शङ्करपादभूषणम्/अधिकरणम् ६ (आरम्भणाधिकरणम्)

विकिस्रोतः तः
← अधिकरणम् ५ (भोक्त्रापत्त्याधिकरणम्) शङ्करपादभूषणम्
अधिकरणम् ६ (आरम्भणाधिकरणम्)
[[लेखकः :|]]

अथाऽऽरम्भणाधिकरणम्।
तदनन्यत्वमारम्भणशब्ददिश्यः।। 14।।
---------------------------
---------------------------
पूर्वोक्तभोक्तृभोग्यविभागभावप्रसङ्गपूर्वपक्षे ' स्याल्लोकवत्' इति परिणामवादमाश्रित्य समाधानमुक्तत्वा तत्रैव विवर्तवादेन मुख्यसमाधानार्थमिदं सूत्रम्। तथा चैतत्सूत्रव्याख्यानोपक्रमे भाष्यम्- अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभागम्' स्योल्लोकवत्' इथि परिहारोऽभिहितः। न त्वयं विभागः परमार्थतोऽस्तीत्यादि। एतत्सूत्रव्याख्यानोपसंहारेऽपि वक्ष्यति भगवान्भाष्यकारः- सूत्रकारोऽपि परमार्थाभिप्रायेण ' तदनन्यत्वम्' इत्याह। व्यवहाराभिप्रायेण तु ' स्याल्लोकवत्' इति महासमुद्रस्थानीयतां ब्रह्मणः कथयति। अप्रत्याख्यायैव कार्यप्रपञ्चं परिणामपक्रिया चाऽऽश्रयति सगुणोपासनेषूपयोक्ष्यत इति। तत्राभ्युपगम्येत्यस्य मिथ्यात्वेनाव्युत्पाद्येत्यर्थः। परिणामेत्यादेः परिणामित्वपक्रिया दृष्टान्तत्वेनाऽऽश्रयति। परिणामवादसाधारणदृष्टान्तममाहेति तु फलितोऽर्थः। भाष्ये महता प्रबन्धेनास्मिन्नधिकरणे प्रप़्चमिथ्यात्वोपपादनं च ' ब्रह्मणः प्रत्यगभिन्नत्वं न संभवति। कर्तृत्वाकर्तृत्वादिविरुद्धधर्मयोरेकत्र समावेसासंभवात्। विरुद्धधर्माणं दृश्यत्वादिना मिथ्यात्वसिद्धेर्नायं दोष इति तु न सम्यक्। प्रबलप्रत्यक्षविरोधे जागुके दुर्बलेन लिङ्गेन मिथ्यात्वासिद्धेः ' इति शङ्कानिरासाय।
केचित्तु - पूर्वसूत्रे' लोकवत्' इत्युक्ते लोके विकारानृतत्वाप्रसिद्धेर्विकारसत्यतामभ्युपेत्यैव परिहारो दर्शित इति भ्रमः स्यात्। तथौपाधिकोऽपि जीवब्रह्मणोर्भेद उपाधिसत्यता पारमार्थिकः स्यादिति भ्रमः स्यादिति तदपाकरणायास्मिन्सूत्रे विकारमिथ्यात्वप्रतिपादनमिति वदन्ति।
नन्वेवं मिथ्यात्वोपपादनसंगतावप्यास्मित्सूत्रे' अभ्युपगम्यचेमम्' इति भाष्येण मिथ्यात्वात्युत्पादनकीर्तनस्य क उपयोग इति चेत्। अत्र ब्रूमः- मिथ्यात्वोपपादनं विना पूर्वसूत्रसिद्धान्तानुन्मेषेणैतदधिकरणस्य तादृशमिथ्यात्वोपपादकस्य तच्छेषत्वापत्त्याऽधिकरणान्तरत्वानावश्यकता स्यादिति शङ्कायां तदावश्यकताद्योतनाय मिथ्यात्वोपपादनं विनाऽपि पूर्वाधिकरणसिद्धान्तसंभवप्रदर्शनाय तत्कीर्तनस्यात्र सामञ्जस्यात्। यद्वा नोक्तं ब्रहमणो जगदुपादनत्वं युक्तम्। सिद्धान्त्यभिमतनिरिविकारत्वभङ्गप्रसङ्गदिति शङ्कायां विकारमिथ्यात्वोपपादनमत्र क्रियते स्वपक्षसाक्षाद्बाधकनिरासस्य पादार्थत्वाच्च नासंगतिः। तथा चोक्ताक्षेपसंगतिप्रदर्शनाय भाष्ये तदुक्तिः। पूर्वाधिकरण एव तद्वयुत्पादने च न तत्संगतिः संभवतीत्युपयुक्तमेवाभ्युपगम्येत्यनेन मिथ्यात्वाव्युत्पादनकीर्तनमिति ध्येयम्। अत्र चोक्तरीत्या स्वपक्षसाक्षाद्विरोधिनो विरोधिधर्मसत्यत्वादेर्बाधकस्योद्धारादध्यायादिसंगतिः। तादात्म्यस्य भेदाविरुद्धत्वाद्भोदक्त्रादिविभागानुपपत्तिरुपतर्कस्याप्रतिष्ठितत्वेऽपि श्रुत्यनुगृहीतस्य निर्वीकारत्वानुपपत्तिरुपतर्कस्यैव प्रतिष्ठितत्वमिति प्रत्यवस्थानादनन्तरसंगातिः। अत्र ब्रह्मणो जगदुपादानत्वं निर्विकारत्वभह्गापत्तिरुपपतर्कविरुद्ध न वेति संशयेभवत्येव तर्कविरुद्धम्। ब्रह्मणो निर्विकारत्वस्य सिद्धान्तिनोऽप्यनुमततयेष्टापत्त्यनवकाशान्मूलशैथिल्याभावाच्चेति पूर्वपक्षे - नोक्ततर्कविरोधः। धर्मिसमानसत्ताकविकारशून्यत्वरुपासिद्धान्त्यभिमतनिर्विकारत्वस्य ब्रह्मागतोपादानतयाऽविरोधाद्विकारस्य मिथ्यात्वाद्ब्रह्मण सत्यत्वात्। स्वीकृतेऽप्यूपादानत्वे निर्विकारस्वभङ्गाभावात्। मिथ्यात्वं चानिर्वाच्यमिति। कार्यस्य विकारजातस्य तदनन्यत्वं कारणानन्यत्वम्। मिथ्यात्वमिति यावत्। कुतः। आरम्भणशब्दादिभ्य-। आरम्भणशब्दस्तावत् - एक - विज्ञानेन सर्वविज्ञान दृष्टान्तापेक्षायामुच्यते - 'यथा सौम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचाऽऽरम्भणं विकारो नामधेय मृत्तिकेत्येव सत्यम्' इत्येत्ररुपः। आदिपदात् ' एतेदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि' 'इदं सर्वं यदयमात्मा' ब्रह्मैवेदं सर्वम्' आत्मैवेदं सर्वम् नेह नानाऽस्ति किंचन' इत्येवमिदिश्रुतिजातम्' विश्वमिथ्या दृश्यत्वात्पिरच्छिन्नत्वात्' इत्याद्यनुमानं भाष्याद्युपदर्शित संगाह्यम्। अत्र च ' आरम्भणशब्ददिभ्यः' इति सूत्रांशेन ' वाचाऽऽरम्भणम्' इत्यादिकश्रुतेर्हेतूकरणात्। तस्याश्च प्रपञ्चमिथ्यात्वकथन एव स्वरसादनन्यत्वपदेन साध्यतया मिथ्यात्वमेव प्रतीयत इति ध्येयम्।
अथ तदनन्यत्वपदेन कथं मिथ्यात्वभतीतिः। तत्र तस्य शकत्यादिग्राहकप्रमाणाबावादाधुनिकलक्षणाभ्युपगमे च सूत्राक्षरास्वारस्यम्' मिथ्यात्वमारम्भणशब्दादिभ्यः' इति विन्यासोपेक्षायां निर्बूजता चेति चेत्। अत्रोच्यते-- ' तदनन्यत्वम्' इति सूत्रे तत्त्वत इति पदमध्याह्रियते। अनन्यत्वपदं चाऽऽवर्तनीयम्। तथा च तदनन्यत्वपदं तत्तवतस्तदनन्यत्वपरं तादात्म्यपरं च । तदनन्यत्वमित्यत्रान्यपदस्यात्यन्तभिन्नार्थकतया तादात्म्यस्यापि ततो लाभसंभवात्। तदैक्य शून्येन तदत्यन्ताभावमात्रं तादात्म्यम्। पृथिवीतद्रबपयोर्भेदाभेदवादिनो मते भेदवति भेदात्यन्ताभावासंभवात्। किंतु तस्मादन्यदेव तादात्म्यम्। तच्च तद्गतधर्मविशेषरुपमतिरिक्तं वेत्यन्यदेतत्। तत्त्वतस्यतदनन्यत्वं शेषाभ्यानुज्ञानार्थत्वाद्ब्रह्यान्यजगद्रूपस्यातात्त्विकता मिछ्यात्वापरपर्याया लभ्यत इति नोक्तदोषः।न च तत्त्वस्तदनन्यत्वसाधनमात्रेण जगतो मिथ्यात्वसिद्ध्योक्तपूर्वपक्षनिराससंभवे तादात्म्यसाधनं व्यर्थमिति शङ्क्यम्। तुच्छसाधारणेन ब्रह्मव्यातिरिक्ततात्त्विकरुपशून्यत्वेन जगतो मिथ्यात्व उपगते तस्य तुच्छत्वापत्त्या तदुपादानत्वं ब्रह्मणो दुर्घटमिति शङ्कानिरासाय तादात्म्यसाधनं व्यर्थमिति शङ्क्यम्। तुच्छसाधारणेन ब्रह्मव्यतिरिक्ततात्त्विकरुपशून्यत्वेन जगतो मिथ्यात्व उपगते तस्य तुच्छत्वापत्त्या तदुपादानत्वं ब्रह्मणो दुर्घटमिति शङ्कानिरासाय तादात्म्यस्यापि तत्र वक्तव्यत्वात्। उसत्ख्यातिमते घटातिरिक्ततात्त्विकरुपशून्यस्यापि शुक्तिरजतादेर्घटज्ञानेन ज्ञाततात्त्विकरुपत्वसंप्रतिपत्त्या वियदादेर्ब्रह्यविज्ञानेन विज्ञाततात्त्विकरुपवत्त्वरुपस्य वक्ष्यमाणैकविज्ञानेन सर्वविज्ञानस्योपपादनायोगेन ब्रह्मणो वियदादितत्त्वरुपताबोधनायतयोस्तादात्म्यस्यावश्यं वाच्यत्वाच्च। ' अनन्यत्वं व्यतिरेकेणाभावः ' इति भाष्येऽपि निरुक्तरुपमुभयं विवक्षितम्। ' न खल्वनन्यत्वमित्यभेदं ब्रूमः। किंतु भेदं व्यासेधामः' इति भामत्यामपि, अभेदभैक्यं भेदं तदन्यतात्त्विकरुपवत्त्ा तत्तादात्म्यासमानधिकरणतद्भेदवत्तां चेत्यर्थो विवक्षित इति न काचिदनुपपत्तिः। एतेन - " न तावद्रब्रह्माभेदस्तदनन्यत्वम्। अनृतस्य विश्वस्यं ब्रह्माभेदायोगात्। अनङगीकाराच्च। अनङ्गीकाराच्च । अज्ञानविशिष्टेनोपादानेनाभेदोऽस्तीति चेत्। मुमुक्षुज्ञेयशुद्धब्रह्माज्ञानादेव सर्वविज्ञानार्थं शुद्धेनैवाभेदस्य वक्तव्यत्वात्। अन्यथाऽविद्याऽपि ' येनाश्रुतं श्रुतम्' इतिवाक्योक्तज्ञेयकोटिप्रविष्टा स्यात्। नापि ' न खल्वनन्यत्वमित्यभेदं ब्रमः। किंतु भेदं व्यासेधामः' इति भामत्युक्तरीत्या ततो भेदाभावमात्रं तदनन्यत्वम्। भेदाभावेऽभादध्रौव्यात्। भेदाभावे सत्यानृत ( com--106)व्यवस्थायोगाच्च। अभेदाभावेन व्यवस्थायां तेनैवैकविज्ञानेन सर्वविज्ञानभावोऽपि स्यात्। यदि चैकविज्ञानेन सर्वविज्ञानानुपपत्त्या भेदाभावः सत्यानृतव्यवस्थानुपपत्त्या चाभेदाभावः कल्प्यते, तर्ह्यभयानुपपत्त्या लाघवाय तथा ' इदं सर्वं यदयमात्मा' नेति नेति' इत्यादिसामानाधिकरण्यश्रुतिभेदश्रुत्यीर्मृत्पिण्डादिदृष्टान्तस्य च स्वारस्याय भेदाभेदावेव कि न कल्प्येते। ब्रह्मण एकरसत्वश्रुतिरप्यनेकरसात्प्रपञ्चद्भेदाभावेऽप्यभेदाभावमात्रेण भेदेऽप्यभेदेनैवोपपन्नाऽस्तु । यथा च सत्यस्यानृताभेदो न युक्तस्तथा ततो भेदाभावेऽपि। नापि ब्रह्मव्यतिरेकेणासत्त्वं तदनन्यत्वम्। विशेषनिषेधस्य शेषाभ्यनुज्ञानार्थत्वादानन्दादिवज्जीवचैतन्यवच्च ब्रह्मात्मकत्वापातात्। ब्रह्मणपारोपितत्व तु न तदनन्यत्वशब्दार्थः। शक्त्यारोपिते रुप्ये तदनन्यशब्दापयोगात्। प्रातिभासिकव्या वहारिकयोर्व्यावहारिकपारमार्थिकाभ्यामन्यत्वाभावेऽनिर्वाच्यत्वासिद्धेस्च। एकविज्ञानेन सर्वविज्ञानायोगाच्च । मृत्पिण्डादिदृष्टान्तानुपपत्तेश्च। कथं हि ब्रह्मविज्ञानाद्विज्ञातं सकलं भवेत्" इथि चन्द्रिकोक्तं पूर्वोक्तभाष्याभिप्रेतार्थानवबोधविजृम्भितमित्यनादरणीयमेव। ' आरम्भणशब्दादिभ्यः; इति सूत्रांशेन ' वाचाऽऽम्भणम्' इत्यादिश्रुतेर्हेतूकारणात्तस्याश्च प्रपञ्चिमिथ्यात्वकथन एव स्वरसादुक्तरीत्या तादात्म्यघटितमिथ्यात्वस्यैव तदनन्यत्वमित्यनेन विवक्षितार्थप्रतीतेः' यद्रजतमभात्सा शुक्तिः' इति सामानाधिकरण्यप्रतीतेः सर्वसंमतत्वादारोपितेऽपि तत्त्वतोऽधिष्ठानानन्यशब्दप्रयोगाविरोधात्प्रातिभासिकव्यावहारिकयोरपि तत्त्वतो व्यावहारिकपारमार्थिकाभ्यामन्यत्वाभावेनानिर्वचनीयताया निष्प्रत्यूहं सिद्धेश्चोक्तचन्द्रिकाकारोक्तस्य कस्यापि दोषस्यानवकाशात्। अथ - वाचाऽऽरम्भणम्' इत्यादिश्रुतेः प्रपञ्च सत्यतामुपेत्याप्यर्थवर्णनसंभवात्कथं तस्याः प्रपञ्जिमिथ्यात्वकयथन एव स्वरसः। तथा हि केचिद्वर्णयन्ति -- एकविज्ञानेन सर्वविज्ञानीक्त्या कार्यकारणयोरभेद उपाक्षिते पिण्डे दृष्टेऽपि घटादिगोचरः संशयः पिण्डघटयोरर्थक्रियाभेदो नामादिभेदश्च कथमुपपन्न इति शङ्कायाम्' वाचाऽऽरम्पणम्' इति वाक्यशेषः। वाचा ' घटेन जलमाहर' इत्यादिवाक्। तत्पूर्वको व्यवहारश्च वाक्पदार्थःष। तदर्थम्' अध्यायनेन वसति' इत्यादाविव फलस्यापि हेतुत्वविवक्षया तृतीया। विकारो घटादिस्तन्नामधेयं च मत्तिकयाऽऽरम्भणं स्पृश्यं संबन्धनीयमिति यावत्।' आलम्भः स्पर्शहिंसयोः' इति वचनात्। स्पर्शार्थकस्याऽऽलभतेः संबन्धे पर्यवसानम्। कर्मणि ल्युट्। मृत्तिकेत्येनेत्यत्र विद्यमानस्यानुमानयेत्याद्यभिधानरुपव्यावहारर्थं तन्मूलानयनादिव्यवहारार्थ तच मृत्तिकया कम्बुग्रीवादिसंस्थानं घट इत्यादि नामधेय च संबध्यत इति प्रतिपादिते पिण्डघटयोरेकद्रव्यत्वेऽप्यवस्थानाभेदात्संदेहादिकं सर्वमुपपद्यत इत्युक्तं भवति। ननु द्रव्यैक्यमुपेत्यावस्थाभेदात्सदेहादिकं किमित्युपपाद्यते तार्किकादिवत्कार्यकारणद्रव्ययोर्भेद एव कुतो नोपेयत इत्याशङ्क्योक्तम्' मृत्तिकेत्थेव सत्यम्' इति। घट इति पदमध्याहृत्य घटो मृत्तिकेत्येवार्थः। सत्यं प्रामाणिक इति यावत्। घटो मृत्तिकेति लोकसिद्धप्रत्याभिज्ञयाऽभेदोऽवगम्यते। अतो द्रव्यैक्यमादायैव व्यवहारादिकमुपपादनीयमिति। नैतत्स्वारसिकम्। एकमर्थे वर्ण्यमाने वाचेति तृतीयायाश्चतुर्थ्यर्थत्वाङ्गीकारो मृत्तिकेत्यनुषङ्गस्तृतीयान्ततया तस्य विपरिणामो मृक्तिकेत्येवेत्यत्र घटपदाध्याहार श्चेति रीत्या योजनाया अतिक्लिष्ठत्वात्।
