लघुयोगवासिष्ठः/प्रकरणम् १ (वैराग्यप्रकरणम्)/सर्गः २
← सर्गः १ | लघुयोगवासिष्ठः सर्गः २ [[लेखकः :|]] |
सर्गः ३ → |
जगद्दोषप्रकाशवर्णनम्।।
द्वितीयः सर्गः।।
वाल्मीकिरुवाच।।
इति पृष्टो मुनीन्द्रेण समाश्वास्य च राघवः।
उवाच वचनं चारु परिपूर्णार्थमन्थरम्।।[1-2-1]
श्रीराम उवाच।।
भगवन्भवता पृष्टो यथावदधुनाखिलम्।
कथयाम्यहमज्ञोऽपि को लङ्घयति सद्वचः।।[1-2-2]
अहं तावदयं जातो निजेऽस्मन्मन्दिरे पितुः।
क्रमेण वृद्धिं संप्राप्तः प्राप्तविद्यश्व संस्थितः।।[1-2-3]
पूर्वं संक्षेपेम प्रतिपादितं वैराग्यं विस्तरेण प्रतिपादयितुमुत्तरग्रन्थसन्दर्भ इति तात्पर्यमवादिष्म। तत्रातीतसर्गान्ते किंनिष्ठा इति प्रश्ना उपक्षिप्ताः तन्निर्णयार्थं वचनमुवाच राम इत्याह-इतीति।। मन्थरं मन्दगामि। गम्भीरमित्यर्थः। `मन्दगामी तु मन्थर' इत्यमरः।।[1-2-1,2,3]
ततः सदाचारपरो भूत्वाहं मुनिनायक।
विहृतस्तीर्थयात्रार्थमुर्वीमम्बुधिमेखलाम्।।[1-2-4]
अम्बुधिः समुद्रो मेखला काञ्जी यस्याः सा तथोक्ता ताम्।।
एतावता च कालेन संसारास्थामिमां हरन्।
प्रादुर्भूतो मनसि मे विचारः सोऽयमीदृशः।।[1-2-5]
ईदृशो वक्ष्यमाणप्रकारः।।
किं नामेदं वद सुखं येयं संसारसंस्थितिः।
जायते मृतये लोको म्रियते जननाय च।।[1-2-6]
येयं संसारसंस्थितिः इदं किंनाम सुखं वदेत्यन्वयः। असुखकरत्वमेव दर्शयति-जायत इति।। मृतये जायते। जननं मरणाविनाभूतमित्यर्थः। जननाय म्रियते च। मृतिश्चाज्ञस्यावश्यं जन्महेतुरित्यर्थः।।
अस्थिराः सर्व एवैते सचराचरचेष्टिताः।
सर्वापदां पदं पापा भावा विभवभूमयः।।[1-2-7]
सचराचरचेष्टिताः। सचराचरैः कृता इत्यर्थः। पापाः पापहेतवः भावाः पदार्थाः विभवभूमयः ऐश्वर्यकारणानि। विभवभूमयो भावाः सर्वापदां पदं स्थानं भवन्तीत्यन्वयः। आपदां पतय इति क्वचित्पाठः।।
अयःशलाकासदृशाः परस्परमसङ्गिनः।
श्लिष्यन्ते केवलं भावा मनःकल्पनया स्वया।।[1-2-8]
स्वप्नसंसारवन्मनोनिर्मित एव संसार इत्याह-अय इति।। परस्परमसङ्गिनः स्वबावतोऽन्योन्यसंबन्धरहिताः। स्वतःसंबन्धराहित्ये दृष्टान्तः-अयःशलाकेति।। अयोनिर्मितशङ्कुतुल्याः। नह्ययःशलाका जतुकाष्ठवत्परस्परं संबन्ध्यते। भावाः पुत्रभार्यादिलक्षणपदार्थाः केवलं स्वया मनःकल्पनया ममायं पुत्रो ममेयं भार्याममायं पतिरित्यादिलक्षणया श्लिष्यन्ते संबध्यन्ते।।
किं मे राज्येन किं भोगैः कोऽहं किमिदमागतम्।
यन्मिथ्यैवास्तु तन्मिथ्या कस्य नाम किमागतम्।।[1-2-9]
कोऽहमिति।। शरीरेन्द्रियमनोबुद्ध्यहंकारचित्ताज्ञानचित्प्रतिबिम्बबिम्बकेवलानां मध्ये कोऽहं कतमोऽहमागतमभिव्यक्तमिदं जगत्किं सत्यमुतासत्यम्। सम्यग्विचारणायां तज्जगन्मिथ्यैवास्तु। नहि मिथ्या कदाचित्सत्यं भवति तेन कस्य किमागतं नाम। नहि भिथ्यापदार्थेनापकार उपकारो वा क्यचिद्भवति। नहि मरीचिकोदकेन भूमेर्भूषणमभूषणं वा भवति। अधिष्ठानभूतस्यात्मनः कल्पितप्रपञ्चेन न किंचिदपि भवतीति भावः।।
एवं विमृशतो ब्रह्मन्सर्वेष्वेव ततो मम।
भावेष्वरतिरायाता पथिकस्य मरुष्विव।।[1-2-10]
एवं संसारयाथात्म्यविचारस्य किं फलमित्याह-एवमिति।। ततस्तस्माद्विमर्शादरतिररमणम्। पथिकः पान्थः। मरुषु मरुभूमिषु।।
शाम्यतीदं कथं दुःखमिति तप्तोऽस्मि चिन्तया।
जरद्वृक्ष इवोग्रेण कोटरस्थितवह्निना।।[1-2-11]
संसारदुःखपाषाणनीरन्ध्रहृदयो ह्यहम्।
निजलोकभयादेव गलद्बाष्पं न रोदिमि।।[1-2-12]
किंनिष्ठा इत्यादिप्रश्नोत्तरानार्थमेवमुपोद्धातं कृत्वेदानीं तदुत्तराण्याह-शाम्यतीति।। इदं संसारदुःखं कथं केनोपायेन शाम्यति नश्यतीति चिन्तया तप्तोऽस्मि दुःखितोऽस्मि। जरद्द्रुमो जीर्णवृक्षः। कोटरं निष्कुहः वृक्षच्छिद्रम्। केन कारणेनाधयः प्रलुम्पन्तीत्यस्यापि प्रश्नस्य संसारशान्त्युपायापरिज्ञानेन कारणेनेत्युत्तरमर्थादत्रैवोक्तमिति वेदितव्यम्।।[1-2-11,12]
चिन्तानिचयचक्राणि नानन्दाय धनानि मे।
संप्रसूतकलत्राणि गृहाण्युग्रापदामिव।।[1-2-13]
सर्वभोग्यसमावृतस्त्वं कथं दुःखमेव वर्णयसि दरिद्र इवेत्याशङ्क्य सर्वमनर्थकरं दुष्टमेवेति दर्शयन्नादावनोकानर्थहेतुं धनं निन्दति-चिन्तेति।। चिन्तानां निचयाः समूहा एव चक्राण्यायुधविशेषा येषां तानि तथोक्तानि। धनैरुत्पादितो हि चिन्तानिचयश्चक्रवद्विदारयति पुरुषम्। संप्रसूतकलत्राणि सम्यक् प्रकर्षेण कृतप्रसवानि कलत्राणि दारा येषु गृहेषु तानि तथोक्तानि। उग्रापदां उग्रा आपदो येषां पुरुषाणां त उग्रापदस्तेषाम्। यथा प्रवृद्धाभिरापद्भिराक्रान्तानां कुटुम्बिनां चक्रतुल्यचिन्तासमूहजनकानि बह्वपत्यपरिवृतभार्याणि गृहाणि न सुखाय भवन्ति किंतु दुःखायैव तथा धनानीत्यर्थः।।
इयमस्मिन्स्थितोदारा संसारे परिपेलवा।
श्रीर्मुने परिमोहाय सापि नूनं न शर्मदा।।[1-2-14]
धननिन्दानन्तरं धनहेतुं श्रियं निन्दतिइयमस्मिन्नित्यादिभिः सप्तभिः श्लोकैः।। अस्मिन्संसारे स्थिता। उदारा महती। `उदारो दातृमहतो' रित्यमरः। परिपेलवा परितः समन्ताददृढा येयं श्रीः सापि शर्मदा सुखदा न भवति। नूनं निश्चये प्रत्युत परिमोहाय भवतीति योजना।।
गुणागुणविचारेण विनैव किल पार्श्वगम्।
राजप्रकृतिवन्मूढा दुरारूढावलम्बते।।[1-2-15]
गुणिनमेवाश्रयते लक्ष्मीरिति नियमाभावात्तस्या आश्रयतो दुष्टत्वमाहगुणेति।। दुरारूढा दुःखेनारूढा। दुःखानुषङ्गिणीति यावत्। अथवा आरूढशब्देनारोहो लक्ष्यते। दुरारोहा दुःसाध्येत्यर्थः। गुणागुणविचारेण अस्मिन्गुणोऽस्त्यस्मिन्नगुणोऽस्तीति विचारेण विना पार्श्वगमवलम्बते। किलेति वार्तायाम्। `वार्तासंभाव्ययोः किले'-त्यमरः। राजप्रकृतिवद्राजस्वभाववत्। यथा राजस्वभावो दुर्जनं सज्जनं वा पार्श्वगं विचारं विनावलम्बते दुरारूढश्च भवति तद्वत्। अथवा राजप्रकृतिरमात्यादीनाश्रयते।।
कर्मणा तेनतेनैषा विस्तारमनुगच्छति।
दोषाशीविषवेगस्य यत्क्षीरं विसरायते।।[1-2-16]
लक्ष्म्या दोषमुक्त्वाभिवृद्धौ तमाह-कर्मणेति।। तेन तेन साधुना वाऽसाधुना कर्मणा विस्तारमभिवृद्धिमनुगच्छति। अभिवृद्धापि सानर्थाय भवतीत्याह-दोषेति।। यल्लक्ष्मीरूपं क्षीरं दोषाशीविषवेगस्य दोषा दर्पादय आशीविषा भुजङ्गमास्तेषां विषवेगस्य विसरः विसर्पणं तद्वदाचरति। यथा क्षीरमुरगस्य विषवेगवर्धकं भवति तथा दोषसर्पाणां प्रभावरूपविषवेगवर्धकं लक्ष्मीरूपं क्षीरमित्यर्थः। यत्क्षीरं विसरायते सैषेति पूर्वेण संबन्धः।।
तावच्छीतमृदुस्पर्शः परे स्वे वर्तते जनः।
