सामग्री पर जाएँ

लघुयोगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ६

विकिस्रोतः तः
← सर्गः ५ लघुयोगवासिष्ठः
सर्गः ६
[[लेखकः :|]]
सर्गः ७ →

चित्तोपाख्यानम्।।
षष्ठः सर्गः।।
वसिष्ठ उवाच।।
एतत्ते कथितं राम मयाख्यानकलीलया।
सर्व एव जगत्यस्मिन्द्विशरीराः शरीरिणः।।[3-6-1]
एकं मनःशरीरं तु क्षिप्रकारि चलं सदा।
अकिंचित्करमन्यच्च शरीरं मांसनिर्मितम्।।[3-6-2]
अतीतेनाख्यानेन विस्तरेण प्रतिपादितमर्थं संक्षिप्याह-एतत्ते कथितमित्यादिना।।[3-6-1,2]
श्रीराम उवाच।।
विस्तरेण मम ब्रह्मञ्जडस्यास्य निराकृतेः।
रूपमारूढसंकल्पं मनसो वक्तुमर्हसि।।[3-6-3]
सम्यग्विदिते हि संसाररोगनिदाने मनसि तच्चिकित्सा सुकरेति मन्वानो रामः पृच्छतिविस्तरेणेति।। निराकृतेर्वस्तुतो निःस्वरूपस्य। तत्र हेतुः-जडस्येति।। जडत्वं साधयति-अस्येति।। दृश्यस्येत्यर्थः। आरूढः संकल्पो येन तदारूढसंकल्पम्। संकल्पप्रधानमित्यर्थः। यद्वा आरूढः संकल्पो यस्य तत्तथा।।
वसिष्ठ उवाच।।
अनन्तस्यात्मतत्त्वस्य सर्वशक्तेर्महात्मनः।
संकल्पशक्तिखचितं यद्रूपं तन्मनो विदुः।।[3-6-4]
अनिर्वाच्यं मनःस्वरूपं दर्शयंस्तन्मन आसुप्तेरामृतेस्तच्चिन्तनादिलक्षणं मोक्षोपायप्रवणं कुर्यादित्याह-अनन्तस्येत्यादिश्लोकत्रयेणा। सर्वशक्तेः सर्वकारणभूता माया शक्तिर्यस्य। यद्वा सर्वाः शक्तयः सर्वपदार्थनिष्ठतया प्रतीयमाना यस्मिंस्तत्तथोक्तम्। तस्य संकल्पशक्तिसंश्लिष्टं यत्कल्पितं रूपं तन्मनो विदुः।।
भावः सदसतोर्मध्ये नॄणां चलति यश्चलः।
कलनोन्मुखतां यातस्तद्रूपं मनसो विदुः।।[3-6-5]
भावः पदार्थः। यद्वा भावशब्देनाभिप्रायवाचिनाभिप्रायकारणं लक्ष्यते। चलः स्वभावतो लोलो नॄणां यो भावः स कलनोन्मुखतां संकल्पाभिमुखतां यातः सन् सदसतोर्मध्ये चलति आत्मानात्मनोर्मध्ये दोलायते। अनेकत्वधुरं दधानः मनोदर्पणमधिरूढो ह्यात्मानात्मनोर्द्रष्टृदृश्यभावं भजते। मनोलये सुषुप्तावात्मानात्मनोर्द्रष्टृदृश्यभावादर्शनात्।।
यतः कुतश्चिदुत्पन्नं चित्तं यत्किंचिदेव हि।
नित्यमात्मविमोक्षाय योजयेन्मुक्तियुक्तिषु।।[3-6-6]
यतःकुतश्चिदविचारितरमणीयात्कारणादुत्पन्नमतएव यत्किंचिदेवाविचारितरमणीयमेव। विचार्यमाणं तु छायाकल्पितवेतालवद्विशीर्यते। हिशब्दो विद्वत्प्रसिद्धिद्योतनार्थः। मुक्तियुक्तिषु मोक्षोपपत्तिषु तच्चिन्तनादिलक्षणमोक्षोपायेषु। तद्योजयेत्। एवमविचारितरमणीयं विचाराद्विशरारु मन एव संसारकारणं तन्निवृत्तये तदेव मोक्षयुक्तिषु योजनीयमित्युक्तम्।।
