शङ्करपादभूषणम्/अधिकरणम् ५ (भोक्त्रापत्त्याधिकरणम्)
← अधिकरणम् ४ (शिष्टाधिकरणम्) | शङ्करपादभूषणम् अधिकरणम् ५ (भोक्त्रापत्त्याधिकरणम्) [[लेखकः :|]] |
अधिकरणम् ६ (आरम्भणाधिकरणम्) → |
भोक्त्रापत्तेरविभागश्वेत्स्याल्लोकवत्।। 13।।
-----------------------------
अत्रोक्तसमन्वये प्रत्यक्षादिसिद्धभोक्तृभोग्यविभागलोपप्रसङ्गरूपस्वपक्षबाधोद्धारादध्यायादिसङ्गतिः। पूर्वाधिकरणे श्रुतिप्रत्यक्षाननुगृहीतं प्रत्यक्षसामान्यमप्रतिष्ठितमिति कारणमहत्त्वान्महत्तरकार्यापत्तिरूपस्तर्को न प्रतिष्ठित इत्युक्तम्। इह च भोक्तभोग्यविभागस्य प्रत्यक्षसिद्धत्वात्तन्मूलकस्तर्को नाप्रतिष्ठित इति प्रत्यवस्थानादनन्तरसङ्गतिः। अत्रोक्तसमन्वये नावगम्यमानाम् ` तत्त्वमसि' सर्वं खल्विदं ब्रह्म' इति वाक्यप्रतिपाद्यमामनद्वैतं प्रत्यक्षसिद्धभोक्तृभोग्यविभागलोपप्रसङ्गरूपतर्कबाध्यं न वेति सन्देह पूर्वपक्षः- स्यादेव बाधः। ` तत्त्वमसि' सर्व खल्विदं ब्रह्मा' इति वाक्यस्य स्वारसिकार्थाङ्गीकारे ब्रह्माभिन्नयोर्जीवजगतोः परस्परमभेदः स्यादित्युक्तविभागलोपप्रसङ्गस्य दुर्बारतया तादृशवाक्यस्यार्थान्तरपरताया आवश्यकतयाऽयुक्तमिदं ब्रह्मकारणत्वावधारणमिति।
ननूक्तयुक्त्या जीवजगतोरभेदाभिधानस्यायुक्तत्वेऽपि ब्रह्माकारणतावधारणस्य कथमयुक्ततेति चेत्। जीवजगतोर्ब्रह्मोपादेयतया श्रुतत्वादुपादानोपादेययोश्च समवायं निराकुर्वतासिद्धान्तिना परिशेषात्तयोरभेदस्यैवोपगन्तव्यतयाऽभेदासम्भव उपादानोपादेयभावोऽपि न सम्भवतीत्यभिमानवतः पूर्वपक्षिणस्तथोक्तिसम्भवात्। वस्तुतस्तु पूर्वोक्तं जगदुपादानत्वमुक्ततर्कविरोधादयुक्तमुत युक्तमित्यत्र चिन्त्यते। तत्र तावदयुक्तमिति पूर्वपक्षः। उपादानोपादेययोर्न समवाय इति वदता तयोरभेद एव परिशेषाद्वाच्य इति ब्रह्माभिन्नयोर्भोग्यभोक्त्रोः परस्परात्मतापत्त्या विभागाभावापत्तेः।
यत्तु चन्द्रिकायाम् -- यदुक्तं परैः ` ब्रह्मण उपादानत्वे भोक्तः शरीरिणो भोग्यत्वापत्तेरर्भोग्यस्य शब्दादेर्भोक्तृत्वापत्तेस्तयोरविभागः स्यात्। द्वयोरपि परमकारणब्रह्मानन्यत्वादिति। मैवम्। एकसमुद्रकार्याणां जलतरङ्गदीनामिव विभागोपपत्तेरिति सिद्धान्तः' इत्यनूद्य पूर्वपक्षे' (com -- 103) विवर्तसिद्धान्ते नोक्तसाङ्कर्याशङ्कासम्भवः। जगद्धमहेत्वविद्याविषयतालक्षणस्याधिष्ठानत्वस्य समवायतादात्म्यलक्षण सम्बन्धद्वयनिरपेक्षत्वात्' इति दूषणमुक्तम्। तदसत् । उक्ताधिष्ठानतामात्रं नोपादानता। किन्तु कार्यसमवायिकारणता कार्याभिन्नकारणता वा। अन्यथा पारिभाषिकतापत्तेः। एकविज्ञानेन सर्वविज्ञानोपपादनायोगाच्च। न चैतदुभयमपि ब्रह्माणि युज्यते। समवायानभ्युपगमात्। आद्यस्यासम्भवेन द्वितीयस्यैवाभ्युपगन्तव्यतयाऽविभागः स्यादिति शङ्काया निरपावदत्वात्।
