लघुयोगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः १
लघुयोगवासिष्ठः सर्गः १ [[लेखकः :|]] |
सर्गः २ → |
उपशमप्रकरणम्।।
जनकोपाख्यानम्।।
प्रथमः सर्गः।।
वसिष्ठ उवाच।।
दीर्घसंसारमायेयं राम राजसतामसैः।
धार्यते मानवैर्नित्यं सुस्तम्भैरिव मण्डपः।।[5-1-1]
पूर्वं जगदुत्पत्तिस्थित्योर्मन एव कारणमित्युक्तम्। इदानीं तदुपशमार्थमिदं प्रकरणमारभ्यते। तत्र दशाख्यानानि भवन्ति-जनकः पुण्यपावनै बलिः प्रह्लादः गाधिः उद्दालकः सुरघुः भासविलासौ वीतहव्यः जीवन्मुक्तस्याकाशगमनाद्यभावश्चेति। तत्र च जनकवृत्तान्तमवतारयितुं पीठिकामाचरति-दीर्घेत्यादिना।। राजसतामसै रजस्तमःप्रधानैः। रजःप्रभृतीनां लक्षणम् `सत्त्वं लघु प्रकाशकमिष्टमवष्टम्भकं चलं च। रजः गुरु। आवरणकमेव तमः' इति सांख्ये। `सत्त्वं ज्ञानं तमोऽज्ञानं रजो मिश्रमुदाहृत'मिति गीतासु()।।
हेलया त्यज्यते पक्वा मायेयं त्वगिवोरगैः।।[5-1-2]
समस्तं खल्विदं ब्रह्म सर्वमात्मेदमाततम्।
अहमन्य इदं चान्यदिति भ्रान्ति तय्जानघ।।[5-1-3]
सत्त्वेति।। सत्त्वस्था सत्त्वगुणप्रधाना जातिर्जन्म येषां तैर्गुणबृंहितैः गुणा मैत्र्यादयः तैर्बृंहिता वर्धिताः तैः। हेलया लीलया। त्वक्कञ्चुकः।।[5-1-2,3]
तते ब्रह्मघने नित्ये संभवन्ति न कल्पना।
विच्छित्तयः पयोराशौ यथा राम न सन्मयाः।।[5-1-4]
तत इति।। ब्रह्मघने घनीभूते ब्रह्मणि विच्छित्तयः तरङ्गादिभेदरचनाः सन्मयाः सन्तः परमार्थसन्तः सन्तश्च ते मया विक्षेपाश्चेति सन्मयाः। डुमिञ् प्रक्षेपणे। अन्यथा मयटष्टित्त्वात् सन्मय्य इति भवितव्यम्।।
न शोकोऽस्ति न मोहोऽस्ति न जन्मास्ति न जन्मवान्।
यदस्तीह तदेवास्ति विज्वरो भव राघव।।[5-1-5]
नेति।। इह यदस्ति यच्चिन्मात्रं वस्तु परमार्थतोऽस्ति तदेवास्ति तदेव सत्तया प्रतीयते। अतो विज्वरो विगततापत्रयो भव।।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्।
अद्वितीयो विशोकात्मा विज्वरो भव राघव।।[5-1-6]
निर्द्वन्द्व इति।। निर्द्वन्द्वः शीतोष्णादेर्द्वन्द्वान्निष्क्रान्तः। नित्यं सत्त्वगुणनिष्ठः। निर्योगक्षेमः इष्टसाधनं योगः अनिष्टनिवारणं क्षेमः तद्रहितः। आत्मवान् अप्रमत्तचित्तः। अद्वितीयो भेदभावनारहितः। विशोकात्मा। विनष्टानुशोचनचित्सुखः।।
समः स्वस्थः स्थिरमतिः शान्तः शान्तमना मुनिः।
मौनी वरमणिस्वच्छो विज्वरो भव राघव।।[5-1-7]
सम इति।। शान्तः प्रवृत्तिमार्गादुपरतः। शान्तमनाः उपशान्तचित्तः मुनिर्मनननिष्ठः वरमणिस्वच्छः आकरजो मणिरिव निर्मलः।।