अत्रेदं चित्तमाख्यानं कथयामि तवानघ।
यदाख्यातं भगवता पुरा पङ्कजजन्मना।।[3-6-7]
इदानीमेतमेवार्थं चित्ताख्यानमवतार्य प्रपञ्चयति-अत्रेदमिति।।
अस्ति रामाटवी स्फारा शून्याऽशान्तातिभीषणा।
योजनानि शतं यस्यां लक्ष्यते कोणमात्रकम्।।[3-6-8]
अस्ति रामाटवी स्फारेति।। गूढार्थपद्यानि भगवान्वसिष्ठः स्वयमेव व्याकरिष्यति तथापि बुद्धिसौकर्यार्थं व्याकुर्मः। अटन्त्यस्यां जीवा इत्यटवी संसारपदवी। स्फारा विस्तीर्णा। शून्या सर्वपदार्थवर्जिता। मायिकत्वात्तत्र पदार्थानाम्। अशान्तेति पदच्छेदः। अथवा तामसत्वं दर्शयितुं शून्येत्युक्तम्। सात्त्विकत्वं दर्शयितुं शान्तेति। राजसत्वं ज्ञापयितुमतिभीषणेति।।
अस्यामेको हि पुरुषः सहस्रकरलोचनः।
पर्याकुलमतिर्भीमः संस्थितो विकृताकृतिः।।[3-6-9]
पुरि शरीरे शेते पुरु बहु सीदत्यवसीदतीति वा पुरुषो मनः सहस्रकरलोचनोऽनन्तहस्तनयनः। अत्रानन्ता विषयाकारवृत्तयः करलोचनतया विवक्षिताः। यथोक्तं बृहद्वासिष्ठे `सहस्रनेत्रहस्तत्वं यत्पुंसः परिवर्णितम्। तदनन्ताकृतित्वं हि चेतसः परिदर्शितम्'इति।।
स सहस्रेण बाहूनामादाय परिघान्बहून्।
प्रहरन्नात्मनः पृष्ठे स्वात्मनैव पलायते।।[3-6-10]
दृढप्रहारैः प्रहरन्स्वयमेवात्मनात्मनि।
प्रविद्रवति भीमात्मा स योजनशतान्यपि।।[3-6-11]
क्रन्दन्पलायमानोऽसौ गत्वा दूरमितस्ततः।
श्रमवान्विवसाकारो विशीर्णचरणाङ्गकः।।[3-6-12]
बाहयन्ति नानायोनीः प्रापयन्तीति बाहवः कुकल्पनानि तेषां सहस्रेण। परितो घ्नन्तीति परिघास्तानाध्यात्मिकादिदुःखेहेतूनादायात्मनः स्वस्य पृष्ठे प्रहरति। भ्रान्तिपरिगृहीतैराध्यात्मिकादिदुःखहेतुभिरात्मानं क्लेशयतीत्यर्थः। पलायते कुकल्पनाप्रापितदुःखहेतुभ्यो बिभेतीत्यर्थः।।[3-6-10,11,12]
पतितोऽवश एवाशु महत्यन्धोऽन्धकूपके।
कृष्णरात्रितमोभीमे नभोगम्भीरकोटरे।।[3-6-13]
ततः कालेन बहुना सोऽन्धकूपात्समुत्थितः।
पुनः प्रहारैः प्रहरन्विद्रवत्यात्मनात्मनि।।[3-6-14]
अन्धो विवेकरहितः। अन्धकूपे गहननरके। कुत्सितानि दुःखान्युप्यन्तेऽस्मिन्निति कूपशब्दव्युत्पत्तेर्नभोवद्गम्भीरमपरिच्छेद्यं कोटरं छिद्रं अभ्यन्तरावकाशो यस्मिन्स तथोक्तः।।[3-6-13,14]
