लघुयोगवासिष्ठः/प्रकरणम् १ (वैराग्यप्रकरणम्)/सर्गः १
लघुयोगवासिष्ठः सर्गः १ [[लेखकः :|]] |
सर्गः २ → |
ॐ श्रीरामाय नमः।।
लघुयोगवासिष्ठः।
वासिष्ठचन्द्रिकाव्याख्यासहितः।
वैराग्यप्रकरणम्
दिवि भूमौ तथाकाशे बहिरन्तश्च मे विभुः।
यो विभात्यवभासात्मा तस्मै सर्वात्मने नमः।।[ 1-1-1 ]
स्वाविद्याकल्पितद्वैतं नरसिंहाभिधं महः।। वेदान्तवेद्यं वन्देऽहं परमानन्दविग्रहम्।। 1 ।। सर्वमुत्तमसुखप्रसादतो जीवजातमनिति श्रुतिर्जगौ। तस्य वेदगदितस्य वर्ण्यते किं महत्त्वमखिलात्मनो गुरोः।। 2 ।। नतभवपरिपन्थि ज्ञानदानैकलीलं मुनिवरनिकुरम्बैः पूज्यमानाङ्घ्रिपद्मम्। विधुतसकलदोषं सत्यविज्ञप्तिमूर्तिं श्रुतिशतनुतमारादाश्रये विश्वनाथम्।। 3 ।। यो देहलीमधिवसञ्छिवराजधान्यां बाह्यन्तरैर्विरचितापचितीच्छयेव। दृष्टैयव वारयति विघ्नशतानि सोऽव्यादस्मान्समस्तसुरवन्दितपादपद्मः।। 4 ।। यस्या महामहिमसागरसंविगाहः सद्यः पुनाति सकलं जनमाश्वपाकात्। सा शारदा त्रिपथगेव समस्तदेवैः सेव्या समग्रवरमाशु ददातु मह्यम्।। 5 ।। वाल्मीकिमुनिवाग्गङ्गा सहस्रमुखवाहिनी। ब्रह्मसागरसंयाता मद्वचांसि पुनात्वलम्।। 6 ।। वसिष्ठरामपादाब्जवरिवस्याविधौ मम। वचांसि पुष्पतां यान्तु चित्तवृत्तानि दीपताम्।। 7 ।। श्रीमद्गुरुगणेशानवाचः संकल्पितार्थदाः। प्रणम्य सादरं मूर्ध्ना कुर्वे वासिष्ठचन्द्रिकाम्।। 8 ।। वासिष्ठाब्धिं तितीर्षामि हनूमानिव लीलया। रामपादाब्जभक्त्याहं क्षन्तुमर्हन्ति सूरयः।। 9 ।।
अथ सत्यज्ञानानन्दाद्वितीयः परमात्मा भगवान्नारायणः कल्पादौ क्षेत्राणि तमःप्रधानानि जीवांश्च चित्प्रधानान् भावनाज्ञानकर्मानुसारेण ससर्ज। तथाचोक्तमाचार्यैः-`तमःप्रधानः क्षेत्राणां चित्प्रधानश्चिदात्मनाम्। परःकारणतामेति भावनाज्ञानकर्मभिः' इति। अथ स्वसृष्टानां प्राणिनामभ्युदयनिःश्रेयसार्थमुपायोपेयतया स्थितं कर्मज्ञानलक्षणं वेदार्थं मरीच्यादिभ्यः सनकादिभ्यश्चोपदिदेश। तैश्चोपदिष्टं प्राणिभिरनुष्ठीयमानं तं वेदार्थं रावणादिदस्युभिर्विघ्नितानुष्ठानमालक्ष्य तत्परिपालनेच्छया वशीकृतमायः सत्यसंकल्पो भगवान्संकल्पसमासादिताज्ञभावः कौसल्यायां दशरथादवततार। अवतीर्य च वसिष्ठशिष्यताविडम्बनां धारयन्नानाख्यानावलिमण्डितेन तत्संवादेन तदुभयरक्षणं च चक्रे। तत्र रामस्य शिष्यता ब्रह्मण एव ब्रह्मविद्याधिकारित्वं दर्शयितुम्। तथाच श्रुतिः-`ब्रह्मा वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति। तस्मात्तत्सर्वभव'-दिति। तथाच वार्तिकम्-`स्वाभासफलकारूढं तदेवारूपकं परम्। ब्रह्मविद्याधिकारित्वं द्वैविध्यात्प्रतिद्यत'इति। तं च वसिष्ठरामसंवादं दिव्यज्ञानसंपन्नो भगवान्वाल्मीकिर्द्वात्रिंशच्छ्लोकसहस्रैर्निर्बबन्ध। तमिमं वासिष्ठसमुद्रं वैराग्यमुमुक्षुव्यवहारजगदुत्पत्तिस्थित्युपशमनिर्वाणप्रतिपादकषट्प्रकरणकल्लोलमनेकाख्यानवरतरङ्गं विवेकवैराग्योपरतिविज्ञानादिरत्ननिलयं मन्दमतिदुस्तरमालक्ष्य परमकारुणिकः काश्मीरपण्डितोऽभिनन्दनामाश्लोकानां षट्सहस्रीं तस्मा दुज्जहार। तदिदं वासिष्ठिं मन्दोपकृतये यथामपि व्याख्यास्यामः। प्रारीप्सितग्रन्धस्याविघ्नेन परिसमाप्तये प्रचयगमनाय चेष्टदेवतानमस्कारलक्षणं मङ्गलाचरणं मुखतः कुर्वन्नर्थाच्छास्त्रप्रतिपाद्यमर्थं दर्शयति भगवानाचार्यः-दिवीति।। यच्छब्दस्य प्रसिद्धार्थाभिधायकत्वादात्मनः प्रसिद्धत्वादात्मा विशेष्यतया संबध्यते-य आत्मेति।। य आत्मा मे विभाति तस्मै नम इति संबन्धः। तस्यस्वरूपं दर्शयति-आत्मा मे विभाति तस्मै नम इति संबन्धः। तस्य स्वरूपं दर्शयति-अवभासेति।। अवभासो ज्ञप्तिरात्मा स्वरूपं यस्य स तथा नस्य। देशतः परिच्छेदं व्यावर्तयति-विभुरिति।। सकलदेशव्यापीत्यर्थः। विभुत्वं साधयति-दिवीत्यादिना।। दिवि स्वर्गे आकाशे अन्तरिक्षे संक्षेपविस्तराभ्यां प्रतिपादितोऽर्थः श्रोतृबुद्धिमनायासमारोहयतीति मन्वानो विस्तरेण प्रतिपादितमर्थं संक्षिप्याह-बहिरन्तश्चेति।। अथवा लोकत्रयेऽन्तर्बहिश्च यो विभाति तस्मै `अन्तर्बहिश्च तसर्वं व्याप्य नारायणः स्थित' इति श्रुतेः। `बहिरन्तश्च भूतानामचरं चरमेव चे'ति स्मृतेश्च। एवंविध आत्मस्वरूपे विद्वदनुभवः प्रमाणमिति सूचयति भगवान्वाल्मीकिः-यो विभातीति।। नन्वात्मनोव्यतिरिक्तवस्तुसद्भावाद्वस्तुतः परिच्छेदः स्यादिति चेन्नेत्याह-सर्वात्मन इति।। सर्वस्य द्वैतप्रपञ्चस्य