यदपि चन्द्रिकायाम् - पूर्वपक्ष " किचं पूर्वपक्षिणा किं कार्याणां चेतनाचेतनत्वरूपेण(1) विभागो न स्यादित्यापाद्यते किंवा येन केनचिद्रूपेण। नाऽऽद्यः। चेतनस्यानादित्वेन कार्येतद्विभागाभाव(2) इष्टापत्तेः। ननु चेतनस्यानादित्वेऽपि ब्रह्माभेदाद्ब्रह्यकार्यत्वेन ब्रह्माभिन्नं यज्जडं तद्रूपत्वापत्तिरिति चेन्न। ` दृश्यते तु' ( ब्रo सूo 2। 1। 6) इति(3) सूत्रेणैव जडोपादानत्वेऽपि ब्रह्माणश्चेतनत्वाहानेरुक्तेत्वाद्ब्रह्माभेदेन(4) जीवस्य जडत्वाप्राप्तेः। नान्त्यः। एकस्वर्णपिण्डकार्याणां(5) कटकमुकुटाद्यवस्थानां भेदस्यैव दर्शनेन ब्रह्माकार्याणामप्याकाशवाय्वादीनां भेदसम्भवात्। सुवर्णपिण्डः(6) सावयवो(7) ब्रह्म तु निरवयवमिति (8)चेत्। त्वन्मतेऽपि(9) ` कृत्स्नप्रसक्तिः' ( ब्रo सूo 2। 1। 26) इति सत्र इव निरवयवस्य ब्रह्माणो युगपदनेकद्रव्योपादानत्वं न युक्तमित्येव पूर्वपक्षयितव्यम्, न तु कार्याणां विभागो न युक्त इति। तस्मान्न पूर्वपक्षोदय इति दूषणमुक्तम्। तदप्यकाण्डताण्डवम्। ` भेदाभेदयोर्विरोधाद्भेदमात्रोपगमे समवायानभ्युपगमादुपादानत्वानुपपत्तिः। अभेदस्यैवोपगमे भोक्त्रादिविभागानुपपत्तिः' इति रीत्याऽस्मदभिमतपूर्वपक्ष उक्तविकल्पाप्रसरात्। ` दृश्यते तु' इति सूत्रे विलक्षणयोरप्युपादानोपादेयभावो दृश्यत इति कार्याभिन्नकारणता लक्षणोपादानता वादिनं साङ्ख्यं प्रत्युक्म्। इह तु कार्यकारणयोरभेदाभ्युपगमे पूर्वोत्तरभावनियतकार्यकारणभावानुपपत्तेरिति भेद एव तयोरिति वादिनं तार्किकं शङ्कितारं प्रत्युक्तसमाधानानवकाशेन चेतनस्यानादित्वेऽपि ब्रह्माभेदाद्ब्रह्मकार्यत्वेन ब्रह्माभिन्नं यज्जडं तद्रूपत्वापत्तेः सुवचत्वात्। अत एवैकमहास्वर्णपिण्डेत्यादिकमपि न सत्। पूर्वपक्षिणा क्वापि कार्यकारणयोरभेदानभ्युपगमेन कारणाभिन्नकार्याणां भेदासम्भधेन येन केनचिद्रूपेण विभागो न स्यादित्यापादनसम्भवात्। एवं पूर्वपक्षे सिद्धान्तः- स्याल्लोकवदिति । अयमत्र सिद्धान्ताभिप्रायनिष्कर्षः- यथा हि तार्किकैरुपादनभूतात्कपालदेर्द्रव्याद्घटाद्युपादेयं द्रव्यमन्यदेव। तयोश्च समवाय एव सम्बन्ध इत्युच्यते नैव सिद्धान्त उपादानोपादेयभावस्थले द्रव्यद्वयमभ्युपगम्यते। अपि त्वेकमेव मृज्जलादि द्रव्यं पिण्डाकस्थारूपं धर्मं परित्यज्य कारकविशेषात्कम्बुग्रीवादिपेनतरङ्गादिरूपसंस्थानमविशेषभाग्भवति। तथा च मृत्पिण्ड एव घटो जातो जलमेव फेनतरङ्गदि जातमिति सामानाधिकरण्यव्यवहारोऽपि । तथा ` सर्व खल्विदं ब्रह्म' इति वाक्ये--
(f.n. क.`तनत्वे। 2. क.`भानेनेष्टा'। 3 क. इत्यतीताधिकरणस्थसृ । 4 क. `क्तत्वेन ब्रह्मा'। 5 क. `कमहासुर्वण'। 6 क. `पिण्डं सा'। 7.क. `यवं ब्रं'। 8 क. `चेत्तर्हि त्वं'। )
अस्ति भाति प्रियं रूपं नाम चेत्यशपञ्चकम्।
आद्यत्रयं ब्रह्मारूपं जगद्रूपं ततो द्वयम्।।
इत्युभियुक्तोक्तरीत्या सदादिरूपेणोपादानतया जगदनुप्रविष्टब्रह्मारूपधर्णिणमादायाभेद उपपन्नः। नामरूपांशस्य तु ब्रह्मणा सहोपादानाताघटतं तादात्म्यमेव। तच्च समानाधिकरणशब्दोल्लेखिप्रत्ययनिर्वाहकः सम्बन्धविशेषः, नात्यन्ताभेदरूपं स्वरूपैक्यम्। तच्च न भेदेन विरुध्यत इति न ब्रह्मजगतोः साङ्कर्यम्। ननु नामरूपांशे स्वरूपैक्यानभ्युपगमेन साङ्कर्यवारणेऽपि जीवब्रह्मणोः स्वरूपैक्याभ्युपगमेन तयोः साङ्कर्यं दुर्वारमेवेति चेत्। न । स्वरूपैक्ये सत्यपि तयोरोपाधिकभेदाप्युगमेन साङ्कर्यानवकाशादिति।