पुनर्दूरतरं गत्वा करञ्जवनगुल्मकम्।
प्रविष्टः कण्टकव्याप्तं शलभः पावकं यथा।।[3-6-15]
तस्मात्करञ्जगहनाद्विनिष्क्रम्य क्षणादिव।
पुनः प्रहारैः प्रहरन्विद्रवत्यात्मनात्मनि।।[3-6-16]
पुनर्दूरतरं गत्वा शशाङ्ककरशीतलम्।।[3-6-17]
तस्मिन्करञ्जवनगुल्मकमिति मनुष्यजन्म विवक्षितम्। नक्तमालापरपर्यायकरजवनगतगुल्मशब्दितक्षुद्रोद्भिज्जत्वस्यासुखकरत्वात्कण्टकव्याप्तं दुःखपरिवृतमित्यर्थः।।[3-6-15,16,17]
कदलीकाननं कान्तं संप्रविष्टो हसन्निव।
कदलीखण्डकात्तस्माद्विनिष्क्रम्य क्षणात्पुनः।।[3-6-18]
स्वयं प्रहारैः पहरन्विद्रवत्यात्मनात्मनि।
पुनर्दूरतरं गत्वा तमेवान्धोऽन्धकूपकम्।।[3-6-19]
स संप्रविष्टस्त्वरया विशीर्णावयवाकृतिः।
अन्धकूपात्समुत्थाय प्रविष्टः कदलीवनम्।।[3-6-20]
कदलीकाननाच्छुभ्रं करञ्जवनगुल्मकम्।
करञ्जकाननात्कूपं कूपाद्रम्भावनान्तरम्।।[3-6-21]
कदलीकाननं स्वर्गस्तद्वदापातरमणीयत्वात्।।[3-6-18,19,20,21]
प्रविष्टः प्रहरंश्चैव स्वयमेवात्मनि स्थितः।
एवंरूपनिजाचारं समालोक्य चिरं मया।।[3-6-22]
वसिष्ठशब्देन तेज उच्यते। अत्यन्तं च तेजःस्वरूपो वसिष्ठ इति वसिष्ठशब्दव्युत्पत्तेर्वसिष्ठवाचिना मयेति शब्देन परमो विवेको विवक्षितः।।
अवष्टभ्य बलादेव मुहूर्तं प्रतिबोधितः।
पृष्टश्च कस्त्वं किमिदं केनार्थेन करोषि च।।[3-6-23]
विवेकेन बलाच्चित्तं ढटित्याक्रान्तमितीममर्थमाह-आवष्टभ्य बलादेव मुहूर्तं प्रतिबोधित इति।।
किं च वाभमतं ते स्यात्किं मुधा परिधावसि।
िति पृष्टेन कथितं तेन मे रघुनन्दन।।[3-6-24]
मुधा वृथा।।
नाहं कश्चिन्न चैवदं मुने किंचित्करोम्यहम्।
त्वयाहमवभग्नोऽस्मि त्वं मे शत्रुरहो बत।।[3-6-25]
विवेकं प्रति चित्तेन कथितमेव दर्शयति-नाहमित्यादिना।। हे मुने, विवेक, अविचारितरमणीयं हि चित्तं तत्कार्यादिकं विवेकमृदितमसदेव भवतीत्यर्थः।।
त्वया दृष्टोऽस्मि नष्टोऽस्मि दुःखाय च सुखाय च।
इत्युक्त्वा विक्लवान्यङ्गान्यालोक्य स्वान्यतुष्टिमान्।।[3-6-26]
त्वया विवेकेन दृष्टो वशीकृतोऽहं दुःखाय सुखाय च नष्टोऽस्मि। सुखदुःखोत्पादनासमर्थोऽस्मीत्यर्थः।।
रुरोदातिरवं दीनो मेघो वर्षन्निवारवी।
क्षणमात्रेण तत्रासावुपसंहृत्य रोदनम्।
स्वान्यङ्गानि समालोक्य जहास प्रसभं चिरम्।।[3-6-27]