यथाप्राप्तानुभवनात्सर्वत्रानभिवाञ्छनात्।
त्यागादानपरित्यागाद्विज्वरो भव राघव।।[5-1-8]
यथेति।। यथाप्राप्तस्य प्रारब्धफलस्यानुभवनात् अप्राप्ते सर्वत्र अनभिवाञ्छनाच्च हेतोस्त्यागादानपरित्यागी विज्वरो भव।।
यस्येदं जन्म पाश्चात्त्यं तस्य चैव महामते।
विशन्ति विद्या विमला मुक्ता वेणुमिवोत्तमम्।।[5-1-9]
यस्येति।। पाश्चात्त्यं चरमम्। इतः परं जन्मान्तराभावाद्विद्याः ज्ञानहेतवः।।
आर्यता हृद्यता मैत्री सौम्यता मुक्तता ज्ञता।
समाश्रयन्ति तं नित्यमन्तःपुरमिवाङ्गनाः।।[5-1-10]
पेशलाचारमधुरं सर्वे वाञ्छन्ति तं जनाः।
वेणुं मधुरनिध्वानं वने वनमृगा इव।।[5-1-11]
तान्येवाह-आर्यतेति।। आर्यता सदाचारपरम्परत्वम्। हृद्यता सर्वसंमतत्वम्। मैत्री सर्वभूतानुकम्पा। सौम्यता अन्तःशीतलता। मुक्तता निःसङ्गत्वम्। ज्ञता ज्ञाननिष्ठता।।[5-1-10,11]
एष तावत्क्रमः प्रोक्तः सामान्यः सर्वजन्तुषु।
इममन्यं विशेषं त्वं श्रृणु राजीवलोचन।।[5-1-12]
अस्मिन्संसारसंरम्भे जातानां देहधारिणाम्।
अपवर्गक्षमौ राम द्वाविमावुत्तमौ क्रमौ।।[5-1-13]
एकस्तावद्गुरुप्रोक्तादनुष्ठानाच्छनैःशनैः।
जन्मना जन्मभिर्वापि सिद्धिदः समुदाहृतः।।[5-1-14]
द्वितीयः स्वात्मनैवाशु किंचिद्व्युत्पन्नचेतसः।
भवति ज्ञानसंप्राप्तिराकाशफलपातवत्।।[5-1-15]
नभःफलनिपाताभे ज्ञानसंप्रतिपत्तये।
अत्रेमं श्रृणु वृत्तान्तं प्राक्तनं कथयामि ते।।[5-1-16]
वसिष्ठ उवाच।।
अस्त्यमितसर्वापदुद्यत्संपदुदारधीः।
विदेहानां महीपालो जनको नाम वीर्यवान्।।[5-1-17]
कल्पवृक्षोऽर्थिसार्थानां मित्राब्जानां दिवाकरः।
स कदाचिन्मधौ मत्तकोकिलोल्लासशालिनि।
ययावुपवनं कान्तं नन्दनं वासवो यथा।।[5-1-18]
तस्मिन्नुपवने रम्ये केसरामोदमोदिते।
दूरस्थानुचरः सोऽथ कुञ्जेषु विचचार ह।।[5-1-19]
एष इति।। एषः पूर्वोक्तः क्रमो मुक्तिक्रमः सर्वजन्तुषु सामान्यः साधारणः। इमं वक्ष्यमाणम्।।[5-1-12,13,14,15,16,17,18,19]
अथ शुश्राव कस्मिंश्चित्तमालवनगुल्मके।
सिद्धानामप्रदृश्यानां स्वप्रसङ्गादुदाहृताः।।[5-1-20]
अथेति श्लोकद्वयं वाक्यम्।।
विविक्तवासिनां नित्यं शैलकन्दरचारिणाम्।
इमाः कमलपत्राक्ष गीता गीतात्मभावनाः।।[5-1-21]
गीता उपनिषदर्थसंग्राहकाः श्लोकाः। गीतात्मभावनाः गीता वर्णिता आत्मभावनाः स्वानुसंधानप्रकारो यासु ताः। गीतायां निरूपितो योऽयमात्मा तस्य भावनं स्वरूपनिरूपणं यासु ताः।।
द्रष्टृदृश्यसमायोगात्प्रत्ययानन्दनिश्चयः।
