूय वस्त्रेणोद्दीप्य प्रोक्षायित्वाऽऽहरेत्पुन:।
संस्पृश्य वैष्णवैर्मन्त्रै 'रापोहिष्ठा' मयादिभि: ।। 25.41 ।।
सामवेदादिमन्त्रैश्च जुहुयाद्वैष्णवेन च।
स्नापयेद्देवदेवन्तं मन्त्रवद्भक्तिसंयुतम् ।। 25.42 ।।
मधुहीने तु तोयं वा समाहृतृय मधु स्मरन्।
हुत्वा ऋगादिमन्त्रेण वैष्णवेन तत: परम् ।। 25.43 ।।
स्नापयेद्देवदेव्न्तं मन्त्रं पूर्वोक्तमुच्चरन्।
दघि शुद्धं घनं ग्राह्यं निर्दोषं प्रियदर्शनम् ।। 25.44 ।।
सदोषे दध्नि जुहुयाद्वैष्णवं यजुरादिकम्।
व्याहृतीश्चैव जुहुया 'दतो देवादि' वैष्णवम् ।। 25.45 ।।
'शान्नो देवी' रिति क्षीरे प्रत्येकं विंशातिं यजेत्।
गन्धहीने च गन्धे वै तद्दैवत्यं सवैष्णवम् ।। 25.46 ।।
अक्षतोदेऽक्षतालाभे यथालाभं प्रगृह्य च।
आर्षञ्च वैष्णवं ब्राह्मं सौम्यं हुत्वाऽभिषिञ्चति ।। 25.47 ।।
फलालाभो यथालाभं गृहीत्वा सौम्यवैष्णवै:।
व्याहृत्यन्तं कुशालाभे दर्भाग्रं तत्र निक्षिपेत् ।। 25.48 ।।
आर्षकं वैष्णवं ब्राह्ममैन्दं हुत्वा समाचरेत्।
रत्नोदकस्य रत्नानामलाभे रुक्ममेव वा ।। 25.49 ।।
वैष्णवं विष्णुसूक्तञ्च ब्राह्मं रौद्रं यजेत्तत:।
जप्योदे जपहीने तु वैष्णवञ्च ब्राह्मं यजेत् ।। 25.50 ।।
हुत्वा तु पौरुषं सूक्तं विष्णुसूक्तमत: परम्।
क्षिपेद्वा तण्डुलान् शालीनोषधीनामलाभके ।। 25.51 ।।
पुण्य पुष्णणाम्
आदित्यं वैष्णवं ब्राह्मं व्याहृत्यन्तं यजेत्पुन:।
अलाभे पुण्यपुष्पाणां धातृमन्त्रं सवैष्णवम् ।। 25.52 ।।
प्रायश्चित्तं सकृद्धुत्वा यथालाभं समाहरेत्।
गन्धचूर्णानाम्
अलाभे गन्धचूर्णानां चक्रमन्त्रं सर्वष्णवम् ।। 25.53 ।।
हुत्वोशीरेण मौद्गेन चूर्णेनोद्वर्तयेत्तथा।
कषायचूर्णेषु
सर्वालाभे कषायार्थमाश्वत्थी त्वचमाहरेत् ।। 25.54 ।।
वारुणं वैष्णवं हुत्वा तेनैवोद्वर्तयेत्पुन:।
तीर्थतोयस्य
अलोभे तीर्थतोयानां नादेयं वा समाहरेत् ।। 25.55 ।।
गाङ्गेयं वैष्णवं मन्त्रं व्याहृत्यन्तं सकृद्यरेत्।
ओषधीनाम्
ओषधीनामलाभे तु वैष्णवं रौद्रसंयुतम् ।। 25.56 ।।
हुत्वाऽऽदाय यथालाभं मार्जयेत्पूर्वमन्त्रत:।
अलाभे सर्वगन्धानां चन्दनं वा समाहरेत् ।। 25.57 ।।
ऐन्द्रञ्च वैष्णवं हुत्वा व्याहृतीश्च तत: परम्।
स्लोते
प्लोतालाभेऽन्यवस्त्रेण धौतेन परिमार्जयेत् ।। 25.58 ।।
त्वाष्टुं सवैष्णवं विष्णुसूक्तं हुत्वा समाचरेत्।
'त्वष्टा रूपाणामधिपति' रिति त्वाष्ट्रमुदाहृतम् ।। 25.59 ।।
मूलगन्धस्य
अलाभे मूलगन्धस्य दूर्वाग्रं वा समाहरेत्।
ब्राह्मञ्च वैष्णवं हुत्वा प्राजापत्यसमन्वितम् ।। 25.60 ।।
धातूनाम्
