लघुयोगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः २

विकिस्रोतः तः
← सर्गः १ लघुयोगवासिष्ठः
सर्गः २
[[लेखकः :|]]
सर्गः ३ →

पुण्यपावनोपाख्यानम्।।
द्वितीयः सर्गः।।
वसिष्ठ उवाच।।
मुष्टयो मोहबीजानां दृष्टयो विविधापदाम्।
कुदृष्टयः क्षयं यान्ति दृष्टे तस्मिन्परावरे।।[5-2-1]
नित्यमन्तर्विचारस्य पश्यतश्चञ्चलं जगत्।
जनकस्येव कालेन स्वयमात्मा प्रसीदति।।[5-2-2]
न दैवं न च कर्माणि न धानानि न बान्धवाः।
शरणं भवभीतानां स्वप्रयत्नादृते नृणाम्।।[5-2-3]
अयमेवाहमित्यस्मिन्संकोचे विलयं गते।
समस्तभुवनव्यापी विस्तार उपजायते।।[5-2-4]
पूर्वमाकाशफलपातवदाकस्मिकसिद्धगीताकर्णनाज्जनकस्य चित्तोपशान्तिरुक्ता। इदानीमतीतानेकजन्मानुस्मरणद्वारेणात्मावबोधनाच्चित्तस्योपशमः पुण्यपावनाख्यानेन निरूप्यते। तत्र तावच्चित्तोपशमोपायानुपदिशति-मुष्टय इत्यादिना।। मुष्टयो बीजावापहेतवः कुञ्चिताङ्गुलयः कराः दृष्टयो दर्शनहेतवः। कुदृष्टयो भ्रान्तयः। मुष्टयो दृष्टय इति च पदद्वयमपि कुदृष्टिविशेषणं द्रष्टव्यम्।।[5-2-1,2,3,4]
अयमेवाहमित्यस्या निशाया उदिते क्षये।
स्वयं सर्वगतः स्फारः स्वालोकः संप्रवर्तते।।[5-2-5]
अयमिति।। अयं देहपरिमित एवाहमित्येवंरूपा या अहंकृतिः सैव निशा तमोमयत्वात्। तस्याः क्षये उदिते सति सर्वगतः स्फारः स्वालोकः आत्मतत्त्वज्ञानं संप्रवर्तते।।
उपादेयानुपतनं हेयैकान्तविवर्जनम्।
यदेतन्मनसो राम तं बन्धं विद्धि नेतरत्।।[5-2-6]
उपादेयेति।। अत्र पामरदृष्ट्या हेयोपादेयविभाग इति द्रष्टव्यम्।।
मा खेदं भज हेयुषु नोपादेयपरो भव।
हेयादेयदृशौ त्यक्त्वा शेषस्थः सुस्थिरो भव।।[5-2-7]
मेति।। शेषस्थः समदृष्टौ स्थितः।।
निराशता निर्भयता नित्यता समता ज्ञता।
निरीहता निष्क्रियता सौम्यता निर्विकल्पता।।[5-2-8]
समदृष्टौ स्थितस्य लिङ्गभूतान् गुणानाह।। निरिति श्लोकद्वयं वाक्यम्। निराशता इदं मे भूयादिति भाविविषयतृष्णानिवृत्तिः। निर्भयता सर्वभूताभयप्रदानात् स्वस्य भयनिवृत्तिः। नित्यता देहातिरिक्तनित्यात्मभावः। समता परिपूर्णदृष्टिः। ज्ञता ज्ञाननिष्ठता। निरीहता उपादेयेऽपि अप्रवृत्तिः। निष्क्रियता अनिष्टस्यापि अचिकित्सा। सौम्यता आह्लादकरत्वम्। निर्विकल्पता एकाग्रचित्तत्वम्।।
धृतिर्मैत्री मनस्तुष्टिर्मृदुता मृदुभाषिता।
हेयोपादेयनिर्मुक्त ज्ञे तिष्ठन्त्यपवासनम्।।[5-2-9]
धृतिरचञ्चलत्वम्। मैत्री सर्वत्र मित्रभावः। मनस्तुष्टिः यथालाभपरितृष्टता। मृदुता अनिष्ठुरचित्तत्वम्। मृदुभाषिता प्रियंवदत्वम्।।
गृहीततृष्णाशफरिवासनाजालमाविलम्।
संसारवारिप्रसृतं चिन्तातन्तुभिराततम्।।[5-2-10]
गृहीतेतिश्लोकद्वयं वाक्यम्। संसारवारिणि संसाराख्ये जले प्रसृतम्। चिन्ताभिरेव तन्तुभिराततं विस्तृतम्। गृहीता तृष्णा एव शफर्यो येन तद्वासनाजालम्।।
अनया तीक्ष्णया तात छिन्धि बुद्धिशलाकया।
वात्ययाम्बुदजालं च छित्त्वा तिष्ठ पदे तते।।[5-2-11]
मनसैव मनश्छित्त्वा कुठारेणेव पादपम्।
पदं पावनमासाद्य सद्य एव स्थिरो भव।।[5-2-12]
तीक्ष्णया बुद्धिशलाकया छिन्धि। वात्यया वातसमूहेन आम्बुदं अम्बुदसंबन्धि जालं समूहमिव छित्त्वा च ततो पदे तिष्ठेति संबन्धः।।[5-2-11,12]