यस्तं स्वमात्मतत्त्वोत्थं निःस्पन्दं समुपास्महे।।[5-1-22]
तत्र प्रथमः सिद्ध आह-द्रष्टिति।। द्रष्टृदृश्यसमायोगात् द्रष्टुः पुरुषस्य दृश्येन दृष्टिप्रियेण वस्तुना समायोगात् संश्लेषाद्धेतोर्यः प्रत्ययानन्दनिश्चयः प्रत्यये बुद्धावानन्दावभासः। आत्मतत्त्वोत्थं आत्मनो जीवस्य तत्त्वेन ब्रह्मभावेनोत्थमाविर्भूतं तादृगानन्दात्मकं स्वमात्मानमेव देवं निःस्पन्दं निश्चलमुपास्महे भावयामः। वाञ्छितार्थप्राप्तौ चतितार्थतया चेतस्युपरते सत्यात्मन्युदित आनन्दो ब्रह्मानन्द एवेति भावः।।
द्रष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह।
दर्शनप्रथमाभासमात्मानं समुपास्महे।।[5-1-23]
द्वितीय आह-द्रष्टृदर्शनदृश्यानि द्रष्टा अहमकर्ता आत्मा दर्शनं चक्षुरादिव्यापारोपहितं वृत्तिज्ञानं दृश्यं तद्विषयः तानि त्रीण्यपि तद्वासनया सहैव त्यक्त्वा यो दर्शनप्रथमाभासो दर्सनात् वृत्तिज्ञानात् प्रथममाभासते तं सर्वस्मात्पूर्वं भातं स्वभासैव सर्वमवभासयन्तमात्मानं समुपास्महे।।
द्वयोर्मध्यगतं नित्यमस्तिनास्तीति पक्षयोः।
प्रकाशनं प्रकाशानामात्मानं समुपास्महे।।[5-1-24]
तृतीय आह-द्वयोरिति।। अस्तिनास्तीति पक्षयोर्द्वयोरपि मध्यगतं सद्रूपत्वादस्ति निराकारत्वाच्च जडप्रकाशानां प्रकाशनं प्रतीतिहेतुं आत्मानं समुपास्महे।।
सशिरस्कं हकारादिमशेषाकारसंस्थितम्।
अजस्रमुच्चरन्तं स्वमात्मानं समुपास्महे।।[5-1-25]
संत्यज्य हृद्गृहेशानं देवमन्यं प्रयान्ति ये।
ते रत्नमभिवाञ्छन्ति त्यक्त्वा हस्तस्थकौस्तुभम्।।[5-1-26]
चतुर्थ आह-सशिरस्कमिति।। अशेषाकारसंस्थितं सुरनरतिर्यगादिशरीरेषु सर्वेष्वन्तर्यामितया स्थितं सशिरस्कं सशब्दान्तं हकारादिं हंसमन्त्रमजस्रमुच्चरन्तं स्वमात्मानमुपास्महे।।[5-1-25,26]
सर्वाशाः किल संत्यज्य फलमेतदवाप्यते।
येनासाविषवल्लीनां मूलमाला विलूयते।।[5-1-27]
सर्वेति।। येन मुमुक्षुणा सर्वाशाः ऐहिकामुष्मिकविषयान्सर्वानपि मनोरथान्संत्यज्य एतदात्मोपासनरूपं फलमवाप्यते। येनात्मोपासकेन आशा एव विषवल्ल्यः संतापहेतुकत्वात् तासां मूलमाला मूलभूताज्ञानसंतानो विलूयते छिद्यते।।
बुध्वाप्याद्यन्तवैरस्यं यः पदार्थेषु दुर्मतिः।
बन्धाति भावनां भूयो नरो नासौ स गर्दभः।।[5-1-28]
उत्थितानुत्थितानेतानिन्द्रियारीन्पुनः पुनः।
हन्याद्विवेकदण्डेन वज्रेणेव हरिर्गिरीन्।।[5-1-29]
हस्तं हस्तेन संपीड्य दन्तैर्दन्तान्विचूर्ण्य च।
अङ्गान्यङ्गैः समाक्रम्य जयेदादौ स्वकं मनः।।[5-1-30]
