(८) अनेन च सर्वभावाः व्याख्याताः। तथाच सर्वेषां वस्तूनां सत्त्वमसत्त्वं वा न निर्णतुं शक्यम् । न च कथञ्चित् सत्त्वं कथञ्चिदसत्त्वमिति अनेकान्तवादिमार्गानुसरणं समुचितं, दुयुक्तियोगादनेकान्तवादस्य सर्वे: विद्भिः परिहृतत्वात्। न च सत्त्व-मसत्त्वञ्चेति इयमेव वस्तूनां तत्त्वमित्यपि वक्तुं युज्यते, सदसतोरेकविरोधात्, विरोधिरूपत्वं वस्तूनां कल्पयितुं न युज्यते। अतएव सदसत्पक्षः निराकृतः। सुतराभव च न सत्त्वं नासत्वमिति पक्षोऽपि निराकृतः स्यात् । न सत्त्वमित्युत्तौ असत्तमेवावगम्यते, तथा नासत्वमित्युक्तौ च सत्वमेवावगम्यते । , एवञ्च न सत्त्व नासत्त्वमिति उन्मत्तालापवदुपेक्षणीयम् । तथाचायं निष्कर्षः, यदि सत्ता वस्तूनां स्वभाव: स्यात्, तर्हि कदापि वस्तु सत्तां न जह्यात्, एवं तर्हि सदेव काट्य समुत्पद्यते इत्येवमायातम् । तत्तु खण्डितमेव प्राक् । नहि असत् कदापि सत् भवितुमर्हति, सदसद्धिभागानुपपत्तेः। यदि स्वभावत एव सत्त्वं स्यात्. तर्हि स्वभावस्य याव व्यावस्थायित्वेन पदार्थः कदापि असत् भवितुं नाहति। यत् सत् तत् सदेव, तत् कदाचिदपि नासत्, यत् पुनरसत् तत् असदेव, न कदाचिदपि सत् । सदसतोः सामानाधिकरण्यासम्भवाच्च देशकालभेदेन वस्तूनां सत्त्वसमत्वञ्च कल्पयितुं न युज्यते । नहि सत्त्वेन प्रतीयमानमाकाशं देशभेदेन कालभेदेन वा कदाचिदसद्भवितुमर्हति, तथा असत् शशश ङ्गादिकमपि कदाचित् कदापि सत् भवितुमर्हति । ननु वस्तूनां नि:स्वभावत्वे अनादिकालादारभ्य आकोटपतङ्गभ्यः आच देवर्षिमानुषेभ्यः व्यवहारादिक कथमुपपद्यते, सत्त्वघटितार्थकिया- कारित्व' विना व्यवहारानुपपत्तः। तस्मात् कथसुच्यते सर्व वस्तु निःस्वभावमिति अत्रोच्यते, नि:स्वभावेऽपि वस्तूनां अनाद्यविद्या- वासनावशात् सांपृतिकव्यवहारः समुपपद्यते एव । ननु सर्वेषामेव नि:स्वभावत्वे आत्मनोऽपि नि:स्वभावत्वमायातमव, तथा सति प्रमातुरपि सत्त्वाभावतया कः स्प्यात्तस्य प्रतिपादयिता, को वा विज्ञाता इति चेत्। अत्रोच्यते, विज्ञानादीनामपि सत्त्वासत्वाभ्यामनिरूपणीय- स्वरूपतया वस्तुगत्या खण्डनीयान्तर्गत्वमेव माध्यमिकानाम् । ?