कल्पितस्य शुक्तिकेव रजतस्यत्मा परमार्थस्वरूपं तस्मै। वस्तुपरिच्छेदनिराकरणेनात्मनः कालपरिच्छेदोऽपि निराकृतो वेदितव्यः। कालस्यापि वस्तुतः स्वस्मिन्कल्पितस्य सत्तास्फूर्तिप्रदत्वेन आत्मनस्तत्परीच्छेदासंभवात्। अथवा दिविद्योतमाने लिङ्गशरीरे भुवि भूमिकार्ये स्थूलशरीरे आकाशे अव्याकृताख्ये कारणशरीरे तत्साक्षितया यो विभाति तस्मै नमः। शिष्टं पूर्ववत्। `अथ योऽन्यां देवतामुपास्तेऽन्योऽसवान्योऽहमस्मीति न स वेद यथा पशुरेव सदेवानामि'ति श्रुत्यात्मव्यतिरिक्तदेवतादर्शनस्य निन्दितत्वात् `आत्मैव देवताः सर्वा' इति मनुस्मृतेश्च आत्मैवेष्टदेवतात्वेन नामस्कृत इत्यवगन्तव्यम्। अथवा परमात्मा विशेष्यतया संबध्यते यः परमात्मेति तस्यापीश्वरत्वेन प्रसिद्धत्वात्तस्य जीवेभ्यो भेदं वारयति-सर्वात्मन इति।। सर्वेषां जीवानामात्मने परमार्थस्वरूपाय नमः। शिष्टं समानम्। अथवा भूमावाकाश इत्यद्यन्तयोर्ग्रहणान्मध्यवर्ति भूतत्रयमपि संदंशन्यायेन गृहीतं भवति। कारणभूतग्रहणेन कार्यं च। तथाचायमर्थः-आकाशादिरूपभूतभौतिकेष्वन्तः क्षेत्रज्ञात्मना बहिश्च संसारात् दिवि स्वे महिम्नि यो विभाति तस्मै नम इति। `पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवी'ति श्रुतेः। तदेवं त्रिविधपरिच्छेदरहितं नित्याद्वितीयपरिपूर्णं चिदात्मकं वस्तु शास्त्रप्रतिपाद्यमिति दर्शितं भवति।।
अहं बद्धो विमुक्तः स्यामिति यस्यास्ति निश्चयः।
नात्यन्तमज्ञो नो तज्झः सोऽस्मिञ्शास्त्रेऽधिकारवान्।।[ 1-1-2 ]
शास्त्रादौ श्रोतृप्रवृत्त्यङ्गतया विषयं दर्शयित्वाधिकारिणं दर्शयन् प्रयोजनसंबन्धौ च सूचयति-अहं बद्ध इति।। बद्धोऽहं विमुक्तः स्यामिति यस्य निश्चयोऽस्ति सोऽस्मिन् शास्त्रे शास्त्रश्रवणाधिकारवानिति योजना। तस्य श्रवणादिकप्रयोजकमापातज्ञानं दर्शयति-नात्यन्तमिति।। नो इति श्रवणादिकप्रयोजकमापातज्ञानं।`ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृत' इति स्मृतेः। तज्जानातीति तज्ज्ञो ब्रह्मवित् न उत ज्ञ इति वा पदच्छेदः। उतशब्दोऽप्यर्थे। `उताप्यर्थविकल्पयोरि'त्यमरः। ज्ञ उत ज्ञोऽपि नेत्यर्थः। ब्रह्मणि सम्यग्ज्ञातेऽत्यन्तमज्ञाते च श्रवणादौ प्रवृत्त्यसंभवादापाततो जानन्नधिकारीत्यर्थः। विमुक्तः स्यामित्यनेन बन्धनिवृत्तिरेतच्छास्त्रश्रवणप्रयोजनमिति सूचितम्। नात्यन्तमज्ञ इत्यादिनाच शास्त्रब्रह्मणोः प्रतिपाद्यतिपादकभावलक्षणः संबन्ध इत्यावेदितं भवति।।
गुरुमासीनमेकान्ते वाल्मीकिं सर्वदर्शिनम्।
पप्रच्छ प्रणतो भूत्वा भरद्वाजो मृदुखरम्।।[ 1-1-3 ]
एवं तावत्प्रथमश्लोकेन मङ्गलाचरणं विषयसूचनं च विधाय द्वितीयेनाधिकारिप्रयोजनसंबन्धावावेद्य शास्त्रमारभमाणोऽस्य प्रथमं संवादकथारूपतां द्योतयितुं गुरुशिष्यक्रमं प्रस्तौति-गुरुमिति।। ब्रह्मानन्दास्वादनार्थमेकान्त आसीनं समदर्शनशीलं वाल्मीकिं गुरुं भरद्वाजः शिष्यः प्रणतो भूत्वा मृदुस्वरं मृदुशब्दं यथा भवति तथा पप्रच्छेति संबन्धः।।
भगवञ्ज्ञातुमिच्छामि कथं संसारसंकटे।
रामो व्यवहृतो ह्यस्मिन्कारुण्याद्ब्रूहि मे गुरो।। [1-1-4]
भगवन्निति।। संकटं संबाधः। `सकटं ना तु संबाध' इत्यमरः। व्यवहृतः व्यवहृतवान्। अत्र साध्याहारं योजना-रामो जीवन्मुक्तपदं लब्ध्वा कथं संसारसंकटे व्यवहृत इति। नन्विममेवार्थं भरद्वाजः पृष्टवानिति कुतोऽवगम्यते। उच्यते बृहद्वासिष्ठे। कथं संसारसङ्कटे रामोव्यवहृतवानिति पूर्वप्रश्नस्योत्तरत्र। `जीवन्मुक्तस्थितिं ब्रह्मन्कृत्वा राघवमादितः। क्रमात्मकथय मे नित्यं भविष्यामि सुखी यथे' ति विवरणात्। `जीवन्मुक्तपदं प्राप्तो यथा रामो महामनाः। तत्तेऽहं श्रृणु वक्ष्यामी' त्युत्तरप्रारम्भाच्च। किंच। `रामानुयायिनस्ते वा मन्त्रिपुत्रा महाधियः। निर्दुःखतां यथैवैते प्राप्तास्तद्ब्रूहि मे स्फुट' मिति रामभरतादिविषयप्रश्नान्तरं मन्त्रिपुत्रनिर्दुःखितालक्षणजीवन्मुक्तिप्राप्तिप्रकारप्रश्नाच्चावगम्यते-अयमेवार्थः पृष्टो भरद्वाजेनेति।।
वाल्मीकिरुवाच।
साधु वत्स भरद्वाज योग्योऽसि कथयामि ते।
श्रुतेन येन संमोहमलं दूरे करिष्यसि।।[1-1-5]
साधु वत्सेति।। त्वया यत्पृष्टं तत्साध्वित्यध्याहृत्य योजनीयम्। योग्योऽसि श्रवणाय। ते तुभ्यम्। येन रामजीवन्मुक्तिलाभोपायेन संमोहमज्ञानमलमत्यर्थं दूरे करिष्यसीति। विनष्टाज्ञानो भविष्यसीत्यर्थः। अथवा। संमोहमेव मलं हेयत्वात्। अतएव तस्य दूरे प्रक्षेपणमुचितम्।।
भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत्।
अपुनःस्मरणं साधो मन्ये विस्मरणं वरम्।।[1-1-6]
संसारसंकटे रामः कथं व्यवहृतवानिति प्रश्नस्य `जीवन्मुक्तपदं प्राप्तो यथा रामो महामना' इत्यादिनोत्तरं वक्ष्यन्नादौ वक्ष्यमाणजीवन्मुक्तिसाधनभूतात्मापरोक्षज्ञानस्योपायं चित्तस्य चिन्मात्रावशेषतालक्षणं ध्यानमसंप्रज्ञातसमाधितया प्रसिद्धं रामवृत्तान्तकथनद्वारा विस्तरेण प्रतिपिपादयिषितं सोपायं बुद्धिसौकर्यार्थं संक्षिप्याह-भ्रमस्येति।। अथवा जीवनमुक्तपदं प्राप्त इत्यादिना प्रश्नस्योत्तरं वक्ष्यन्नादौ मुक्तिं तदुपायलक्षणं शास्त्रार्थं बुद्धिसौकर्यार्थं संक्षिप्याह-भ्रमस्येत्यादिना।। आकाशवर्मवदाकाशश्यामत्ववज्जागतस्य जगत्संबन्धिनो भ्रमस्य विस्मरणं वरं श्रेष्ठमुपायं मन्य इति संबन्धः। पुनः सत्यत्वेन स्मरणं जगद्भ्रमविषयं न विद्यते यस्मन्विस्मरणे तदपुनःस्मरणम्।।अथवा ज्ञानेन मूलाविद्याविच्छेदे सति भ्रमस्याभावमेव विस्मरणशब्देन विवक्षितं अतएवापुनःस्मरणमित्युक्तम्।।
दृश्यं नास्तीति बोधेन मनसो दृशअयमार्जनम्।
संपन्नं चेत्तदुत्पन्ना परा निर्वाणनिर्वृतिः।।[1-1-7]
दृश्यमिति।। दृश्यं कल्पितमधिष्ठानद्रष्टृव्यतिरेकेणेत्यागमादिजनितबोधेन मनसः सङ्कल्पात्मकादन्तःकरणाद्दृश्यमार्जनं संपन्नं जातं चेत्तर्हि निर्वाणनिर्वृतिर्मोक्षसुखमुत्पन्नाभिव्यक्ता भवति। तस्या विषयसुखवत्सातिशयत्वं वारयतिपरेति।। दृश्यमिथ्यात्वनिश्चयदाढ्र्ये सति तद्वासनानिवृत्तेस्तत्ररागानुदयात्ततो विमुखं चित्तं ब्रह्मानन्दमवगाहते। ततो विगतप्रतिबन्धादपरोक्षज्ञानान्निर्वाणं भवतीति भावः।।
अन्यथा शास्त्रगर्तेषु लुण्ठतां भवतामिह।
भवत्यकृत्रिमाज्ञानां कल्पैरपि न निर्वृतिः।।[1-1-8]
विद्याबलेन चित्तस्य विषयवैमुख्यमसंपादयतां दोषमाह-अन्यथेति।। उक्तविधयान्तर्मुखतामसंपाद्य बहिर्मुखतया शास्त्रगर्तेषु शास्त्राण्येव गर्ता अवटास्तेषु लुण्ठतां गात्रचेष्टनं कुर्वतामकृत्रिमस्याज्ञा अकृत्रिमात्ज्ञास्तेषामब्रह्मविदां भवतां भरद्वाजादीनां कल्पैरप्यतिमहता कालेनापि निर्वृतिर्मोक्षसुखं न भवति। अथवा अकृत्रिमा अज्ञानामिति पदद्वयम्। अज्ञानामकृत्रिमा निर्वृतिर्न भवतीति संबन्धः। यथा गर्ते लुण्ठतां लुण्ठनं कर्दमलेपगात्रभङ्गादिजनितदुःखाय भवति तथा बहिर्मुखानां शास्त्रश्रवणं दुःखायैव न सुखायेति भावः।।
अशेषेण परित्यागो वासनानां य उत्तमः।
मोक्ष इत्युच्यते सद्भिः स एव विमलक्रमः।।[1-1-9]
बोधेन दृश्यमार्जनं दृश्यवासनानिवृत्तिद्वारैव भवति यतोऽतो वासनात्यागो दृश्यमार्जनादिद्वारा मोक्षस्योत्तमोपायत्वादनुष्ठेय इत्याह-अशेषेणेति।। वासनात्यागस्य कथं मोक्षत्वमित्याशङ्क्योपचारादित्यभिप्रेत्याह-स एवेति।। वासनात्याग एव विमलक्रमो निर्मलोपायो मोक्षस्येत्यर्थः।।
वासना द्विविधा प्रोक्ता शुद्धा च मलिना तथा।
मलना जन्मनो हेतुः शुद्धा जन्मविनाशिनी।।[1-1-10]
वासनात्यागो मोक्षोपाय इति सामान्योक्तेरविशेषेण सर्ववासनात्यागे प्राप्ते शुद्धवासना न त्यज्येति दर्शयितुं वासनाद्वैविध्यमाह-वासनेति।। तयोर्विरुद्धकार्यकारित्वं दर्शयति हेयोपादेयत्वज्ञापनार्थम्-मलिनेति।।
अज्ञानसुघनाकारा घनाहंकारशालिनी।
पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः।।[1-1-11]
तत्र मलिनवासनाया लक्षणमाह-अज्ञानेति।। अज्ञानेन सुघनः सुनिबिडः सुदृढो वा आकारो यस्याः सा तथोक्ता। अज्ञाने हि सति वासनाया निबिडत्वं नान्यदा। घनेन निबिडेन दृढेन वाऽहंकारेण शालते शोभत इति घनाहंकारशालिनी।।
पुनर्जन्माङ्कुरांस्त्यक्त्वा स्थिता संभ्रष्टबीजवत्।
देहार्थं ध्रियते ज्ञातज्ञेया शुद्धेति चोच्यते।।[1-1-12]
शुद्धवासनालक्षणमाह-पुनर्जन्मेति।। संभ्रष्टबीजवत्सम्यग्भर्जितबीजवत्पुनःप्ररोहायोग्या स्थिता देहार्थं ध्रियते वर्तमानदेहस्थित्यर्थं ध्रियते। ज्ञातज्ञेया ज्ञातं ज्ञेयं ब्रह्मयस्यां निमित्तभूतायां सा तथोक्ता।।
ये शुद्धवासना भूयो न जन्मानर्थभाजनम्।
ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः।।[1-1-13]
उक्तमेवार्थं प्रपञ्चयतिये शुद्धेति।। जन्मैवानर्थस्तस्य भाजनं पात्रं जन्मानर्थभाजनं ये पुरुषाः शुद्धवासना भवन्ति ज्ञातज्ञेया महाधियस्ते भूयो जन्मानर्थभाजनं न भवन्ति ते च जीवन्मुक्ता उच्यन्त इति योजना। यस्माच्छुद्धाशुद्धवासने एवंलक्षणे तस्मान्मुमुक्षुणा शुद्धवासना न त्याज्या किंतु मलिनवासनैव। शुद्धा तु प्रयत्नतः संपाद्येति समुदायार्थः।।