आनन्दतीर्थीयास्तु - ` परेऽव्यये सर्व एकी भवन्ति' इति श्रुतौ जीवस्य मुक्तावीशाभेदप्रतिपादनात्तेन संसारदशायामप्यभेदं प्रसाध्य तेन ब्रह्मणि सर्वकारणत्वमसम्भवीत्येकः पूर्वपक्षः। च्विप्रत्ययस्वारस्याय संसारदशायां भेद एव, मुक्तावेव परम्-अभेदः। तथा च जगज्जन्मादिकारणत्वलक्षणस्य मुक्तजीवेऽति व्याप्तिरिति द्वितीयेः। संसारदशायां जीवब्रह्मणोभेदाभेदौमुक्तो त्वभेद एव। तथा च मुक्ते संसारिणि चातिव्याप्तिरिति तृतीयः। तथाहि चन्द्रिकायाम् -- ` एकी भवन्ति' इति ब्रह्मण स्तावन्मुक्तावभेदः (1)श्रूयते। न च तावता(2) ब्रह्मणः सर्वकर्तृत्वं सिध्यति। संसारिण इव मुक्तस्य सर्वकर्तृत्व प्रत्यक्षादिविरोधाभावेन पूर्वमसतोऽपि जीवे सर्वकर्तृत्वस्य मुक्तेरिव ज्ञानेनोपगमसम्भवेन च मुक्ताभिन्नस्यापि ब्रह्मणः कथञ्चित्सर्वकारणत्वसम्भवात्। तस्मादसर्वकर्तृत्वेन प्रत्यक्षसिद्धससार्यभेदाद्ब्रह्मणोऽपि न तथात्वमिति वक्तुं युक्तावभेदेन संसारेऽप्यभेदः साध्यः। ` एकी भवन्ति' इत्यभूततद्भावार्थच्विप्रत्ययस्तु' न ह्यन्यस्यान्यत्वं प्रयुज्यते' इति भाष्येक्तयुक्तिविरोधाद्भेदभ्रमनिवृत्तेरभूततद्भावाभिप्राय इत्येकः पक्षः। द्वितीयस्तु - च्विप्रत्ययस्वारस्यात्पूर्व भेदो मुक्तो त्वभेदः। ` न ह्यन्यस्यान्यत्वं प्रयुज्यते' इति युक्तिस्तु च्विप्रत्ययरूपश्रुत्या बाध्यते। तृतीयस्तु - पूर्वं भेदाभेदौ मुक्तौ तु केवलाभेदः। एवं च च्विप्रत्ययोयुक्तः। पूर्वं केवलाभेदाभावात्। `न ह्यन्यस्य' इत्यादियुक्तिविरोधश्च न । पूर्वमप्यभेदस्य सत्त्वात्। अत्र पक्षत्रये प्रत्येकं पुनः पक्षत्रयं सम्भवति। एकपदलक्षणयैव विरोधपरिहारसम्भवाच्चिन्मात्राच्चिन्मात्रस्य भेदाप्रसक्त्यैक्योपदेशवैयर्थ्याच्चैकपदलक्षणयैकत्रैव विशिष्टरूपत्यागेन ब्रह्मणः प्रत्यक्षसिद्धासर्वकर्तृदीवसालक्षण्येन वा जीवस्य श्रुतिसिद्धसर्वकर्तृब्रह्मसालक्षण्येन वा मिथ्यावादिरीत्या पदद्वयलक्षणयोभयत्रापि विशिष्टरूपत्यागेन चिन्मात्रैक्येन वा। तत्राऽऽद्ये लक्षणस्यासम्भवः। द्वितीयेऽति व्याप्तिः। सदाऽपि शद्धाभेद इति पक्षे संसारिणि, मुक्तावेवाभेद इति पक्षे मुक्ते। मुक्तेः पूर्व भेदाभेदाविति पक्षेऽपि मुक्तेऽभेदां शमादाय संसारिण चातिव्याप्ति ( com -- 104) स्तृतीयेऽपीति। सिद्धान्तस्तु -- जीवेशयोरभेदस्यासंभवान्न जगत्कारणत्वस्यासंभवादिः। ` एकी भवन्ति' इति मुक्तावैक्यव्यपदेशात्तात्सिद्धिरिति चेत्। लोक उदकान्तस्यैकीभावव्यवहारेऽप्यन्तर्भेददर्शनेन व्यभितचारात्। ऐक्यव्यपदेशस्य स्थानैक्यादिनाऽपि जलैकीभाववदुपचरितार्थत्वात्। तथैव श्रुतितदुबृंहणैर्बोधितत्वाच्च। तथा च श्रुतिः- यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति। एवं मुनेर्विजानत आत्मा भवति गौतम्'। स्कान्दे च --