तिष्ठन्गच्छन्स्वपञ्जाग्रन्निश्वसन्नुत्पतन्पतन्।
असदेवेदमित्यन्तर्निश्चित्यास्थां परित्यज।।[5-2-13]
तिष्ठन्निति त्रिभिः सर्वावस्थास्वपि जगतोऽसत्तां निश्चित्य तत्रास्थां परित्यजेत्यर्थः।।
मनः प्रकृत्यैव जडं चित्तत्वमनुधावति।
मांसगर्धेन मार्जारो वने मृगपतिं यथा।।[5-2-14]
मन इति।। हतद्विपं सिंहं मांसलोभात् चित्स्वरूपमनुधावतीत्यर्थः।।
सिंहवीर्यवशाल्लब्धं मांसं भुङ्क्तेऽनुगो हरेः।
संविद्वीर्यवशात्प्राप्तं दृश्यमाश्रयते मनः।।[5-2-15]
सिंहेति।। यथा स्वतोऽसमर्थोऽपि श्रृगालादिः संहमनुसरन् मांसं भुङ्क्ते तद्वन्मनः स्वयं जडमपि चिच्छायासंक्रान्त्या विषयग्रहणसमर्थं भवतीत्यर्थः।।
दृश्यमाश्रयसीदं चेत्तत्सचित्तोऽसि बन्धवान्।
दृश्यं संत्यजसीदं चेत्तदचित्तोऽसि मोक्षवान्।।[5-2-16]
दृश्यमिति।। दृश्याश्रय एव सचित्तत्वं बन्धहेतुश्च। दृश्यत्याग एवाचित्तत्वं मोक्षहेतुत्वं चेत्यर्थः।।
नाहं ज्ञेयमिति ध्यायंस्थिष्ठ त्वमचलः सदा।
अनन्ताकाशसंकाशहृदयो हृदयेश्वरे।।[5-2-17]
नेति।। आत्मनोऽपरिच्छिन्नतां जगतोऽसत्त्वं च ध्यायन् गिरिरिव स्थिरो भूत्वा अनन्ताकाशवन्निर्मलहृदयो हृदयेध्यान् गिरिरिव स्थिरो भूत्वा अनन्ताकाशवन्निर्मलहृदयो हृदयेश्वरे तिष्ठ त्वम्।।
आत्मनो जगतश्चान्तर्द्रष्टृदृश्यदशान्तरे।
दर्शनाख्ये स्वमात्मानं सर्वदा भावयन्भव।।[5-2-18]
आत्मन इति।। आत्मनो जगतश्च अन्तर्मध्ये यद्दर्शनं तद्द्रष्टृदृश्यदशान्तरे वर्तते द्रष्टृदशां दृश्यदशां वा प्राप्य चिन्मात्ररूपेण वर्तते तादृग्दर्शनस्वरूपं स्वमात्मानं सर्वदा भावयन् भव तिष्ठ।।
स्वाद्यस्वादकसंत्यक्तं स्वाद्यस्वादकमध्यगम्।
स्वादनान्तःस्थितं ध्यायन्नित्यमात्ममयो भव।।[5-2-19]
अमुमेवार्थं भङ्ग्यन्तरेणाह श्लोकद्वयेन-स्वाद्येति।। स्वाद्यं रसनीयं पानादि। स्वाको रसयिता। तयोर्मध्यगं मध्यगाताभ्यां कर्तृकर्मभ्यां संत्यक्तं केवलमनुपहितं यत्स्वादनं रसानुभवरूपं वस्तु तद्ध्यायन् परमात्ममयो भव।।
रागानुभवनीयस्य सदानुभवितुः स्वयम्।
अवलम्ब्य निरालम्बं मध्यं मध्ये स्थिरो भव।।[5-2-20]
रागेति।। अनुभवनीयस्योपभोग्यस्य कान्तादेरनुभवितुरुपभोक्तुश्च निरालम्बं कर्तृकर्मभावासंस्पृष्टं मध्यमनुभवरूपवलम्ब्य तत्र मध्ये स्थिरो भव।।
एतामहंभावमयीमपुण्यां छित्त्वानहंभावशलकायैव।
स्वभावनां भाव्य भवान्तभूमौ भवाभिभूताखिलभूतभूतिः।।[5-2-21]
श्रीराम उवाच।।
अतिगम्भीरमेवैतद्भगवन्वचनं तव।
यदहंकारतृष्णां त्वं मा गृहाणेति वक्षि माम्।।[5-2-22]
एतामिति।। अहंभावमयीमेतां स्वस्य भावनामनहंभावशलाकया नाहमिति यो भावः तयैव शलाकया छित्त्वा प्रशान्ताखिलभूतभूतिः सन्भवान्तभूमौ संसारस्य पारे भव।।[5-2-21,22]
यद्यहंकारसंत्यागं करोमि तदिमं प्रभो।
त्यजामि देहनामानं संनिवेशमशेषतः।।[5-2-23]
अहंकारक्षये देहः किलावश्यं विनश्यति।
मूले क्रकचसंलूने सुमहानिव पादपः।।[5-2-24]
वसिष्ठ उवाच।।
सर्वत्र वासनात्यागो राम राजीवलोचन।
द्विविधः कथ्यते तज्ज्ञैर्ध्येयो ज्ञेयश्च नामतः।।[5-2-25]
यदीति।। आभिमानिकत्वाद्देहबन्धस्याकारपरित्यागे देहत्याग एव स्यादित्यर्थः।।[5-2-23,24,25]