अर्धप्राप्तविवेकत्वाद्भोगांस्त्यक्तुमशक्नुवच्चित्तं संतापांश्चकारेत्येतमर्थमाह-रुरोदेति।। आसमन्ताद्रवः शब्दो यस्य स आरवी पूर्णविवेकेन स्वान्यङ्गान्यहंकारममकारलक्षणानि बाधितान्यालोक्य प्राप्तरमानन्दतया चित्तं संतोषं चकारेत्याह-स्वान्यङ्गानि समालोक्येति।।
अथाट्टहासपर्यन्ते संभ्रमात्पुरतो मम।
क्रमेण तानि तत्याज स्वान्यङ्गानि समन्ततः।।[3-6-28]
पूर्णविवेकोदये सति सवृत्तिकं चित्तविलयक्रमं श्लोकद्वयेनाह-अथाट्टहासपर्यन्त इत्यादिना।। मम पुरतो विवेकस्य समक्षमित्यर्थः।।
प्रथमं पतितं तस्य शिरः परमदारुणम्।
ततस्ते बाहवः पश्चाद्वक्षस्तदनु चोदरम्।।[3-6-29]
तस्य चित्तस्य शिरोऽहंकारलक्षणं तच्च परमदारुणमतिभयंकरम्। ततोऽनन्तरं बाहवः कुकल्पनालक्षणाः पतिताः पश्चादर्थाशालक्षणं वक्षआदिकं पतितम्। तथाचोक्तं बृहद्वासिष्ठे-`यदङ्गानि विशीर्णानि गतान्यन्तर्धिमग्रतः। तत्किं तेन विनार्थाशा शाम्यतीति प्रदर्सितम्'इति। अत्रार्थाशाहंकारकुकल्पनयोरुपलक्षणानि।।
अथ क्षणेन स पुमान्स्वान्यङ्गानि यथायथम्।
संत्यज्य नियतेः शक्त्या क्वापि गन्तुमुपस्थितः।।[3-6-30]
यथायथं यथापूर्वं समन्तत इत्यभिधानादिदानीं यथायथमित्यभिधानाच्चायमर्थोऽवगम्यते-स्वान्यङ्गानि यथास्वं पूर्वादिदिग्भ्यो बलिं विधाय गन्तुं समुद्यत इत्येवं कथासौन्दर्यार्थमुक्तमिति ज्ञेयम्। नियतेर्दैवस्य शक्त्या विज्ञानाकारेणाभिव्यक्तयेत्यर्थः। गन्तुं समुद्यतो न गत इत्यभिधानाज्जीवन्मुक्तत्वं सूचितम्।।
दृष्टवानहमेकान्ते पुनरन्यं तथा नरम्।
प्रहरं तं भ्रमन्तं च पर्याकुलतरान्तरम्।।[3-6-31]
स मया संमुखीकृत्य परिवृष्टस्तथैव हि।
तेनैवासौ क्रमेणैव रुदित्वा संप्रहस्य च।।[3-6-32]
पर्याकुलतरान्तरं अत्यन्तं पर्याकुलमन्तरमभ्यन्तरं यस्य स तथोक्तस्तम्।।[3-6-31,32]
अङ्गैर्विशीर्णतामेत्य ययावलमलक्ष्यताम्।
दृष्टवानहमेकान्ते तथैवान्यः क्वचिन्नरः।।[3-6-33]
पलायमानः पतितो ह्यत्यन्तान्धोऽन्धकूपके।
तत्राहं सुचिरं कालमवसंस्तत्प्रतीक्षकः।।[3-6-34]
अलमत्यर्थम्। अलक्ष्यतामदृश्यतां ययावित्युक्तं विदेहमुक्तत्वमावेदितम्।।[3-6-33,34]
अथासौ सुचिरेणापि कूपान्नाभ्युत्थितः शठः।
दृष्टवान्पुनरन्यं च प्रपतन्तमितस्ततः।।[3-6-35]