वात्ययेव हिमं यावच्छ्रिया न परुषीकृतः।।[1-2-17]
यत् क्षीरं विसरायत इत्युक्तं स्पष्टयति-तावदित्यादि श्लोकचतुष्टयेन।। शीतः सुखकरो मृदुर्विनयमधुरवाक्त्वादिगुणः स्पर्शः संपर्को यस्य जनस्य स तथा। वात्या चक्रवातः। परुषीकृतः कर्कशीकृतः। चक्रवातचलितं हिमं यथा दुःखदस्पर्शं तथा लक्ष्म्या विषमीकृतचित्तो दुःखसंपर्को भवतीत्यर्थः।।
प्राज्ञाः शूराः कृज्ञाश्च पेशला मृदवश्च ये।
पांसुमुष्ट्येव मणयः श्रितया ते परुषीकृताः।।[1-2-18]
प्राज्ञाः पण्डिताः। कृतज्ञाः कृतोपकाराविस्मर्तारः। पेशलाः पटवः। `दक्षे तु चतुरपेशलपटव' इत्यमरः। मणयो रत्नादयः।।
श्रीमाजननिन्द्यश्च शूरश्चाप्यविकत्थनः।
समदृष्टिः प्रभुश्चेति दुर्लभाः पुरुषास्त्रयः।।[1-2-19]
जननिन्द्यो न भवतीत्यजननिन्द्यः। अविकत्थनः शूरोऽहं को नाम मत्सदृशोऽस्तीत्येवं प्रजल्परहितः। श्रीमानजननिन्द्यः पुरुषो दुर्लभ इत्यस्य दृष्टान्तत्वेनात्मस्तुतिरहितः शूरादिरुक्त इति ज्ञेयम्।।
मनोरमा कर्षति चित्तवृत्तिं कदर्थसाध्या क्षणभङ्गुरा च।
व्यालावलीगात्रविवृत्तदेहा श्वभ्रोत्थिता पुष्पलतेव लक्ष्मीः।।[1-2-20]
श्वभ्रोत्थिता श्वभ्राद्वल्मीकादिरन्ध्रादुत्पन्ना। `छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपाशुषि'रित्यमरः। पुष्पलतेव पुष्पयुक्तलतेव लक्ष्मीरापातसौन्दर्यान्मनोरमासती चित्तवृत्तिमाकर्षति। स्वाभिमुखीकरोतीर्यर्थः। कदर्थसाध्या कदर्थेन कुत्सितार्थेन नीचसेवादिजनितेन साध्या। व्यलावली गात्रविवृत्तदेहा व्यालाः शठाः। `भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयो'रित्यमरः। तेषामावल्या पङ्क्त्या गात्रेषु विवृत्तो लुठितो देहो यस्याः सा तथोक्ता। लतापक्षे तु व्यालवलीगात्रविवृत्तदेहा सर्पपङ्क्तिशरीरलुठितदेहा।।
आयुः पल्लवकोणाग्रलवाम्बुकणभङ्गुरम्।
उन्मत्तमिव संत्यज्य यात्यकाण्डे शरीरकम्।।[1-2-21]
लक्ष्मीनिन्दानन्तरं लक्ष्मीभोगनिमित्तमायुर्निन्दति-आयुरिति।। पल्लवस्य कोणोऽन्त्यभागस्तस्याग्रे लम्बमानोदकलेशवद्भङ्गशीलमायुरकाण्डेऽनवसरे। `काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिष्वि'ति नामानुशासनात्। शरीरं सन्त्यज्य यातीत्यन्वयः। अत्र दृष्टान्तः-उन्मत्तमिवेति।। यथानुन्मत्त उन्मत्तं त्यजति तद्वत्। अथवा उन्मत्तमिव स्थितं शरीरमिति संबन्धः।।
विषयाशीविषासङ्गपरिजर्जरचेतसाम्।
अप्रौढात्मविवेकानामायुरायासकारणम्।।[1-2-22]
ननु क्वचिद्दीर्घमायुरपि दृश्यते। सत्यम्। तदप्यात्मज्ञानानुपयोग्यमनर्थायैवेत्याह-विषयेति।। विषया एवाशीविषा भुजङ्गमास्तेष्वासङ्गेनासक्त्या संबन्धेन वा परिजर्जराणि प्रशिथिलानि चेतांसि येषां ते तथोक्तास्तेषाम्। अप्रौढोऽप्रवृद्धः आत्मविवेको येषां ते तथोक्तास्तेषाम्।।
वयं परिमिताकारपरिनिष्ठितनिश्चयाः।
संसाराभ्रतडित्पुञ्जे मुने नायुषि निर्वृताः।।[1-2-23]
पुनरप्यायुषोऽस्थिरत्वं प्रतिपादयति-वयमित्यादिश्लोकत्रयेण।। परिमितः परिच्छिन्न आकारो यस्यानात्मनस्तस्मिन् परिनिष्ठितनिश्चयाः स्थिरबुद्धयो वयं संसाराभ्रतडित्पुञ्जे संसारमेघविद्युत्समूहे आयुषि न निर्वृताः न सुखिनः।।
युज्यते वेष्टनं वायोराकाशस्य च खण्डनम्।
ग्रन्थनं च तरङ्गाणामास्था नायुषि युज्यते।।[1-2-24]
ग्रन्धनं बन्धनम्।।
पेलवं शरदीवाभ्रमस्नेह इव दीपकः।
तरङ्गक इवालोलं गतमेवोपलक्ष्यते।।[1-2-25]
पेलवं तनु। `पेलवं विरलं तन्वि'त्यमरः।।
अविश्रान्तमनाः शून्यमायुराततमीहते।
दुःखायैव विमूढोऽन्तर्गर्भमश्वतरी यथा।। [1-2-26]
ननूपायविशेषेण स्थिरमायुरपि संपादयन् कश्चित्पुरुषो लोके दृश्यते। सत्यम्। तदप्यब्रह्मविदस्तस्यानर्थायेत्याह-अविश्रन्तेति।। विमूढो विशेषेण मूढोऽतएव ब्रह्मण्यविश्रान्तमनाः। शून्यं व्यर्थमाततं विस्तीर्णमायुर्दुःखायैवेहते चेष्टते। संपादयतीत्यर्थः। अश्वतरीनामाश्वाद्गर्दभ्यामुत्पन्ना। तस्या गर्भस्तामेव हन्तीति प्रसिद्धम्।।
प्राप्यं संप्राप्यते येन भूयो येन न शोच्यते।
पराया निर्वृतेः स्थानं यत्तज्जीवितमुच्यते।।[1-2-27]
ज्ञानानुपयोग्यायुर्विनिन्द्य तदुपयोग्यायुः स्तौति उपादेयत्वायप्राप्यमिति श्लोकत्रये।। येन जीवितेन प्राप्यं ब्रह्म संप्राप्यते। अतएव येन जीवितेन जन्मान्तराप्राप्तया भूयो न शोच्यते। यज्जीवितमाप्रारब्धकर्मक्षयात्पराया विषयसुखविलक्षणाया निर्वृतेः सुखस्य स्थानं भवति तज्जीवितमुच्यते। सज्जीवितमुच्यत इत्यर्थः। कार्यस्तुतौ हि तत्कारणस्तुतिरवश्यं भवतीत्यायुषः कार्यभूतजीवितस्य प्राणधारमलक्षणस्य स्तुतिरत्र कृता।।
तरवोऽपि हि जीवन्ति जीवन्ति मृगपक्षिणः।
स जीवति मनो यस्य मननेनैव जीवति।।[1-2-28]
यस्य पुंसो मनो दुर्वासनापरवशं मननेनैव वस्तुतत्त्वविषयभूतनिरूपणेनैव जीवति। मननादिजनितसाक्षात्कारेण बाधितमेव भवति स जीवति। सम्यग्जीवतीत्यर्थः।।
जातास्त एव जगति जन्तवः साधुजीविताः।
ये पुनर्नेह जायन्ते शेषा जरठगर्दभाः।। [1-2-29]
जरठगर्दभाः जरायुक्तगर्दभाः।।
भारोऽविवेकिनः शास्त्रं भारो ज्ञानं च रागिणः।
अशान्तस्य मनो भारो भारोऽनात्मविदो वपुः।।[1-2-30]
अज्ञजीवितस्य वृक्षादिजीवितवद्दुर्जीवितत्वं दर्शयता तच्छरीरादेरपि दुष्टत्वमर्थाद्दर्शितं तद्विशदयति-भार इत्यादिश्लोकद्वयेन।। भारो यथा दुर्धरः स्वाधीनो न भवति एवमविवेक्यादेः शास्त्रादिकं स्वाधीनं न भवतीत्यर्थः। अविवेक्यत्र विवेकासमर्थो मन्दबुद्धिर्विवक्षितः। भारोऽनात्मविदो वपुरित्यस्य दृष्टान्ततयान्यत्सर्वमुपन्यस्तमिति ज्ञेयम्।।
रूपमायुर्मनो बुद्धिरहंकारः स्थिरेहितम्।
भारो बारवहस्येव सर्वं दुःखाय दुर्धियः।।[1-2-31]
नन्वात्मविदोऽपि वपुर्भार एव तत्र किमुच्यते भारोऽनात्मविदो वपुरिति। नैतत्। आत्मविदः शरीरस्यैवाभावात्। प्रातिभासिके तस्मिन्पूर्ववदभिनिवेशाभावात्तदीयलाभोच्छेदयोरौदासीन्यात्। स्थिरेहितं स्थिरचेष्टितम्। स्थिरकार्यविषयत्वात्स्थिरत्वमीहितस्य। स्थितेहितमिति क्वचित्पाठस्तत्रापि स एवार्थः।।
दिनैः कतिपयैरेव परिज्ञाय गतादरम्।
दुर्जनः सञ्जनेनेव यौवनेन वियुज्यते।।[1-2-32]
यौवनावस्थाया रूपादिकं सुखाय भवतीत्याशङ्क्य तस्यास्थिरत्वान्मैवमित्याहदिनैरिति। परिज्ञाय दुर्जन इति ज्ञात्वा गतादरमिति क्रियाविशेषणम्।।
स्थिरतया सुखभासितयानया सततमुज्झितमुत्तमफल्गुवत्।
जगति नास्ति तथा गुणवर्जितं मरणभाजनमायुरिदं यथा।।[1-2-33]