अहमेषां पदार्थानामेते च मम जीवितम्।
नाहमेभिर्विना कश्चिन्न मयैते विना किल।।[5-2-26]
इत्यन्तर्निश्चयं त्यक्त्वा विचार्य मनसा सह।
नाहं पदार्थस्य न मे पदार्थ इति भाविते।।[5-2-27]
ध्येयज्ञेयनाम्नोर्वासनात्यागयोर्मध्ये प्रथमस्य लक्षणमाह श्लोकत्रयेम-अहमिति।। आत्मनो देहादिभिः परस्परसंबन्धाभिमानरूपमहंकारं विचारपूर्वकं मनसा सह त्यक्त्वा देहादेः पदार्थस्य मम च न कश्चित्संबन्ध इति भाविते सति।।[5-2-26,27]
अन्तःशीतलया बुद्ध्या कुर्वतो लीलया क्रियाः।
यो नूनं वासनात्यागो ध्येयो राम स कीर्तितः।।[5-2-28]
अन्तःशीतलया रागद्वेषरहितया बुद्ध्या क्रियाः कुर्वतो यो वासनात्यागः सोऽयं ध्येयः प्रकीर्तितः।।
सर्वं समस्तया बुद्ध्या यं कृत्वा वासनाक्षयम्।
जहाति निर्ममो देहं ज्ञेयोऽसौ वासनाक्षयः।।[5-2-29]
द्वितीयं वासनात्यागं लक्षयति-सर्वमिति।। समस्तया भेदरहितया बुद्ध्या यं वासनाक्षयं कृत्वा निर्ममो निर्गताहंममभावः सन् स्थूलसूक्ष्मकारणभेदेन त्रिविधमपि देहं जहाति त्यजति असौ वासनात्यागो ज्ञेय इत्युच्यते।।
अहंकारसखीं त्यक्त्वा वासनां लीलयैव यः।
तिष्ठति ध्येयसंत्यागी स जीवन्मुक्त उच्यते।।[5-2-30]
निर्मूलकलनां त्यक्त्वा वासनां यः समं गतः।
ज्ञेयत्यागमयं विद्धि मुक्तं तं रघुनन्दन।।[5-2-31]
द्वावेतौ राघव त्यागौ समौ मुक्तपदे स्थितौ।।
द्वावेतौ ब्रह्मतां यातौ द्वावेतौ विगतज्वरौ।।[5-2-32]
उक्तं त्यागद्वयमपि जीवन्मुक्तिविदेहमुक्त्योर्विभजते श्लोकद्वयेन-अहमित्यादिना।।[5-2-30,31,32]
आपतत्सु यताकालं सुखदुःखेष्वनारतम्।
न हृष्यति ग्लायति यः स मुक्त इति कथ्यते।।[5-2-33]
आपत्स्वित्यादिना श्लोकचतुष्टयेन जीवन्मुक्तलक्षणमाह।।
ईप्सितानीप्सिते न स्तो यस्यान्तर्वस्तुदृष्टिषु।
सुषुप्तवद्यश्चलति स मुक्त इति कथ्यते।।[5-2-34]
वस्तुदृष्टिषु इष्टानिष्टदर्शनेषु।।
हर्षामर्षभयक्रोधकामकार्पण्यदृष्टिभिः।
न परामृश्यते योऽन्तः स जीवन्मुक्त उच्यते।।[5-2-35]
अमर्षोऽत्राक्षान्तिरूपेर्ष्या। क्रोधः परतिरस्कारादिभिर्मनसः प्रज्वलनम्। कामोऽभिलाषः। कार्पण्यं दैन्यम्।।
सुषुप्तवत्प्रशमितभाववृत्तिना स्थितं सदा जाग्रति तेन चेतसा।
कलान्वितो विधुरिव यः सदा मुदा निषेव्यते मुक्त इतीह स स्मृतः।।[5-2-36]
तेन मुमुक्षुणा जाग्रद्दशायामपि सुषुप्तावस्थायामिव प्रशमितभाववृत्तिना निवृत्तहर्षविषादादिभाववृत्तिना चेतसा उपलक्षितेन स्थितमित्यन्वयः।।
वसिष्ठ उवाच।।
बाह्यार्थवासनोद्भूता तृष्णा बद्धेति राघव।
सर्वार्थवासनोन्मुक्ता तृष्णा मुक्तेति कथ्यते।।[5-2-37]
बाह्येति।। बाह्यार्थवासनोद्भूता बाह्यवस्तुवासनाभिर्भूयिष्ठा।।
इदमस्तु ममेत्यन्तर्यैषा राघव भावना।
तां तृष्णां श्रृङ्खलां विद्धि कलनां च महामते।।[5-2-38]
तामेतां सर्वभावेषु सत्स्वसत्सु च सर्वदा।
संत्यज्य परमोदारपदमेति महामनाः।।[5-2-39]
बन्धास्थामथ मोक्षास्थां सुखदुःखदशामपि।
त्यक्त्वा सदसदास्थां च तिष्ठाक्षुब्धमहाब्धिवत्।।[5-2-40]
तृष्णास्वरूपमाह-इदमिति।। तां तृष्णां श्रृङ्खलां विद्धि। कलनां चेति सैव भावना तृष्णा सैव बन्धो बन्धहेतुश्चेत्यर्थः।।[5-2-38,39,40]