(तृतीयेऽपीति। इदानीतनचन्द्रिकापुस्तके तु -तत्राऽऽद्ये लक्षणस्यासम्भवः। द्वितीयेऽतिव्याप्तिः। सदाऽपि शुद्धाभेद इति पक्षे संसारिणि मुक्तावेवाभेद इति पक्षे मुक्तेः पूर्वं भेदाभेदाविति पक्षेऽपि मुक्तेऽभेदांशमादाय संसारिणि चातिव्याप्तेः। तृतीयेऽपि सत्यं कर्तृत्वमसम्भवि। असत्वं तु प्रधानादावतिव्याप्तम्। सिद्धान्तिनोऽनिष्टं च। इत्यपलभ्यते। )
उदकं तूदके सिक्तं मिश्रमेव यथा भवेत्।
न चैतदेव भवति यतो वृद्धिः प्रदृश्यते।।
एवमेव हिल जीवोऽपि तादात्म्यं परमात्मना।
प्राप्तरो ऽपि नासौ भवति स्वातन्त्र्यादिविशेषणात्।।
इतीत्यधिकरणयोजनामाहुः। तदसत्। ` तत्त्वमसि' इत्यादीनामनेकेषा सर्वदा जीवब्रह्माभेदबोधकत्वेन पराभिमतानां वेदान्तानां सत्त्वेन ` परेऽव्यये ' इत्यादिश्रुत्युक्तमुक्तपराभेदेन प्रसाधितस्य संसारिपराभेदस्य पूर्वपक्षहेतुतोक्तेः शिशेवेष्टनेन नासिकास्पर्शतुल्यत्वात्। मुक्तजीवस्य परात्यन्ताभेदे तस्य लक्ष्यतावच्छेदकाक्रान्ततया तत्र लक्षणसत्त्वस्यातिव्याप्तिरूपत्वाभिधानानौचित्याच्च। ` परेऽव्यये सर्व एकी भवन्ति' इत्यत्र स्थानैक्यादिकं विवक्षितमिति सिद्धान्तोक्तिरप्ययुक्ता। जीवपरयोः स्थानैक्यस्य नित्यसिद्धतया च्विप्रत्ययास्वारस्यस्यापरिहारात्। यदप्युक्तम् --- ` यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ' इति । सावधारणश्रुत्या जलद्वयसाम्यमेव प्रतिपाद्यते , न त्वैक्यमिति।
तत्रेदं विचारणीयम् - दृष्टन्ते तावच्छुद्धत्वेन सादृश्यमात्रं विवक्षितम्। तदा नासिक्तस्यापि जलस्य शुद्धस्य शद्धत्वादिना सादृश्यानपायाच्छ्रुतिगतासिक्तन्ताभागस्य वैयर्थ्यमिति तद्भेदग्रहाविषययत्वादिना सादृश्यं वाच्यम्। तथा सति जलद्वयमेलनस्य भेदग्रहविरोधित्वेनोक्तसादृश्यप्रयोजकत्वलाभेन तद्भागस्यार्थवत्त्वम्। एवं च तादृग्जलस्य दृष्टान्तत्वं वदता मुक्तस्य ब्रह्मणाऽपि तद्भेदग्रहावियत्वादिनैव सादृश्यं तदभिन्नत्वपर्यवसितमत्र प्रतिपाद्यत इति वक्तव्यम्। यद्यपि सतोऽपि भेदस्याग्रहणेनाप्युक्तश्रुत्युपपत्तिस्तथाऽपि ` नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता' `न ह्यस्ति द्वैतसिद्धिरात्मैव सिद्धाः' ` नैव काचनात्र भिदाऽस्ति' `स ह यो वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति'
`यादवन्मोहं तु भेदः स्याज्जीवस्य च परस्य च।
ततः परंन भेदोऽस्ति भेदहेतोरभावतः।
विभेदजनके ज्ञाने नाशमात्यन्तिकं गते।
आत्मना ब्रह्मणो भेदमसन्तं कः करिष्यति'
इत्यश्रुतिस्मृतिपर्यालोचनया भेदाभावादेव न तथा ग्रहणमिति युक्तं कल्पयितुम्। यथा च ' नान्योऽतोऽस्ति द्रष्टा ' इत्यादिश्रुतेर्जीवेशभेदनिषेध एव स्वरसास्तथोक्तं प्रागानन्दमयाधिकरणे विस्तरेण। युक्तं च मुक्तिकाले भेदस्यैवासत्त्वकल्पनया तदग्रहणम्। अन्यथा तदग्रहणकारणदोषकल्पनापत्त्या मुक्तेरेवानुपपत्तेः। निरस्तसमस्तदोषस्यैव मुक्तिश्रवणात्। एवं माण्ड्क्योपनिशदो जीवब्रह्यैक्यपरत्वात्तदन्तर्गतस्य ' परेऽव्यये सर्व एकीभवन्ति' इत्यस्य भेदपरत्वाभावान्नोपटारितार्थत्वकल्पनं युक्तम्।