आयुर्निन्दामुपसंहरति-प्रसिद्धया स्थिरतया स्थिरत्वेन सततमुज्झितं त्यक्तं उत्तमफल्गु असत्यसारं तद्वत्तद्युक्तम्। `असारं फल्गुशून्यं त्वि'त्यमरः। मरणभाजनमिदमायुर्यथा गुणवर्जितं तथा गुणवर्जितमन्यद्वस्तु जगति नास्तीत्यर्थः।।
मुधैवाभ्युत्थितो मोहान्मुधैव परिवर्तते।
मिथ्यामयेन भीताः स्मो दुरहंकारवैरिणा।।[1-2-34]
आयुषोऽहंकारद्वारानर्थहेतुत्वात्तन्निन्दानन्तरं तदनर्थदानस्य प्रधानद्वारमहंकारं निन्दतिमुधैवेत्यादिभिः सप्तश्लोकैः।। दुष्टोऽहंकारो दुरहंकारः दुरहंकार एव वैरी दुरहंकारवैरी मोहादज्ञानान्मुधैव वृथैवाभ्युत्थितः आभिमुख्येनोद्गतः। अहंकारस्योत्पत्तौ वैयर्थ्यमुक्त्वाभिवृद्धौ तदाह-मुधैवेति।। मिथ्यामयेन मिथ्यास्वरूपेण। अहमिति तावत्प्रथमोऽध्यास इति ह्यचार्याः।।
अहंकारवशादापदहंकाराद्दुराधयः।
अहंकारवशादीहा नाहंकारात्परो रिपुः।।[1-2-35]
अहंकारस्य दुर्वैरित्वं साधयति-अहंकारवशादिति।। दुराधयो दुष्टा मनःपीडाः। ईहा वाञ्छा। पर उत्कृष्टः।।
तमहंकारमाश्रित्य परमं चिरवैरिणम्।
न भुञ्जे न पिबाम्यम्यः किमु भोगान्भजे मुने।।[1-2-36]
अहंकारस्य वेरित्वपरिज्ञानफलमाह-तमिति।।
अहंकारवशाद्यद्यन्मया भुक्तं हृतं कृतम्।
तत्तत्सर्वमवस्त्वेव वस्त्वहंकाररिक्तता।।[1-2-37]
ननु शत्रुमाश्रित्यापि लोके कस्यचिद्भोजनादौ प्रवृत्तिर्दृश्यते तद्वत्तव किं न स्यादित्यत आह-अहंकारवशादिति। अवस्त्वेवापरमार्थ एव। यथा स्वप्ने भुक्त्यादिकमहंकारवशात्कृतं मिथ्यैव तद्वज्जागरेऽपीत्यर्थः। अहंकाररिक्तता अहंकाररहितता। वस्तु परमार्थः।।
ब्रह्मन्यावदहंकारवारिदः परिजृम्भते।
तावद्विकासमायाति तृष्णाकुटजमञ्जरी।।[1-2-38]
अहंकारवशादित्युक्तं प्रपञ्चयति-ब्रह्मन्निति।। अहंकारवारिदः अहंकारमेघः। कुटजो वत्सकाख्यो वृक्षः। `जयोऽथ कुटजः शक्रो वत्सक' इत्यमरः। तृष्णैव कुटजस्य मञ्जरी। कुटजवृक्षो हि जलदागमे विकसन्मञ्जरीसंछन्नो भवति।।
निरहंकारवृत्तेर्मे मौर्ख्याच्छोकेन सीदतः।
यत्किंचिदुचितं ब्रह्मंस्तदाख्यातुमिहार्हसि।।[1-2-39]
एवं गुर्वनुशासनयोग्यतामात्मनो दर्शयित्वा तदनुशासनं प्रार्थयते-निरहंकारेति।। निरहंकारा वृत्तिर्वर्तने यस्य त तथोक्तस्तस्य। मौर्ख्यात् मौढ्यात्। `अज्ञे मूढयथाजातमूर्खवैधेयबालिशा'इत्यमरः। सीदतः अवसीदतः।।
सर्वापदां निलयमध्रुवमन्तरस्थमुन्मुक्तमुत्तमगुणेन न संश्रयामि।
यत्नादहंकृतिपदं परितोऽतिदुःखं शेषेण मां समनुशाधि महानुभाव।।[1-2-40]
सर्वापदामित्येतत्पूर्वस्य प्रपञ्चः। अहंकृतिपदं अहंकारवस्तु अहंकारस्थानं वा। `पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुष्वि'त्यमरः। अहंकृतिपदं यत्नान्न संश्रयामीति संबन्धाः। निलयमाश्रयः। अन्तरस्थं देहाभ्यन्तरस्थं। शेषेणाहंकारत्यागेन तत्साक्षितयावशिष्टेनानिदमंशेन समनुशाधि सम्यगनुशासनं कुरु। अत्र ध्वनितमर्थं वदामः। अहमिति शब्दं करोत्यहंकृद्गौस्तत्र वर्तमानं पदम्। यद्वाहंशब्दविषया कृतिः प्रयत्नो यस्या गोः साहंकृतिस्तस्याः पदं पादः। तथाचायमर्थः-अध्रुवं चञ्चलं अन्तरस्थं कुक्षिप्रदेशस्थं उत्तमगुणेन उत्तमरज्ज्वा उन्मुक्तं संत्यक्तं परितः समन्ततोऽतिदुःखं प्रहारादिना अतिशयितदुःखं यस्मात्तददान्तगोष्पदं यथा विवेकी न संश्रयते तदहंकारपदं न संश्रयामिति।।
दोषैर्जर्जरतां यातं सत्कार्यादार्यसेवितात्।
वातान्तः पिच्छलवच्चेतश्चलति चञ्चलम्।।[1-2-41]
अहंकारनिन्दानन्तरमहंकारकार्यं मनो निन्दति-दोषैरित्यादिभिरेकादशश्लोकैः।। चञ्चलं चेतो दौषैरागादिभिर्जर्जरतां शिथिलतां यातं सत् आर्यसेवितात् कार्यात् निःश्रेयससाधनानुष्ठानलक्षणाच्चलति। अथ सत्कार्यादित्येकं पदं चलनकर्तृत्वमात्रे दृष्टान्तः। वातान्तःपिच्छलववत् वायुमध्यस्थबर्हलेशवत्।।
इतश्चेतश्च सुव्यग्रं व्यर्थमेवाभिधावति।
दूराद्दूरतरं दीर्घं ग्रामे कौलेयको यथा।।[1-2-42]
ननु सतिप्रयोजने चलनं न दोषायेत्यत आह-इतश्चेति।। तरबर्थस्य दूरातिशयस्य शतयोजनादिषु पर्यवसानं वारयितुं दीर्घमित्युक्तम्। कोलेयकः श्वा। `कौलेयकः सारमेयः। कुक्कुरो मृगदंशकः। शुनको भषकः श्वा स्या'दित्यमरः।।
न प्राप्नोति क्वचित्किंचित्प्राप्तैरपि महावनैः।
नान्तः संपूर्णतामेति करण्डकमिवाम्बुभिः।।[1-2-43]
व्यर्थमेवानुधावतीत्यनुपपन्नं क्वचिदर्थप्राप्तेरपि दर्शनात्तत्राह-प्राप्तैरपीति।। करण्डकमत्र वंशनिर्मितकण्डोलम्।।
क्रूरेम जडतां यातस्तृष्णाभार्यानुगामिना।
शवः कौलेयकेनेव ब्रह्मन्भुक्तोऽस्मि चेतसा।।[1-2-44]
न केवलं चतेसः चलनं व्यर्थमनर्थदं चेत्याह-क्रूरेणेति।। जडतामविवेकतां तृष्णैव भार्या तामनुगच्छतीति तृष्णाभार्यानुगामी तेन। यथा शुनीं भार्यामनुगच्छता शुनकापरपर्यायेण कौलेयकेन शवो भुक्तो भवति तथा चेतसोक्तविशेषणेन भुक्तोऽस्मि उपद्रुतोऽस्मीत्यर्थः।।
अवान्तरनिपाताय शून्ये वा भ्रमणाय च।
तृणं चण्डानिलेनेव दूरं नीतोऽस्मि चेतसा।।[1-2-45]
पातालाद्गच्छता पृथ्वीं पृथ्व्याः पातालगामिना।
कूपकाष्ठं कुदाम्नेव वेष्टितोऽस्मि कुचेतसा।।[1-2-46]
न केवलं जीवतो मे दुःखकारणं चित्तं मृतस्य नरकतिर्यगादियोनिप्रापककर्मबीजं चेत्याह-अवान्तरेति श्वलोकद्वयेन।। अवान्तरनिपात आरूढपातित्वम्। शून्ये भ्रमणं पुरुषार्थसाधनशून्ये तिर्यगादियोनौ भ्रमणम्। तृणपक्षे शून्ये भ्रमणं निराकारे गगने परिभ्रमणम्।।[1-2-45,46]
मिथ्यैव स्फाररूपेण विचाराद्विसरारुणा।
बालो वैतालिकेनेव गृहीतोस्मि कुचेतसा।।[1-2-47]
ननु `अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः' इत्यात्मतत्त्वप्रतिपादकश्रुतेस्तव चेत एव नास्ति कुतस्तत्प्रेर्यत्वमित्याशङ्क्याह-मिथ्यैवेति।। स्फाररूपेण भूरिरूपेण। विसरारुणा विसरणशीलेन। यथा बाल आत्मच्छायादावारोपितवेतालेन गृहीतो भवति तद्वदित्यर्थः। मिथ्यैव स्फारत्वं तद्विचाराद्विरारुत्वं च चेतोवैतालिकयोः समानम्।।
वह्नेरुष्णतरः शैलादपि कष्टतरक्रमः।
वज्रादपि दृढो ब्रह्मन्दुर्निग्रहमनोग्रहः।।[1-2-48]
नन्वेवं दुश्चेष्टितं चेतो निगृह्यतामित्यत आह-वह्नेरित्यादि।। कष्टतरक्रमः पादविक्षेप आरोहणं यस्य स तथोक्तः। मनोग्रहः मनोभूतम्।।
अप्यब्धिपानान्महतः सुमेरून्मूलनादपि।
अपि वह्न्यशनात्साधो विषमश्चित्तनिग्रहः।।[1-2-49]
सुमेरून्मूलनान्मेरूत्पाटनात्। वन्ह्यशनादग्निभक्षणात्।।
चित्तं कारणमर्थानां तस्मिन्सति जगत्त्रयम्।
तस्मिन्क्षीणे जगत्क्षीणं तच्चिकित्स्यं प्रयत्नतः।।[1-2-50]