अन्यश्च राम मनसि पुरुषस्य विचारिणः।
जायते निश्चयः साधो स्फाराकारश्चतुर्विधः।।[5-2-41]
अन्यश्चेत्यादिश्लोकषट्केन चतुर्विधमहंकारमाह।।
आपादमस्तकमहं मातृपितृविनिर्मितः।
इत्येको निश्चयो राम बन्धायासद्विलोकनात्।।[5-2-42]
अतीतः सर्वभावेभ्यो वालाग्रादप्यहं तनुः।
इति द्वितीयो मोक्षाय निश्चयो जायते सताम्।।[5-2-43]
सर्वातीतः परमसूक्ष्मोऽहमिति द्वितीयः।।
जगज्जालपदार्थात्मा सर्वमेवाहमक्षयः।
तृतीयो निश्चयोऽप्येवं मोक्षायैव रघूत्तम।।[5-2-44]
सर्वात्मकोऽहमिति तृतीयः।।
जगच्चासदिदं शून्यं शून्यव्योमसमं सदा।
एवमेव चतुर्थोऽपि निश्चयो मोक्षसिद्धये।।[5-2-45]
अहमिति जगदिति च सकलं शून्यमेव अतो व्योमवत्सर्वविकल्पातीतोऽहमिति चतुर्थः।।
एतेषां प्रथमः प्रोक्तस्तृष्णया बन्धयोग्यया।
शुद्धतृष्णास्त्रयः स्वच्छा जीवन्मुक्तविलासिनः।।[5-2-46]
एतेषां मध्ये प्रथमो बन्धयोग्यतृष्णाप्रोतत्वाद्बन्धायैव। अन्ये तु त्रयः शुद्धतृष्णान्वितत्वाज्जीवन्मुक्तेष्वेव विलसन्ति।।
सर्वामात्माहमेवेति निश्चयो यो महामते।
तमादाय विषादाय न भूयो याति ते मतिः।।[5-2-47]
शून्यं प्रकृतिर्मायेति ब्रह्मविज्ञानमित्यपि।
शिवः पुरुष ईशानो नित्यमात्मेति कथ्यते।।[5-2-48]
शून्यवादशङ्कानिरासाय शून्यमित्यादयः शब्दाः कथंचिदात्मपर्याया इत्याह-शून्यमिति।। तत्र निराकारत्वात् शून्यं परोक्षत्वात् जगदुपादानत्वात् प्रकृतिः विविधविक्षेपहेतुत्वान्माया बृंहणाद्ब्रह्म विशुद्धज्ञानरूपत्वाद्विज्ञानं कल्याणरूपत्वाच्छिवः पुरकत्वात्पुरुषः ईशितृत्वादीशानः इत्येवमात्मैव नित्यं कथ्यते।।
द्वैताद्वैतसमुद्भेदैर्जगन्निर्माणलीलया।
परमात्ममयी शक्तिरद्वैतैव विजृम्भते।।[5-2-49]
आत्मीये परकीये वा सर्वस्मिन्नेव सर्वदा।
नष्टे चोपचिते कार्ये सुखदुःखे गृहाम मा।।[5-2-50]
सर्वातीतपदालम्बी पूर्णेन्दुशिशिराशयः।
नोद्वेगी न च तुष्टात्मा संसारे नावसीदति।।[5-2-51]
समः शत्रौ च मित्रे च दयादाक्षिण्यसंयुतः।
प्राप्तकर्मकरो नित्यं संसारे नावसीदति।।[5-2-52]
द्वैतेति।। द्वयोर्भावो द्विता द्वितैव द्वैतं भेद इति यावत्। द्वैतं च अद्वैतं च तयोर्मेलनं च तैः प्रकारैः या जगन्निर्माणरूपा लीला तयेत्थंभूता परमात्ममयी शक्तिः चिच्छिक्तिरद्वैतैव सर्वत्र सच्चिदानन्दात्मनः स्वरूपस्याविच्छेदादभिन्नैव विजृम्भते प्रकाशते। तरङ्गादिवैचित्र्येपि समुद्रस्यैक्यमिवेति भावः। तत्र कार्यकारणयोः क्वदद्वैतम् यथा सुवर्णात्कटककुण्डलमुकुटादि। क्वचिद्द्वैताद्वैते यथा क्षीराद्दध्यादि।।[5-2-49,50,51,52]९
नाभिनन्दति न द्वेष्टि न शोचति न काङ्क्षति।
ईहितानीहितैर्मुक्तः संसारे नावसीदति।।[5-2-53]
नेति।। यः खलु मुमुक्षुः प्राप्तं सुखं तत्साधनं च नाभिनन्दति नानुमोदते। दुःखं च तत्साधनं च प्राप्तं द्वेष्टि। इष्टे विनष्टे न शोचति। अप्राप्तमिष्टं न काङ्क्षति। तस्मादीहितानीहितैरिष्टानिष्टैर्मुक्तः स पुमान्संसारे नावसीदति जन्मादिदुःखैर्न खिद्यते।।
सर्वस्याभिमतं वक्ता चोदितः पेशलोक्तिमान्।
आशयज्ञश्च भूतानां संसारे नावसीदति।।[5-2-54]