अथ भेदाशे षड्विघतात्पर्यनिर्णीयकलिङ्गोपेतमाण्डूक्योपनिषद्गतस्य ' परेऽव्यये सर्व एकी भवन्ति' इत्यस्य कथं न भेदपरत्वम्। तथा ह्याथर्वणे - ' द्वा सुपार्णा ' इत्युपक्रम्ः। ' परं साम्यमुपेति ' इत्युपसंहारः। 'तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति। जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः इत्यभ्यासः। शास्त्रैकसमधिगम्येश्वरप्रतियोगिकस्य कालत्रयाबाध्यभेदस्य शास्त्रं विनाऽपाप्तेरपूर्वता।' पुण्यपापे विधूय' इति फलम्। ' अस्य महिमानम्' इति स्तुतिरुपोऽर्ववादः। ' अति अनश्नन्' इत्युपपत्तिरिति चेत्। अत्र वदन्ति - आथर्वणे प्रथममुण्डके' कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति ' इति शौनकपश्नानन्तरम्' द्वेविद्ये वेदितव्ये' इति विद्याद्वयमवतार्य ऋग्वेदादिलक्षणामपरामुक्तत्वा ' अथ परा यया तदक्षरंमधिगम्यते। यत्तदद्रेश्यमग्राह्यम् गीत्रमवर्णम्' इत्यादिना परविद्याविषयमक्षरं प्रतिपादयताऽभेदस्यैवोपक्रान्तत्वादन्यथा तदुत्तरत्वानुपपत्तेर्द्वितीयमुष्डके' पुरुष एवेदं विश्वं ब्रह्मैवेदं विश्वम्' इओथि मध्येऽपि तस्यैव परामर्शात्तृतीयमुण्डकान्ते च ' परेऽव्यये सर्व एकी भवन्ति' ' सायो ह वै तत्परमं ब्रह्म वेद ब्रह्यैव भवति' इत्यैक्यलक्षणफलेनोपसंहाराच्चमुण्डकत्रयात्मिकाया उपनिषद ऐक्यपरत्वेन तन्मध्यस्थितवाक्यस्यापि ' द्वा सुपार्णा' इत्यादेः ' असंयुक्तं प्रकरणादितिकर्तव्यतार्थित्वात्' ( जैo सूo 3।3। 11) इति न्यायेनाभिक्रमणन्यायेन च तदनुकूलत्वेनैव व्याख्येयतया तस्य भेदोपक्रमत्वाभावात्। ' असंयुक्तम्' इत्यादिन्यायश्चेत्थम् - दर्शपौ ( पू) र्णमासादिकं प्रकृत्य ' समिधो यजति ' इत्यादि श्रूयते। तस्य दर्शादौ समिदाद्यङ्गत्वबोधकत्वमसमस्ति न वेति संशये - साध्यसाधनाकाङ्क्षयोः स्वर्गयागाद्यन्वयेन विच्छेदान्न तद्बोधकत्वमिति प्राप्ते - तयोर्विच्छेदेऽपीतिकर्तव्यताकाङ्क्षया ' समिधो यजति' इत्याद्य ' दर्शपौ(पू)र्णमासाभ्यां स्वर्गकामो यजेत' इत्यादि पू 'इत्थम्' इतिपदकल्पनया समिदाद्यन्वयेनोक्तबोधकत्वमावश्यकम्। इतिकर्तव्यतात्वं चाऽऽख्यातपदात्सामान्यतो ज्ञातभावनाया विशेषरुपत्वम्। तथा च यागसाधनव्यापरिविशेषजिज्ञासायामदृष्टद्वारा समिदाददीनां द्रव्यदेवतादिसंस्कारद्वाराऽवघातादीनामुक्तवाक्येन साधनत्वबोधान्निवृत्तिरिति केचित्। यागादिरुपाकारणनिष्ठापूर्वप्रयोजकशाक्तिसाधनत्वमितिकर्तव्यतात्वम्। यो यत्र शक्तः स तज्जनक इति मीमांसकाः। एव च कारणं कारणतावच्छेदिका शक्तिर्वोभयथाऽपि चज्जनकाकाङ्क्षया समिदादिजन्यशक्तिमद्भ्यां ' दर्शपौ(पू) र्णमाशाभ्यां यजेत्' इत्युक्तवाक्यार्थबोधो मीमांसकमते। शक्तेरनित्यत्वादखण्डकारणतारुपत्वेऽपि तद्विशिष्टस्यैव फलोपधायकतया तज्जनकापेक्षाया आवश्यकत्वादित्यन्ये । तथा च विनियोजकश्रुत्याद्यसंयुक्तमपि समिदादि प्रकारणादुभयाकाङ्क्षारुपाद्दर्शाद्यङ्गम्, इतिकर्तव्यतार्थित्वादुक्तेतिकर्तव्यतात्वेन तदपेक्षितत्वादिति ' असयुक्तम्' इति सूत्रार्थः। तथा दर्शपौ ( पू) र्णमासौ प्रकृत्य प्रयाजसमीपे