एवं चित्तनिग्रहोऽतिदुष्करश्चेत्तर्हि तुमुपेक्ष्यान्तदेव कर्तव्यं पुरुषार्धायेत्यत आह-चित्तमित्यादि।। अर्थानामाकाशादिपदार्थानां चित्तं कारणमुपादानकारणम्। तथाचोक्तं संक्षेपशारीरके-`मुक्तामुक्तौ विद्वदज्ञौ त्वदन्यावाकाशादिक्ष्मावसानं च विश्वम्। स्वाविद्योत्थं स्वान्तनिष्पन्दनं तद्विज्ञातव्यं माग्रहीरन्यथैतदि'ति। तस्मिंश्चित्ते सति वर्तमाने जगत्त्रयं तत्कार्यभूतं वर्तते। तस्मिन्कारणे क्षीणे नष्टे सति तत्कार्यं जगत् क्षीणमेव भवति। अतस्तच्चित्तमेव पुरुषार्थाय प्रयत्नतो वक्ष्यमाणाच्चिकित्स्यं चिकित्सनीयम्। गृहीतव्यमित्यर्थः।।
चित्तादिमानि सुखदुःखशतानि नूनमभ्यागतान्यगवरादिव काननानि।
तस्मिन्विवेकवशतस्तनुतां प्रयाते मन्ये मुने निपुणमेव गलन्ति तानि।।[1-2-51]
अगवरात्पर्वतश्रेष्ठात्। `शैलवृक्षौ नगावगावि'त्यमरः। तस्मिन् चित्ते। तनुतां कृशताम्। निपुणमेव गलन्ति। सम्यगेव नश्यन्तीत्यर्थः। गलन्तीति मन्य इति संबन्धः।।
हार्दान्धकारशर्वर्या तृष्णयैव दुरन्तया।
स्फुरन्ति चेतनाकाशे दोषकौशिकपङ्क्तयः।।[1-2-52]
मनसस्तृष्णाद्वारानर्थहेतुत्वान्मनोनिन्दान्तरं तृष्णां निन्दति हेयत्वाय-हार्देत्यादिचतुर्दशश्लोकैः।। दृद्गता हार्दा अन्धकारयुक्ता शर्वर्यन्धकारशर्वरी चन्द्रिकारहिता रात्रिः हार्दा चासावन्धकारशर्वरी चेति तथा तया हार्दान्धकारशर्वर्येति तृष्णा विशिष्यते। दुरन्तया दुःखावसानया। चेतनाकाशे चेतन एवाकशस्तस्मिन् दोषकौशिकपङ्क्तयः दोषाः क्रोधादयस्त एव कौशिका उलूकास्तेषां पङ्क्तयः। `महेन्द्रगुग्गुलूलूकाव्यालग्राहिषु कौशिक' इत्यमरः। प्रसिद्धान्धकारशर्वरी प्रसिद्धाकाशुलूकपङ्क्तीनां स्फुरणहेतुरिति प्रसिद्धम्।।
यां यामहमवीतास्थं संश्रयामि गुणश्रियम्।
तां तां कृन्तति मे तृष्णा तन्त्रीमिव कुमूषिका।।[1-2-53]
न केवलं दोषानेवोत्पादयति तृष्णा गुणांश्च नाशयतीत्याह-यां यामिति। अवीतास्थं ्विगतासक्ति यथाभवति तथा। गुणश्रियं गुणशोभाम्।।
गन्तुमास्पदमात्मीयमसमर्थधियो वयम्।
तृष्णाजाले विमुह्यामो जाले शकुनयो यथा।।[1-2-54]
विस्तरेण तृष्णां निन्दति-गन्तुमिति।। आत्मीयमास्पदं स्वस्वरूपम्। निरस्ताशेषक्लेशं परमानन्दलक्षणम्। जालमानायः शकुनिपक्षे त्वात्मीयमास्पदं खनीडम्।।
तृष्णाभिधानया तात दग्धोऽस्मि ज्वालया तथा।
यथा दाहोपशमनमाशङ्के नामृतैरपि।।[1-2-55]
निरतिशयदुःखहेतुतया तृष्णां निन्दति-तृष्णाभिधानयेति।। अमृतैः सुधाभिः अमृतैरपि यथा दाहोपशमनं नाशङ्के तथा दग्धोऽस्मीति संबन्धः।।
भीषयत्यपि धीरेहमन्धयत्यपि सेक्षणम्।
खेदयत्यपि शान्तेहं तृष्णा कृष्णेव शर्वरी।।[1-2-56]
ननु धीरस्य विचारवतस्तृष्णानुकूलव्यापाररहितस्य तव कथं तृष्णादाहकरीत्यत आह-भीषयत्यपीति।। धीरा धैर्ययुक्ता ईहा चेष्टा यस्य स धीरेहस्तं सहेक्षणेन विचाराख्येन वर्तत इति सेक्षणस्तं शान्ता ईहा चेष्टा यस्य स तथा तं खेदजनकव्यापाररहितमपि खेदयतीत्यर्थः।।
अनावर्जितचित्तापि सर्वमेवानुधावति।
न चाप्नोति फलं किंचित्तृष्णा जीर्णेव कामिनी।।[1-2-57]
अन्यदपि तृष्णाया दौरात्म्यं वृद्धा सत्कामिनीदृष्टान्तेनाह-अनावर्जितेति।। अनावर्जितमवशीकृतं चित्तं यया सा तथोक्ता। दुर्जनं सज्जनं सर्वमेवानुदावत्यनुसरति। पुरुषस्यानुधावनं तृष्णाप्रमौपचारिकं द्रष्टव्यम्।।
यन्न शक्नोति तत्रापि धत्ते ताण्डविनीं गतिम्।
नृत्यत्यानन्दरहितं तृष्णा जीर्णेव नर्तकी।।[1-2-58]
प्रकारान्तरेण तृष्णां निन्दति-यन्न शक्नोतीति।। ताण्डविनीं नर्तनवतीं गतिं धत्ते। नृत्यती गच्छतीत्यर्थः। गत्वानन्दरहितं यथा भवति तथा नृत्यती गच्छतीत्यर्थः। गत्वानन्दरहितं यता भवति तथा नृत्यति। अशक्यमप्यर्थं साधयितुं ससंभ्रमं गच्छति। तृष्णया वननैव सुखं कष्टते इत्यर्थः।।
पदं करोत्यलङ्घ्येऽपि तृप्तापि फलमीहते।
चिरं तिष्ठति नैकत्र तृष्णा चपलमर्कटी।।[1-2-59]
असाध्येऽपि विषये जायमानत्वदुःपूरत्वास्थिरत्वलक्षणदोषान्तराण्याह-पदमिति।।
क्षणमायाति पाताले क्षणं याति नभस्तलम्।
क्षणं भ्रमति दिक्कुञ्जे तृष्णा हृत्पद्मषट्पदी।।[1-2-60]
एकत्रानवस्तानमेव दर्शयति-क्षणमिति।। षट्पदी अलिनी।।
सर्वसंसारदोषाणां तृष्णैका दीर्घदुःखदा।
अन्तःपुरस्थमपि या योजयत्यतिसङ्कटे।।[1-2-61]
किं बहुना, संक्षेपेण श्रूयतां तृष्णाया दौष्ट्यमित्यभिप्रेत्याह-सर्वेति।। सर्वेषां संसारदोषाणां मध्ये।।
लोकोऽयमखिलं दुःखं चिन्तयोज्झितयोज्झति।
दृष्णाविषूचिकामन्त्रश्चिन्तात्यागो हि कत्यते।।[1-2-62]
कस्तर्हि तृष्णात्यागोपाय इत्यत आह-लोकोऽयमिति।। अयं लोको जनः उज्झितया त्यक्तया चिन्तया पापभूतयाखिलं दुःखमुज्झति त्यजतीत्यविवादम्। तत्र चिन्तात्यागो दुःखकारणभूततृषअणात्यागसंपादनद्वारैव दुःखस्याखिलस्य त्यागहेतुरिति युक्तं अत आह-तृष्णाविषूचिकेति।। हिशब्दः प्रसिद्धौ। चिन्तात्यागो विषयचिन्तात्यागः तृष्णाविषूचिकामन्त्रः कथ्यते हीत्यन्वयः। तृष्णैव विषूचिकाख्यो रोगः तन्निवर्तनो मन्त्रस्तृष्णाविषूचिकामन्त्रः। विषयेषु रमणीयत्वचिन्तया हि तत्र तृष्णा जायते तत्र चिन्तापरित्यागेन रागापरपर्याया तृष्णा न जायते अतो युक्तमुक्तं चिन्तात्यागस्तृष्णाविषूचिकामन्त्र इति।।
रोगार्तिरङ्गनातृष्णा गम्भीरमपि मानवम्।
उत्तानतां नयत्याशु सूर्यांशव इवाम्बुजम्।।[1-2-63]
सर्वदोषाणां मध्ये तृष्णा दीर्घदुःखदेत्युक्तं द्रढयितुं पुनस्तृष्णां निन्दति-रोगार्तिरित्यादिश्लोकत्रयेण। उत्तानतां स्तनंधयप्रसिद्धावाङ्मुखशायिताविरोधिनीं शरीरसंस्थाम्।।
नासिधारा न वज्रग्निर्न तप्तायःकणार्चिषः।
तता तीक्ष्णा यथा ब्रह्मन् तृष्णेवं हृदि संस्थिता।।[1-2-64]
अपि मेरूपमं प्राज्ञमपि शूरमपि स्थिरम्।
तृणीकरोति तृष्णैषा निमिषेण नरोत्तमम्।।[1-2-65]
वज्राग्निरशनिर्दहनः। तप्तायः कणार्चिषस्तप्तलोहकणानां ज्वालाः।।[1-2-64,65]
आर्द्रान्त्रतन्त्रीगहनो विकारी परितापवान्।
कायः स्फुरति संसारे सोऽपि दुःखाय केवलम्।।[1-2-66]
एवं मुधैवाभ्युत्थितो मोहादित्यादिभिरपि मेरूपसं प्राज्ञमित्येतदन्तैर्लिङ्गशरीरं सधर्मं विनिन्द्य स्थूलशरीरं निन्दति-आर्द्रेत्यादिभिर्नवभिः। अन्त्राणि शिराः। आर्द्रान्त्राण्येव तन्त्र्स्ताभिर्गहनो दुःप्रवेश आर्द्रान्त्रतन्त्रीगहनः। परितापवान् परितस्तापो दुःखं तद्वान्। परिपातवानिति क्वचित्। शिरस्तुम्बकनिबद्धैककोटिः कायः कुवीणादण्डवस्फुरति प्रकाशते।।