यदपि - विकारो घटशरावादिः मृदो भिन्नः ' इति वाचाऽऽरम्भणं वाङ्मात्रेण व्यवह्रियते न बेद इति भावः। घटादि नामधेयं घटादि द्रव्यं मृक्तिकेति कृत्वैव सत्यम्। सति प्रामाणिकेऽर्थे साधु। ' तत्र साधुः' ( पा सूo 4।4। 98) इति यतप्रत्ययः। तथा घटपिण्डादिनामव्यवस्थाऽवस्थाभेदानुसारेणैव कर्तव्या न तद्वशेन कार्यकारणद्रव्यभेद आवस्थेय( आस्थेय) इथि पर्यवसितोऽर्थ इति व्याक्यानम्। तदपि ' वाचाऽऽरम्भणम्' इत्यत्र' मृदो भिन्नः ' इति पदाध्याहारान्नामधेयपदस्य घटदिपरत्वाङ्गीकारेण संकोचकल्पनान्मृत्तिकेत्यत्र' घटादि ,द्रव्यम्' इति पदाध्याहाराच्च न स्वरसम्।
यदपि - वाचा वागिन्द्रियमात्रेणाऽऽरम्भणं यस्य तन्नामधेयं विकारः। संस्कृतापभ्रशरुपेण विक्रियामाणत्वात् । व्याकरणसापेक्षण वागिन्द्रियेण निष्पाद्यं मृत्तिकेत्येव सत्यं नित्यम्। प्रवाहरुपेणानिदीत्यर्थः। ' न वधेनास्य हन्यते। एतत्सत्यं ब्रह्मपुरम्।' इत्यत्र सत्यपदस्य नित्ये प्रयोगात्। सदाशब्दस्य त्यबन्तस्य सत्यपदत्वेन सदातनार्थकत्वाच्च। एकविज्ञानेन सर्वविज्ञानं हि सादृश्यात्प्राधान्याद्वा । तत्रैकस्य ब्रह्मणो ज्ञानेन सत्त्वादिना तत्सदृशस्य ज्ञाने मृत्पिष्डमृन्मया दृष्टान्ताः। प्रधानस्य तस्य ज्ञानेन तद्गुणीभूतस्य सर्वस्य ज्ञाने संस्कृताप्रभंशो दृष्टान्तः। अपभ्रंशज्ञानाद्धि यत्फलं तत्तदधिकं च सार्वत्रिकव्यवहारादिकं संस्कृतज्ञानाद्भवतीति संस्कृतं प्रधानम्। तादृशगुणप्रधानदृष्टान्ततालाभार्थं च ' वाचाऽऽरम्भणम्' इत्यादावपि ' यथा सौम्यैकैन ' इत्यादिकमनुष़ञ्जनीयमिति रीत्याऽऽनन्दतीर्थीय व्याख्यानम्। तदप्यस्वरसम्। तथा हि - वाचेत्यनेन वागिन्द्रियमात्रं लक्षणीयम्। अन्यथा व्याकरणनिष्पाद्यत्वालाभेनापभ्रशालाभापत्तेः। मन्मते वाचेत्यस्य वाङ्मात्रमित्यर्थे नामधेयमित्यत्र नामधेयमात्रमित्यर्थे लक्षणा तु श्रुतसामानाधिकरण्यामुपपत्तिनिबन्धना लोकसिद्धा चेति वक्ष्यते। सत्यशब्दस्याबाध्ये रुढत्वान्नित्यत्वार्थकत्वमपि लक्षणयैव । संस्कृतस्यापि मुख्यनित्यत्वाभावेन सदाशब्दमादाय योगासंभवेन व्याकरणानिष्पाद्यत्वरुपगौणनित्यत्वे लक्षणापत्तिश्च। सदाशब्दस्य त्यबन्तत्वमपि ( com -- 107) व्यारणासिद्धमेव । विकारशब्दस्य मुख्यविकारार्थकत्वे त्वदिष्टार्थासिद्ध्या संस्कृतोच्चारणाशक्त्योच्चार्यमाणार्थकत्वं लक्षणयैव। नामपदस्यापि शब्दार्थकत्वं लक्षणयैव। अपभ्रशस्य संकेतवत्प्रातिपादिकरुपरुढ्यर्थत्वाभावात्। ' यथा सौम्यैकेन' इत्यादिकमनुषञ्जनीयमित्यपि न सत्। पूर्ववाक्यप्रविष्टाभागस्योत्तरवाक्यघटकत्वेन प्रतिसंधान ह्यनुषङ्गः। स च प्रकृते न संभवति। प्रकृते हि 'मृत्तिकेत्येव सत्यम्' इत्यादेः पश्चात् ' यथा सौम्यैकेन मृत्तिकेत्यनेन सर्वस्तद्विकारो विज्ञातो भवति' इत्यादि हि विवक्षितदृष्टान्तलाभाय कल्पनीयम्। न चैतत्पूर्ववाक्ये प्रविष्टम्। किंच यथा ' वाचाऽऽरम्भणम्' इत्यादिना गुणप्रधानभावः श्रुत्या ज्ञापितस्तथा मृत्पिण्डज्ञानेऽपि तद्विकाराणां घटत्वादिना ज्ञानासंभवान्मृत्त्वेन रुपेणैव घटादिज्ञानं मृत्पिण्डज्ञानादिति पर्यालोचनात्तत्सदृशज्ञानं तज्ज्ञानाघीनमिति लक्ष्यत इत्युच्यते तर्हि संस्कृतज्ञानादपभ्रंशज्ञानासंभवात्संस्कृतस्य प्राकृतकार्यकारित्वतात्पर्यकम्' मृत्तिकेत्यनेन सर्वस्ताद्विकारो विज्ञातो भवति ' इति वाक्ये संभवतीति तदेव श्रुत्योच्येत, किम्' वाचाऽऽरम्भणम्' इत्यादिना गुणप्रधानभावज्ञापकेनेति श्रुतिस्वारस्यहानिः। अपि च कार्ष्णायसान्ताना ( com -- 108) सदृशदृष्टान्तानां पश्चादेव वाचाऽऽरम्भणं नामधेयं विकार इतिवत् ' संस्कृत सत्यम्' इति सामान्यत एवोच्यते (च्येत) , न तु मृत्पिण्डादिदृष्टान्तस्यैकैकस्यान्ते विशिष्य ' मृत्तिका' इत्येकैकम्। शब्दान्तराणामपि संस्कृतानां संभवेन मृत्तिकेत्येवेत्यादेरुपपादनमप्यस्वरसम्। ' आयसमित्येव सत्यम्' इत्यस्यैव पूर्णत्वसंभवे कार्ष्णेति किमित्युक्तमिति शङ्काऽप्यनुत्तरैव त्वन्मते। मन्मते तु कार्ष्णायसाद्वाचकलघुशब्दान्तरसंभवेऽपि न दोषः। घटाद्यर्थविवक्षायां घटादिशब्दानामिव कलशादिशब्दानामपि तत्पर्यायाणां प्रयोगात्। एकविज्ञानेन तत्सदृशं तदधीनं च सर्वंमपि ज्ञायत इत्यप्यसंगतम्। तथा नियमाभावात्। नहि गोज्ञाने गवयादे राजज्ञाने च प्रजीदेर्नियतं ज्ञानम्। अनियतज्ञाने च सदृशदेरेव किमित्युपाद(दा) नमित्यत्रानुत्तरमेवेति दिक्।
एवं मतन्तरे प्रपञ्चसत्यतामुपेत्य वाचाऽऽरम्भणश्रुतेरर्थप्रतिपादनेऽस्वारस्यामेवेत्यतः प्रपञ्जमिथ्यात्वपरत्वेनैवालस्मद्भाष्योपदर्शितं व्याख्यानं स्वरसम्। तथा हि भाष्यम् - एकेन मृत्पिष्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृन्मयं घटशरावोदञ्चनादिकं मृदात्मत्वाविशेषाद्विज्ञातं भवेत्। यतो वाचाऽऽरम्भणं विकारोनामधेयम्। वाचैव केवलमस्तीत्यारभ्यते विकारो घट ः शराव उदञ्जनं चेति। न वस्तुवृत्तेन विकारो नामकश्चिदस्ति। नामधेयमात्रं ह्येतदनृतम्ष। मृत्तिकेत्येव सत्यमिति।
ननु नामदेयमित्यत्र मात्रपदार्थान्तर्भावेणानृतत्वपर्यवसायि नामधेयपदव्याख्यानं कथं स्वरसामीति चेत्। अत्रोच्यते--वाचा व्यवह्नियमाणं विकारम्' वाचाऽऽरम्भणम्' इति वाक्योदितमनूद्य नामधेयत्वविधानं ह्यत्रं स्वरसतः प्रतीयते। तत्र च श्रुतार्थमादाय सामानाधिकरण्यासंभवान्नामधेयपदे नामधेयवाच्यत्वलक्षणामुपेत्य सामानाधिकरण्योपपदाने पौनरुक्त्त्यापत्तेः ' मृत्तिकेत्येव सत्यम्' इतिवाक्यसेषस्वारसाच्चर्थपरिसंख्यार्खथमुपेत्य मात्रपदन्तर्भावेण मिथ्यात्वपर्यवसायि तदर्थकथनस्यैव स्वरसत्वात्। दृष्टं च नामपदस्याऽऽभासकद्योतकत्वम् - ' यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्' इति। लोकेऽपि पुत्राभासे पुत्र इति नामधेयम्, नात्र पूत्रत्वमस्तीति। ' मृत्तिकेत्येव सत्यम्' इति तु गुढजिह्विकान्यायेन मृदः सत्यत्वानुवादपूर्वकंविकारानृतताप्रतिपादनायैव स्वरसम्। अमुमर्थं दार्ष्टान्तिके दर्शयति -- 'एवं हि सौम्य स आदेशो भवति ' ( छाo 6। 2। 7) इति। एवंशब्देन वाचाऽऽरम्भणं विकारः, आदेश एव सत्य इति प्रतिपादित भवति। आदेशश्चाऽऽदिश्यत इत्यादेश इति व्युत्पत्त्या ' उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवति' इत्युपक्रान्तमुपदेशैकगम्यं ब्रह्यैव। इत्थमेव चास्मिन्प्राकरणे तैजसानां पदार्थाना त्रवृत्करणानिरुपणावसरे स्पष्टमेव प्रतिपादितम्-- ' यदग्रे रोहितं रुपं चेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागादग्नेरग्नितच्व वाचाऽऽरम्भणं विकारो नामधेयं त्रीणि रुपाणीत्येव सत्यम्' ( छाo 6। 4। 1) इति। अत्र ' अपागादेग्नेरग्नित्वम्' इति स्पष्टमेव विकारोपमार्दो दर्शितः। अतः स्वरसतो वाचाऽऽरम्भणश्रुतेर्विकारानृतत्वपरतैवेत्यवधार्यते। यद्वा ' मृत्तिकेत्येव सत्यम्' इत्यादौ हेतुः ' वाचाऽऽरम्भणं विकारो नामधेयम्' इति आरम्भणमुत्पत्तिर्वाचा वाङ्मात्रं विचारासहमिति यावत्। तथा चोत्पत्तिः सतो वाऽसतो वेति निरुपयितुमशक्यत्वादुत्पन्नसामान्यं विचारासहमिति भावः। तावताऽप्यनाद्यविद्यासाधारण्येन हेत्वलाभादाह - विकारो नामधेयमिति । नाशादिविकृतियुक्तं नाममात्रं विचारासहमिति यावत्। अर्थे नामाभेदासंभवात् ' अब्भक्षः'इत्यादाविव मात्रार्थान्तर्भावेन (ण) विचारासहत्वलाभः। ' मुक्तिकेत्येव सत्यम्' इत्यास्यार्थश्चन्द्रिकोक्तदूषणपरिहारावसरे वक्ष्यते। एवम् ' एतेदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसिश्वेतकेतो' ( छाo 6। 8। 7) इति श्रुतेरपि विकारानृतप्रतिपादन एव स्वारस्यम्। तथा हि - ' ऐतादात्म्यमिदं सर्वम्' इति हि ' इदं सर्वं यदयमात्मा ' इति श्रुत्यन्तरानुसारात् ' सदेव सौम्येदमग्र आसीत्' इत्युपक्रमानुसाराच्च ' एव आत्माऽस्य ' इति बहुव्रीहिं कृत्वा ततो भावप्रत्यये कृते बावप्रत्ययस्य प्रकारीभूतप्रकत्यर्थपरत्वाद्बाहुव्रीह्यर्थे विशेषणीभूतात्मपरामर्शकत्वेन ' एष आत्मा इदं सर्वम्' इति प्रतिपादयति। ' एष आत्मा इदं सर्वम्' इत्येव वक्तव्ये सामानाधिकरण्यमात्मामीयभावेनौपवारिकमितिशङ्कानिराकरणाय बहुव्रीहिभावप्रत्ययोरुपादानत्। तथा सति बहुव्रीहिणैव मुख्यया वृत्त्याऽऽत्मात्मीयभावेलब्धे पुनर्भावमत्ययरुपयत्नान्तरकरणं व्यर्थ स्यादिति तर्केण तन्निरासः। तच्च सामानाधिकरण्यं मृद्घट इतिरवत्परिणामाभिप्रायेण' यद्रजतमभात्सा शक्तिः' इतिवद्वाऽऽरोपितबाधाभिप्रायेण वेति द्वेधा संभवति। अतस्तान्निर्घारणाय ' तत्सत्यम्' इति वाक्यम्। तत्र हि तच्छब्दः प्रकृतमात्मानं परामृशति। तस्यैव तात्पर्यविषयतयाऽस्मिन्संदर्भे प्राधान्यात्। ' स आत्मा' इति वाक्ये तस्यैव परामर्शात्। तदैकार्थानुसाराच्च। ततश्च तच्छब्देनाषऽऽनृतता बोधयत्पूर्वोपदर्शितसामानाधिकरण्यं बाधायामेवेति व्यवस्थापयति। ततश्च ' तत्त्वमसि' इति वाक्यमपि स्वस्वारस्यापनुसारेणोपक्रमस्वारस्यानुसारेण च यथाश्रुतमेव। न तु - ' ब्रह्मणे त्वामहस ओमित्यात्मानं युञ्जीत' इति श्रुतेः' तस्मै त्वं समर्पणीयोऽसि ' इत्यर्थे ' तस्मै त्वं तत्त्वम्' इति ' यतो वा इमानि भूतानि जायन्ते' इति श्रुते' 'तस्मात्त्वमुत्पन्नोऽसि ' इत्यर्थे ' तस्मात्त्वं तत्त्वम्' इति, स कारणं कारणाधिपाधिपः ' इति श्रुतेः तत्स्वामिकोऽसि' इत्यर्थे ' तस्य त्वं तत्त्वम्' इति, ' सन्मूला ः सौम्येमाः प्रजाः सदायतनाः सत्प्रतिष्ठिताः इति श्रुतेः ' तस्मिस्त्वं प्रतिष्ठितोऽसि ' इत्यर्थे ट तस्मिस्त्वं तत्त्वम्' इति वा ' सुपासुलक्' ( पाo सूo 6। 139) इति विभक्तिलोपादिना क्लेशेन व्याख्येयम्। प्रदर्शितानेकार्थसंभवानया व्यामोहापत्तेरर्थविशेषानिर्णयात्। एवं शरीरवाचकानां शरीरिपर्यन्तत्वमुपेत्यशरीरिशरीरभावेन(ण) सामानाधिकरण्याभिप्रायेण ' तत्त्वमसि' वाक्यार्थवर्णनमपि न स्वरसम्। न ह्यत्र त्वंशब्दस्येश्वरशरीरभूतजीववाचकस्येश्वरे वृत्तिरभ्युपेयते। त्वंशब्दार्थस्य तच्छब्दार्थे विशेषणत्वापभावात्। किंतु तच्छब्दस्यैव प्रकृतपरामर्शकस्य त्वशब्दार्थे जीवेऽभेदसंबन्धेन विशेषणसमर्पकता । अन्यथा ' असि' इति मध्यमपुरुषानुपपत्तेः। त्वं शब्दार्थस्येतरविशेषणत्व आकाङ्क्षाभावेनाऽख्यातसामानाधिकरण्यायोगात्। युष्मच्छब्दस्याऽऽ ख्यातसामानधिकरण्य एव ' युष्पद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः' ( पाo सूo 1। 4। 105) इति सूत्रेण मध्यमपुरुषविधानात्। अतस्त्वंशब्दार्थस्य विशेष्यत्वमुपेयम्। तत्र च परमात्मपरतच्छब्दस्य वृत्तिः शरीरवाचकानां शरीरिपर्यन्तत्वाभ्युपगमेऽपि न संभवति। ईश्वरस्य जीवं प्रति शरीरत्वाभावात्। अतो मध्यमपुरुषोपपत्तये जीवविशेष्यकमेव सामानाधिकरण्यमुपेयम्। दृश्यते च त्वमहंशब्दार्थयोर्विशेषणविशेष्यभावव्यत्यासे मध्यमोत्तमपुरुषयोर्व्यत्यासः- त्वं वाऽहमस्मि भगवो देवतेऽहं वै त्वमसीति। एवं सद्विद्यायाः प्रपञ्च मिथ्यात्वप्रतिपादन एव स्वारस्यं मोक्षधर्मै श्वेतकेतुसुवर्चलोपाख्यानरुपोपबृंहणेन स्वष्टीकृतं सूत्रकृता भगवता व्यासेन। तथा हि तत्रोपारख्यायते - देवकन्या सुवर्चला जन्मान्तरसिद्धसहजब्रह्मतत्त्वानुभवात्तादृशं पतिमिच्छीन्ती श्वेतकेतु पितृसमीपतो लब्धात्मतत्त्वबोधमुपश्रुत्य तं वृतवती। पित्राऽपि तस्मै निवेदिता। ताभ्यां दम्पतीभ्यां ब्रह्मनिष्ठाभ्यां वैदिककर्मानुष्ठानयुक्तं गार्हस्थ्यमाश्रित्य स्थितमिति। तत्र तयोरित्थं ब्रह्मकथारुपः संवादः प्रकृतः-
ततः कदाचिद्भर्तारं श्वेतकेतु सुवर्चला।
पप्रच्छ को भवानत्र ब्रूहि मे तद्विजोत्तम।।

