भक्षस्यानुज्ञापूर्वकत्वाधिकरणम् ] तृतीयोऽध्यायः । १९१ अथ त्रयोदशं एकपात्रे होतुः प्रथमभक्षाधिकरणम् ॥ १३ ॥ त्रयोदशाधिकरणमारचयति- एकपात्रे किमध्वर्युराद्यात्पूर्वमुतेतरः। तद्धस्ते पात्रसंस्थानात्तस्य प्रथमभक्षणम् ॥ २२ ॥ पाहि होतेव नः पूर्वमिति मन्त्रेण पूर्वता । वषट्कर्तुस्तदुक्तेश्च न्यायवाध्यं वचो न हि ॥ २३ ॥ एकस्मिन् पात्रे बहूनां क्वचिद्विहितं भक्षणम् । तत्र अध्वर्युः प्रथमं भक्षयेत्पात्रसंनि धानात् इति चेत्- मैवम् ; लिङ्गवाक्याभ्यां होतुःप्रथमभक्षावगमात् । (१)"होतेव नः प्रथमःपाहि" इति ऋत्विजोऽध्वर्यु संबोध्येवं प्रार्थयन्ते 'यथा होताऽस्मत्तः पूर्व भक्षयित्वा शेषप्रदा- नेनाऽस्मान् पालितवान् , तथा त्वमपि पाहि' इति । तदेतद्धोतुः प्रथमभक्षे लिङ्गम् । वाक्यं चैवमाम्नातम् “वषट्कर्तुः प्रथमभक्षः” इति । तत्र विशिष्टविधानात्प्राथम्य- मपि सिध्यति । न चैतद्वचनं पात्रसंनिधिरूपेण न्यायमात्रेण बाधितुं शक्यम् । तस्मा- द्धोता प्रथमं भक्षयेत् ॥ इति त्रयोदशं होतुः प्रथमभक्षाधिकरणम् ॥ १३ ॥ 9 अथ चतुर्दशं भक्षस्याऽनुज्ञापूर्वकत्वाधिकरणम् ॥ १४ ॥ चतुर्दशाधिकरणमारचयति- नाऽनुज्ञापूर्वको भक्षस्तत्पूर्वो वाऽत्र लाघवात् । आद्यो नाऽनुपहूतेन पेय इत्युक्तितोऽन्तिमः ।। २४ ॥ अनुज्ञाभक्षयोर्द्वयोरनुष्ठितौ गौरवाद्भक्षमात्रमिति चेत्-- मैवम्; (१)"तस्मात्सोमो नाऽनुपहृतेन पेयः” इति वचनेनाऽनुज्ञाया आवश्यकत्वम्। " इति चतुर्दशं भक्षस्याऽनुज्ञापूर्वकत्वाधिकरणम् ॥ १४ ॥ १. का. सं. १. २९. यस्मिन् ग्रहे चमसे वा यस्याऽधिकारो भक्षणेऽस्ति, तेना- ऽननुज्ञातो न पातव्यः भक्षणीयः सोमः ।
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१९२
दिखावट