स्तोकेनानन्दमायाति स्तोकेनायाति खेदताम्।
नास्ति देहसमः शोच्यो नीचो गुणविवर्जितः।।[1-2-67]
स्तोकेनाल्पेन।।
कलेवरमहंकारगृहस्थस्य महागृहम्।
लुण्ठत्वभ्येतु वा स्थैर्यं किमनेन मुने मम।।[1-2-68]
कलेवरमिति।। कलेवरं शरीरम्। अहंकार एव गृहस्थस्तस्य लुण्ठतु पर्येतु नश्यत्वित्यर्थः। ममासङ्गस्यानेन कलेवरेण किं, न किमपि भवति।।
पङ्क्तिबद्धेन्द्रियपशुं चलत्तृष्णागृहाङ्गनम्।
चित्तभृत्यकृतानन्दं नेष्टं देहगृहं मम।।[1-2-69]
पङ्क्तिबद्धेन्द्रियपशुं पङ्क्तिरूपेण बद्धा दशेन्द्रियपशवो यस्मिंस्तत्तथा। चलत्तृष्णागृहाङ्गनं तृष्णैव गृहाङ्गना चलती गृहाङ्गना यस्मिंस्तत्तथा। चित्तभृत्यकृतानन्दं चित्तमेव भृत्यस्तस्मिन्नेव कृत उत्पादित आनन्दो येन तत्तथोक्तम्। यथा लोके पङ्क्तिबद्धाऽदान्तानेकपशुभिर्निरवकाशीकृतं परगृहगमनादीक्षया चलदङ्गनं भृत्यायैव दत्तानन्दं गृहं विवेकिन इष्टं न भवति तथा ममापि देहमित्यर्थः।।
जिह्वामर्कटिकाक्रान्तवदनद्वारभीषणम्।
दृष्टदन्तास्थिशकलं नेष्टं देहगृहं मम।।[1-2-70]
जिह्वेति।। जिह्वामर्कटिकाक्रान्ततवदनद्वारभीषणम्। जिह्वैव मर्कटिका तयाक्रान्तेन वक्त्रापरपर्यायवदनद्वारेण भीषणं भयङ्करम्। दृष्टन्तास्थिशकलं दन्ता एवास्थिशकलानि दृष्टानि दन्तास्तिशकलानि यस्मिंस्तत्तथोक्तम्।।
किं श्रिया किं च राज्येन किं कायेन किमीहया।
दिनैः कतिपयैरेव कालः सर्वं निकृन्तति।।[1-2-71]
रक्तमांसमयस्यास्य सबाह्याभ्यन्तरं मुने।
नाशैकधर्मिणो ब्रूहि कैव कायस्य रम्यता।।[1-2-72]
जराकाले जरामेति मृतिकाले तथा मृतिम्।
सममेवाविशेषज्ञः कायो भोगिदरिद्रयोः।।[1-2-73]
किं श्रियेति।। श्रीर्धनधान्यादिसंपत्तिः। ईहा चेष्टा।।[1-2-71,72,73]
तडित्सु शरदभ्रेषु गन्धर्वनगरेषु च।
स्थैर्यं येन विनिर्णीतं स विश्वसतु विग्रहे।।[1-2-74]
विग्रहे शरीरे।।
लब्ध्वापि तरलाकारे कार्यभारतरङ्गिणि।
संसारसागरे जन्म बाल्यं दुःखाय केवलम्।।[1-2-75]
एवं देहं विनिन्द्य तदवस्थां विनिन्दितुं प्रवर्तमानो बाल्यमादौ निन्दति-लब्ध्वापीत्यादिभिरष्ठभिः श्लोकैः।। अपिशब्दो गर्हायाम्। `गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपी'त्यमरः। तरलाकारे चञ्चलाकारे कार्यभारतरङ्गिणि कार्याणां कर्तव्यानामैहलौकिकपारलौकिकानां भारास्तरङ्गा यस्मिन्संसारसागरे स तथोक्तस्तस्मिन्। जन्म लब्ध्वापि वर्तमानस्येत्यध्याहारः।।
अशक्तिरापदस्तृष्णा मूकता मूढबुद्धिता।
गृध्नुता लोलता दैन्यं सर्वं बाल्ये प्रतिष्ठितम्।।[1-2-76]
अशक्तिरिति।। तृष्णा अर्थमात्रविषयाकाङ्क्षा। गर्धोऽर्थविशेषविषयाभिकाङ्क्षालोलुपता।।
मनः प्रकृत्यैव चलं बाल्यं चञ्चलतापरम्।
तयोः संश्लिष्यतोस्तात किवान्तः कुचापले।।[1-2-77]
मन इति।। संश्लिष्यतोः संमिलितयोः सतोः कुचापले कुत्सितचापलत्वे कोऽन्तोऽस्ति, न कोऽपि। कुचापलत्वस्यान्त एव नास्तीत्यर्थः। क इवेत्यत्र इवशब्दोऽवधारणे।।
स्त्रीलोचनैस्तडित्पुञ्जैर्ज्वालामालैस्तरङ्गकैः।
चापलं शिक्षितं ब्रह्मञ्शेशवाक्रान्तचेतसः।।[1-2-78]
शैशवाक्रान्तचेतसः शैशवं शिशुत्वं तेनाक्रान्तं चेतो यस्य स तथोक्तस्तस्माद्बाल्यात्। यद्वा शैशवाक्रान्तं च तच्चेतश्च तस्मात्।।
स्तेकेन वशमायाति स्तोकेनैव विकारिताम्।
अमेध्य एव रमते बालः कौलेयको यथा।।[1-2-79]
स्तोकेनेति।। स्तोकोऽल्पः। कौलेयकः शुनकः।।
संहृष्टो भुवनं भोक्तुमिन्दुमादातुमम्बरात्।
वाञ्छते येन मौर्ख्येण तत्सुखाय कथं भवेत्।।[1-2-80]
भुवनं भोक्तुं यत्किंचिद्दृष्टं तद्भक्षयितुम्। अम्बरादाकाशात् लवणाक्तफलशकलशालिदध्योदनकवलशङ्कयेन्दुमादातुं च येन मौर्ख्येण वाञ्छते इच्छति तन्मौर्ख्यं मौढ्याद्यपरपर्यायं सुखाय कथं भवेत्। न कथंचित्।।
शैशवे गुरुतो भीतिर्मातृतः पितृतस्तथा।
जनतो ज्येष्ठबालाच् शैशवं भयमन्दिरम्।।[1-2-81]
शैशवे शिशुत्वे। ज्येष्ठबालाद्वयोधिकबालात्।।
सकलदोषदशाभिहताशयं भवनमप्यविवेकविलासिनः।
इह न कस्यचिदेव महामुने भवति बाल्यमिदं परितुष्टये।।[1-2-82]
बाल्यं दुःखाय केवलमिति प्रतिज्ञाय प्रसाधितमुपसंहरति-सकलेति।। दोषा रागादयः सकलाभिर्दोषदशाभिरभिहत उपद्रुत आशयोऽन्तःकरणं यस्मिंस्तत्तथा। अविवेकविलासिनो भवनमपि अविवेकविटस्यास्पदं च बाल्यमिह संसारे कस्यचिदपि पुरुषस्यालमत्यर्थं परितुष्टये परितोषायन भवति प्रत्युतात्यन्तदुःखायैव भवतीत्यशयः।।
बाल्यावस्थामथ त्यक्त्वा पुमानभिहताशयः।
आरोहति निपाताय यौवनं संभ्रमेण तु।।[1-2-83]
अनेकदोषास्पदं बाल्यं भवतु नाम दुःखाय, यौवनं तु शक्तत्वपटुवाक्त्वा दिगुणवत्त्वात्सुखाय भवतीत्याशङ्क्य सप्तभिः श्लोकैस्तन्निन्दतिबाल्येति।। अभिहतः कामादिभिरुपद्रुत आशयोऽन्तःकरणं यस्य स तथा। निपाताय यौवनाद्भ्रंशाय।।
स्वचित्तबिलसंस्थेन नानाविभ्रमदायिना।
बलात्कामपिशाचेन विवशः परिभूयते।।[1-2-84]
स्वचित्तमेव बिलं छिद्रं तस्मिन्संस्था सम्यक्स्थितिर्यस्य स तथोक्तः तेन नानाविभ्रमदायिना कामः स्त्रीविषयः स एव पिशाचस्तेन।।
विस्तीर्णापि प्रसन्नापि पावन्यपि हि यौवने।
मतिः कलुषतामेति प्रावृषीव तरङ्गिणी।।[1-2-85]
विस्तीर्णा बह्वर्थदर्शिनी। कलुषतां आविलताम्।।
शरीरमरुतापोत्थां युवतामृगतृष्णिकाम्।
मनोमृगाः प्रधावन्तः पतन्ति विषयावटे।।[1-2-86]
शरीरमरुतापोत्थां शरीरमेव मरुभूमिस्तत्र कालानुगृहीतवैश्वानरतापादुत्पन्नाम्। युवतामृगतृष्णिकाम्। युवतां मृगतृष्णिकामिति वा पाठः। युवता यौवनं तदेव मृगतृष्णिका मरीचिकोदकता ताम्। अवटो गर्तः।।
यदा यदा परां कोटिमध्यारोहति यौवनम्।
वल्गन्ति सज्वराः कामास्तदा नाशाय केवलम्।।[1-2-87]
यौवनस्य प्रारम्भे दोषमाख्याभिवृद्धौ तमाह-यदेति। परां कोटिमुपरितनं विभागं यौवनं यदायदाभिवृद्धिं प्राप्नोतीत्यर्थः। ज्वरोऽत्र कामजः। कामाः कामिनः।।
ते वन्द्यास्ते महात्मानस्य एव पुरुषा भुवि।
ये सुखेन समुत्तीर्णाः साधो यौवनसंकटात्।।[1-2-88]
एवं यौवनदोषानाख्याय तत्प्रयुक्तकामादिनेहपरयोर्दुःखबीजं संपाद्य ततो निर्गतान् तन्निस्तारे महायत्नः कर्तव्यो मुमुक्षुणेति दर्शयितुम्-ते वन्द्या इति।।
विनयभूषितमार्यजनास्पदं करुणयोज्ज्वलमावलितं गुणैः।
इह हि दुर्लभमङ्गलयौवनं जगति काननमम्बरगं यथा।।[1-2-89]
यौवनस्य दोषास्पदत्वमुक्त्वा गुणवैधुर्यमाह-विनयेति।। आवलितं आवेष्टितम्। इह जगतीति संबन्धः।।
मांसपाञ्चालिकायास्तु यन्त्रलोलेऽङ्गपञ्जरे।