तामाह भगवान्वाग्मी त्वया ज्ञातो न संशयः।
दिवजोत्तमोऽहं समगे सत्यव्रतपरायणः।।

सा तमाह महात्मानं पृच्छामि हृदि शायिनम्।
तच्छ्रूत्वा प्रत्युवाचैना सर्वज्ञो मुनिपगंवः।।

मनसैव समायुक्तमात्मानं मन्यसे यदि।
तन्मिथ्या, गोत्रसद्भावे वर्तते देहबन्धनः।।

त्ममप्यहमहं सर्वमहमित्येव वर्तते।
नात्र तत्परमार्थं तद्यन्मा त्वं परिपृच्छसि।।

अत्र सद्विद्यायाम् 'तत्त्वमसि' इत्यसकृत्पित्रोपदिष्टः श्वेतकेतुः कथामात्मानं बुध्यत इति जिज्ञासमानया सुवर्चलया ' कस्त्वं द्विजोत्तम्' इति प्रश्नः कृतः। ततः प्रश्नाभिप्रायमवगच्छताऽपि श्वेतकेतुना क्रमेण तमर्थं सा बोधनीयेति मत्वा तत्रोत्तरमुक्तम् - द्विजोत्तमेति संबन्धयन्त्या त्वया ब्राह्मणोऽहमित्यवगतमेव किमत्र प्रष्टव्यमिति। ततः सुवर्चलया देहोपाधिकत्वे नाऽऽत्मानि कल्पितं प्रत्यक्ष ब्राह्‌यण्यं न पृच्छामि, किंतु ' द्विजोत्तमोऽहम्' इत्यहंशब्देन देहाद्विविक्तं यमात्मान हृदि शायिनं निर्दिशासि तं पृच्छामीत्युक्ते तत्रोत्तररमुक्तम् - अहंशब्दो मनः- शवलितात्मस्वरुपे वर्तते। मनः शवलितात्मस्वरुपं च मिथ्या, ब्राह्मणकुलोत्पन्ने देहोपाधिक आत्मनि ब्राह्मण्यमिव। अत आत्मतत्त्वजिज्ञासुभिर्नाहंशब्दार्थः प्रष्टव्यंः, अपि चाहंभावः सर्वसाधारणः प्रत्यक्षसिद्धः । अतः परमार्थवस्तुजिज्ञासा चेन्नाहंभावः पश्नार्हः। तदनन्तरं कर्तृत्वभोक्तृत्वादियुक्कतमहंभावं यद्यनृतमवगच्छसि तर्हि कर्तृत्वपूर्वकं वैदिकं कथमाचरसीति पृष्टे लोकसंग्रहार्थं वैदिककर्माचरणमित्युक्तम्। तदनन्तरं सर्वैरात्मनि प्रयुच्यमानस्याहंशब्दस्य कथं तदर्थता न स्यादिति मनसि निधाय शब्दार्थसंबन्धपश्ने कृते न संयोगदिः शब्दार्थयोः संबन्धः,अपि तु वाच्यवाचकभाव इत्युक्तरनुक्तम्। तदनन्तरं दम्पत्योरियं प्रश्नेत्तरपरम्परा---
सुवर्चला - सदाऽहंकारशब्दोऽयं व्यक्तपात्मनि संश्रितः।
न वाचस्तत्र वर्तन्त इति मिथ्या भविष्यति।।

श्वेतकेतुः-- अहंशब्दो ह्यहंभावे नाऽऽत्मभावे शुभप्रभे।
न वर्तन्ते परेऽचिन्त्ये वाचः सगुणलक्षणाः।।
सुवर्चलाः-- अहंभावोऽत्र को नाम ह्यत्मभावस्तथैव च ।
तन्मे ब्रूहि यथान्यायमेव चेन्मुनिपुंगव।।
श्वेतकेतुः-- मृन्मयो हि घटाभासस्तादृग्भाव इहेष्यते।
अहंभावः परेऽचिन्त्ये ह्यत्मभावो महान्परः।
न वाचस्तत्र वर्तन्त इति नैव विरुध्यते।
अत्र शब्दार्थयोर्वाच्यवाचकभाव संबन्धोऽस्ति चेत्कथमहं शब्द आत्मवाचको न स्यादिति प्रश्ने कृतेऽहंशब्दो नाऽऽत्मनि मुख्यया वृत्त्या वर्तते, किन्वहमर्थ इत्युत्तरमुक्तम्। ततः को नामाहमर्थादन्य आत्मेति पृष्टे मृदि घटाबासवदात्मन्यहंभावोऽप्याभास इत्यहमर्थात्मनोर्विवेकं दर्शियित्वा कल्पिताकारो पधानेन प्रवर्तमानः शब्दो न शुद्धाघिष्ठानपर्यन्त प्रवर्तते रजतोपधानेन प्रवर्तमानः शुक्तो रजतशब् इव। अथः कलिपतोपाधिनिमित्तोऽहंशब्दो न शुद्धात्मनि मुख्याया वृत्त्या प्रवर्तत इति न विरुध्यत इत्युपसंहृतम्। ततोऽहंकाराद्विविक्त आत्मैव प्रपढ्चाधिष्ठानं ब्रह्येति सिद्धवत्कृत्य यथाऽऽकाशस्य प्रपञ्चाश्रयत्वेऽपि तदसङ्गित्वमेव ब्रह्मणोऽप्यसङ्गित्वे श्वेतकेतुना प्रतिपादिते पुनरिमे प्रश्नोत्तरे---
सुवर्चलाः- निर्विकारं ह्यमूर्तं च निरंशं सर्वगं तया।
दृश्यते च वियन्ननित्यं तादृगात्मा न दृश्यते।।
श्वेतकेतुः- त्वचा स्पृशति वै वायुमाफाशस्थं पुनः पुनः।
तत्स्थं गन्ध तथाऽऽघ्राति ज्योतिः पश्यति चक्षुषा।।
तमो रश्मिगणं चैव मेघजालं तथैव च।
वर्षतारागण चैव नाऽऽकाशं दृश्यते पुनः।।
आकाशस्याप्यथाऽऽ काशं सद्रूपमिति निश्चितम्।
सदर्थे कल्पितं सर्वं तत्सत्यं विष्णुरेव च ।।
यानि नामानि गौणानि ह्युपचारात्परात्मनि।
न चक्षुषा न मनसा न चान्येन पुरो विभुः।।
चिन्त्यते सूक्ष्मया बुद्ध्या वाचा वक्तु न शक्यते।
एतत्प्रपञ्चमाखिलं तस्मिन्नैव प्रतिष्ठितम्।। इति।