जीवन्मुक्तपदं प्राप्तो यथा रामो महामनाः।
तत्तेऽहं श्रृणु वक्ष्यामि जरामरणशान्तये।।[1-1-14]
एवं तावज्जीवन्मुक्तिसाधनविज्ञानोपायभूतं समाधिं सोपायां मुक्तिं तदुपायलक्षणं शास्त्रार्थं वा संक्षेपेणाभिधायेदानीं केन क्रमेण जीवन्मुक्तपदं लब्ध्वा संसारसङ्कटे व्यवहृतवान् राम इति व्रश्नस्योत्तरं प्रतिज्ञापूर्वकमाहोत्तरग्रन्थसंदर्भेण-जीवन्मुक्तेत्यादिना।। जीवन्मुक्तानां पदं स्थानं स्वाराज्यं निर्वाणपरमानन्दलक्षणं यथा येन प्रकारेण येन क्रमेणेत्यर्थः।।
विद्यागृहाद्विनिष्क्रम्य रामो राजीवलोचनः।
दिवसाननयद्गेहे लीलाभिरकुतोभयः।।[1-1-15]
विद्यागृहाद्विद्यालाभस्थानादाचार्यगृहात्। राजीवं कमलम्।।
अथ गच्छति काले तु रामस्य गुणशालिनः।
तीर्थपुण्याश्रमश्रेणीर्द्रष्टुमुत्कण्ठितं मनः।।[1-1-16]
तीर्थानि पुण्याश्रमाश्च तीर्थपुण्याश्रमास्तेषां श्रेणीः पङ्क्तीः। उत्कण्ठोत्कलिका सास्य जातेति उत्कण्ठितम्। संजातानुरागमित्यर्थः।।
राघवश्चिन्तयित्वैवमुपेत्य चरणै पितुः।
हंसः पद्माविव नवौ जग्राह नखकेसरौ।।[1-1-17]
नवावभिनवौ नखा एव केसराः किञ्जल्का ययोश्चरणयोस्तौ तथोक्तौ।।
राम उवाच।।
तीर्थानि देवसद्मानि वनान्यायतनानि च।
द्रष्टुमुत्कण्ठितं नाथ ममेदं तात मानसम्।।[1-1-18]
देवसद्मानि देवालयाः। आयतनानि चैत्यानि।`चैत्यमायतनं तुल्यमि' त्यमरः।।
तदेतामर्थितं पूर्वां सफलां कर्तुमर्हसि।
न सोऽस्ति भुवने नाथ त्वया योऽर्थी न मानितः।।[1-1-19]
तत्तस्मात्। अर्थी याचकः।।
इति संप्रार्थेतो राजा वसिष्ठेन समं तदा।
विचार्यामुञ्चदेवानं रामं प्रथममर्थिनम्।।[1-1-20]
सममित्यव्ययं सहार्थे। `साकं सार्धं समं सहे' त्यमरः।। अमुञ्चन्मोचनमकरोत्।।
शुभे नक्षत्रदिवसे भ्रातृभ्यां सह राघवः।
निरगात्स्वगृहात्तस्मात्तीर्थयात्रार्थमुद्यतः।।[1-1-21]
अथारभ्य स्वकात्तस्मात्क्रमात्कोसलमण्डलात्।
स्नानदानजपध्यानपूर्वकं स ददर्श ह।।[1-1-22]
नक्षत्रसहितो दिवसो नक्षत्रदिवसस्तस्मिन्निरगान्निर्गतः।।[1-1-21,22]
नदीस्तीर्थानि पुण्यानि वनान्यायतनानि च।
जाङ्गलानि वनान्तेषु तटान्यब्धिमहीभृताम्।।[1-1-23]
जाङ्गलानि वातबहुलदेशान्। `जाङ्गलं वातभूयिष्ठ'मितिवचनात्। अथवा जङ्गलं मरुभूमिगतारण्यं तत्संबन्धीनि स्थालानि जाङ्गलानि।।
अमरकीन्नरमानवमानितः समवलोक्य महीमखिलामिमाम्।
उपययौ स्वगृहं रघुनन्दनो विहृतदिक् शिवलोकमिवेश्वरः।।[1-1-24]
विदृताः क्रीडिता दिशो येन स तथोक्तः।।
लाजपुष्पाञ्जलिव्रातैर्विकीर्मः पुरवासिनाम्।
प्रविवेश पुरं श्रीमाञ्जयन्तो विष्टपं यथा।।[1-1-25]
उवास उषितवान्।।
उवास स सुखं गेहे ततः प्रभृति राघवः।
वर्णयन्विविधाकारान्देशाचारानितस्ततः।।[1-1-26]
उवास उषितावन्।।
प्रातरुत्थाय रामोऽसौ कृत्वा सन्ध्यां यथाविधि।
सभासंस्थं ददर्शेन्द्रसमं स्वपितरं तदा।।[1-1-27]
सभायां संस्था संस्थितिर्यस्य स सभासंस्थस्तम्।।
कथाभिः सुविचित्राभिः स वसिष्ठादिभिः सह।
स्थित्वा दिनचतुर्भागं ज्ञानगर्भाभिरावृतः।।[1-1-28]
ज्ञानं गर्भे यासां कथानां ताभिः।।
जगाम पित्रानुज्ञातो महत्या सेनया वृतः।
वराहमहिषाकीर्णं वनमाखेटकेच्छया।।[1-1-29]
महत्याखेटकेच्छया मृगयावाञ्छया।।
तत आगत्य सदनं कृत्वा स्नानादिकं क्रमात्।
समित्रबान्धवो भुक्त्वा निनाय ससुहृन्निशाम्।।[1-1-30]
सदनं गृहम्।।
एवं दिनसमाचारो भ्रातृभ्यां सह राघवः।
आगत्य तीर्थयात्रायाः समुवास पितुर्गृहे।।[1-1-31]
एवं दिनसमाचार इत्येकं पदम्।।
नृपतिसंव्यवहारमनोज्ञया सुजनचेतसि चन्द्रिकयानया।
परिनिनाय दिनानि च चेष्टया स्रुतसुधारसपेशलयानघः।।[1-1-32]
नृपतिसंव्यवहारमनोज्ञया राजोचितसंव्यवहारेण मनोरमया सुजनचेतसि सज्जनचित्ते चन्द्रिकया ज्योत्स्नावदानन्दकारिण्या स्रुतसुधारसपेशलया स्रुतः प्रस्रुतः। स्रु प्रस्रवम इति धातोः। सुधारसोऽमृतरसस्तद्वत्पेशलया मञ्जुलया।।
अथोनषोडशे वर्षे वर्तमानो रघूद्वहः।
जगामानुदिनं कार्श्यं शरदीवामलं सरः।।[1-1-33]