स्नाय्वस्थिग्रन्थिसालिन्याः स्त्रियाः किमिव शोभनम्।।[1-2-90]
यौवनस्य स्त्रीद्वारा प्रायेणानर्थकरत्वात्तन्निन्दानन्तरं तदनर्थकरणद्वारं स्त्रियं निन्दति-मांसेत्यादिना।। पाञ्चालिका वस्त्रादिकृता पुत्रिका। `पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता' इत्यमरः। मांसपाञ्चालिकायाः मांसनिर्भितपुत्रिकायाः। स्नाय्वस्थिग्रन्थिसालिन्याः स्नायवो वस्नसाः देहबन्धनानि। `अन्त्रं पुरीतद्गुल्मस्तु प्लीहा पुंस्यथ वस्नसा। स्नायुः स्त्रियां कालखण्डयकृती तु समे इमे' इत्यमरः। स्नायूनामस्थीनां च ग्रन्थिभिः। यद्वा स्नायुभिरस्थिभिर्मांसग्रन्थिभिश्च शालते शोभते इति तथोक्ता तस्याः स्त्रिया अङ्गपञ्जरे अङ्गनीडे। कीदृशे। यन्त्रलोले जलयन्त्रादिवच्छञ्चले।।
त्वङ्मांसरक्तबाष्पाम्बु पृथक्वृत्वा विलोचनम्।
समालोकय रम्यं चोत्किं मुधा परिमुह्यसि।।[1-2-91]
ननु यस्या लोचने लोलेन्दीवररमणीये स्तनौ च परिलुठद्धवलहारवलितौ कनककलशरुचिरौ तस्याः स्त्रियाः अङ्गपञ्जरे किमिव शोभनमिति कथमाक्षिप्यत इति शङ्कां श्लोकत्रयेण परिहरति-त्वगित्यादिना।। बाष्पाम्बु अश्रुः। त्वङ्मासेत्यादिद्वन्द्वैकवद्भावः। त्वङ्भांसादिसमूहात्मकं हि लोचने तत्त्वदृष्ट्या रम्यं चेत्तर्हि त्वगादिकं पृथक्वृत्य लोचनं समालोचय सम्यक्पश्य। मुधावृथा।।
मेरुश्रृङ्गतटोल्लासिगङ्गाजलरयोपमा।
दृष्टा यस्मिन्स्तने मुक्ताहारस्योल्लसशालिता।।[1-2-92]
श्मशानेषु दिगन्तेषु स एव ललनास्तनः।
श्वभिराखाद्यते काले लघुपिण्ड इवान्धसः।।[1-2-93]
यस्मिन्स्तने मुक्ताहारस्योल्लासशालिता मेरुशृङ्गातटोल्लासिगङ्गाजलरयोपमा दृष्टा स ललनास्तन एव दिगन्तेषु श्मशानेषु अन्धसो लघुपिण्ड इव काले श्वभिरास्वाद्यत इति द्वितीयेनान्वयः। मेरुशृङ्गतटे उल्लसत्युद्दीप्यत इति मेरुशृङ्गतटोल्लासि। यद्वा मेरुशृङ्गतटे उल्लासि उच्चलत् गङ्गाजलं तस्य रयेण रयेण वेगेन उपमा यस्या उल्लासशालितायाः उल्लासेनोल्लुण्ठनेन शालते शोभत इत्युल्लासशाली तस्य भावस्तत्ता। अन्धसोऽन्नस्य। `भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री' इत्यमरः।।[1-2-92,93]
केशकञ्जलधारिण्यो दुःस्पर्शा लोचनप्रियाः।
दुष्कृताग्निशिखा नार्यो दहन्ति तृण्वन्नरान्।।[1-2-94]
केशेति। केशकज्जलदारिण्यः केशा एव कज्जलानि मष्यः तानि धारयन्तीति तथा दुःखदत्वात्। दुःस्पर्शाः। दुष्कृताग्निशिखाः दुष्कृतानि पापान्येवाग्नयस्तेषां शिखा ज्वालाः।।
ज्वलतामतिदूरेऽपि सरसा अपि नीरसाः।
स्त्रियो हि नरकाग्नीनामिन्धनं चारु दारुणम्।।[1-2-95]
ज्वलतामिति।। स्त्रियोऽतिज्वलतां नरकाग्नीनां चारु दारुणमिन्धनं भवतीति संबन्धः। चारुशब्देनाद्भुतत्वमत्र विवक्षितम्। दारुणं भयङ्करम्। स्त्रीणां चार्विन्धनीभावं साधयितुं विशेषणम्। सरसा अपि नीरसा इति।। रसः सारः। भ्रान्तदृष्ट्या सरसा अपि तदितरया नीरसा निःसारा इत्यर्थः। रसशब्देन द्रवोऽप्युच्यते। इन्धनं हि लोके सरसं नीरसं वा भवति। यतो दूरे स्थिता अपि नरकलक्षणाग्नीनुद्दीपयन्ति अतोऽपि चार्विन्धनं दारुणेन्धनं च भवति।।
कामनाम्ना किरातेन विकीर्णा मुग्धचेतसाम्।
नार्यो नरविहङ्गानामङ्गबन्धनवागुराः।।[1-2-96]
कामनाम्नेति। नार्यो मुग्धचेतसां मूढचित्तानां नरविहङ्गानां नरपक्षिणां कामनाम्ना किरातेन विकीर्णा विक्षिप्ता अङ्गबन्धनवागुरा अवयवबन्धनजालानि भवन्ति। अङ्गेन संबोधनं वा। मृगबन्धनवाचकेन वागुराशब्देनेह जालानि लक्ष्यन्ते।।
जन्मपल्वलमत्स्यानां चित्तकर्दमचारिणाम्।
पुंसां दुर्वासनारञ्जौ नारीबडिशपिण्डिका।।[1-2-97]
जन्मपल्वलमत्स्यानां जन्मैव पल्वलमल्पसरः। `वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिके' त्यमरः। तस्य मत्स्यानां चित्तमेव कर्दमः पङ्कस्तच्चारिणां पुंसां ग्रहणाय दुर्वासनैवाविवेकाख्यकैवर्तहस्तस्था रज्जुर्भवति नारी तु बडिशापिण्डिका भवति। बडिशस्य मत्स्यवेधस्य रज्ज्वग्रवर्तीलोहादिशङ्क्वग्रनिहितमत्स्यहारपिण्डो भवतीत्यर्थः।।
सर्वेषां दोषरत्नानां सुसमुद्गिकयानया।
दुःखशृङ्खलया नित्यमलमस्तु मम स्त्रिया।।[1-2-98]
एवं स्त्रीदोषान्प्रदर्श्य तत्परिज्ञानफलमाह-सर्वेषामिति।। दोषा एव रत्नानि तेषां समुद्गिकया शोभनसंपुटिकया। `समुद्गकः संपुटक' इत्यमरः। श्रृङ्खलया दुःखप्रदश्रृङ्खलारूपया स्त्रिया अलमस्तु। अलंशब्दो वारणे। `अलं भूषणपर्याप्तिशक्तिवारणवाचक'इत्यमरः।।
इतो मांसमितोरक्तमितोऽस्तीनीति वासरैः।
ब्रह्मन्कतिपयैरेव याति स्त्री विसरारुताम्।।[1-2-99]
अस्थिरत्वाच्चालं स्त्रियेत्याह-इत इति।। विसरारुतां विसरणशीलताम्।।
यस्य स्त्री तस्य भोगेच्छा निस्त्रीकस्य क्व भोगभूः।
स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा सुखी भवेत्।।[1-2-100]
ननु भोगेच्छायां सत्यामलमस्तु मम स्त्रियेति कथमुच्यते तत्राह-यस्य स्त्रीति।। यस्य पुंसः स्त्र्यस्ति तस्य भोगेच्छास्ति। भोगेच्छाभावे निपुणस्य तत्परिग्रहासंभवात् निस्त्रीकस्य स्त्रीपरिग्रहवर्जकस्य भोगभूः क्व भोगेच्छा कुत्र, न कुत्रापि। भोगेच्छायां सत्यां तत्परिग्रहवर्जनासंभवात्। भवत्वेवं तथापि स्त्रीत्यागमात्रात् किं भवेत्तत्राह-स्त्रियमिति।।
आपातमात्ररमणेषु सुदुस्तरेषु भोगेषु नाहमलिपक्षतिचञ्चलेषु।
ब्रह्मन् रमे मरणरोगजरादिभीत्या शाम्याम्यहं परमुपैमि पदं प्रयत्नात्।।[1-2-101]
प्रकरणार्थमुपसंहरति-आपातेति।। विषयाणामिन्द्रियाणां प्रत्यापतनमापातो विषयेन्द्रियसंबन्धः। आपातमात्रे आपातसमय एव रमयन्तीति तता तेषु। आपातमात्रतो रमणं रतिर्येभ्यस्ते तथा तेष्विति वा दुस्तरेषु अलिपक्षतिञ्चलेषु भ्रमरपक्षांशचञ्चलेषु यथाहुः-`पक्षतिः पक्षमूलं स्यात्पक्षांशश्चे'ति।।
अपर्याप्तं हि बालत्वं बलात्पिबति यौवनम्।
यौवनं च जरा पश्चात्पश्य कर्कशतां मिथः।।[1-2-102]
यौवनस्य प्रायेणानर्थकरणद्वारं स्त्रियं निन्दित्वा यौवनानन्तरभाविनीं जरामुत्तरग्रन्थसन्दर्भेण निन्दितुं प्रस्तौति बाल्यादीनां बाध्यबाधकभावं दर्शयन्-अपर्याप्तमिति।। अपर्याप्तमसमर्थं यौवनरक्षःसंतृप्तये बालत्वं बालभावं पिबति। यौवनं च जरा बलात्पिबति। कर्कशताम्। क्रूरतामित्यर्थः।।
अनायासकदर्थिन्या गृहीते जरया जने।
पलाय्य गच्छति प्रज्ञा सपत्न्येवाहताङ्गना।।[1-2-103]
दासाः पुत्राः स्त्रियश्चैव बान्धवाः सुहृदस्तथा।
हसन्त्युन्मत्तकमिव नरं वार्धककम्पितम्।।[1-2-104]