अत्राऽऽकाशदत्प्रपञ्चाधिष्ठानं ब्रह्म कुतो न दृश्यत इथि पश्ने -आकाशस्थस्य वाय्वादेरेव ग्रहणमस्ति, न तु विविच्याऽऽकाशस्य। यदा लौकिकाकाश एवेयं गतिस्तदा कैव कथा परमात्मनि ततोऽपि सूक्ष्मे। ततः सदर्थे कल्पित सर्वम्। स(त)च्च सद्रूपं सर्वाधिष्ठानत्वाद्व्यापकम्। तत्रोपाधिमाश्रित्य प्रवर्तमानाः शब्दा ः शुद्धे साक्षान्नाप्रवर्तन्त इत्युत्तरमुक्तम्। अस्यां प्रश्नोत्तरपम्पराया मन्मयो हि घटाभास इति दृष्टान्तोक्त्या वाचाऽऽ रम्भणश्रुत्यर्थः, सद्रूपमित्यात्मशब्देन प्रकृतस्य जीवस्य सद्रूपत्वोक्त्या' तत्त्वंमसि' इथि वाक्यार्थ ः, 'सदर्थे कल्पितं ह्येतत्तत्सर्वं विष्णुरेव च ' इत्यनेन ' एतेदात्म्यमिदं सर्वं तत्सत्यं स आत्मा' इति श्रुत्यर्थश्च निष्प्रपञ्चप्रत्यगभिन्नब्रह्माप्रतिपत्त्यनुकूलो दर्शित इति। एवं चोक्तोपबृंहणेन सद्विद्याया निष्प्रपञ्चत्प्रयगभिन्नब्रह्मापरत्व एव स्वारस्ये सिद्धे तस्य प्रपञ्चमिथ्यात्वं विनाऽनुपपत्त्या तदन्तर्गतवाचाऽऽ रम्भणमित्यादिश्रुतेः प्रपञ्चमिथ्यात्वप्रतिपादन एव स्वारस्यमिति स्पष्टमेव विदुषाम्। एवम् ' नेह नानाऽस्ति किचनं' इत्यादिवाक्यस्यापि प्रपञ्चमिथ्यात्वप्रतिपादन एव स्वारस्यम्। अत्र ह्यध्यारोपन्यायेन महावाक्यीयपदार्थशोधकेन ' इह' इत्यनेन जगद्विशिष्टब्रह्मोपस्थापनात्। तत्र च नानान परिहृश्यमाने जगत्किंचन किमपि। यद्वा केनापि प्रकारेण नास्तीति द्वैतसमान्याभावरुपविधेयसमर्पणम्। असति बाधक उद्देश्यतावच्छेदककालाद्यवच्छेद्यत्वभानस्योद्देशविधेयभावेनान्वयस्थले व्युत्पत्तिसिद्धत्वात्। कालान्तरावच्छेदेन द्वैताभावबोधस्य ' तरति शोकमात्मावित् विद्वान्नामरुपाद्विमुक्तः' ज्ञात्वा देव मुच्यते सर्वपाशैः' इत्यादिश्रुतिभिर्ज्ञाननाश्यत्वानुमापकदृश्यत्वलिह्गादिरुपमानान्तरेण च सिद्धत्वेन तद्वोधने ' नेह नाना' इतिवाक्यवैयर्थ्यापत्तेः। यदा येन संबन्धेन येन रुपेण य यत्र यत्संप्रतिपन्नं तत्काललावच्छेदेन तत्सबंन्दावच्छिन्नतद्रूपावच्छिन्नतन्निष्ठाभावप्रतियोगित्वरुपमिथ्यात्वबा( बो) धकताया एव तस्य स्वरसत्वात्। इह ब्रह्मणि नानात्वं ब्रह्माप्रतियोगिकभेदो नास्तीति परमतसिद्धतदर्थस्तुः न स्वरसः। नानेत्स्थ नानात्वपरतया ब्रह्मणि जीवघटादिप्रतियोगिकबेदसत्त्वेन तन्निषेधस्य कर्तुमशक्यतया भेदसामान्यनि,ेधायोगेन नानात्वमित्यस्य भेदसामान्यस्वरसस्य ब्रह्माप्रतियोगिकभेदविशेषपरतया च क्लिष्टार्थत्वात्। तावताऽपि किचनेत्यस्यास्वारस्यं वैयर्थ्यं चेति दिक्।
यदपि चन्द्रिकायां परिहृतदुषणोत्तरम् - एकविज्ञानेन सर्वविज्ञानायोगाच्च। मृत्पिण्डदृष्टान्तानुपपत्तेश्च।
कतं हि ब्रह्मविज्ञानाद्विज्ञात् सकलं भवेत्।
न हि शुक्तिस्वरुपस्य विज्ञानाद्रजतज्ञता।।
प्रत्युत--- शक्ते स्तत्रापरिज्ञानाद्यथैव रजतज्ञता।
ब्रहमतत्तवापरिज्ञानात्तथा सर्वज्ञतोचिता।।
इति दूषणमुक्तम्। तदपि मन्दम्। विवर्तवादेऽधिष्ठानज्ञानेनाऽऽरोपितस्य ततत्त्वतो ज्ञातत्वं संप्रतिपन्नम्। तच्चादिष्ठानात्मक स्वीयतात्त्विकस्वरुपकत्वम्। उक्तं हि भामत्याम् -- रज्ज्वां ज्ञातायां भुजंगतत्त्वं ज्ञातं भवति। सा हि तस्य तत्त्वमिति। एवं च शुक्ति साक्षात्कारानन्तरं यद्रजतभात्सा शुक्तिरिति प्रत्ययाद्रजते शुक्तिकात्मकज्ञातस्वीयतात्त्विकस्वरुपकत्वात्मकं शुक्तिकाज्ञानेन तत्त्वतो ज्ञातत्वमक्षतमेव । एकविज्ञानेन सर्वविज्ञानमपि तत्त्वतः सर्वविज्ञानमेव विवक्षितम्। एवं चाधिष्ठानभूते ब्रह्मणि ज्ञाते ' इधं सर्वं यदयमात्मा' सर्वं खल्विदं ब्रह्म' इति बाधायां सामानाधिकरण्यानुरोधाद्ब्ररुपज्ञातस्वीयतात्त्विकस्वरुपकत्वस्य ब्रह्मण्यारोपिते जगाति सत्त्वान्नैकविज्ञानेन सर्विविज्ञानानुपपत्तिः, मृदादिविज्ञानेन घटादीनािं विज्ञानं (त) स्वीयतात्त्विकस्वरुपकत्वं गुडजिह्विकान्यायेनैवेत्युक्तं प्रागित नोक्तदृष्टन्तासंगतिः।
यत्तु चन्द्रिकायाम् - रज्ज्वां ज्ञातायां भुजंगतत्त्वं ज्ञातं भवति। सा हि तस्य तत्वम्। एवं च ब्रह्मज्ञानात्सर्व तत्त्वतो ज्ञातं भवतीति भामत्युक्तमनूद्य तन्न, एवं हि ब्रह्मज्ञानेन ब्रह्मैव ज्ञातं भवतीत्यर्थः स्यात्। तच्चायुक्तम्। स्वस्य स्वहेतुत्वायोगात्। ' येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातं स्यात्' इति श्रुतेगताश्रुतादिपदायोगाच्च। किचासाधारणं स्वरुपं धर्मो वा तत्त्वमित्युच्यते। न तु भ्रमादिष्ठानम्। तथा सत्यानन्दो ब्रह्मणः, रज्जुत्वं च रज्जोस्तत्त्वं न स्यात्। न च रज्जू रज्जुज्ञानविवर्त्यस्य सर्पस्य स्वरुपं धर्मो वा। न च परस्पररभिन्नानेकारोप्यानुगतमदिष्ठानमकैकस्याषऽऽरोपितस्यासाधारणम्। न चाऽऽरोपितमित्येतावता ततोऽन्यस्य तत्त्वं भवति। स्वीकृतं च त्वयाऽपि सर्पस्य रज्जुव्यतिरोकेणसत्त्वेन ततोऽन्यत्वाभावेऽपि रज्जो ः सर्पव्यतिरेकेण सत्त्वेन ततोऽन्यत्वम्। किं च रज्ज्वामयं सर्प इति धीरानन्दे ब्रह्मदीरिव सर्पै सर्पधीरिव च प्रमा स्यात्। तत्तत्वे तद्धीत्वात्। रज्जूज्ञानेन सर्पभ्रमनिवृत्तित्वदिष्ठानतत्त्वज्ञानस्य तदज्ञाननिमित्तकभ्रमविरोधित्वात्। न च घटादेर्मृदादावारोपितत्त्वात्तद्दृष्टान्तो युक्त इति वाच्यम्। मृतत्त्वे ज्ञातेऽपि घटाद्यनिवृत्ते। यद्यपि तार्किकमत इव घटादिकं मृदारब्धं द्रव्यान्तरं नास्ति तथाऽपि कारकव्यापारसाध्यो जलाहरणादिसमर्थो व्यावहारिको मृदादितुल्योऽवस्थाविशेषरुपो घटादिशब्दार्थस्त्वन्मतेऽप्यस्ति। तत्त्वतस्तु न मृदप्यस्ति। किंच--
यदि मृन्मात्रविज्ञानाद्विज्ञातं स्याद्घटादिकम्।
मृत्त्वं निश्चित्य न पुनः संशयः स्याद्घटादिके।।
एतेन यदुक्तं भामत्याम्-- मृज्ज्ञानेन घटादयस्तत्वतो ज्ञाताभवन्ति। मृदेव हि घटादीनां तत्त्वमिति तन्निरस्तम्। मृत्त्वज्ञानेऽपि संस्थानविशेषत्वरुपघटत्वाज्ञानेन घटस्तत्त्वतो न ज्ञात इति व्यवहारात्। घटे शरावत्वाद्यारोपानिवृतेश्चेति दूषणमुक्तम्। तदपि मन्दम्। ब्रह्मविज्ञानेन सर्वं तत्त्वतो विज्ञातं भवतीत्यत्र ब्रह्मविज्ञानेनेत्यभेदे तृतीया। अभेदस्य च विज्ञातमित्यत्र विज्ञानेऽन्वयः। तथा च ब्रह्माविज्ञानाभिन्न यत्तत्त्वतो ज्ञानं तद्विषयस्वीयतत्त्वज्ञानाभिन्नज्ञानविषयकब्रह्मकं सर्वमिति पर्यवसितार्थे न स्वस्य स्वहेतुत्वापत्तिरुपदूषणावकाशः। ' येनाश्रुतं श्रुतं भवति' इत्यादावप्यश्रुतं वियदादिकं येन तत्त्वतः श्रुतं भवति यदभिन्नश्रुतात्मकस्वीयतात्त्विकस्वरुपकं भवतीति रीत्या बाधायां सामानाधिकरण्येन पर्यवसितान्वयेन न श्रुतादिपदायोगोऽपीति।
यदपि - विवर्तवादे मृत्पिण्डमृन्मयादिदृष्टान्तानुपपत्तिरिति चन्द्रिकायां दूषणमुक्तम्। तदपि श्रीमद्भाण्यकारहृदयानवबोधनिवन्धनम्। तथा हि - वाचा ऽऽरम्भणशब्दव्याख्यानभाष्यस्यायमभिप्रायः- ' येनाश्रुतं श्रुतम्' इति बाधायां सामानाधिकरण्यम्। अश्रुतं वियदादिकं सर्वं तत्त्वतो यदभिन्नश्रुतब्रह्मव्यतिरिक्तस्वीयतात्त्विकस्वरुपशून्यमित्यर्थः। तथा चैकं ब्रह्म सर्वस्याधिष्ठानमित्यर्थः प्रतिज्ञातः। तत्र मृत्पिण्डव्यतिरेकेण तत्त्व तस्यद्विकारो यथा नास्तीत्यादिदृष्टान्तः' यथा सोम्यैकेन' इत्यादिना प्रतिपाद्यते। मृपिण्डपदं च मुख्यार्थकैकपदयोगाद्भमिरुपपिण्डार्थकम्। पिण्डपदं च स्थौल्यविशेषबोधकं मृन्मयमात्रोपादानतायोग्यतालाभाय। मृन्मयपदं च भूमिविकारमात्राथकम्। तथा च भूमिरुपवाकारः सर्वोऽपि यथा भूमि विना तत्त्वतो नास्तीत्यर्थः। भूमिविकारत्वं च साक्षादेव वृक्षादावस्तीति भूमेर्विभक्तपिण्डस्य नानाविकारानुपादानत्वेऽपि न क्षतिः। यद्यपि भूभिर्नादिष्ठानं तथाऽप्यधिष्ठानतावच्छेदकसुक्त्यादिव्यातिरेकेण तत्त्वतो रुप्यादि नास्तीति व्यवहारवद्भूमिविकारादिस्वरुपविचारदशायामाधारतावच्छेदकभूम्यादिव्यतिरेकेण तत्त्वतस्तद्विकारो नास्तीति व्यवहाराच्छ्रूत्या तथोक्तम्। एवं च सर्वं मृन्मयेकमृत्पिण्डात्मकविज्ञातस्वीयतात्त्विकस्वरुपकमित्यपि बाधायां सामानाधिकरण्यम्। तत्र हेतुः' मृत्तिकेत्येव सत्यम्' इति। सर्वप्रत्ययवेद्ये च ब्रह्मरुपे व्यवस्थिते' इत्युक्तेः। मृत्तिका भूमिरिति ह्यगृमाणं यत्तदवच्छिन्नसद्रूपं ब्रह्म तदेव सत्यम्। मृत्तिकास्वरुपस्य सत्यत्वाभावात्। तदवच्छिन्नसद्रपस्य दृष्टन्तत्वधीदशायां मृदो विविच्याज्ञानाद्भूमित्वेन ज्ञायमानत्वेन सद्रपलाभार्थमेमव मृत्तिकेत्येवेत्यत्र' इति ' इत्युक्तेः। अन्यथा तद्वैयर्थ्यापत्तेः। एतेन शब्दप्रकरेण व्याकरणादौ प्रकरणसिद्धं शब्दपरत्वं विहाय ' ( com -- 109) न वेति विभाषा' ( पाo सूo 1। 1।44) इति सूत्रस्थनवेतिशब्दस्य स्वार्थपरत्वस्येवार्थप्रकरणेऽर्थपरत्वस्य प्रकरणादेव लाभे शब्दपरताया एव वक्तव्यतया तस्य च प्रकृतेऽनुपयोगात्' मृत्तिकेत्येव ' इत्यत्रेतिशब्दवैयर्थ्यमेव त्वन्मत इति परोक्तदूषणमनवकाशमेव। आद्यर्थको वा प्रकृत इतिशब्दः। ' इति हेतुप्रकारणप्रकारादिसमाप्तिषु' इत्यमरकोशात्। तथा च विकारस्वरुपस्य विचारदशायां तत्स्वरुपमिवभूमिस्वरुपस्य विचारदशायां साऽपि मिथ्यैव। तत्कारणबूतापञ्चीकृतभूतान्येव सत्यानि। तेषामपि स्वरुपविचारदशायां तान्यपि मिथ्या। तत्कारणं बह्यैव सत्यमित्याद्यर्थलाभः। एव मेवोत्तरेष्वपि दृष्टान्तेषु योजनीयम्। मृत्तिकेत्येव सत्यमित्यत्र हेतुर्वाचाऽऽरम्भणं विकारो नामधेययमित्यादि। तच्च व्याख्यातंप्राक्। अस्मिन्नेवार्थे--