सर्वस्येति।। स्वभावतः पेशलोक्तिमान् मृदुभाषी। चोदितः किमीहितमिति परैश्चोदितः सन्सर्वस्याप्यभिमतं उचितमेव वक्ता। ताच्छीलिकः कन्प्रत्ययः। तेन `न लोकाव्यय-`इति कृद्योगलक्षणायाः षष्ठ्या निषेधादभिमतमिति द्वितीया युज्यते। अभिमतत्वनिश्चयः कथमित्यत्राहआशयज्ञश्च भूतानामिति। आशयोऽभिप्रायः।।
पूर्णां दृष्टिमवष्टभ्य ध्येयत्यागविलासिनीम्।
जीवन्मुक्ततया स्वस्थो लोके विहर राघव।।[5-2-55]
पूर्णामिति श्लोकषट्केन जीवन्मुक्तव्यवहारमाह-ध्येयत्याग इति।। पूर्वोक्ताहंकाररूपवासनात्यागो ध्येयत्यागः तेन विलासिनीं परिस्फुरन्तीं पूर्णां दृष्टिम्। ब्रह्मदृष्टिमित्यर्थः।।
अन्तः संत्यक्तसर्वाशो वीतरागो विवासनः।
बहिः सर्वसमाचारो लोके विहर राघव।।[5-2-56]
अन्तरिति।। अनागते आशा। वर्तमाने रागः। भूते वासना। तत्रितयरहितः।।
बहिः कृत्रिमसंरम्भो हृदि संरम्भवर्जितः।
कर्ता बहिरकर्तान्तर्लोके विहर राघव।।[5-2-57]
बहिरिति।। कृत्रिमसंरम्भः कल्पितरागद्वेषादिविकारः। हृदिसंरम्भवर्जितः निर्वासनत्वान्निर्विकारः।।
त्यक्ताहंकृतिरासुप्तमतिराकाशशोभनः।
अगृहीतकलङ्काङ्को लोके विहर राघव।।[5-2-58]
त्यक्तेति।। अगृहीतकलङ्काङ्कः अगृहीताः कलङ्का अङ्काश्च येन। तत्र कलङ्का मनोदोषाः। अङ्कास्तु व्यावृत्तिहेतवो लाञ्छनानि।।
उदारपेशलाचारः सर्वाचारानुवृत्तिमान्।
अन्तः सर्वपरित्यागी लोके विहर राघव।।[5-2-59]
उदारेति।। पेशलाचारः मृदुव्यवहारः। सर्वाचारानुवृत्तिमान् सर्वेषामाचारमनुवर्तमानः। अनुमोदमान इत्यर्थः। `जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचारन्' इति न्यायात्।।
अन्तर्नैराश्यमादाय बहिराशोन्मुखेहितः।
बहिस्तप्तोन्तरा शीतो लोके विहर राघव।।[5-2-60]
अन्तरिति।। बहिराशोन्मुखेहितः आशानुकूलचेष्टितः।।
अयं बन्धुः परश्चायमयं चाहमयं भवान्।
इति मिथ्यादृशो राम विगलन्तु तवाधुना।।[5-2-61]
अयमिति।। अयं बन्धुः अयं तु परः। अयमेवाहं अयं तु भवान्। इति या मिथ्यादृशो भेददृष्टयः ता अधुना विगलन्तु अधुना प्रबुद्धस्य तव विगलन्तु विनश्यन्तु।।
अयं बन्धुरयं नेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्।।[5-2-62]
अयमिति।। लघुचेतसां लघुनि परिच्छिन्ने स्वस्य जीवस्यात्मत्वेन गृहीते देहे चेतो येषां तेषामेवायमेव बन्धुरयं नेति गणना भवेत्। उदारचरितानामुदारे महति परिपूर्णे ब्रह्मणि चरितं निष्ठा येषां तेषां ब्रह्मनिष्ठानां पुनर्वसुधैव प्रपञ्चः सर्वोऽपि कुटुम्बकम्। भोगोपकरणद्रव्यमित्यर्थः।।
विविधजन्मशताहितसंभ्रमे जगति बन्धुरबन्धुरितीक्षणम्।
भ्रमदशैव विभाति न वस्तुतस्त्रिभुवनं चिरबन्धुरबन्ध्वपि।।[5-2-63]
अत्रैवोदाहन्तीममितिहासं पुरातनम्।
भ्रात्रोस्त्रिपथगातीरे संवादं मुनिपुत्रयोः।।[5-2-64]
अस्त्यस्य जम्बूद्विपस्य कस्मिंश्चिद्दिङ्निकुञ्जके।
वनव्यूहमहोत्तंसो महेन्द्रो नाम पर्वतः।।[5-2-65]
तस्यैकदेशे वितते रत्नसानौ मनोरमे।
आसीदभ्युदितज्ञानस्तपोराशिरुदारधीः।।[5-2-66]
मुनिर्दीर्घतपा नाम तपोमूर्तिरिवास्थितः।
मुनेर्बभूवतुस्तस्य पुत्रौ द्वाविन्दुसुन्दरौ।।[5-2-67]
पुण्यपावननामानौ द्वौ कचाविव वाक्पतेः।
स ताभ्यां सह पुत्राभ्यां चिरकालमुवास ह।।[5-2-68]
अथ काले तयोस्तस्य पुत्रयोर्ज्ञानवानभूत्।