अत्रेयं श्रुत्युक्ता निःश्रेयसोपायपरिपाटी। फलानभिसन्धिपूर्वकं स्ववर्णाश्रमकर्मानुष्ठानात्पुण्योत्पत्तिस्ततः पापक्षयः। `पुण्येन पापमपनुदती'ति श्रुतेः। ततश्चित्तश्य विवेकक्षमता ततः संसारतत्त्वपरिज्ञानं ततो वैराग्यादि ततो मुमुक्षुत्वं ततो मोक्षसाधनगवेषणं ततः सर्वकर्मसंन्यासः ततो गुरुचरणोपसर्पणं ततः श्रवणाद्यनुष्ठानं ततो ब्रह्मात्मसाक्षान्यासः ततोऽज्ञानविनष्टिः ततः स्वाराज्य एवावस्थानम्। `एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरूपसंपद्य स्वेन रूपेणाभिनिष्पद्यत'इति श्रुतेरिति। तामिमामानुपूर्वीं जगद्गुरुरामररणकमलभजनाभिरतकतिपयपुरुषधौरेयस्थायुकां पुरुषोत्तमेऽपि लोकाननुजिघृक्षया ब्रह्मविद्याधिकारिधुरं दधाने दशरथौ दिदर्शयिषुस्तस्य निष्कामकर्मानुष्ठानमतीतग्रन्थसंदर्भेणाख्यायेदानीं तत्फलं विवेकवैराग्यलक्षणं दर्शयति-अथेति।। ऊनं न्यूनं षोडशानां पूरकं षोडशं ऊनं च तत् षोडशं च तस्मिन्समाप्तप्राये षोडशवर्ष इत्यर्थः।।
क्रमादस्य विशालाक्षं पाण्डुतां मुखमाददे।
पाकोत्फुल्लदलं शुक्लं सालिमालमिवाम्बुजम्।।[1-1-34]
विशालाक्षमिति बहुव्रीहिः। पाकेन कालपाकेन उत्फुल्लानि विकसितानि दलानि यस्याम्बुजस्य तत्तथोक्तम्। सहालिमालया वर्तत इति सालिमालम्।।
कपोलतलसंलीनपाणिः पद्मासनस्थितः।
चिन्तापरवशस्तूष्णीमव्यापारो बभूव ह।।[1-1-35]
तूष्णीं बभूवेति संबन्धः।।
कृशाङ्गचिन्तया युक्तः खेदी परमदुर्मनाः।
नोवाच कस्यचित्किंचिल्लिपिकर्मार्पितो यथा।।[1-1-36]
परमदुर्मनाः अत्यन्तमहृष्टचित्तः। लिपिकर्मणा अर्पितेन समर्पितेन भित्त्यादौ चित्रेणोपमा यस्य स तथोक्तः।।
खेदात्परिजनेनासौ प्रार्थ्यमानः पुनः पुनः।
चकाराह्निकमाचारं परिम्लानमुखाम्बुजः।।[1-1-37]
परिजनेन सेवकजनेन।।
का ते पुत्र घना चिन्तेत्येवं दशरथे नृपे।
पृच्छति स्निग्धया वाचा कृत्वोत्सङ्गे पुनःपुनः।।[1-1-38]
न किंचित्तात मे दुःखमित्युक्त्वा पितुरङ्कगः।
रामो राजीवपत्राक्षस्तूष्णीमेव स्म तिष्ठति।।[1-1-39]
घना निबिडा दृढा वा। उत्सङ्गोऽङ्कः[1-1-38,39]
एतस्मिन्नेव काले तु विश्वामित्र इति श्रुतः।
महर्षिरभ्यगाद्द्रष्टुं तमयोध्यानराधिपम्।।[1-1-40]
एवं निष्कामकर्मफलं वैराग्यं संक्षेपेण प्रतिपाद्यैतदेव प्रश्नोत्तराभ्यां विस्तरेण प्रतिपिपादयिषुः प्रश्नाप्राप्त्यर्थं प्रसङ्गमाह-एतस्मिन्नित्यादिना।। श्रुतो विश्रुतः प्रसिद्धः।।
तं दृष्ट्वा मालितं लक्ष्म्या निवेद्य स्वर्गविष्टरम्।
प्रहृष्टवदनो राजा स्वयमर्घ्यं न्यवेदयत्।।[1-1-41]
उपविष्टाय तस्मै स विश्वामित्राय धीमते।
पाद्यमर्घ्यं च गां चैव भूयोभूयो न्यवेदयत्।।[1-1-42]
अर्चयित्वा तु विधिवद्विश्वामित्रमभाषत।
प्राञ्जलिः प्रयतो वाक्यमिदं प्रीतमना नृपः।।[1-1-43]
लक्ष्म्या ब्रह्मवर्चसात्मिकया। व्रताध्ययनजा त्वग्गता दीप्तिर्हि ब्रह्मवर्चसम्। मालितं संजातमालम्। मालाकारलक्ष्म्यावृतमित्यर्थः। स्वर्णविष्टरं स्वर्णासनम्।।[1-1-41,42,43]
साधो स्वनुग्रहीताः स्मो रविणेवाम्बुजाकराः।।[1-1-44]
अशङ्कितमसङ्कल्पितमुपनीतमशङ्कितोपनीतं तेन मत्सङ्कल्पं विना समीपं प्रापितेनेत्यर्थः। भास्वता दीप्तिमता दीप्तिमद्विषयत्वात्। विस्पष्टेनेति वा। रवावशङ्कितोपनीतत्वं भास्वत्त्वं च प्रसिद्धमेव।।
यदनादि यदक्षुण्णं यदपायविवर्जितम्।
तदानन्दसुखं प्राप्तमद्य त्वद्दर्शनान्मुने।।[1-1-45]
अनुगृहीतत्वं दर्शयति-यदनादीति।। अनाद्यपि प्रागभाववदनित्यं माभूदित्याह-अपायेति।। अपायो नाशः। अनपाय्यपि सादि स्यात्प्रध्वंसवदत आह-अनादीति।। आद्यन्तरहितस्यापि न कूटस्थनित्यत्वं जगन्नित्यत्ववादिनः पृथिव्यादिवदित्यत आह-अक्षुण्णमिति।। पृथिव्यादिवत् क्वचित् क्षुण्णं खण्डितावयवं न भवतीत्यक्षुण्णं कूटस्थं नित्यमित्यर्थः। आनन्दसुखं ब्रह्मसुखम्। `आनन्दो ब्रह्मेति व्यजानात्। विज्ञानमानन्दं ब्रह्म। यदेष आकाश आनन्दो न स्या' दित्यादिश्रुतिषु आनन्दशब्दार्थतया ब्रह्मणः प्रसिद्धत्वात्।।
यथाऽमृतस्य संप्राप्तिर्यथा वर्षमवर्षके।
यथान्धस्येक्षणप्राप्तिर्भवदागमनं तथा।।[1-1-46]
यता हर्षो नभोगत्या मृतस्य पुनरागमात्।
तथा त्वदागमाद्ब्रह्मन्स्वागतं ते महामुने।।[1-1-47]
यथामृतस्येत्यत्र अमृतस्येति पदच्छेदः।।[1-1-46,47]
कश्च ते परमः कामः किं च ते करवाण्यहम्।
तीर्थभूतोऽसि मे विप्र प्राप्तः परमधार्मिकः।।[1-1-48]
काम्यत इति कामः।।
गङ्गाजलाभिषेकेण यथा प्रीतिर्भवेन्मम।
तथा त्वद्दर्शनात्प्रीतिरन्तःशीतयतीव माम्।।[1-1-49]
शीतयत्यसंतापं करोति। इवशब्दोऽवधारणे।।
विगतेच्छाभयक्रोधो वीतरागो निरामयः।