को भवानिति निर्दैशो वाचाऽऽरम्बो ह्यनर्थकः।
शिविकादारुसंघातो वचनास्थि( स्थ) नि संस्थितः।।
अन्विष्यतां नृपश्रेष्ठ तद्भेदं शिबिका त्वया।
एवं च्छत्रशलाकानां पृथग्भावो विमृश्यताम्।।
क्क यातं छत्रमित्येष न्यायस्त्वायि तथा मयि।
वस्तु राजेति यल्लोके यच्च राजभटात्मकम्।।
तथाऽन्यच्च नृपेत्येतन्न सत्संकल्पनामयम्।
एवमेव(क) मिदं विश्व( ब्रह्म) न भेदि सकलं जगत्।।
वासुदेवाभिधानस्य स्वरुपं परमात्मनः।।
इत्यादिविष्णुपुराणवाक्यसहस्त्रैरुपबृंहणरुपैरनिर्वचनीयपरपर्याये प्रपञ्चिमिथ्यात्वे निर्णीततात्पर्यकं सद्विद्यागतम्' यदग्रे रोहितं रुपं चेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागादग्नेरग्नित्वं वाचाऽऽरम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्' इत्यादिश्रुतिवाक्यं प्रमाणम्। तत्र हि त्रिवृत्कृदग्न्यादिस्विरुपस्यात्रिवृत्कृततेजोबन्नस्वरुपव्यतिरेकेण विचारासहत्वमाग्नित्वमित्यन्तेन हेतुकृत्य वाचाऽऽरम्भणमित्यादिनात्रि(वृ) त्कृतमात्रं मिथ्येति प्रतिपादितम्। परोक्तेऽर्थे तु न किंचित्प्रमाणमस्वारस्यं चोक्तमित्यलमधिकेन।
किंचासाधारणस्वरुपं धर्मो वा तत्त्वमित्यादि दूषणमपि मन्दम्। अनारोपितस्यैव तत्त्वरुपत्वेनोक्तदूषणानवकाशात्। अत एव ' तत्त्वज्ञानान्निः श्रेयसाधिगमः' ( गौo सूo 1।1।1) इति भाष्ये तत्त्वमनारोपितस्वरुपमित्युदयनाचार्यैरुक्तम्। एवं च व्यवहारदशायां शक्त्‌यादावनारोपितत्वभ्रमेण रुप्यादितादात्म्योपलक्षितत्वेन च रुप्यादेः स्वरुपतत्त्वं शुक्तिरिति लोके व्यवहारः शुक्त्यादेर्धर्मतत्त्वं शुक्तित्वादिरिति च व्यवहारः। विवेकदशायां तु ब्रह्मैवानारोपितत्वेन ज्ञायत इति वस्तुगत्या तदेव सर्वेषा स्वरुपतत्त्वम्। एतदभिप्रायेणैव ( com -- 110) ब्रह्म तत्त्वं तपो वेदः' इत्यमरेणोक्तम्। 'तत्त्वं परमात्मनि वाद्यभेदे स्वरुपे च ' इति हैमन्तश्च । प्रपञ्चतत्त्ववादिनस्तव तत्त्ववादित्वं नासाधारणधर्मवादित्वम्। किंत्वनारोपितप्रपञ्चवादित्वमेवेति तव मतेऽप्यनारोपितस्वरुपस्यैव तत्त्वरुपतायाः संमतत्वेनासाधारणस्वरुपं धर्मो वा तत्त्वमित्युक्तिः स्वमतविस्मरणनिबन्धनैव । किचं तस्य भावस्तत्त्वमिति व्युत्पन्नात्तत्त्वशब्दान्न साधारणधर्मोऽसाधारणधर्मान्तर वा प्रतीयते। घटत्वमित्यादिशब्दाद्धटपदजन्यबोधप्रकारीभूतजातिसमनियतधर्मन्तरापतीतेः। रुढिश्च पारमार्थिकवस्तुन्येव सर्वसंमता। न त्वसाधारण्यमपि तत्रान्तर्भावनीयम्। एवं चानारोपिततदीयस्वरुपमेव तदीय स्वरुपतत्त्वमिति विवक्षितम्। तदीयत्वं च तन्निष्ठतादात्म्यप्रतियोगित्वमित्युक्तं प्राक्। ब्रह्मानन्दयोः काल्पनिकभेदसत्त्वेन तादात्म्यसंभवादानन्दस्य ब्रह्यतत्त्वरुपतोपपत्तिः। रज्जुत्वं च रज्जोर्न स्वरुपतत्त्वम्, किंतु धर्मतत्त्वमेवेति न ' तथा सत्यानन्दो ब्रह्मणः , रज्जुत्वं च रज्जोस्तत्वं न स्यात्' इति दूषणावकाशः। सर्पभिन्नस्याप्युक्तरीत्या काल्पनिकाभेदमादाय तदीयस्वरुपतत्त्वरुपतोपपत्तिश्च। रज्जवामयं सर्पबुद्धिश्च( सर्प इति बुद्धिश्च) न प्रमा। अबाधितार्थविषयकत्वाभावात्। व्यवहारकालीनबाधगोचरार्थविषयत्वाच्च न व्यावहारिकप्रमात्वमपि। तदीयतत्त्वविशेष्यकतत्प्रकारकज्ञानत्वादिकं तत्प्रमात्वमिति त्वया वक्तुमशक्यम्। तथा सति घटे द्रव्यत्वमित्याधेयतासंसर्गकघटादिप्रकारकज्ञानानां तव मते घटाद्यंसे प्रमात्वभाव प्रसङ्गात्। तदीयासाधारणस्वरुपादेरेव तत्तत्त्वरुपतायास्त्वयोक्तत्वात्। द्रव्यत्वादेर्गटाद्यसाधारणस्वरुपत्वाभावात्। अधिष्ठानीभूतं यत्तत्वं तज्ज्ञानस्यैव भ्रमनिवर्तकत्वात्। मृत्त्वे ज्ञातेऽपि घटाद्यनिवृत्तिरिपपन्ना। उपपन्ना च मृदित्यादिज्ञानादयं घटो न वेति संशयानिवृत्तिरपि । समानविषयकनिश्चयस्यैव संशयविरोधित्वात्। मृदादिविज्ञानेन घटादीनां विज्ञातस्वीयतत्त्वकत्वं गुडजिह्विकान्यायादिनोपपन्नमिति प्रतिपादितं प्रागिति' मृज्ज्ञानेन घटादयस्तत्त्वतो ज्ञाता भवन्ति मृदेव हि घटादिनां तत्त्वम्' इति भामप्युक्तमपि सम्पगेवेति ' एतेन' इत्यादिनोक्तं दूषणमपि निरस्तम्।
यदपि चन्द्रिकायाम् - प्रकृत्यदिकरणादृश्यत्वाधिकरणाभ्यामस्य पुनरुक्तिस्चाद्वैतिमते । अत्रेवोभयत्रापि ब्रह्मविवर्तताया एवोक्तत्वादिति दूषणमुक्तम्। तदत्यन्तं मन्दम्। ब्रह्मणो निमित्तत्वे सत्युपादानताया व्यवस्थापनमेव प्रकृत्याधिकरणप्रमेयम्। तादृसोपादानतास्वीकारे भोक्तृभोग्यविभागलोपापत्तिरिति पूर्वपक्षे परिणामवादाभिप्रायेण लोकवदिति स्वपक्षबाधकोद्धारमुक्त्वा परमार्थतस्तादृशविभाग एव नास्तीति समाधानायात्र विवर्तोक्तावपि तस्यैतदधिकरणप्रमेयत्वाभावात्। अदृश्यत्वाधिकरणे भूतयोनिव्क्यस्य प्रधानपरतां निरस्य ब्रह्मपरत्वव्यवस्थापनमेव प्रमेयम्। तदुपपादनाय तत्र विवर्तोक्तावपि तस्येतदधिकरणप्रमेयत्वाभावात्।
यदपि चन्द्रिकायाम् - किचं त्वन्मते पूर्वसूत्रे भेदोक्तेरत्र चाभेदोक्तेर्विरोधः। न च प्रमाणयो ः सूत्रयोर्विरोध एकस्यानृत विषयत्वेन परिहर्तु युक्त इति दूषणमुक्तम्। तदप्युक्तरीत्या तदनन्यत्वमित्यनेन तादात्म्यघटितमिथ्यात्वस्यैवोक्तेरभेदानुक्तेरप्रसक्तमेव । प्रमाणयोरपि सूत्रयो ः प्रमाणमूर्धन्यसामान्यविशेषशास्त्रयोरिव भिन्नविषयत्वस्य युक्तत्वात्। पूर्वसूत्रे लोकवदित्युक्तेर्लोके च विकाररानृतत्वप्रसिद्ध्यभावात्सत्यं भोक्तृभोग्यविभागमाश्रित्यैव समाधानमुक्तमितिभ्रमवारणायैतत्सूत्रारम्भ इति ' अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यविभागम्' इति भाण्याभिप्रायस्यास्मद्भाष्यव्याख्यातृभिर(भि) हितत्वाच्च।
यदपि चन्द्रिकायाम् - किचं घटादेर्मृदनन्यत्वप्रतिपादक आरम्भणशब्दो जगतो ब्रह्मनन्यत्वरुपे त्वदीये साध्ये ( com -- 111) न साक्षाद्धेतुः, (com -- 112) मम तु हेतुरिति दूपणम्। तदपि मन्दम्। तवमतेऽपि केवलारम्भणशब्दस्य हेतुपपादकत्वाभावेन ' किस्विदासीदधिष्ठानमारम्भणं कतमत्स्वित्कथाऽऽसीत्' इति ह्याक्षेपः ( आनo ब्रo सू o भाo) । ' येनाधिष्ठानादिना भूर्मि द्यां च जनयञ्जनयिता विशेषेण बभूव तदधिष्ठानं किमासीत्। आरभ्यतेऽनेनेत्यारम्भणं साधनं वा किमासीत्। कथं वाऽऽसीत्। न किंचित्कथमपीति साधनाद्याक्षेपः क्रियते। आक्षेपस्य विपर्यवसानात्। किंशब्दस्य प्रश्नाक्षेपयोः समत्वात्प्रश्नार्थे किं न स्यादित्यत आह ः आधिष्ठानाद्यनुक्तेरिति । प्रश्नश्चेत्परिहारो वक्तव्यंः। किंस्विद्धिमाय भेषजमिति प्रश्नेऽग्रिर्हिमस्य भेषजमितिवत्। अत्र परिहारायाधिष्ठानाद्यनुक्तेर्नायं प्रश्नः। किं त्वाक्षेप एवं' इति त्वदीयतत्त्वप्रकाशिकाद्ग्रन्थपर्यालोचनया स्वतन्त्रसाधनस्य तदनन्यत्वरुपत्वदभिमतसाध्ये केवलारम्भणशब्दस्य हेतुपपादकत्वाभावेन तद्घटितवाक्यसंदर्भस्यैव हेतुत्वस्याभिप्रेततया मन्मतेऽपि तदनन्यत्वलमित्यत्र 'तयोः कार्यकारणयोरनन्यत्वं तादात्म्यम् तस्मात्कारणात्कार्यस्य तत्त्वतोऽनन्यत्वम्' इत्यर्थद्वयरुपनिरुविवक्षितसाध्य आरम्भणशब्दघटितसंदर्भस्य सदृष्टान्तस्य ' एवं सौम्य स आदेशे भवति' इयुत्तर दार्ष्टान्तिवाक्यरुपस्य साक्षादेव हतूपपादकत्वात्।
यदपि -- वाचारम्भणशब्दस्य समासतया समासतया ' वाचारम्बण शब्दादिभ्यः' इत्येव सूत्रणीयम् । विशिष्टपदग्रहणौचित्यात्। पदैकदेशग्रहणं त्वनौचितमिति चन्द्रिकोक्त दूषणम्। तदपि न साधु। ' वाचैव केवलमस्तीत्यारभ्यते घट शराव उदञ्चनं च' इति भाष्ये व्यस्तस्यैव वाचेत्यस्योपादानात्। न चैव सति कृद्योगे षष्ठीप्रसक्त्या वाचेति तृतीयानुपपत्तिरिति वाच्यम्। वाचेत्यत्र करणतृतीयोपगमात्। वाचेति तृतीया षष्ठ्यर्थ इति च्छेन्दोग्यभाष्यविवरणे भिन्नपदताया उक्तत्वाच्च। ' वागारम्भणमिति वागालम्बनमित्यतत्' इति च्छान्दोग्यभाष्यं तु फलितार्थकथनपरम्। संदर्भविशेषात्मकवाक्यविशेषस्फुरणाय समासौकदेशोपादानेऽपि वाधकाभावात्। आरम्भणशब्दमात्रस्य मतद्वये हेतुपपादकत्वाभावस्योक्तत्वात्।५
यदपि चन्द्रिकायाम् - त्वन्मते सौत्रादिशब्दार्थस्य ' इदं सर्वं यदयमात्मा ' इत्यादेरपि शब्दरुपत्वात्सूत्रे ' वाचाऽऽरम्भणादिशब्देभ्यः' इत्येव विन्यासः स्यादिति दूषणम्। तदपि मन्दम्। आदिशब्दाद्युक्तिभिश्चेति त्वदीयभाष्येऽपि युक्तीनामिव' यथा घटकरकाद्युक्तिभिश्चेति त्वदीयभाष्येऽपि युक्तीनामिव'यथा घटकरकाद्याकाशानािं महाकाशानन्यत्वं यथा च मृगतृष्णिकोदकादीनामूषरादिभ्योऽनन्यत्वम्। दृष्टनष्टस्वरुपत्वात्स्वरुपेणानु पाख्यत्वात्। एवमस्य भोक्तृभोग्यादिप्रप़ञ्चस्य ब्रह्मव्यतिरेकेणाभावः' इत्यस्मदीयभाष्येण दृश्यत्वपरिच्छिन्नत्वादिरुपयुक्तीनमप्यादिशब्दार्थतापे्रदर्थनायोपन्यस्तत्वेन शब्दमात्रस्यैवाऽऽदिशब्दार्थत्वोक्तेर्भ्रान्तिमूलकत्वात्। ' दृष्टनष्टस्वरुपत्वात्' इत्यनेन श्रुतिसिद्धे प्रपञ्चमिथ्यात्वेऽनुमानमपि दर्शितम्।' विप्रतिपन्नं वियदादिकं मिथ्या, दृश्यत्वानन्नाशप्रतियोगित्वाच्च' इत्यनुमानद्वयमत्र विवक्षितमित्यस्मदीयैस्तद्भाष्यव्याख्यानाच्च।। 14।।

