ततत्परः। तथैवदेवर्षितुम्बुरुप्रभृतयोऽपि,किम्बहुना स्वयंवागीश्वरी
नित्यं वीणां धत्ते गोलोकेऽपि, अजस्रं रासगोष्ठी विराजते'
इति ह्मवैवर्तः। तस्मादत्र गीताशब्दप्रयोगः। अत्रायमभिसन्धिः।
करचरणादिभिर्यद्विलम्बितंनृत्यादिकं तत्तत्त्वमित्युच्यते। तस्मा-
न्महावाक्यसमानमेव गीतम्। ब्रह्मविद् ब्रह्मैव भवति" तत्र लयो
भवतीति लयशब्दःश्रूयते।गीतेऽपि लयशब्दःप्रयुज्यते। अधिकेना-
लम्। प्रकृतमनुसरामः। सङ्कीर्णश्लेषो मूले लक्षणालक्षितोऽपि,
अभूतोपमादिवज्ज्ञातव्यः। यथा गूढश्लेषः। आ*चादर्थसौन्द-
र्यबलेनैकपदस्यान्यत्रान्वयः, तद्घटकान्यस्य तु नान्वययोग्यता तस्मा
त्तस्य वैयर्थ्यमिति तु न शङ्कयम्, एकवारं विशिष्टान्वयेन तस्य सार्थ.
क्यात्। यथा- "ऊचे ह्रयोऽपि श्लथितानुरोधा" इति श्रीहर्ष-
- यद्वा वै निश्चयेन मत्या बुद्ध्या अधुतं तेन तया विचारमकृत्वैव
धुतेन कम्पितेन मूर्ना ता गिरी विधूयेव यथा तृणादि वस्तु कर्णान्तरं प्रवि शति चेदविचार्यैव जनाः शिरश्चालनेन तद्वस्तु क्षिपन्ति तथेति भावः । हियः अनुरोधा लज्जाकृता ला भैमी लज्जायाः सकाशात् श्लथिता च्युता सती ऊचे लज्जां त्यक्त्वा कथयामास लज्जायुक्तया जात्यागाद्विरोधा- भासः तत्परिहारस्तु लज्जायुक्तत्वे तु स्वकार्यस्यैवानुदय इति बोध्यम् (नै. ३ सर्गः श्लोकः ७४ ) अत्र रज्जाश्रयत्वपक्षे होपदं षष्ठ्यन्तं लज्जाया- श्च्युता इति पक्ष पञ्चम्यन्तम्, अनान्यतरपक्ष विभक्तेश्चारितार्य मि- तिन वैयर्थ्यन्तद्वदत्राप्यूह्यमिति दिक् ।