इदमत्यद्भुतं ब्रह्मन्यद्भवान्मामुपागतः।।[1-1-50]
विगतेति।। इच्छा अर्थमात्रविषया। रागः स्त्र्यादिविशेषविषयः। अप्राप्तेऽर्थे प्रार्थनामात्रमिच्छा। प्राप्ते प्रार्थना राग इति केचित्। मामुपागत इति यदिदमत्यद्भुतमिति संबन्धः।।
यत्कार्यं येन चार्थेन प्राप्तोऽसि मुनिपुङ्गव।
कृतमित्येव तद्विद्धि मान्योऽसि हि भृशं मम।।[1-1-51]
येनार्थेन प्रयोजनेन प्राप्तोऽसि तदर्थं यन्मया कार्यं तत्कृतमेव विद्धीत्यन्वयः। तत्र हेतुर्मान्योऽसीति।।
तच्छ्रुत्वा राजशार्दूलवाक्यमद्भुतविस्तरम्।
हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत।।[1-1-52]
हृष्टानि हर्षादुद्भिन्नानि रोमाणि यस्य स तथा।
सदृशं राजशार्दूल तवैवैतन्महीतले।
महावंशप्रसूतस्य वसिष्ठवशवर्तिनः।।[1-1-53]
राजशार्दूल राजश्रेष्ठ। `सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचका' इत्यमरः।।
अहं नियममातिष्ठे सिद्ध्यर्थं पुरुषर्षभ।
तस्य विघ्नकरा घोरा राक्षसा मम संस्थिताः।।[1-1-54]
आतिष्ठेऽवलम्बे। यद्यपि विश्वामित्रः कृतार्थस्तथापि लोकदृष्टिमाश्रित्याह-सिद्ध्यर्थमिति।। कार्यकारणसंघातस्य ज्ञाननिष्ठायोग्यताप्राप्तिः सिद्धिः। कर्मणा साक्षान्मुक्तिलक्षणसिद्धेरसंभवात्। मम तस्य नियमस्य विघ्नकरा इति संबन्धः।।
त्रातुमर्हसि मामार्तं शरणार्थिनमागतम्।
तवास्ति तनयः श्रीमान्दृप्तशार्दूलविक्रमः।।[1-1-55]
शरणशब्दो रक्षितृवाचकः। `शरणं गृहरक्षित्रो' रिति वचनात्। दृप्तशार्दूलो दर्पान्वितव्याघ्रस्तद्वद्विक्रमोऽतिशक्तिता यस्य स दृप्तशार्दूलविक्रमः। `विक्रमस्त्वतिशक्तिता' इत्यमरः।।
महेन्द्रसदृशो वीर्ये रामो रक्षोविदारणः।
तं पुत्रं राजशार्दूल रामं सत्यपराक्रमम्।।[1-1-56]
सत्यपराक्रमः सत्योऽवितथः फलपर्यवसायी पराक्रमो यस्य स तथोक्तः।।
काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि।
शक्तो ह्येष मया गुप्तो दिव्यन स्वेन तेजसा।।[1-1-57]
काकपक्षः शिखा तस्य। रक्षोवधे शक्तिरहितत्वाददेयत्वशङ्कां शातयति-शक्त इति।।
राक्षसा येऽपकर्तारस्तेषां मूर्धविनिग्रहे।
न च पुत्रकृतं स्नेहं कर्तुमर्हसि पार्थिव।।[1-1-58]
अपकर्तारोऽपकारकर्तारः तेषां मूर्धविनिग्रहे शक्त इत्यन्वयः। ननु दिव्येन तेजसा शक्तत्वमृषिगुप्तत्वं च विरुद्धमिति चेन्न। अज्ञानावतारे ऋषेरप्यस्त्रदानादिना दिव्यतेजसोऽभिव्यञ्जकत्वसंभवात्।।
न तदस्ति जगत्यस्मिन्यन्न देयं महात्मनाम्।
हन्त ते प्रतिजानामि हतांस्तान्विद्धि राक्षसान्।
नह्यस्मदादयः प्राज्ञाः संदिग्धे संप्रवृत्तयः।।[1-1-59]
अशक्तत्वमुररीकृत्याह-न तदिति।। महात्मनां देयं न भवति यत्तन्नास्तीति संबन्धः। स्मर्यते हि-`त्वचं कर्णः शिबिर्मांसं जीवं जीमूतवाहनः। ददौ दधीचिरस्थीनि किमदेयं महात्मना'मिति। `हन्तहर्षेऽनुकम्पाया'मित्यमरः। संदिग्धे कार्ये संप्रवृत्तय इति बहुव्रीहिः। प्रवृत्तेः सम्यक्त्वं दृढत्वम्।।
अहं वेद महात्मानं रामं राजीवलोचनम्।
वसिष्ठश्च महातेजा ये चान्ये दीर्घदर्शिनः।।[1-1-60]
ननु बालकस्य कथमेतादृशं सामर्थ्यं यत इयं तव प्रतिज्ञेत्यत आह-अहमिति। महात्मानं सङ्कल्पमात्रेण जगत्कुटीसंघटनविघट्टनपटीयांसं परमात्मानं वेद जानामि।।
यदि धर्मो महत्त्वं च यशस्ते मनसि स्थितम्।
तन्मह्यं स्वमभिप्रेतमात्मजं दातुमर्हसि।।[1-1-61]
यदि धर्म इति। धर्मादिकं ते मनस्यत्याज्यतया स्थितं तर्हि स्वं स्वयमात्मजं पुत्रम्। कथंभूतम्। अभिप्रेतमिष्टम्। दातुमर्हसि।।
इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः।
विरराम महातेजा विश्वामित्रो मुनीश्वरः।।[1-1-62]
तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम्।
मुहूर्तमासीन्निश्चेष्टः सदैन्यं चेदमब्रवीत्।।[1-1-63]
उपरराम तूष्णीं बभूवेत्यर्थः[1-1-62,63]
ऊनषोडशवर्षोऽयं रामो राजीवलोचनः।
न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः।।[1-1-64]
षोडशानां पूरकं षोडशं तच्च तद्वर्षं च ऊनं किंचिन्न्यूनं षोडशवर्षं यस्य स तथा।
इयमक्षौहिणी पूर्णा यस्याः पतिरहं स्थितः।
तया परिवृतो युद्धं दास्यामि पिशिताशिनाम्।।[1-1-65]
पिशिताशिनां मांसाशिनां रक्षसाम्। `पिशितं तरसं मांसं पललं क्रव्यमामिष' मित्यमरः।।बालो रामस्त्वनीकेषु न जानाति बलाबलम्।
अन्तःपुरादृते दृष्टा नानेनान्या रणावनिः।।[1-1-66]
रणावनिर्युद्धभूमिः।।
नववर्षसहस्राणि मम जातस्य कौशिक।