भावे चोपलब्धेः।। 15।।
-------------------
अत्र - सूत्रात्प्राक ' कारणस्य' इति उपलब्धेरित्यस्य पूर्वम्' कार्यस्य 'इति चाध्याहर्तव्यम्। भाव इत्यस्य भाव एवेत्यर्थः। चशब्देन कारणोपलब्धावेवोपलभ्यमानत्वं संमुच्चीयते। एवं च कारणसत्त्व एव सत्त्वस्य कारणोपलब्धावेवोप लभ्यमानत्वसमुच्चितस्य कारणानन्यत्वरुपसाध्यहेतुतालाभः। एतादृशार्थद्वयलाभायैव ' भावे च सत्त्वात्' इत्यनुक्त्वा ' भावे चोपलब्धेः, इत्यक्तम्। तत्र च पाभयामुपलभ्यमानायामेवोपलब्यघटीतरुपविशेषादेः प्रभान्यत्वाद्व्यभिचारवारणाय कण्ठोक्तस्य वह्निसत्त्व एव सतो धूमविशेषस्य वह्निभिन्नत्वाद्व्यभिचारवारणाय च समुच्चितविशेषणस्योपादानम्। ' कारणस्य भावः सत्ता चोपलम्भश्च' इति टीकायाम्' इति द्वयं हेतुविशेषणकोटौ विवक्षितम्' इति शेषः। तथा च टीकाग्रन्थस्य फलितार्थकथनपरत्वात्। " भावशब्दोपलब्धिशब्दयोरवृत्तिर्विभक्तिविपरिणाम्ः कारणस्य कार्यस्य चेति पदद्वयाध्याहारश्चेत्यनेकदोषापाताच्च। मम तु ' उफलब्धेः 'इत्युत्तरम्' प्रसङ्गात्' इति हेतुमात्रं कल्प्यम्" इति चन्द्रिकोक्तदूषणानवकाशः। ' कारणस्य स्वतन्त्रसाधनस्य' इति पूरणमपेक्ष्य लघु। उपलब्धेरित्यस्योपलब्धिप्रसङ्गादित्यर्थकल्पना परं परस्यातिरिच्यते। स्वतन्त्रसाधने प्रमाणैरनुपलभ्यमानतायाः स्वत एव सिद्धत्वात्तदभिधाननार्थक्यादुपलब्धेरित्यस्योपलब्धिप्रसङ्गदित्यर्थकताया आवश्यकत्वात्। तथा हि परकीयव्याख्यानम्-- यदि भगवत्सृष्टौ तदतिरिक्तं स्वतन्त्रसाधनमस्ति तर्हि वेदादिप्रमाणौरुपलभ्यते। न चोपलभ्यते । अतो नास्तीत्यर्थ इति।
यत्तु -- कारणसत्त्व एव सत्त्वरुपहेतुत्वस्यानृतत्वरुपसाध्यविरोधितेति। तन्न। हेतुविशेषणप्रविष्टसत्ताया विद्यमानतारुपत्वेनानिर्वाच्यत्वरुपानृतत्वादिविरोधित्वात्। अत्र सूत्रे तादात्म्यरुपानन्यत्वस्यैव साध्यतया विवक्षितत्वाच्च। उक्तं चाद्वैतानन्दश्रीचरणै ः- अनेन सूत्रेणोपादानोपादेयभावनियामकतया तादात्म्यख्यस्वरुपसंबन्धविशेष उपपाद्यत इति।
यदपि -- शब्दैकसमधिगम्यनिर्विषचिन्मात्ररुपस्य शुद्धस्य सर्वज्ञत्वादिविशिष्टस्य सगुणस्य वाऽनुपलम्भ एव। प्रपञ्चोपलम्भेन सौत्रो हेतुरसिद्ध इति। तदपि न । तदुपलब्धीत्यनेन तत्तदीयोपहितरुपान्यतरविषयकोपलब्देरेव विवक्षणीयत्वात्।' भावाच्चोपलब्धेः ' इति पाटे भावस्तादात्म्यम्। लयब्लोपे पञ्चमी। भावं विषयीकृत्योपलब्धेश्चेत्यर्थः। चशब्देन पूर्वोक्तानुमानादिसमुच्चयः। ' प्रत्यक्षोपलब्धिभावाच्च' इत्यादिभाष्यदिकं च फलितार्थकथपरम्। ' भवति हि प्रत्यक्षोपलब्धि-। कार्यकारणयोरनन्यत्वे ' इत्यग्रमभाष्ये' अनन्यत्वे' इति सप्तमीविषयत्वार्थिका। तच्च भाष्यं भावादिर्यस्य विवरणरुपमिति बोध्यम्। तेनास्मिन्पक्षे ( com -- 113) भावशब्दो व्यर्थ इति शङ्का ( com -- 114) निरस्ता। यत्त्वस्मिन्पक्षे कार्यकारणयोरभेदस्यैव सिद्ध्या कार्यस्य नानृतत्वसिद्धिरिति तत्प्रागेव निरस्तप्रायम्।। 15।।