पुण्यनामा तयोर्ज्येष्ठो गुणज्येष्ठश्च राघव।।[5-2-69]
विविधेति।। विविधैः सुरनरतिर्यगादिरूपैः जन्मशतैराहितसंभ्रमे विरचितविपर्यये अस्मिञ्जगति बन्धुरयमिति वायं पुनरबन्धुरिति ईक्षणं भ्रमदशैव केवलं विभाति भ्रान्तदशास्फुरणमेव। वस्तुतस्तु विचार्यमाणं बन्धुरपि स्यात् अबन्धुरपि स्याज्जन्मभेदात्। जन्मभेदापेक्षयासंबन्धानामनियमादिति भावः।।[5-2-63,64,65,66,67,68,69]
पावनोऽर्धप्रबुद्धोऽभूत्पूर्वसंध्याम्बुजं यथा।
मौर्ख्यादतिगतोऽनाप्तपदो दोलामिवास्थितः।।[5-2-70]
पावन इति।। पूर्वसंध्याम्बुजं प्रभातसंध्यायामम्बुजं तद्वदर्धप्रबुद्धः मौर्ख्यात् अत्यन्ताभावात् अतिगतः अतिक्रान्तः। अनाप्तपदः अप्राप्तब्रह्मपदनिष्ठः।।
ततो वहत्यकलिते काले कलितकारणे।
रतिमुत्सृज्य संसाराज्जराजर्जरजीवितः।।[5-2-71]
ततः इति श्लोकद्वयं वाक्यम्। कलितकारणे कलितानि प्रेरितानि जन्मादिकारणानि येन तस्मिन्।।
कलनापक्षिणीनीडं देहं दीर्घतपा मुनिः।
जहौ गिरिगुहागेहे भारं वैवधिको यथा।।[5-2-72]
कलनापक्षिणीनीडं कलना अहंकृतिः सैव पक्षिणी तस्या नीडं स्थानम्। वैवधिकः विवधः भारयष्टिः तद्वाहकः।।
प्रशान्तकलनारम्भं चेत्यमुक्तचिदास्पदम्।
पदं जगाम नीरागं पुष्पगन्ध इवाम्बरम्।।[5-3-73]
पितर्युपरते तस्मिन्नौर्ध्वदैहिककर्मणि।
पुण्य एव स्थितोऽव्यग्रः पावनो दुःखमाययौ।।[5-3-74]
शोकोपहतचित्तोऽसौ भ्रमन्काननवीथिषु।
ज्यायांसमनवेक्ष्यैव पावनो विललाप ह।।[5-2-75]
अथौर्ध्वदैहिकं कृत्वा पितुः परमधार्मिकः।
आययौ विपिने पुण्यः पावनं शोकलालसम्।।[5-2-76]
पुण्य उवाच।।
किं पुत्र दृढतां शोकं नयस्यान्ध्यैककारणम्।
पिता तव महाप्राज्ञ गतः प्रज्ञावतां वरः।।[5-2-77]
स्वामेव परमामात्मपदवीं मोक्षनामिकाम्।
स्वभावमभिसंपन्ने किं पितर्यनुशोचसि।।[5-2-78]
मातापितृसहस्राणि समतीतानि ते सुत।
पुत्रबान्धववृन्दानि जन्तोर्जन्मनि जन्मनि।।[5-2-79]
शोचनीया यदि स्नेहान्मातापितृसुताः सुत।
तदतीता न शोच्यन्ते किमजस्रं सहस्रशः।।[5-2-80]
प्रशान्तेति।। प्रशान्तकलनारम्भं कलना बन्धहेतवः संकल्पादयः। प्रशान्तः कलनानामारम्भो यस्मिंस्तत्। चेत्यमुक्तचिदास्पदं चेत्यमुक्तायाश्चित आस्पदं प्रतिष्ठारूपं नीरागं पदं रागादिरहितं कैवल्यं जगाम पुष्पगन्धोऽम्बरमिव। पुष्पगन्धो हि मुकुलबन्धान्निर्गतः अम्बरं व्याप्नोति।।[5-2-73,74,75,76,77,78,79,80]
अज्ञानविस्तीर्णमरौ विलोलं शुभाशुभस्पन्दमयैस्तरङ्गैः।
स्ववासनातापमरीचिवारि परिस्फुरत्येतदन्तरूपम्।।[5-2-81]
बन्धुमित्रसुतस्नेहद्वेषमोहदशामयः।
स्वसंज्ञामात्रकेणैव प्रपञ्चोऽयं वितन्यते।।[5-2-82]
अज्ञानेति।। अज्ञानमेव विस्तीर्णो मरुदेशः तत्र स्ववासनातापमरीचिवारि स्ववासनैव तापः आतपः तेन कल्पितं मरीचिरूपं वारि एतज्जागच्छुभाशुभस्पन्दमयैस्तरङ्गैरनन्तरूपं सत्परिस्फुरति।।[5-2-81,82]
बन्धुत्वे भावितो बन्धुः परत्वे भावितः परः।
विषामृतदशेवेह स्थितीर्भावनिबन्धिनी[5-2-83]
बन्धुत्व इति।। विषामृतदशेव। तत्र परत्वापरत्वभावनारूपा स्थितिर्विषदशेव। बन्धुत्वभावनारूपा त्वमृतदशेव। भावनिबन्धिनी भावो भावना तया निबध्यत इत्यर्थः।।
एकत्वे विद्यमानस्य सर्वगस्य किलात्मनः।