अनायासकदर्थिन्येत्यादिश्लोकाः स्पष्टार्थाः। तत्र कानिचित्पद्यानि व्याख्यायन्ते। अनायासेन कदर्थयति क्लेशयतीत्यनायासकदर्थिनी।।[1-2-103.104]
दुःप्रक्ष्यं जरठं दीनं हीनं गुणपराक्रमैः।
गृध्रो वृक्षमिवादीर्घं गर्धो ह्यभ्येति वार्धकम्।।[1-2-105]
जरठं वृद्धं गर्धोऽर्थे विसेषविषयेच्छा।।
दैन्यदोषमयी दीर्घा हृदि दाहप्रदायिनी।
सर्वापदामेकसखी वार्धके वर्धते स्पृहा।।[1-2-106]
स्पृहा अर्थमात्रविषया।।
कर्तव्यं किं मया कष्टं परत्रेत्यतिदारुणम्।
अप्रतीकारयोग्यं हि वार्धके वर्धते भयम्।।[1-2-107]
परत्रातिदारुणं कष्टं भविष्यति मया किंकर्तव्यमित्यप्रतीकारयोग्यं भयम्।।
गर्धोऽभ्युदेति सोल्लासमुपभोक्तुं न शक्यते।
हृदयं दह्यते नूनं शक्तिदौःस्थ्येन वार्धके।।[1-2-108]
सोल्लासं ससंभ्रममित्यर्थः। शक्तिदौःस्थ्येन शक्तिमान्द्येनेति यावत्।।
परिपक्वमिवालोक्य जरा क्षरविधूसरम्।
शिरःकूष्माण्डकं भुङ्क्ते पुंसां कालः किलेश्वरः।।[1-2-109]
जरैव पलितयुक्ता क्षारं भस्म तन विधूसरमीषत्पाण्डु। कूष्माण्डफलं ह्युपरिभागे भस्मसदृशवर्णेन विधूसरं भवति।।
मरणस्य मुने राज्ञो जरा धवलचामरा।
आगच्छतोऽग्रे निर्याति ह्याधिव्याधिपताकिनी।। [1-2-110]
जरैव पलितयुक्ता धवलं चामरं यस्यां पताकिन्यां सा तथोक्ता पताकिनी सेना। आगच्छतो मरणस्य राज्ञोऽग्र इति संबन्धः।।
जरासुधालेपसिते शरीरान्तःपुरान्तरे।
अशक्तिरार्तिरापच्च तिष्ठन्ति सुखमङ्गनाः।।[1-2-111]
सुधा चूर्णादिविकारः।।
किंतेन दुर्जीवितदुर्ग्रहेण जरां गतेनापि हि जीव्यते यत्।
जरा जगत्यामजिता जनानां सर्वेषणास्तात तिरस्करोति।।[1-2-112]
किंबहुना जरागतस्य जीवनादनेकयातनास्पदाद्वरं मरणमेवेत्याह-किंतेनेति।। जरां गतेन बहुयातनापात्रभूतेनापि जीव्यते यत् तेन दुर्जीवितदुर्ग्रहेण दुर्जीवितदुरभिनिवेशेन किम्। दिग्विजयिभिरप्यजिता जरा। यतः ज्ञानाद्याक्रमति। महादुःखदायित्वेन सर्वेषणास्तिरस्करोति। अतिमहता जरादुःकेनाकुलितचित्तः तद्दुःखनिवृत्तिमेवाशास्ते नान्यदित्याशयः।।
क्वचिद्वा विद्यते येषां संसारे सुखभावना।
आखुस्तन्तुमिवाशेषं कालस्तामपि कृन्तति।।[1-2-113]
एवमतीतग्रन्थसंदर्भेण दुःखशतसंकुले संसारे निरवद्यं सुखं क्वापि नास्तीति निर्धारितम्। संप्रति सुखाभ्युपगमेऽपि तस्य भोक्तृभोग्यभोगात्मकस्यानित्यत्वदोषान्न मुक्तिरस्तीत्युत्तरग्रन्थसंदर्भेण प्रतिपादयति। तत्र सुखस्यानित्यत्वं तावदाह-क्वचिदिति।। वाशब्दो मतान्तरद्योतनार्थः।।
न तदस्तीह यदयं कालः सकलघस्मरः।
ग्रसते न जगज्जातं महाब्धिमिव वाडवः।।[1-2-114]
ननु सुखजनकविषयजातस्य नित्यत्वे सुखस्यापि प्रवाहरूपेण नित्यत्वं संभवेदित्यत आह-न तदिति।। घस्मरो भक्षणशीलः। `भक्षको घस्मरोऽद्मर' इत्यमरः।।
महतामपि नो देवः परिपालयति क्षणम्।
कालः कवलिताशेषविश्वो विश्वात्मतां गतः।।[1-2-115]
वराकाणां कालाद्भये सत्यपि महात्मनां न तदस्तीत्यत्राह-महतामिति।।
ये रम्या ये शुभारम्भाः सुमेरुगुरवोऽपि ये।
कालेन विनिगीर्णास्ते गरुडेनेव पन्नगाः।।[1-2-116]
रमणीयत्वसत्कर्मत्वगुणाकरत्वान्यपि कालनिवारकाणि न भवन्तीत्याह-ये रम्या इति।। शुभ आरम्भो येषां ते तथा।।
तृणं पांशुं महेन्द्रं च सुमेरुं पर्णमर्णवम्।
आत्मंभरितया सर्वमात्मसात्कर्तुमुद्यतः।।[1-2-117]
नन्वनन्तपदार्थविचित्रमध्ये कालाग्रस्तं किंचित्संभावितभित्यत आह-तृणभिति।। आत्मंभरितया स्वोदरपूरकतया। `उभौ त्वात्मंभरिः कुक्षिंभरिः स्वोदरपूरका' वित्यमरः।।
कालोऽयं भूतमशकघुंघुमानां प्रपातिनाम्।
ब्रह्मण्डोदुम्बरौघानां बृहत्पादपतां गतः।।[1-2-118]
सर्वमात्मसात्कर्तुमुद्यत इत्यनेन कालस्य सर्वसंहर्तृत्वमुक्तं प्रपञ्चयति-कालोऽयमित्यादिना।। महाकल्पेषु राजत इत्यन्तेन ग्रन्थसंदर्भेण।। तत्र प्रथमं प्राकृतप्रलये ब्रह्माण्डसंहर्तृत्वमाह-कालोऽयमिति।। भूतान्येव मशकास्तत्कृतो घंघुमः ध्वनिर्येषु ते तथा तेषां ब्रह्माण्डान्येवोदुम्बरफलानि तेषामोघाः समूहा ब्रह्माण्डोदुम्बरौघास्तेषां बृहत्पादपतां स्थूलवृक्षताम्।।
प्रेक्ष्याहर्विनिमेषेण सूर्याक्ष्णा पाकवत्फलम्।
लोकपालफलान्यत्ति जगज्जीर्णवनादयम्।।[1-2-119]
ब्रह्माण्डसंहर्तृत्वे कालस्याभिहिते तदन्तर्वर्ति संहर्तृत्वं यद्यपि सिद्धं तथाप्यनित्यत्वबुद्धि दार्ढ्यार्थं पृथक् तदन्तःस्थवस्तुसंहर्तृत्वं दर्शयन्नादौ लोकपालसंहर्तृत्वमाह-प्रेक्ष्येति।। अह्नि विगतो निमेषोऽस्तमयसमयलक्षणो यस्मात् सूर्याक्ष्णस्तदहर्विनिमेषं तेन।।
जगज्जीर्णकृटीकीर्णान्निक्षिपत्युग्रकोटरे।
क्रमेण गुणवल्लोकमणीन्मृत्युसमुद्गके।।[1-2-120]
पालकसंहर्तृत्वभुक्त्वा पाल्यसंहर्तृत्वमाह-जगदित्यादिश्लोकद्वयेन।। जगदेव जीर्णकुटी तस्यां कीर्णान्विक्षिप्तान् गुणवन्तो लोका एव मणयस्तान् उग्रः कोटरः छिद्रं यस्य समुद्गकस्य स तथा तस्मिन्मृत्युरेव समुद्गकस्तस्मिन्निक्षिपति।।
गुणैरापूर्यते यैव लोकरत्नावली भृशम्।
भूषार्थमिव तामङ्गे कृत्वा भूयो निकृन्तति।।[1-2-121]
स्थितिकाले तामङ्गे कृत्वा संहारकाले निकृन्तति।।
अस्यैवाचरतो दीनैर्मुग्धैर्भूतमृगव्रजैः।
आखेटकंजर्जरितैर्जगञ्जाङ्गलजालके।।[1-2-122]
एकदेशोल्लसच्चारुवडवानलपङ्कजा।
क्रीडापुष्करिणी रम्या कल्पकालमहार्णवः।।[1-2-123]
प्रकारान्तरेण कालस्य लोकसंहर्तृत्वं दर्शयति-अस्यैवेत्यादिना कोदण्डः परिस्फुरति सर्वत इत्यन्तेन ग्रन्थसंदर्भेण।। वातभूयिष्ठदेशाभिधायकेन जाङ्गलशब्देनात्र मृगयायोग्या देशा लक्ष्यन्ते। जालकं समूहः। जगज्जाङ्गलजालके भूतमृगवृन्दैराकेटकं मृगयां चरतोऽस्यैव कालनाम्नो राजकुमारस्य कल्पकालमहार्णवः क्रीडापुष्करिणीत्येवमादिभिरुत्तरग्रन्थसमूहप्रतिपाद्यैरर्थैः संबन्धः। वडवानल एव पङ्कजं एकदेशे उल्लसच्चारुवानलपङ्कजं यस्यां सा तथा।।[1-2-122,123]
कटुतिक्ताम्लभूताद्यैः सदधिक्षीरसागरैः।
तैरेव यैः पर्युषितैर्जगद्भिः कल्यवर्तनम्।।[1-2-124]
मृगयाचरणजनितश्रमापनोदनाय पुष्करिणीं प्रदर्श्य कालराजकुमारस्य मृगयानिर्गमनात्पूर्वं भोजनं दर्शयति-कट्विति।। कटुतिक्ताम्लानि भूतानि प्राणिन आद्यानि येषु तानि तथा तैः। नानारसयुक्तभूतोपदंशानां दधिक्षीरसागरोपसेचनानां जगदन्नानां पर्युषितत्वे हेतुमाह-तैरिति।। यानि कल्पादौ स्थितानि तानि तान्येव जगन्ति कल्पान्तेऽपि तिष्ठन्तीति पर्युषितत्वम्। कल्यवर्तनमुषःकालभोजनम्। `प्रत्यूषोऽहर्मुखं कल्यमुषः प्रत्युषसी अपी'त्यमरः।।
