पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
उपोद्घातः-

भजन्ति तु मां भक्त्या' "स्त्रियो वैश्यास्तथा शूद्रा”इत्यादिना जातिविशेषव्युदासात्। किञ्च भूभारहरणार्थ गोलोकादागच्छता श्रीभगवता मनुष्ययोनिं गृह्णता तत्रत्याः सर्वे देवा अनेकावतारं विधायानीताः। अतस्तासामुक्तिब्रह्मपरापि किञ्च नहि ब्रह्मपरवाक्ये गीतपदम्प्रयुज्यते ।अत्र तत्पदप्रयोगाशयस्तु "तथा नयति कैलासं न गङ्गान सरस्वती। यथा नयति कैलासं नगङ्गानसरस्वती।" इतिश्रवणात्। अत एव बहुषूपनिषत्सु गीताशब्द एव प्रयुज्यते। यथा भगवद्गीता, अष्टावक्रगीता, रामगीता इत्यादिषु गीतये ब्रह्म यस्यामिति गीतापदार्थः । । ब्रह्म चानन्दः आनन्दा ब्रह्मति व्यजानादित्यादौ तथा दर्शनात् गीतश्रवणे हि आबालमानन्दमनुभवन्ति इति प्रसिद्धम् । तस्मा- दुपनिषद्वाक्यान्तरेष्वपि गीताशब्दप्रयोग उचित एव। किञ्च नर्तकीभिहावभावादिभिर्ब्रह्मव्यञ्जकैस्तन्निर्द्देश्य गायमानं गीतं सन्यासिनोऽपि गङ्गातटस्था ॐङ्कारोपासका ग्रीवाम्परावृत्य वृद्धमङ्गले सादराः शृण्वन्ति । तरणीस्थितनर्त्त- कीम्पश्यन्तस्तद्गीतक्रियाकालयोः साम्ये स्वमूर्द्धानं विधूय हस्ता- भ्यां तालं ददते। नहि ब्रह्मोपासकानामपि तादृगानन्दोऽनुभवगो- चरः । यादृग्गीतश्रवणेनानुभूयते।अत एव श्रीकृष्णोऽपि शश्वद्गी-


  • स्त्री संबिज्ञानेति कोषादुपनिषच्छब्दः स्त्रीलिंगः । रहस्यधर्मे वेदान्ते

चोपनिषत् । । सा चोपनिषत् ।