अयं बन्धुः परश्चायमित्येषा कलना कुतः।।[5-2-84]
एकत्व इति।। विद्यमानस्य परमार्थस्य सतः सर्वगस्यात्मन एकत्वे अद्वितीयत्वे सति अयं बन्धुरयं पर इत्यसौ कलना कल्पना कुतः।।
रक्तमांसादिसंघाताद्देहादेवास्थिपञ्जरात्।
कोऽहं स्यामिति चित्तेन स्वयं पुत्र विचारय।।[5-2-85]
रक्तेति।। यद्यपि नायं देह एवात्मा रक्तमांसादिसंघातरूपत्वात् तथापि तथाभूताद्देहादेवारभ्य कोऽहं स्यामिति विचारयेत्यर्थः।।
दृष्ट्या तु पारमार्थिक्या न कश्चित्त्वं न चाप्यहम्।
मिथ्याज्ञानमिदं पुण्यः पावनश्चेति वल्गति।।[5-2-86]
आस्तामयं विचारप्रयासः। इयमिह पारमार्थिकी दृष्टिरालम्ब्यतामित्याह-दृष्ट्येति।। पारमार्थिक्या पर्यालोचनप्रवणया तु दृष्ट्या परामृश्यमाने त्वमिति न कश्चित्पदार्थः अहमित्यपि न कश्चित्। किं तर्हि मिथ्याज्ञानमेवेदं पुण्य इति पावन इति च वल्गति स्फुरति। पुण्योऽहं पावनास्त्वमिति मिथ्याज्ञानकल्पितत्वाद्भ्रान्तिरेवेत्यर्थः।।
बभूवुस्ते सुपुण्यासु स्थलीषु मृगयोनिषु।
बहवो बन्धवो मार्गास्तान्कथं नानुशोचसि।।[5-2-87]
बभूवुस्ते महाभ्रेषु शिखरेषु महीभृताम्।
बहवो बान्धवाः सिंहाः किं तानपि न शोचसि।।[5-2-88]
बभूवाथ दशार्णेषु कपिलो वनवानरः।
राजपुत्रस्तुषारेषु पुण्ड्रेषु वनवायसः।।[5-2-89]
हैहयेषु च मातङ्गस्त्रिगर्तेष्वथ गर्दभः।
शाल्वेषु सरमापुत्रः पतत्री सरलद्रुमे।।[5-2-90]
एतास्वान्यासु चान्यासु बह्वीषु जनयोनिषु।
जातोऽसि जम्बूद्वीपेऽस्मिन्पुरा शतसहस्रशः।।[5-1-91]
अनन्ताः पितरो यान्ति यान्त्यनन्ताश्च मातरः।
इह संसारिणां पुंसां वने पादपपर्णवत्।।[5-2-92]
भावाभावविनिर्मुक्तं जरामरणवर्जितम्।
संस्मरात्मानमव्यग्रो मा विमूढमतिर्भव।।[5-2-93]
बभूवुरिति।। मार्गा मृगसंबन्धिनः।।[5-2-87,88,89,90,91,92,93]
सर्वैषणामयकलङ्कविवर्जितेन स्वच्छात्मभावकलितेन हृदब्जमध्ये।
पुत्रात्मनात्मनि महामतिनामुनैव संत्यज्य संभ्रममलं परितोषमेहि।।[5-2-94]
सर्वेति।। एषणाः पुत्रकलत्रादिविषयेच्छाः तन्मयकलङ्कवर्जितेन स्वच्छात्मभावकलितेन स्वच्छभावयुक्तेन आत्मनान्तःकरणेन संभ्रमं संत्यज्य आत्मन्येव परितोषमेहीत्यन्वयः।।
वसिष्ठ उवाच।।
एवं प्रबोधितस्तेन तदा पुण्येन पावनः।
प्रबोधमाप प्राकाश्यं प्रभात इव भूतलम्।।[5-2-95]
एवभिति।। प्रभाते भूतलं कर्तृ। प्राकाश्यं प्रकाशमानत्वम्।।
उभावपि ततः सिद्धौ ज्ञानविज्ञानपारगौ।
विचेरतुर्वने तस्मिन्यावदित्थमनिन्दितौ।।[5-2-96]
उभाविति।। ज्ञानविज्ञानपारगौ ज्ञानविज्ञाने परोक्षापरोक्षब्रह्मज्ञाने।।
एवं प्राग्भुक्तदेहानामनन्ता जनबन्धुजाः।
किमाशा गृह्यते ताभ्यः किं वा संत्यज्यतेऽनघ।।[5-2-97]
एवमिति।। प्राग्भुक्तदेहानां पूर्वजन्मानुभूतदेहसंबन्धिन्यो पृच्छति-किमत्र युक्तमाशाया ग्रहणं त्यागो वेति। त्याग एव युक्त इति भावः।।
चिन्तनेनैधते चिन्ता त्विन्धनेनेव पावकः।
नश्यत्यचिन्तनेनैव विनेन्धनमिवानलः।।[5-2-98]
चिन्तनेति।। कथमिष्टसिद्धिरिति विचारश्चिन्ता। दृष्टार्थानां पुनःपुनरनुस्मरणं चिन्तनम्।।
ध्येयत्यागरथारूढः करुणोदारया दृशा।
लोकमालोकयन्दीनमातिष्ठोत्तिष्ठ राघव।।[5-2-99]