बुध्वापीति।। दुर्मतिरल्पबुद्धिर्यः पदार्थेष्वाद्यन्तवैरस्यं आद्यन्तयोः प्राग्भावप्रध्वंसाभावयोर्वैरस्यं निःसारत्वं बुध्वापि भूयो भावनां वासनां बध्नाति असौ नरो गर्दभो नेति न।।[5-1-28,29,30]
उपशमसुखमाहरेत्पवित्रं शमवशतः शममेति साधु चेतः।
प्रशमितमनसः स्वके स्वरूपे भवति सुखे स्थितिरुत्तमा चिराय।।[5-1-31]
वसिष्ठ उवाच।।
इति सिद्धगणोद्गीर्णां गीतां श्रुत्वा महीपतिः।
विषादमाजगामाशु भीरु रणरवादिव।।[5-1-32]
परिवारमशेषेण विसृज्य स्वं स्वमालयम्।
एक एवाविशद्राजा मृगेन्द्र इव भूधरम्।।[5-1-33]
तत्र प्रोड्डयनालोलखगपक्षतिचञ्चलाः।
आलोकयंल्लोकगतीर्विललापेदमातुरः।।[5-1-34]
हा कष्टमिति कष्टासु लोललोकदृशा स्वयम्।
पाषाणेष्विव पाषाणमालुठामि भ्रमादहम्।।[5-1-35]
अपर्यन्तस्य कालस्य कोऽप्यंशो जीव्यते मया।
तस्मिन्भावं निबध्नामि धिङ्मामधमचेतसम्।।[5-1-36]
उपशमेति।। मुमुक्षुः पूर्वं पवित्रं निर्दोषं उपशमसुखमाहरेत्संपादयेत्। ततः शमवशत उपशमसुखसामर्थ्यात् विषयसुकेषु चेतः साधु शममुपशममेति। ततश्च प्रशमितमनसः पुरुषस्य स्वके स्वरूपे सुखे उत्तमा स्थितिः चिराय भवति।।[5-1-31,32,33,34,35,36]
कियन्मात्रमिदं नाम राज्यमाजीवितं मम।
किमेतेन वृथा ह्यस्मिंस्तिष्ठामि हतधीर्यथा।।[5-1-37]
कियदिति।। कियन्मात्रम्। अत्यल्पमित्यर्थः। अतः कारणादेतेन राज्येन किम्। न किंचित्प्रयोजनमित्यर्थः। हतधीर्यथा नष्टबुद्धिरिव वृथैवास्मिन् राज्ये तिष्ठामि।।
यद्वस्तु यच्च वा रम्यं यदुदारमकृत्रिमम्।
किंचित्तदिह नास्त्येव किंनिष्ठेयं धृतिर्मम।।[5-1-38]
यदिति।। यद्वस्तु तात्त्विकं रम्यं निर्दोषं उदारं उत्कृष्टं अकृत्रिममकल्पितं तत्किंचिदिह जगति नास्त्येव। मम धृतिः प्रीतिः किंनिष्ठा किमालम्बना।।
अथ ये महतां मूर्ध्नि ते दिनैर्निपतन्त्यधः।
हन्त चित्त महत्तायां कैषा विश्वस्तता बत।।[5-1-39]
ते महाविभवाभोगास्ते सन्तः स्निग्धबान्धवाः।
सर्वं स्मृतिपथं प्राप्तं वर्तमानेऽत्र का धृतिः।।[5-1-40]
क्व धनानि महीपानां ब्रह्मणः क्व जगन्ति वा।
प्राकृतानि प्रयातानि केयं विश्वस्तता मम।।[5-1-41]
कोटयो ब्रह्मणां याता गताः स्वर्गपरम्पराः।
प्रयाताः पांसुवद्भूपाः का धृतिर्मम जीविते।।[5-1-42]
अथेति।। चित्तेति संबोधनम्।।[5-1-39,40,41,42]
संसाररात्रिदुःस्वप्ने शून्ये देहमये भ्रमे।
आस्थां चेदनुबध्नाति तन्ममास्तु धिगस्थितिम्।।[5-1-43]
अजस्रमुपयातास्ते यान्ति चाद्यापि वासराः।
अविनष्टैकसद्वस्तुर्दृष्टो नाद्यापि वासरः।।[5-1-44]