श्रूयते ' अभिक्रामं जुहोति' इति। तत्राभिक्राममित्यस्य णमुलन्तत्वेनाभिक्रम्येत्यर्थकत्वाज्जुहोतिना प्राकारणिकस्रवहोमानुवादात्तदुद्देशेनाभिक्रमणं विधीयते। प्रयाजानां संनिहितत्वेऽपि तदपेक्षया प्रकरणस्य बलवत्त्वात्। अन्यथाऽतिसंनिहितोत्तमपयाजाङ्गं स्यादिति प्राप्ते- प्रयाजान्विधाय ' त्रीन्प्रयाजानिष्ट्वा समानयत उपभृतः' इत्यनेनोपभृत्स्थाज्यस्यार्धं जुह्वां स्थाप्यमित्येवं समानयनं विधाय ' अभिक्राम जुहोति' इत्युकत्वा ' यो वै प्रयाजानां मिथुनं वेद समिधो बह्वीरिव यजति तनूनपातमेकमिव' इत्यादि ' प्रयाजानिष्टवा हवीष्याभिघायति ' इ[त्य] न्तेन प्रयाजपरामर्शात्तावत्संदर्भस्य प्रयाजप्रकरणत्वनिश्चयात्तन्मध्ये यद्विहितं तत्प्रयाजाङ्गमिति निश्चयात्। अयमेव ( com -- 105) संदंशन्यायः। तथा च समिदादिवाक्यार्थस्य यथा दर्शाद्युपकरत्वं निर्णीयते तन्न्यायेन पूर्वापरवाक्यार्थयोरैक्यबुद्ध्युपकारकत्वात्तन्मध्यास्थितस्य ' द्वा सुपर्णा' इत्यस्याप्यर्थस्यापि तदुपकारकत्वमेव निर्णेयम् ।
ौनु 'यद्भूतयोनिम्' इति प्रतममुष्डके प्राणादिकारणत्वस्य द्वितीये ' द्वा सुपार्णा' इत्यादेः तृतीयेऽपि सखण्डस्य प्रतिपादनादभिक्रमणादिवदेव तन्मध्यस्य ' पुरुष एवेदम्' इत्यादेरपि तदनुकूलत्वमेवेति चेत्। न। प्रथममुण्डक उक्तरीत्येकविज्ञानेन सर्वविज्ञानाद्युपकमस्य ' परेऽव्यये सर्व एकी भवन्ति' स ह यो वै तत्परम् ब्रह्म वेद ब्रहयैव भवति ' इत्युपसंहारस्य मध्येऽपि ' पुरुष एवेदम्' इत्यादिपरामर्शस्याद्वैतनिष्ठत्वादद्वैतस्यैव महाप्रकारणित्वेन भुतयोनिवाक्यादीनां तद्विरुद्धसखण्डे तात्पर्यस्य वक्तुमशक्यत्वादभिक्रमणादेः प्रयाजाद्युपकारकत्वं तु न महाप्रकारणविरुद्धमिति विशेषात्तृतीयमुण्डकान्ते ' परेऽव्यये सर्व एकी भवन्ति' ' स ह यो वे तत्परमं ब्रह्म वेद ब्रह्यैव भवति' इत्यैक्यलक्षणेन फलेनोपसंहाराच्च मध्यवर्तिनः ' परं साम्यमुपैति' इत्यस्यापि पूर्वोक्तसंदंशन्यायेनाभेदरुपसादृश्यपरतया न भेदोपसंहाररुपताऽपि । अत एव ' परम्' इति साम्याविशेषणम्। संसारिव्यावृत्तस्य निर्दुः खत्वादिना सादृश्यस्य ' निरञ्जनः' इति तत्पूर्वतनवाक्येनापि लब्धतया पुनः सादृश्यप्रतिपादनेऽनुपयोगात्। परमत्वविशेषितं सादृश्यं चाभेदरुपमेव।
न च - ' स ह यो वै तत्परमं ब्रह्म वेद ब्रहयैव भवति' इति वाक्ये द्वितीयेब्रह्मशब्दो जीवपर एव। तस्य जातिजीवकमलसनाद्यनेकार्थत्वस्य कोशप्रसिद्धत्वात्। तथा च 'यः परमं ब्रह्म वेद स जीव एव भवति न परं ब्रह्म' इत्यर्थः। अत एवाऽऽद्यो ब्रह्मशब्दः परमत्वेन विशेषितः। एवं , सायं गावो गोष्ठ एकी भवन्ति, एकीभूता नृपाः सर्वे ववर्षुः पाष्डवं शरैः कीटो भ्रमरेणैकीभूतः इति स्थानैक्यमत्यैक्यसादृश्यनिबन्धनैकीभावस्य गोवृपकीटभ्रमरादौ , दर्शनादत्रापि तदन्यतमनिमित्तेन गौण एकीभावव्यपदेशापपत्तिरित्युपसंहारो भेदविषय एवष। अत एव ' परेऽव्यये ' इति सप्तम्युपपत्तिः। अन्यथाऽश्रुततृतीयाकल्पनापत्तिरिति - वाच्यम्। जीवे ब्रह्मपदप्रयोगसंभवेऽपि प्रकृते , ब्रह्मो पादानमेवोचितम्। अन्यथा जीवभावस्याब्रह्माभावस्य च प्रागेव सिद्धतया तस्य ब्रह्मज्ञानसाध्यत्वाभावात्' परमं ब्रह्म वेद ब्रह्यैव भवति' इति तस्य ब्रह्माज्ञानफलत्वोक्तेरसंगत्यापत्तेः। एवं सति द्वितीयब्रह्मभवनमप्यर्थात्परमत्वाविशेषितमेव। एवं चोपक्रमोपसंहारयोरैक्यविषयत्वे पूर्वोक्तन्यायेन मध्यस्थितस्य ' परेऽव्यये सर्व एकी भवन्ति' इत्यस्य तद(दा) नुक्ल्येन मुक्तस्य ब्राह्मणा तद्भेदग्रहविषयत्वरुपैक्यपतिपादकत्व मेव युक्तम्। एवं सति ' परेऽव्यये' इति सप्तम्यपि युज्यते। भेदग्रहान्वितविषयतायास्तदर्शत्वात्। सायं गावो गोष्ठ एकी भवन्तीत्यत्र च भेदग्रहसत्त्वेनोक्तरुपैक्योपपादनायोगाद्युक्तमेकस्थानस्थितत्वादिना तादृशव्यवहारोपपादनम्। न च विनिगमकाभाव उभयथाऽपि तथा व्यवहारसंभवादिति वाच्यम्। अस्मदुक्तरीतावुपक्रमोपसंहारैक्यानुगुण्यस्य विनिगमकत्वात्। कर्मणां वैकुण्ठगमनासंभवेन कर्माणि विज्ञानमयश्चेत्याद्यसंगत्यापत्त्यैकस्थानस्थितत्वादिना प्रकृते तादृशव्यवहारस्य समर्थयितुशक्यत्वात्। अत एल मत्यैक्येन तादृशव्यवहारोपपादनमपि प्रत्युक्तम्। कर्मणा मत्यैक्यासंभवेन कर्माणीत्यस्यासंगत्यापत्तेः। कीटो भ्रमरेणैकीभूत इत्यादेरिव सादृश्यनिबन्धन एकीभूतव्यवहारोऽत्रास्तिवति शङ्का तु सादृश्यपरत्वे सप्तम्यनुपपत्त्या निरस्ता। मन्मते तु ब्रह्मणि लीनस्य कर्मणस्ततो भेदग्रहाभावेन जले लवणमेकीभूतमित्यादिवत्स्वीयरुपहानेन तद्धर्मिकभेदाग्रहविषयत्वरुपैकत्वस्यैवोक्तवाक्यार्थस्य संभवेनासंगत्यभावात्। अनुरुपश्चात्र नदीसमुद्रदृष्टान्तः। यथा-- ' नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति' इति पूर्वरुपहानोक्त्याऽगृह्यमाणभेदत्वोक्तेः। अयं तु विशेषः- परस्परावयवभेदेन परस्परमैक्यासंभवात्तत्र सत एव भेदस्याग्रहणमत्र तु भेदाभावादेवेति भेदाग्रहणांश एव दृष्टान्तसंप्रतिपत्तेः। नहि दृष्टन्ते सर्वसाभ्यापेक्षा।़स्तीति । एतेन मिलितजलभेदसाधने वक्ष्यमाणचन्द्रिकाकारग्रहः परास्तः। सिद्धान्ते तदैक्यानभ्युपगमात्। अत एव निबन्धे ' अवस्थितेरिति काशकृत्स्त्नः' ( ब्रo सू o 1। 4। 22) इति सूत्रे ' का पुनर्नद्यभिमताऽऽ युष्मतः' इत्यादिना नदीसमुद्रयोर्मेलनेऽपि न तत्स्वरुपैक्यमित्युक्तम्। अद्वैतासिद्धावपि यथा नद्य इति भिन्ननदीसमुद्रदृष्टान्तोक्तिरयुक्तेत्याशङ्क्य स्पष्टभेदविलयनमात्रपरत्वेन दृष्टान्तोपपत्तेरित्युक्तम्। एवं चैक्यपरमाण्डूक्योपनिषद्गतम्' परत्परं पुरुषमुपैति दिव्यम्' इति वाक्यमपि न देशान्तरस्थब्रह्माप्राप्तिपरम्। तस्याः सगुणोपास्तिफलत्वेन ब्रह्माविद्याफलत्वासंभवात्। स्कान्दवचनमपि निरुक्तश्रुतिस्मृत्यविरोधेनावान्तरमुक्त्याभिप्रायम्। अत एव ब्रह्मालोकगतस्य ' परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्' इति तस्यैक्यरुपपरप्राप्तिरुच्यते। एतेन - एतदधिकरणसिद्धान्ते' सिद्धान्तमाह - नञध्याहारेणेत्यादिना ' इति तत्त्वप्रकशिकोक्तमवतार्य, अयं भावः-
वाक्यान्तरविरोधाच्च पूर्वापरविरोधतः.