एषा ब्राह्मी स्थितिः स्वस्था निःकामा विगतामया।
एनां प्राप्य महाबाहो विमूढोऽपि न मुह्यति।।[5-2-100]
एकं विवेकं सुहृदमेकां प्रौढसखीं धियम्।
आदाय विहरन्नेवं संकल्पेषु न मुह्यति।।[5-2-101]
ध्येयेति।। आतिष्ठ सुखामाख। उत्तिष्ठ जीवन्मुक्त्यर्थं उद्यमं कुरु।।[5-2-99,100,101]
विनिवारितसर्वार्थादपहस्तितबान्धवात्।
न स्वधैर्यादृते किंचिदभ्युद्धरति संकटात्।।[5-2-102]
विनिवारितेति।। विनिवारिताः सर्वेऽर्थाः सांसारिकप्रयोजनानि येन तस्मात् अपहस्तिता हस्तेनापसारिता बान्धवा येन तथाभूतात् स्वधैर्यादृते स्वस्य विवेकवैराग्यधैर्यं विना किंचिदपि संकटात् संसारान्नोद्धरतीत्यन्वयः।।
वैराग्येणाथ शास्त्रेण महत्त्वादिगुणैरपि।
यत्नेनापद्विघातार्थं स्वमेवोन्नमयेन्मनः।।[5-2-103]
स्वधैर्यमेव संकटादुद्धरतीत्युक्तम्। इदानीं धैर्यसंपादनप्रकारमाह-वैराग्येणेति।। आपद्विघातार्थं संसारनिवृत्तये वैराग्यादिभिः साधनैः स्वयमेव मन उन्नमयेत्। दैर्ययुक्तं कुर्यादित्यर्थः।।
न तत्रिभुवनैश्वर्यान्न कोशाद्रत्नधारिणः।
फलमासाद्यते चित्ताद्यन्महत्त्वोपबृंहितात्।।[5-2-104]
नेति।। महत्त्वोपबृंहितान्महत्त्वादिगुणैरुन्नतीकृताच्चित्ताद्यत्फलं कैवल्यरूपमासाद्यते। तत्रिभुवनैश्वर्यादिभिरपि नासाद्यत इत्यन्वयः।।
पूर्णे मनसि संपूर्णं जगत्सर्वं सुधाद्रवैः।
उपानद्गूढपादस्य ननु चर्मास्तृतैव भूः।।[5-2-105]
पूर्ण इति।। मनसि पूर्णे संतुष्टे सति सर्वं जगत्सुधाद्रवैरमृतरसैः पूर्णमेव सुखाय जायत इत्यर्थः।।
वैराग्यात्पूर्णतामेति मनो नाशावशानुगम्।
आशया रिक्ततामेति शरदीव सरोजलम्।।[5-2-106]
कथं मनसः पूर्णतेत्यत्राह-वैराग्यादिति।। वैराग्यादेव मनः पूर्णतामेति। आशावशानुगं तु न कदाचित्पूर्णतामेति। यदाह पाराशरः-`न जातु कामः कामानामुपभोगेन शाम्यति। हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते' इति।।
हृदयं शून्यतामेति प्रकटीकृतकोटरम्।
अगस्त्यपीतार्णववदाशाविवशचेतसाम्।।[5-2-107]
हृदयस्य प्रकटीकृतकोटरत्वं नाम तृष्णातिशयप्रकाशनम्।।
न तथा भाति पूर्णेन्दुर्न पूर्णः क्षीरसागरः।
न लक्ष्मीवदनं कान्तं स्पृहाहीनं यथा मनः।।[5-2-108]
नेति।। पूर्णेन्दुप्रभृतीनां क्षयवृद्धिसंभवादनित्या शोभा। निःस्पृहस्य तु मनसः कदाचिदपि हर्षविषादाभावान्नित्या शोभेति तात्पर्यार्थः।।
यथाभ्रलेखा शशिनं सुधालेपं मषी यथा।
दूषयत्येवमेवान्तर्नरमाशापिशाचिका।।[5-2-109]
यथेति।। अभ्रलेखा मेघपङ्क्तिः। सुधालेपं चूर्णादिद्रव्यलेपम्।।
प्रशमितसकलैषणो महात्मा भव भवबन्धमपास्य मुक्तचित्तः।
मनसि निगडरज्जवः कदाशाः परिगलितासु च तासु को न मुक्तः।।[5-2-10]
इति श्रीवाल्मीकीये मोक्षोपाय उपशमप्रकरणे पुण्यपावनोपाख्यानं नाम द्वितीयः सर्गः।। 2 ।।
प्रशमितेति।। प्रशभितसकलैषणः सन्भवबन्धमपास्य मुक्तचित्तो भव। यतःकारणान्मनसि वर्तमानाः कदाशाः पुत्रकलत्रैषणादिरूपाः कुत्सिता आशाः निगडरज्जवः श्रृङ्खला रज्जुवद्बन्धनहेतवः। अतः कारणात्तासु परिगलितासु को न मुक्तः। सर्बोऽपि मुच्यत इत्यर्थः।।
इति श्रीसंसारतरणिनाम्नि वासिष्ठविवरण उपशमप्रकरणे पुण्यपावनोपाख्यानं नाम द्वितीयः सर्गः।। 2 ।।