संसारेति।। संसार एव रात्रिः तमोमयत्वात् तत्र दुःस्वप्नवद्दुःखमयो देहरूपो भ्रमस्तत्र चेदास्थामनुबध्नाति तत्तर्हि मम अस्थितिममर्यादां धिगस्तु। ममेयमस्थितिः कष्टेत्यर्थः।।,5-1-43,44]
यन्मध्ये यच्च पर्यन्ते यच्चापाते मनोरमम्।
सर्वमेवापवित्रं तद्विनाशामेध्यदूषितम्।।[5-1-45]
श्वःश्वः पापीयसीमेव श्वःश्वः क्रूरतरामपि।
श्वःश्वः खेदकरीमेति दशामिह जडो जनः।।[5-1-46]
अज्ञानैकहतो बाल्ये यौवने वनिताहतः।
शेषे कलत्रचिन्तार्थः किं करोतु कदा जडः।।[5-1-47]
यदिति।। मध्ये यौवने मनोरमं देहादि। पर्यन्ते मनोरमं चूतफलादि। आपाते प्रथमं मनोरमं मालतीकुसुमादि।।[5-1-45,46,47]
सतोऽसत्ता स्थिता मूर्ध्नि मूर्ध्नि रम्येऽप्यरम्यता।
सुखेषु मूर्ध्नि दुःखानि किमेकं संश्रयाम्यहम्।।[5-5-48]
सत इति।। सतो विद्यामानस्य वस्तुनः। मूर्ध्नि पर्यन्ते।।
येषां निमेषणोन्मेषौ जगतां प्रलयोदयौ।
तादृशाः पुरुषाः सन्ति मादृशां गणनैव का।।[5-1-49]
येषामिति।। येषां ब्रह्मदीनाम्। निमेषणोन्मेषौ निद्राप्रबोधौ।।
संपदोऽपि विचित्रा यास्ताश्चेच्चित्तेन संमताः।
तत्ता अपि महारम्भा हन्त मन्ये महापदः।।[5-1-50]
संपद इति।। विचित्राः संपदोऽपि पुत्रवियोगादिना दुःखितस्य चित्तेन समताश्चेत्तर्हि महारम्भाः। ता अपि संपदो महत्य आपद इति मन्ये। दुःखिते मनसि सर्वमसह्यमिति न्यायात्।।
आपदोऽपि विचित्रा यास्ताश्चेन्मनसि संमताः।
तत्ता अपि महारम्भा मन्ये मनसि संपदः।।[5-1-51]
संसार एव दुःखानां सीमन्तः किल कथ्यते।
तन्मध्यपतिते देहे सुखमासाद्यते कथम्।।[5-1-52]
आपद इति।। विचित्रा आपदोऽपि महाभ्युदयशिरस्कतया चित्तेन संमताश्चेत्तर्हि ता अपि सकलसंपदो मन्ये।।[5-1-51,52]
सहस्राङ्कुरशाखात्मफलपल्लवशालिनः।
अस्य संसारवृक्षस्य मनो मूलमिति स्थितम्।।[5-1-53]
संकल्पमेव तन्मन्ये संकल्पोपशमेन तु।
शोषयामि यथा शोषमेति संसारपादपः।।[5-1-54]
प्रबुद्धोऽस्मि प्रबुद्धोऽस्मि दृष्टश्चौरो मयात्मनः।
मनोनामेह हन्म्येनं मनसास्मि चिरं हतः।।[5-1-55]
सहस्रेति।। सहस्रसंख्यैरङ्कुरादिभिः शालते यस्तस्य। तत्र अङ्कुरा रादद्वेषादयः। शाखाः पुत्रादयः। आत्मा देह एव स्कन्धः। फलानि सुखदुःखानि। पल्लवास्तद्धेतवः।।[5-1-53,54,55]
एतावन्तमिमं कालं मनोमुक्ताफलं मम।
अविद्धमासीदधुना विद्धं तु गुणमर्हति।।[5-1-56]
विबुधैः साधुभिः सिद्धैरहं साधु प्रबोधितः।
आत्मानमनुगच्छामि परमानन्दसाधनम्।।[5-1-57]
एतावन्तमिति।। अविद्धमशिक्षितं विद्धं सुशिक्षितम्। गुणं शमादिकम्। अन्यत्र विद्धं छिद्रितं गुणं ग्रथनतन्तुम्।।[5-1-56,57]