अथासौ सुचिरेणेति।। महापातकयुक्तं हि मनोऽन्धकूपशब्दिते नरके पतितं सत्तस्मात्कूपादतिदीर्घेणापि कालेन न निर्गतमित्यर्थः।।
अवष्टभ्य तथैवाशु तस्य प्रोक्तं चिरं मया।
दुर्मतिर्मामसौ मूढ नैव जानासि किंचन।
अपैहि दुर्मतेऽत्युक्त्वा स्वव्यापारपरोऽभवत्।।[3-6-36]
एवं तस्मिन्महारण्ये बहवस्तादृशा नराः।
परिभ्रमन्तस्तिष्ठन्ति विद्यतेऽद्यापि साटवी।।[3-6-37]
शुद्धिलेशरहितमनात्मज्ञमन्यन्मनः स्वविवेकं तिरश्चकारेत्याह-दुर्मतिरिति।। दुर्मतिरसौ मामित्युक्त्वा स्वव्यापारपरोऽभवदित्यन्वयः। इतिशब्दपरामृष्टमाह-मूढेत्यादिना।। हे मूढ दुर्द्विज, किंचिन्न जानास्येव। अपैहि अपसर मत्सकाशात्।।[3-6-36,37]
सा भीषणा विविधकण्टकसङ्कटाङ्गी घोराटवी घनतमोगहनापि लोकैः।
आगत्य निर्वृतिमनाप्तनिजावबोधैरासेव्यते कुसुमगुल्मकवाटिकेव।।[3-6-38]
सा भीषणेति।। विविधः कण्टकानां दुःखलक्षणानां सङ्कटः संबाधो येष्वङ्गेषु तान्यङ्गानि यस्याः सा तथोक्ता। घनतमसा निबिडाज्ञानेन गहनाः दुःप्रवेशा। घनतमोगहनापि अनाप्तनिजाबोधैरलब्धात्मज्ञानैर्लोकैः प्राणिभिर्निर्वृतिमवाप्य सुखं लब्ध्वा आसमन्तात्सेव्यते। गुल्मकानि क्षुद्रोद्भिद्विशेषाः।।
श्रीराम उवाच।।
कासौ महाटवी ब्रह्मन्कुत्र वा दृश्यतेऽनघ।
के च ते पुरुषास्तत्र किं वा कर्तुं कृतोद्यमाः।।[3-6-39]
कासौ महाटवीत्यादिना सर्गसमाप्तेर्ग्रन्थसन्दर्भः स्पष्टार्थः। क्वचित्किंचिद्विविच्यते।।
वसिष्ठ उवाच।।
रघुनाथ महाबाहो श्रृणु वक्ष्यामि तेऽखिलम्।
न सा महाटवी राम दूरे नैव च ते नराः।।[3-6-40]
नैव च ते नरा दूर इत्यनुवर्तते।।
सेयं संभारपदवी गम्भीरापारकोटरा।
तां त्वं शून्यविकाराढ्यां विद्धि राम महाटवीम्।।[3-6-41]
तत्र ते तु महाकाराः पुरुषाः प्रभ्रमन्ति हि।
मनांसि तानि विद्धि त्वं दुःखे निपतितान्यलम्।।[3-6-42]
द्रष्टा योऽयमहं तेषां साविवेको महामते।
मया तान्यवबोध्यन्ते विवेकेन मनांसि हि।।[3-6-43]
परं बोधं समासाद्य मत्प्रसादान्महामते।
मनांसि कानिचित्तानि गतान्युपशमं परम्।।[3-6-44]
कानिचिन्नाभिनन्दन्ति मां विवेकं विमोहिताः।
मत्तिरस्कारवशतः कूपेष्वेव पतन्त्यधः।।[3-6-45]
शून्यविकाराढ्यामसत्कार्याढ्याम्।।[3-6-41,42,43,44,45]
ये तेऽन्धकूपा गहना नरकास्ते रघूद्वह।
कदलीकाननं स्वर्गः करञ्जो मर्त्यमण्डलम्।।[3-6-46]
प्रविष्टान्यन्धकूपान्तर्निर्गतानि भयानि तु।