दुःखेनोत्पादितास्त्वेत चत्वारः पुत्रका मया।।[1-1-67]
प्रधानभूतस्तेष्वेको रामः कमललोचनः।
तं विनेह त्रयोऽप्यन्ये धारयन्ति न जीवितम्।।[1-1-68]
नववर्षसहस्राणीति क्वचित्। षष्टिर्वर्षसहस्रामीत्यन्यत्र।।[1-1-67,68]
स एव रामो भवता नीयते राक्षसान्प्रति।
यदि तत्पुत्रहीनं त्वं मृतमेवाशु विद्धि माम्।।[1-1-69]
राक्षसान्प्रति नीयते यदीति संबन्धः। तत्तर्हि।।
अन्यच्च यदि ते विघ्नं करोति स हि रावणः।
ततो युधि न शक्ताः स्मो वयं तस्य दुरात्मनः।।[1-1-70]
रामाप्रदानेऽन्यदपि निमित्तं शङ्कितमस्तीत्याह-अन्यच्चेति।।
काले काले पृथग्भिन्ना भूरिवीर्यविभूतयः।
भूतेष्वभ्युदयं यान्ति प्रलीयन्ते च कालतः।।[1-1-71]
ननु रावणस्यैवंविधं वीर्यं कुतः, कुतश्च भवता रावणादेरप्यधिकबलानां काकुत्थादिवंशप्रसूतानां तद्विपर्यय इत्यत आह-काल इत्यादिना।। पृथग्भिन्ना अन्योन्यं विलक्षणा भूरिवीर्या विभूतयो बहुशौर्यसंपदः काले कालेऽभिव्यक्तानुकूले भूतेषु प्राणिष्वभ्युदयमभिव्यक्तिं यान्ति। कालतः प्रलयानुकूलत्वात्।।
अद्यास्मिंस्तु वयं काले रावणादिषु शत्रुषु।
न समर्थाः पुरः स्थातुं नियतेरेष निश्चयः।।[1-1-72]
अस्मिन्काले अस्मत्प्रतिकूले। तत्राद्य रावणादिषु शत्रुषु विषयेषु। नियतिर्विधिः।।
अयमन्यतमः कालः पेलवीकृतसञ्जनः।
राघवोऽपि गतो दैन्यं यत्र वार्धकजर्जरः।।[1-1-73]
कालस्य प्रातिकूल्यमेव दर्शयति-अयमन्यतम इति।। पेलवीकृतसज्जनः विरलीकृतसाधुजनः। `घनं निरन्तरं सान्द्रं पेलवं विरलं तन्वि'त्यमरः। अयं कालोऽन्यतमोऽत्यन्तमन्यः। पूर्वस्मादत्यन्तं विपरीत इत्यर्थः। वार्धकं वृद्धत्वं वार्धक इव जर्जरो वार्धकजर्जरः ऊनषोडशवर्षोऽपि राघवो वार्धकावस्थायामिव जर्जरो भूत्वा यत्र यस्मिन्काले दैन्यं दीनभावं दुःखितां गतः। राघवशब्दो दशरथविषय इति केचित्।।
तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम्।
समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम्।।[1-1-74]
कौशिकः कुशिकगोत्रो विश्वामित्रः।।
करिष्यामीति संश्रुत्य प्रतिज्ञां हातुमिच्छसि।
स भवान्केसरी भूत्वा मृगतामभिवाञ्छसि।।[1-1-75]
केसरी सिंहः।।
यदि त्वमक्षमो राजन्गमिष्यामि यथागतम्।
हीनप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः।।[1-1-76]
तस्मिन्कोपपरीते तु विश्वामित्रे महात्मनि।
चचाल वसुधा कृत्स्ना सुरांश्च भयमाविशत्।।[1-1-77]
क्रोधाभूभूतं विज्ञाय जगन्मित्रं महामुनिम्।
धृतिमान्सुव्रतो धीमान्वसिष्ठो वाक्यब्रवीत्।।[1-1-78]
इक्ष्वाकुवंशजातोऽपि स्वयं दशरथोऽपि सन्।
न पालयसि चेद्वाक्यं कोऽपरः पालयिष्यति।।[1-1-79]
युष्मदादिप्रणीतेन व्यवहारेण जन्तवः।
मर्यादाः न विमुञ्चन्ति तां न हातुं त्वमर्हसि।।[1-1-80]
अक्षमः असमर्थः। काकुत्स्थेति संबोधनं साभिप्रायम्।।[1-1-76,77,78,79,80]
गुप्तं पुरुषसिंहेन गरुडेनामृतं यथा।
कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः।।[1-1-81]
कृतान्यभ्यस्तानि साधितानि वा अस्त्राणि येन स कृतास्त्रस्तं न शक्ष्यन्ति शक्ता न भविष्यति। धर्षयितुमिति शेषः।।
वाल्मीकिरुवाच।।
तथा वसिष्ठे ब्रुवति रामभृत्यजनान्नृपः।
कथं कीदृक् कुतो राम इति पप्रच्छ बुद्धिमान्।।[1-1-82]
रामभृत्य ऊचुः।।
रामो राजीवपत्राक्षो यतःप्रभृति चागतः।
सविप्रस्तीर्थयात्रायास्ततःप्रभुति दुर्मनाः।।[1-1-83]
यत्नप्रार्थनयास्माकं निजव्यापारमाह्निकम्।
सोऽयमाम्लानवदनः करोति न करोति वा।।[1-1-84]
किं संपदा किं विपदा किं गेहेन किमीहितैः।
सर्वमेवासदित्युक्त्वा तूष्णीमेकोऽवतिष्ठते।।[1-1-85]
कुतो रामः कुत्र राम इत्यर्थः।।[1-1-82,83,84,85]
वस्त्रपानाशनादानपराङ्मुखतया तथा।
परिव्राड्धर्मिणं राजन्सोऽनुयाति तपस्विनम्।। [1-1-86]
परिव्राड्धर्मिणं परिव्राजां संन्यासिनां धर्मा नैरपेक्ष्यादयो यस्य स तथोक्तस्तम्।।
नाभिमानमुपादत्ते नाभिवाञ्छति राजताम्।
नोदेति नास्तमायाति सुखदुःखादिवृत्तिषु।।[1-1-87]
उदेति हृष्यति। अस्तमायाति विषीदतीत्येतत्।।
नीतमायुरनायासदसंप्राप्तिवर्जितैः।
चेष्टितैरिति काकल्या भूयोभूयः प्रगायति।।[1-1-88]
अनायासपदं निर्वाणम्। काकल्या कलसूक्ष्मध्वनिना। `काकली तु कले सूक्ष्मे'इत्यमरः।।
आपदामेकमावासमभिवाञ्छसि किं धनम्।
अनुशिष्येति सर्वखमर्थिभ्यः संप्रयच्छति।।[1-1-89]