अयमहमिदमाततं ममेति स्पुरितमपास्य बलादसत्यमन्तः।
रिपुमतिबलिनं मनो निहन्मि प्रशममुपैमि नमोऽस्तु ते विवेक।।[5-1-58]
वसिष्ठ उवाच।।
इति संचिन्त्य जनकस्तूष्णीमेव बभूव ह।
शान्तचापलचेतस्त्वाल्लिपिकर्मार्पितोपमः।।[5-1-59]
तूष्णीमथ चिरं स्थित्वा जनको जनजीवनः।
व्युत्थितश्चिन्तयामास मनसा शमशालिना।।[5-1-60]
अयमिति।। अयमहमिदं ममेत्यहंममाभिमानाभ्यां बलादन्तः स्पुरितमाततमसत्यमपास्य अतिबलिनं रिपुं मनो निहन्मीत्यन्वयः।।[5-1-58,59,60]
जनक उवाच।।
किमुपादेयमस्तीह यत्नात्संसाधयामि किम्।
यतः स्थिरस्य शुद्धस्य चितः का मेऽस्ति कल्पना।।[5-1-61]
नाभिवाञ्छाम्यसंप्राप्तं संप्राप्तं न त्यजाम्यहम्।
स्वच्छ आत्मनि तिष्ठामि यन्ममास्तु तदस्तु मे।।[5-1-62]
वसिष्ठ उवाच।।
इति संचिन्त्य जनको यताप्राप्तक्रियामसौ।
असक्तः कर्तुमुत्तस्थौ दिनं दिनपतिर्यथा।।[5-1-63]
भविष्यं नानुसंधत्ते नातीतं चिन्तयत्यसौ।
वर्तमाननिमेषं तु हसन्नेवानुवर्तते।।[5-1-64]
किमिति।। स्वत एव शुद्धस्य निष्कलङ्कस्य स्थिरस्य चितः सद्रूपस्य मे का कल्पनास्ति। न किंचित्कल्पनीयमित्यर्थः।।[5-1-61,62,63,64]
स्वविचारवशेनैव तेन तामरसेक्षण।
प्राप्तं प्राप्यमशेषेण राम नेतरयेहया।।[5-1-65]
सुन्दर्या निजया बुद्ध्या प्रज्ञयैव वयस्यया।
पदमासाद्यते राम न नाम क्रिययान्यया।।[5-1-66]
य एव यत्नः क्रियते बाह्यार्थोपार्जने जनैः।
स एव यत्नः कर्तव्यः पूर्वं प्रज्ञाविवृद्धये।।[5-1-67]
सीमानं सर्वदुःखानामापदां कोशमुत्तमम्।
बीजं संसारवृक्षाणां प्रज्ञामान्द्यं विनाशयेत्।।[5-1-68]
चिन्तामणिरियं प्रज्ञा हृत्कोशस्था विवेकिनः।
फलं कल्पलतेवैषा चिन्तितं संप्रयच्छति।।[5-1-69]
विवेकिनमसंमूढं प्राज्ञमाशागणोत्थिताः।
दोषा न परिबाधन्ते संनद्धमिव सायकाः।।[5-1-70]
पिधानं परमार्कस्य जडात्मा विततोऽसितः।
अहंकारम्बुदो मत्तः प्रज्ञावातेन पात्यते।।[5-1-71]
पदमतुलमुपैतुमिच्छतोच्चैः प्रथममियं मतिरेव लालनीया।
फलमभिलषता कृषीवलेन प्रथमतरं ननु कृष्यते धरैव।।[5-1-72]
इति श्रीमोक्षोपाय उपशमप्रकरणे जनकोपाख्यानं नाम प्रथमः सर्गः।। 1 ।।
स्वेति।। तेन हेतुना अशेषेण सर्वेणापि मुमुक्षुणा स्वविचारवशेनैव प्राप्यं परं वस्तु प्राप्तम्। इतरया ईहया न क्रियान्तरेण न प्राप्तम्।।[5-1-65,66,67,68,69,70,71,72]इति श्रीसंसारतरणिनाम्नि वासिष्ठविवरणे उपशमप्रकरणे जनकोपाख्यानं नाम प्रथमः सर्गः।। 1 ।।