महापातकयुक्तानि नरके तानि सर्वदा।। [3-6-47]
कारञ्जो मर्त्यमण्डलमिति।।[3-6-46,47]
यत्तत्करञ्जगहनं तत्कलत्ररसाविलम्।
दुःखं कण्टकसंबाधं मानुष्यं विविधैषणम्।।[3-6-48]
यैरहं पुंभिरबुधैर्दुर्द्विजेति तिरस्कृतः।
तैर्मनोभिरनात्मज्ञैः स्वविवेकस्तिरस्कृतः।।[3-6-49]
उक्तं विवृणोति-यत्तत्करञ्जगहनमिति। कल6रसाविलं स्त्रीरागकलुषम्।।[3-6-48,49]
त्वया दृष्टोऽस्मि नष्टोऽस्मि शत्रुर्मे त्वमिति द्रुतम्।
यतुक्तं तद्विचित्तेन ममतापरिदेवितम्।।[3-6-50]
रुदितं यन्महाक्रन्दं नराणां तत्र राघव।
तद्भोगजालं त्यजता मनसा रोदनं कृतम्।।[3-6-51]
अर्धप्राप्तविवेकस्य न प्राप्तस्यामलं पदम्।
मनसस्त्यजतो भोगान्परितापो हि जायते।।[3-6-52]
विचित्तेन विषयचित्तेन।।[3-6-50,51,52]
हसितं तु यदानन्दि पुंसां तदवबोधतः।
परिप्राप्तविवेकेन संतोषश्चेतसा कृतः।।[3-6-53]
तदवबोधत इति पदद्वयम्। अवबोधतोऽवबोधनादित्यर्थः। पुंसामानन्दि यद्धसितं तदवबोधतः परिप्राप्तविवेकेन चेतसा संतोषः कृत इति यत्तदेवेत्यन्वयः।।
परिप्राप्तविवेकस्य त्यक्तसंसारसंस्थितेः।
चेतसस्त्यजतो रूपमानन्दो हि विवर्धते।।[3-6-54]
यदासौ समवष्टभ्य मया दृष्टः प्रयत्नतः।
तद्विवेको बलाच्चित्तमादत्त इति दर्शितम्।।[3-6-55]
यदात्मनि प्रहारौघैः पुमान्प्रहरति स्वयम्।
तत्र तत्कल्पनाघातैः प्रहरत्यात्मना मनः।।[3-6-56]
पलायते यत्पुरुषः स्वात्मानं प्रहरन्स्वयम्।
स्ववासनाप्रहारेभ्यस्तत्र तत्र मनः स्वयम्।।[3-6-57]
रूपं विक्रियां संकल्पविकल्पलक्षणाम्।।[3-6-54,55,56,57]
संकल्पवासनाजालैः स्वैरेवायाति बन्धनम्।
मनो लीलामयैर्बन्धैः कोशकारकृमिर्यथा।।[3-6-58]
एतत्ते कथितं राम चित्तोपाख्यानमुत्तमम्।
चित्तेनैवेदमालोक्य चित्तत्यागे स्थिरो भव।।[3-6-59]
इति श्रीयोगवासिष्ठसारे मोक्षोपाये चित्तोपाख्यानं नाम षष्ठः सर्गः।। 6 ।।
अतीतप्रकरणघटकतात्पर्यार्थमाह-संकल्पवासनाजालैरिति।। संकल्पा एव वासनामूलत्वाद्वासनास्तासां जालैः स्वैः स्वीयैः। कोशकारकृमिर्हि कपित्थवृक्षादिसंल्लग्नः सन्नात्मनोऽवस्थानाय कोशं कृत्वा निर्गमनद्वारस्यापि पिधानं कुर्वाणो लीलामयैर्बन्धैर्यथा बध्यते तथेत्यर्थः।।[3-6-58,59]
इति वासिष्ठचन्द्रिकायां उत्पत्तिप्रकरणे चित्तोपाख्यानं नाम षष्ठः सर्गः।। 6 ।।