सत्त्वाच्चावरस्य ।। 16।।
------------------
पूर्वसूत्रे प्रत्यक्षानुमानाभ्यां पटादीनां तन्त्वाद्यभिन्नत्वप्रसाधनेन तद्दृष्टान्तेनोपादेयत्वहेतुना वियदादेः प्रप़ञ्चस्य ब्रह्मानन्यत्वम्। सत्त्वाच्चावरस्य कारणात्मनैव कारणे सत्त्वमिति स्वीयसूक्ष्मरूपात्मना परमकारणब्रह्मतादात्म्यमित्यर्थः। कार्यावस्थापन्नवियदादिसूक्ष्मरुपस्य सत्तादात्म्यश्रवणादिति निष्कर्षंः। कार्यावस्थापन्नवियदादितादात्म्यविशिष्टस्य सतोऽग्रकालसत्त्वानुपपत्त्येदंशब्दोपस्थाप्यतावच्छेदककार्यावस्थाया उपलक्षणतयैव वाक्यार्थानिप्रवेशस्याऽऽवश्यकत्वात्। न च कार्यावस्थापन्नस्यैव वियदादेरुपलक्षणत्वसंभवात्कार्यावस्यामात्रस्योपलक्षणत्वोक्तिरयुक्तेति वाच्यम्। विशिष्टार्थपरत्वस्यौत्सर्गिकतया विशेषणासे तत्त्यागमात्रेणापवादकबाधोपशान्त्युपयुक्ताविशेष्यांशेऽपि विना निमित्तं तत्त्यागस्यानुचितत्वादिति भावः। उक्तश्रुत्यर्थस्य वक्ष्यमाणायां जगदुपादानतायामुपयोगिता द्योतयितुमाह - यच्च यदात्मनेति। एव च श्रुताविदंशब्दोपसंदानस्य प्रयोजनमुपदर्शित भवति। नन्वेवमपि कार्यास्थापन्नस्य जगतः सत्तादात्म्यसिद्धमित्याशङ्क्याऽऽह - तस्यात्प्रागुत्पत्तेरिति। तथा च कार्यावस्थापन्नं वियदादि सत्तादात्म्यवत्, स्वसमानकालीनसत्तादात्म्यवत्स्वीसयूक्ष्मरुपकत्वात्। यत्स्वसमानकालीनसत्तादात्म्यवत्सूक्ष्मरुपकं तत्तादात्म्यवत्। यथा घटसमानकालीनमृत्सामान्याभिन्नस्वीयसूक्ष्मरुपात्मको घटो मृत्सामान्यतादाम्यवानिति सामान्यमुखव्याप्त्युपष्टभ्यानुमानेन कार्यमात्रे परमकारणसत्तादात्म्यसिद्धिरिति भावः।
प्रकारान्तरेण सूत्रं व्याख्यातुमुपक्रमते - यथा चेति। त्रिषु कालेषु सत्त्वं न व्यभिचरतीति कस्यामपि सदविषयप्रतीतिं न विषय इत्यर्थः। एवमग्रेऽपि । तथा च वियदादिकं सत्तादात्म्यवत्, सदविषयकप्रतीत्यविषयत्वात्। यो यदविषयकप्रतीत्याविषयः। स तत्तादात्म्यवान्, यथा संप्रतिपन्न इत्यनुमानेन जगद्ब्रह्मणोस्तादात्म्यसिद्धिरिति भावः। न च ' भावे चोपलब्धेः' इत्यनेनास्य गतार्थता शङ्क्या। तत्र तन्तुपटादीनां तादात्म्यं प्रसाध्य तद्दृष्टान्तेन ब्रह्मणोऽपि जगत्तादात्म्यमुपादानत्वेन प्रसाधितम्। अत्र च साक्षादेवेति विशेषात्। न चोपादानत्वस्य तादात्म्यघटिततया साध्यानिषिष्टता। तत्प्रागभाववत्त्वरुपोपादानताया एव तत्र हेतुत्वेन विवक्षणात्। न चैवमपि तुल्यन्या तेन गतार्थता। पटादौ तन्त्वाद्यविषयकपतीत्यविषयत्वस्यैव जगति ब्रह्माविषयकपतीत्यविषयवासिद्धेः। अत्र च घटः सन्पटः सन्नित्याद्यनुगतप्रतीवनुगतस्यैकस्यैव सतो विषयत्वे लाघवमाश्रित्य तस्य समर्थनीयत्वात्। तादृशकाघवं च नाप्रामाणिकम्। ' सदेव ' इत्यादिश्रुत्यनुगृहीतत्वात्। पारमार्थिकत्वेन स्वसजातीयद्वितीयत्वे हि ब्रह्मण एकत्वावधारणानुपपत्ते ः स्फुटत्वात्। समभिव्याहृतविशेष्यतावच्छेदकरुपेण सजातीयान्तरव्यवच्छेदकत्वे संभवति योजनान्तरक्लेशस्यानुचितत्वात्। भवति च पारमार्थिकत्वमतिप्रसिद्धं सत्पदार्थतावच्छेदकमिति। सतो भावः सत्त्वमिति विक्क्षितैकत्वसाधकविभवक्त्यन्तेन समासाश्रयणादुक्तार्थसूचकत्वं सूत्रस्योपपद्यते। एतादृशतर्कस्फोरणानुरोधेन च ' खल्विदं ब्रह्म' इत्यादिवाक्यमनुदाहृत्योक्तवाक्योदाहरणम्। ऐतेन - अवरकालीनस्य वियदादेः सत्त्व त्वदभिप्रेतानृतत्वविरुद्धमित्यवरस्य सत्त्वादित्यसंगतम्। उत्पत्तेः प्रागित्यध्याहारगौरवं च द्वितीयसूत्रस्य तन्तुपटादिविषयः। तृतीयस्य तु ब्रह्मवियदादीति(ति) भिन्नविषयत्वेन चशब्दास्वारस्यं च ।' तत्तेजोऽसृजत' इति वाक्यशेषेण ' सदेव 'इत्यादिवाक्यस्य कारणपरत्वात्कार्यकारणभेदस्य चाद्याप्यसिद्धेस्तेन कार्यसत्त्वासिद्धिश्चेति परास्तम्। सत्तादात्म्यकालसंबन्धादिलक्षणसत्त्वस्यासद्विलक्षणत्वादिनियताया मनिर्वाच्यतायामनुगुणत्वेन तद्विरोधित्वायोगात्। अत्यन्तासत्त्वं तु नात्र प्रसाध्यते। कार्यस्य सत्तादात्म्यश्रवणादित्युक्ते वियदादेः कार्यावस्थापन्नस्योक्तवाक्यैरुक्ततातादात्म्यं प्रागुक्तरीत्या बोधयितुमशक्यमिति कथमेवमुक्तमिति शङ्काव्युदासाय प्रवृत्ते भाष्य उत्पत्तेः प्रागित्युक्तत्वेऽपि सोत्रवाक्यार्थेऽसदर्थानुप्रवेशविरहान्नाध्याहारगौरवम्। द्वितीयसूत्रेत्यादिकं चाऽऽपातत इति सुव्यक्तमेव।। 16।।

असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात्।। 17।।
-------------------------------------
ननु क्कचिदसत्तवमपीति। अयं भावः-- ' असदेवेदम्' इत्यत्र न समस्त पदम्। ' असदासीत्' इत्युक्तौ व्याहत्यापत्तेः। असादिति पदद्वयम्। तथा च इदमात्मकं सन्नाऽऽसीत्' इत्यापक्कचिच्छ्रूयते । यद्वा -- इदं जगदग्रेऽसदवर्तमानमासीदित्यर्थः। तथा च श्रुतिद्वयप्रामाण्यनिर्वाहाय' सदेव'इति वाक्ये ' इदंमग्रे' इति समस्तं पदम्। इदमिति सद्विशेषणं वा। ' आत्मा वा इदम्' इति वाक्येऽपि' अयं चासावेकश्च' इथि कर्मधारयो वाच्यः। एवं च नानेन वाक्येन जगद्ब्रह्मतादात्म्यासिद्धिरिति ।
नन्विदमसगतम्। ' तदसदेव सन्मनोऽकुरु' इति वाक्यशेषादुक्तवाक्यस्य कारणपरत्वेन कार्यासत्त्वाप्रापकत्वात्। न च कार्यकारणयोरनन्यत्वाङ्गीकारएण कार्यासत्त्वाशङ्केति युक्तम्। कार्यसत्त्वस्याप्यनन्यत्वसिद्ध्यर्थकत्वेनानन्यत्वाङ्गीकारेणासत्त्वशङ्कानुदयादिति चेत्। न । वाक्यशेषेण निर्णयस्य सिद्धान्तयुक्तितया तद्विरोधेन पूर्वपक्षानुत्थित्यभिधानस्य त्वद्विषयकमहामोहप्रसादैकफलत्वात्। ' तदसत्सृष्टेः प्राक्कालेऽवर्तमानं मनः सद्ब्रह्मकुरुत' इति योजनामाश्रित्य पूर्वपक्षप्रवृत्तिसभवाच्च।। 17।।

युक्तेः शब्दान्तराच्च।। 18।।
-------------------
यद्यप्यत्र शब्दान्तरस्य सदेवेत्यादेरेव भाष्य उदाहृतत्वात् ' सत्त्वाच्च्ावरस्य ' इत्यनेनास्य पौनरुक्त्यामिवाऽऽभाति तथाऽप्यव्यहितपूर्वसूत्रे पूर्वपक्षिणा तस्यान्यथा व्याख्यातत्वात्तदुपेक्षायां तादृशवाक्यार्थेऽपि किंचिद्बाधकं नास्तीति भ्रमः स्यात्तद्वारणाय पुनरुक्तिः। तथा चोक्तरीत्याऽसद्वेत्यादिवाक्यतात्पर्ये वर्णिते नोक्तं श्रुतिव्याख्यानमुचितम्। तथा सतीदमादिपदवैर्थ्यापत्तेपर्निरर्थकलक्षणादिस्वीकारापत्तेश्चेति पूर्वोक्तश्रुत्या तत्सिद्धिरनपवादेति फलिष्यति। अन्यथा युक्तिशब्देन पूर्वापरसर्वयुक्तीनामारम्भणशब्दादीत्यत्राऽऽदिशब्देन वा सर्वयुक्तिग्रहणसंभवादेतत्सूत्रसार्थक्यं तदाऽपि दुरुपपादं स्यादेवेति।। 17।।

पटवच्च।। 19।।
-----------

यथा च प्राणादि।। 20।।
-----------------
अत्र च ' कार्य कारणाद्भिद्यते तस्मिन्निश्रीयमानऽपि संदिग्धत्वात्ततोऽधिकपरिमाणत्वान्मशकादिव शशकः' इत्यनुमाने व्यभिचारपदर्शनायाऽद्यम्। तत्रैवल विलक्षणकारित्वहेतोर्व्याभिचारप्रदर्थनाय द्वितीयमिति दृष्टान्तद्वयोपदर्शनफलं संप्रदायविद्भिरुक्तम्। दृष्टान्ते सर्वसाम्यानपेक्षणाच्च' संवेष्टितपटप्राणदृष्टान्तौ न विवर्तवादिनामनुगुणौ , जगतो ब्रह्मणीव प्रसारणादे ः पटादावनध्यस्तत्वात्संवेष्टितप्रसारितपटादाविच निरवयवे ब्रह्मणि संकोचविकासयोरसंभवाच्चेति दूषणमनवकाशम्।।
मीमासान्यायपञ्चस्यराघवाचार्यसूरिणाम्।
शिष्यस्य शांकरे पादभूषणे परदूषणे।।
कृतिर्वितनुतां मोदमस्मिन्नयविवेचने।।
श्रीमच्छंकररुपशंकरमहाचार्यैर्विचार्याऽऽहितं
यच्छारीरकभाष्यमार्यविनुतं दोषोज्झितं तत्र यैः।
दोषा ये प्रतिपादिताः परिहृता निः शेषतस्ते मया
तेषामेव च दूषिता ः प्रतिपदं दुर्योजनायुक्तिभिः।।
शारीरकस्थप्रथमद्वितीयाध्यायाद्यपादद्वयभूषणावहः।
ग्रन्थोऽयमन्वर्थकनामधेयः समापितः शंकरपादभूषणः।।
येषा शंकरसंज्ञपूर्वजवरैरोजः प्रसिद्धेः पूरा
लब्धा लोकमनोज्ञपन्तसचिवाभिख्या भृशं श्रेयसी।
नीरातीरसमीपभोगनगरं यद्वासभूः संततं
श्रीकृष्णार्चनतत्परा रघुवरोत्साहेऽपि दत्ताशयाः।।
नानासाहेबनास्ना ये प्रसिद्धास्तु तदाश्रयात्।
सिद्धिं गतश्च गन्थोऽयमङिकतश्च शिलाक्षरेः।।
तत्प्राङ्विवाकश्च भिडेउपाह्वो मद्ग्रन्थसिद्धो परमाश्रयो यः।
गोपासलुनः सच विष्णुनामा जीयाच्चिरं शैवजनप्रवीणः।।

इत्यारम्भणाधिकरणं समाप्तम्।।
--------- ---------

समाप्तोऽयं शांकरपादभूषणाभिधो ग्रन्थः।।