उपपत्तिविरोधाच्च नैव युक्तं मतत्रयम्।।
उक्तं द्विविधं पक्षत्रयमपि पूर्वपक्षोक्तं मुक्तावभेदसापेक्षम्। स एव त्वसिद्धः। ' एकी भवन्ति' इति श्रुतेर्भाष्ये ' यथोदकम्' इतिश्रुन्तरविरोधोक्तेः। न्यायविवरणे च ' निरञ्चनः परमसाम्यमुपैति' इति पूर्ववाक्यविरोधस्य ' परात्परं पुरुषमुपैति दिव्यम्' इत्युत्तरवाक्यविरोधस्य चोक्तेः। अभेदपरत्वे च ' परेणाव्ययेन' इति तृतीया स्यान्न न सप्तमी। ' सायं गावो गोष्ठ एकी भवन्ति' इतिवत्स्यादिति चेत्। तत्र स्थानैक्यस्यैव प्रतीतेः। तथा कर्माणि विज्ञानमयश्च आत्मा' इति पूर्ववाक्यस्थकर्मशब्दविरोधः। कर्मणां ब्रह्मौक्यायोगादित्यादिबाधकानां च ग्रन्थान्तर उक्तेः। भेदाभेदपक्षेऽपि पूर्वमप्यभेदस्य विद्यमानत्वेनाऽऽद्यान्त्य पक्षयोश्च्विपत्यस्य चायोगात्। मध्यान्त्यपक्षयोः ' नान्यदन्यत्वम्' इत्यनुव्याख्यानोक्तोपपत्तिविरोधाच्चान्यापरत्वात्। किचं
भिन्ननद्यब्धिदृष्टन्तं वदन्तीयं श्रुतिः स्वयम्।
गौणार्थपरतां स्वस्या आचष्टे स्पष्टमेव न ः।।
श्रूयते हि ' एकी भवन्ति ' इत्यस्या अनन्तरम्' यथा नद्यः स्यन्दमानाः समुद्रायणा समुद्रं प्राप्यास्तं गच्छन्ति इति भिन्ननदीसमुद्रदृष्टन्तः। एवं च ---
रथ्याजलं विष्णुपदीजलेनैकत्वमागतम्।
इतस्ततो गता गावः सायमेकत्वमागताः। ।
एकीभूता त सा सेना पाण्डवानभ्यवर्तत।
इत्यादिवद्भवेदेकी भवन्तीत्यादिवेदवाक्।।
न च जलस्य जलान्तरमेलन ऐक्यम्। ' तादृगेव' इति भाष्योक्तसावधारणश्रुत्या ' यतो वृद्धिः प्रदृश्यते' इति स्मृत्या च विरोधात्। किंच--
मानभेदात्स्पर्शरसपूर्वभेदाच्च नीरयोः।
मेलनेऽप्यभिदा नास्ति यथैव क्षीरनीरयेः।।
न केवलं ' यतो वृद्धिः' इति स्मृत्युक्तं परिमाणभेदमात्रम्। किंतु शीतोष्णयोः स्पर्शरसयोः। तत्तत्सरित्संबन्धिनोस्च जलयोर्मेलने स्पर्शादिभेदोऽपि दृश्यते। अन्यथा हंसेन विविच्यमानयोः क्षीरनीरयोरप्यभेदः स्यात्। द्रुतसुवर्णताम्रयोर्मेलनेनाभेदे तत्कार्यपणादौ केवलस्वर्णकार्यपणान्मूल्यादिभेदस्च न स्यात्। क्षीरे सिक्ता सुराऽपि क्षीरं स्यात्। प्रसिद्धस्च कृष्णादिसप्तनदीजलानां गङ्गदिसहस्त्रजलानां च पुनः प्रत्येकं समुद्रसंगंमार्थ विभक्तानां विलक्षणरुपरसादिमत्तया भेदः। किंच ' अवस्थितेरिति काशकृत्स्त्रः' ( ब्रo सूo 1। 4। 22) इति सूत्रे भामत्यामेव - का तु नद्याभिमताऽऽयुष्मतः। किं पाथः परमाणव उत्तैषां संस्थानभेद आहो तदवयवारब्धोऽवयवी । तत्र संस्थानभेदस्यावयविनो वा समुद्रप्रवेशेन नाशत्कथं समुद्रेणैकता। नदीपाथः परमाणूनां तु समुद्रपाथ परमाणुभ्यः पूर्वस्थितेभ्यो भेद एव नाभेदः। एवं समुद्रादपि तेषां भेद एवेत्यादिरीत्या नदीसमुद्रायोरभेदो निरस्तः। एवं च --
माषादिवच्च राश्यादौ सभादौ ब्राह्मणादिवत्।
जले जलन्तरस्यापि संश्लेषो न त्वभिन्नता।।
द्ववद्रव्यत्वेनान्योन्यमिश्रणे तु भेदाप्रतीतिरिति चन्द्रिकोक्तं सर्वं निरस्तप्रायमेवेति दिक्।। 13।।
श्रीमच्छंकरपादाब्जभूषणे परदूषणे।
व्याख्याद्वयाविवेकेन रघुनाथकृतिः सताम्।।
भोक्त्राधिकरणे भूयान्मुदे वादिजयाय च।
मीमांसान्यायपारीणराघवार्यप्रसादजा।।
इति भोक्त्रापत्त्याधिकरणं समाप्तम्।।