हे अर्थिन्, आपदामेकं मुख्यमावासं निलयं धनं किं किमर्थमभिवाञ्छसि अभीच्छसीत्यनुशिष्य अनुशासनं कृत्वा सर्वस्वमर्थिने याचकाय प्रयच्छति ददाति।।
न विद्मः किं महाबाहेस्तस्य तादृशचेतसः।
कुर्मः कमलपत्राक्ष गतिरत्र हि नो भवान्।।[1-1-90]
तादृशचेतसस्तस्य किं कुर्मो न विद्म इति संबन्धः।।
ईदृशः स्यान्महासत्त्वः क इहास्मिन्महीतले।
प्राकृते व्यवहारे तं यो नियोजयितुं क्षमः।।[1-1-91]
विश्वामित्र उवाच।।
एवं चेत्तन्महाप्राज्ञं भवन्तो रघुनन्दनम्।
इहानयन्तु त्वरिता हरिणं हरिणा इव।।[1-1-92]
प्राकृते व्यवहारे तं रामं निवेशयितुं यः क्षम ईदृशो महासत्त्वोऽस्मिन्महीतले क इव स्यात्कोनु स्यादिति संबन्धः।।[1-1-91,92]
एष मोहो रघुपतेर्नापद्म्यो नापि रागतः।
विवेकवैराग्यकृतो बोध एष महोदयः।।[1-1-93]
एतस्मिन्मार्जिते युक्त्या मोहे स रघुनन्दनः।
विश्रान्तिमेष्यति पदे तस्मिन्वयमिवोत्तमे।।[1-1-94]
निजां च प्राकृतामेव व्यवहारपरम्पराम्।
परिपूर्णमना मान्य आचरिष्यत्खण्डिताम्।।[1-1-95]
एवं मुनीन्द्रे ब्रुवति पितुः पादाभिवन्दनम्।
कर्तुमभ्याजगामाथ रामः कमललोचनः।।[1-1-96]
प्रथमं पितरं पश्चान्मुनी मान्यैकमानितौ।
ततो विप्रांस्ततो बन्धून् प्रणनाम ततो गुरून्।।[1-1-97]
महानुदयः परमानन्दाविर्भावो यस्मात्स तथोक्तः एष मोहो इति मोहस्यैतादृशस्य बोधहेतुत्वादुपचर्यते।।[1-1-93,94,95,96,97]
जग्राह च ततो दृष्ट्या मनाङूमूर्ध्ना ततो गिरा।
राजलोकेन विहितां तां प्रणामपरम्पराम्।।[1-1-98]
मनाङ्मूर्ध्ना ईषच्छिरःकम्पनेन।।
उत्सङ्गे पुत्र तिष्ठेति वदत्येवं महीपतौ।
भूमौ परिजनास्तीर्णे चासने स न्यविक्षत।।[1-1-99]
दशरथ उवाच।।
पुत्र प्राप्तविवेकस्त्वं कल्याणानां च भाजनम्।
जडवज्जीर्मया बुद्ध्या खेदायात्मा न दीयताम्।।[1-1-100]
वृद्धविप्रगुरुप्रोक्तं त्वादृनानुतिष्ठता।
पदमारुह्यते पुण्यं न मोहमनुधावता।।[1-1-101]
न्यविक्षत उपवेशनमकार्षीत्। विश प्रवेशन इति धातोर्लुङि प्रथमपुरुषैकवचनम्। `नेर्विश' इति सूत्रादात्मनेपदम्।।[1-1-99,100,101]
तावदेवापदो दूरे तिष्ठन्ति परिपेलवाः।
यावदेव न मोहस्य प्रसरः पुत्र दीयते।।[1-1-102]
परिवेलवाः प्रविरलाः। प्रसरः प्रचारः।।
वसिष्ठ उवाच।।
राजपुत्र महाबाहो शूरस्त्वं विजितास्त्वया।
दुरुच्छेदा दुरारम्भा अप्यमी विषयारयः।।[1-1-103]
दुःखेनोच्छेदो येषां ते दुरुच्छेदाः। दुष्टः प्रारम्भो व्यापारो येषां ते दुरारम्भाः। यद्वा दुरारम्भा दुरुक्रमाः। दुःसाध्या इत्यर्थः।।
किमतज्झ इवाज्ञानां योग्ये व्यामोहसागरे।
विनिमञ्जसि कल्लोलबहुले जाड्यशालिनि।।[1-1-104]
अतज्ज्ञ इव अब्रह्मविदिव। कल्लोला महोर्मयः व्यामोहसागरे कल्लोलाः प्रचण्डापदः। सागरे जाड्यशालित्वं तु शिशिरताशालित्वम्। `शिशिरोजड' इत्यमरः।।
विश्वामित्र उवाच।।
किंनिष्ठाः के च ते केन कियन्तः कारणेन ते।
आधयः प्रविलुम्पन्ति मनो गेहमिवाखवः।।[1-1-105]
संक्षेपेण पूर्वं प्रतिपादितस्य वैराग्यस्य विस्तरेम प्रतिपादकोत्तरग्रन्थसन्दर्भोत्थानहेतुभूतान्विश्वामित्रप्रश्नानुत्क्षिपति-किंनिष्ठा इति।। आखवो मूषका गेहमिव ये मनःपीढालक्षणा आधयस्ते तव मनो विलुम्पन्ति विशेषेण छिदन्ति। ते किंनिष्ठाः केषु विषयेषु नितरां तिष्ठन्तीति किंनिष्ठाः। के च स्वरूपतः। केन कारणेन जाताः। कियन्तः कियत्परिमाणाः।।
यथाभिमतमाशु त्वं ब्रूहि प्राप्स्यसि चानघ।
सर्वमेव पुनर्येन भेत्स्यन्ति त्वां तु नाधयः।।[1-1-106]
प्रश्नोत्तरदानस्य निष्प्रयोजनत्वशङ्कां शातयति-यथेति।। हे अनघ, आधयो येन प्राप्तेनाभिमतेन सर्वे त्वां पुनर्न भेत्स्यन्ति यथाभिप्रेतं तत्सर्वमेव त्वमाश्ववाप्स्यसि।ब्रूहीत्यन्वयः।।
इत्युक्तमस्य सुमते रघुवंशकेतुराकर्ण्य वाक्यमुचितार्थविलासगर्भम्।
तत्याज खेदमभिगर्जति वारिवाहे बर्ही यथा त्वनुमिताभिमातार्थसिद्धिः।।[1-1-107]
इति श्रीवाल्मीकीये मोक्षोपाये वैराग्यप्रकरणे वैराग्योत्पत्तिप्रतिपादनो नाम प्रथमः सर्गः।। 1 ।।
केतुर्ध्वजः। यथा रथस्य केतुरलङ्कारस्तथा रघुवंशस्यालङ्कार इत्यर्थः। उचितानामर्थानां विलासो विस्तारो गर्भे यस्य तत्तथा। वारीवाहो मेघः। बर्ही मयूरः। अनुमिताऽभिमतस्यार्थस्य प्रयोजनस्य सिद्धिर्येन स तथोक्तः।।
इति श्रीमत्परमहंसपरिव्राजकाचार्य उत्तमसुखपूज्यपादशिष्यश्रीमदात्ममुखविरचितायां वासिष्ठचन्द्रिकायां वैराग्यप्रकरणे वैराग्यसंभूतिर्नाम प्रथमः सर्गः।। 1 ।।