अलाभो सर्वधातूनां जातिहिङ्गुलिकनतु वा।
दौर्गञ्च विष्णुसूक्तञ्च हुत्वा तेन समाचरेत् ।। 25.61 ।।
पाणिपादतलौष्ठेषु जातिहिङृगुलिकं ददेत्।
भूषणाम्बरयोर्दद्याद्धरितालं मनश्शिलाम् ।। 25.62 ।।
सर्वाङ्गेष्वञ्जनं प्रोक्तमथवा पक्ष्मणोर्द्वयो:।
गोसेचनं नयनयोर्मुखे सर्वत्र चवाऽथवा ।। 25.63 ।।
यथास्थानमलङ्कुर्यादेतैर्धातुभिरेव वै।
अलङ्कारे
अलङ्कारविपर्यासे यजेद्दौर्गञ्च वैष्णवम् ।। 25.64 ।।
जुहुयाद्भूषणालाभे स्कन्ददैवत्यवैष्णवै:।
द्रव्योद्धारे विपर्यासोद्धृते द्रव्ये मोहाद्वाऽथ प्रमादत: ।। 25.65 ।।

तद्दैवत्यञ्च हुत्वा तु वैष्णवञ्चैकविंशतिम्।
कलशभेदादौ
साधिते कलशे भिन्ने स्पृष्टे शूद्रादिभिस्तथा ।। 25.66 ।।
अन्यं कलशमादाय पूर्ववत्सम्प्रपूरयेत्।
तं स्पृष्ट्वा वौष्णवं मन्त्रं तद्दैवत्यं शतं जपेत् ।। 25.67 ।।
चतुविंशतिकृत्वश्च तद्दैवत्यं जुहोति च।
जुहुयाद्वैष्णवं ब्राह्ममष्टोत्तरशतं पुन: ।। 25.68 ।।
कृमिकीटदिपतने
कृमिकीटपतङ्गदौ द्रव्येषु पतिते यदि।
तद्द्रव्यं वर्जयेन्नित्यं द्रव्यमन्यत्समाहरेत् ।। 25.69 ।।
तद्दैवत्यं शतं हुत्वा देवेशं स्नापयेत्पुन:।
अथवा सर्वदोषाणां शान्त्यर्थं स्नपने तथा ।। 25.70 ।।
जुहुयात्पौरुषं सूक्तं विष्णुसूक्तमत: परम्।
पारमात्मिकमीङ्काराद्यष्टाशीत्याहुतीरपि ।। 25.71 ।।
श्रीसूक्तं रात्रिसूक्तञ्च दुर्गासूक्तं तत: परम्।
पञ्चवारुणसंयुक्तं जयादीन् वैष्णवानपि ।। 25.72 ।।
यजेद्द्रव्याधिदेवानां जयादीनाञ्च मूर्तिभि:।
सङ्कल्पिते स्नपने विध्निते
कल्पिते स्नपने हीने ग्रहण ग्रहणे विषुवेऽयने ।। 25.73 ।।
एकाहन्तु महाशान्तिमब्जाग्नौ जुहुयाद्बुध:।
कलशैर्द्विगुणैर्देवं स्नापयीत यथाविधि ।। 25.74 ।।
एवमेव च संवर्ध्य स्नपनंप्रति कारयेत्।
तैलाभ्यक्ते तु देवेशे स्नपनं तत्र नाचरेत् ।। 25.75 ।।
तैलाभ्येक्ते न स्नपनम्
तैलमोक्षं तत: कृत्वा पुन: स्नपनमाचरेत्।
तैलमोक्षमकृत्वा तु मोहेन स्नापयेद्यति ।। 25.76 ।।
आसुरं स्नपनं तत्स्यात्तस्य दोषस्य शान्तये।
शान्तिहोमं सकृद्धुत्वा पुनश्च स्नापयेत्तथा ।। 25.77 ।।
स्नापयेद्यदि देवीभ्यां सह तच्चासुर भवेत्।
तत्रापि शान्तिहोमान्त देवेशं स्नापयेत्पृथक् ।। 25.78 ।।
बेरविशेषाणां देवीसाहित्यराहित्ये
स्नापनं बलिबेरञ्च देवीरहितमेव वै।
औत्सवं स्नापयेच्चेत्तु देवीरहितमेव वै।
औत्सवं स्नापयेच्चेत्तु देवीभ्यां स्नापयेद्विना ।। 25.79 ।।
तत्रापि स्नपनान्ते तु देवीभ्यां सहितं चरेत्।
देवीयुक्ते स्नापने तु पूर्ववतृकारयेद्बुध: ।। 25.80 ।।
बलिबेरे च द