चण्डी चतुरसंचारा सर्वमातृगणान्विता।
संसारवनविन्यस्ता व्याघ्री भूतौघघातिनी।।[1-2-125]
मृगयामाचरतः कालस्य शुनीस्थानीयां व्याघ्रीं दर्शयति-चण्डीति।। चण्डी जरा।।
पृथ्वी करतले पृथ्वी पानपात्री रसान्विता।
कमलोत्पलकह्लारलोलजालकमालिता।।[1-2-126]
तस्य मद्यपानाय करतलन्यस्तां पात्रीं दर्शयति-पृथ्वीति।। पृथ्वी भूमिरेव कालस्य करतले पानपात्री भवति सा चानल्पेत्याह-पृथ्वीति।। रसान्विता मद्यरसान्विता मद्यस्य। सौगन्ध्यार्थं कमलोत्पलकह्लाराणां लोलेन जालकेन समूहेन मालिता। संवलितेत्यर्थः। कह्लारं सौगन्धिकम्।।
विरावी विकटास्फोटो नृसिंहो भुजपञ्जरे।
सटाविकटपीनांसः कान्तः क्रीडाशकुन्तकः।।[1-2-127]
जगदटव्यामाखेटकाटनपटीयसः कालमहाभटस्य प्रचण्डभुजदण्डारूढं तत्क्रीडायोग्यं पक्षिणं दर्शयति-विरावीति।। विरावो निर्घोषोऽस्यास्तीति तथा। संहतयोः प्रकोष्ठप्रगण्डयोः पाणितलास्फालनमास्फोटः विकटो विरूपः आस्फोटो यस्य स तथा। सटाविकटपीनांसः सटाभिर्ग्रीवारोमभिर्विकटो विरूपः पीनावंसौ स्कन्धौ यस्य सः पीनांसः सटाविकटश्चासौ पीनांसश्चेति तथा। अथवा सटाविकटौ पीनांसौ यस्य स तथा। शकुन्तः पक्षी।।
अलाबुवीणामधुरः शरद्व्योमामलच्छविः।
देवः किल महाकालो लीलाकोकिलपालकः।।[1-2-128]
नृसिंहवद्रुद्रानुचरभूतो महाकालनामा देवोऽपि कालस्य क्रीडोपकरणमित्याह-अलाब्विति।।यथाहुः क्षीरस्वामिनः-`रुद्रानुचरो नन्दी महाकालो भृङ्गी'ति। अलाबुवीणावन्मधुरो मधुरध्वनि-। मधुरध्वनिर्व्योमेति वा पाठः। कोकिलवत्तस्य कार्ष्ण्यमाह-शरदिति।।
अजस्रस्फूर्जिताकारो वान्तदुःखशरावलिः।
अभावनामा कोदण्डः परिस्फुरति सर्वतः।।[1-2-129]
जगज्जीर्णाटवीं प्रविष्टस्य प्राणिमृगवधे व्यापृतस्य धनुर्दर्शयति-अजस्रेति।। नेन्द्रो न चन्द्रो न मेरुर्न विन्ध्य इत्यजस्रं स्फूर्जित आकारो यस्य स तथा। दुःखान्येव शरास्तेषामावलिः पङ्क्तिः। वान्ता उद्गीर्णा दुःखशरावलिर्येन स तथा। कोदण्डो धनुः। कालात्मनः परमेश्वरस्य।।
कालरात्रिः स्वयं भूत्वा नॉत्यत्येष निजेच्छया।
यस्या भूषणमङ्गेषु देवलोकान्तरावलिः।।[1-2-130]
विधान्तरेण जगत्संहारलीलां वर्णयति-कालरात्रिरित्यादिना।। महाकल्पेषु राजत इत्यनेन सर्वसंहारपटीयसी तमःप्रधाना शक्तिः कालरात्रिरित्युच्यते। एष कालात्मा परमेश्वरः स्वयं कालरात्रिर्भूत्वा नृत्यतीति संबन्धः। तस्य नृत्योपकरणानि दर्शयतियस्या इति।। देवलोकान्तराणां देवलोकभेदानामावलिर्यस्या अङ्गेषु भूषणं भवति सा कालरात्रिरिति पूर्वेण संबन्धः।।
नरकाली च मञ्जीरमाला कलकलोज्ज्वला।
प्रोता दुष्कृतसूत्रेण पातालचरणे स्थिता।।[1-2-131]
नरकाली च यस्याः पातालचरणे स्थिता मञ्जीरमाला भवतीत्यन्वयः। आली पङ्क्तिः। मञ्जीरो नूपुरः। मञ्जीरमाला साधर्म्यं संपादयति-कलकलेत्यादिना। कलकलेन कोलाहलेन उज्ज्वला दीप्ता।।
एकस्मिञ्श्रवणे दीर्घा हिमवानस्थिमुद्रिका।
अपरे हि महामेरुः कान्ता काञ्चनकर्णिका।।[1-2-132]
हिमपाण्डुर्हिमवान्यस्या एकस्मिन् श्रवणे दीर्घा किंचिन्न्यूनलक्षयोजनदीर्घा अस्थिमुद्रिका भवति। कर्णिका कर्णालङ्कारविशेषः।।
अत्रैव कुण्डले लोले चन्द्रार्कौ गण्डमण्डले।
लोकालोकाचलश्रेणी सर्वतः कटिमेखला।।[1-2-133]
चन्द्रार्को यस्या अत्रैव कुण्डले भवत इत्यन्वयः। अत्रेति पूर्वश्लोकोक्ते श्रवणे निर्दिश्येते। लोले इति कुण्डलयोर्विशेषम्। गण्डमण्डले गण्डमण्डलयोरित्यर्थः। श्रेणी पङ्क्तिः।।
पश्चात्प्रलम्बविभ्रान्तकौमारमृतबर्हिभिः।
नेत्रत्रयबृहद्रन्ध्रभूरिझांकारभीषणैः।।[1-2-134]
तस्या रूपं लोकभयाव हमिति किं वक्तव्यमित्यभिप्रेत्याह-पश्चादिति। पश्चात्प्रलम्बेत्यादीनां खट्वाङ्गभङ्गैरित्यन्तानां षण्णां तृतीयान्तानामापूरिताम्बरमित्यनेन संबन्धः पश्चाद्भागे कबरादौ। प्रलम्बाः प्रलम्बमाना विभ्रान्ताश्च ते कौमारमृतबर्हिणः षण्मुखमृतमयूरास्तैः। नेत्रेति।। हरमूर्धविशेषाणां नेत्रत्रयस्य बृहद्रन्ध्रेषु वायुपूरणवशात् भूरिझाङ्कारास्तैर्भीषणैः।।
लम्बलोलजटाचन्द्रविकीर्णहरमूर्धभिः।
उच्चरच्चारुमन्दारगौरीकबरचामरैः।।[1-2-135]
लम्बो लोलो जटासु चन्द्रो येषां ते लम्बलोलजटाचन्द्रास्ते च ते विकीर्णहरमूर्धानश्च तैः। उच्चरच्चारुमन्दाराणि उच्चरच्चारुमन्दारपुष्पाणि यानि गौरीकबराणि तान्येव चामराणि तैः। कबरं केशपाशम्।।
उत्तण्डवाचलाकारभैरवोदरतुम्बकैः।
रणत्सशतरन्ध्रेन्द्रदेहभिक्षाकपालकैः।।[1-2-136]
उत्तण्डवानि उल्लुठितानि अचलाकाराणि च यानि भैरवोदराणि तान्येव तुम्बकान्यलाबुफलानि तैः। अथवा उत्ताण्डवेति कालारात्रिविशेषणम्। रणदिति रणन्तो ध्वनन्तः सशतरन्ध्राः शतरन्ध्रैः सह वर्तमानाश्च ये इन्द्रदेहास्त एव भिक्षाकपालास्तैः।।
शुष्कशारीरखट्वाङ्गभङ्गैरापूरिताम्बरम्।
भीषयत्यात्मनात्मानं सर्वसंहारकारिणी।।[1-2-137]
शुष्काणि यानि शारीराणि शरीरभवास्थीनि तान्येव खट्वाङ्गभङ्गामञ्चावयवखण्डास्तैः। ननु कौमारबर्हादीनामेकत्वाद्बर्हिभिरित्यादिबहुवचनं कथमितिचेत् मैवं। महाकल्पेषु राजत इति अत्रैव बहुवचनेन परिहृत्वान्महाकल्पभेदेन मयूरादीनां बहुत्वसंभवात्। आपूरितमम्बरं नभो येनात्मना तम्।।
विश्वरूपशिरश्चक्रचारुपुष्करमालया।
ताण्डवेषु विवल्गन्ती महाकल्पेषु राजते।।[1-2-138]
किंबहुना कालरात्रेः प्रभावः संक्षेपेण श्रूयतामित्यभिप्रेत्याह-विश्वरूपेति।। विश्वरूपस्य गीतासु प्रसिद्धस्य शिरसामनेककोटीनां चक्राणि समूहा एव चारुपुष्करमाला तया। विवल्गन्तीति क्वचित्तत्र ताण्डवेषु ताण्डवावसरेष्वित्यर्थः। विवल्गन्तीत्यन्वयः। तत्र ताण्डवेषु नाट्येषु कर्तव्येष्वित्यर्थः।।
एतस्मिन्नेवमेतेषां कालादीनां महामुने।
संसारनाम्नि कैवास्था मादृशानां भवत्विह।।[1-2-139]
एवं कालादीनां वृत्तमाख्यातमनुवदंस्तद्दोषपरिज्ञानफलं विशदयति-कालादीनामेवमुक्तेन प्रकारेण एवमेतस्मिन्वृत्ते सतीत्यध्याहृत्य योजना। वृत्तेऽस्मिन्नेवमेतेषामिति क्वचित्। कालादित्यत्रादिशब्देन चन्द्रादिर्गृह्यते। कालादीनां वृत्तमन्येषां पूर्वोक्तसंसारदोषाणामुपलक्षणम्।।
शत्रवस्त्विन्द्रियाण्येव सत्यं यातमसत्यताम्।
प्रहरत्यात्मनात्मानं मन एव मनो रिपुः।।[1-2-140]
ननु संसारनाम्न्यनर्थे आस्था नास्ति चेत्तर्हि तन्निवृत्तौ परमो यत्न आस्थीयतां किं वल्गनेनेंत्याशङ्क्य तन्निवृत्तिप्रतिकूलानां सौलब्यमनुकूलानां दौर्लभ्यं चाह-शत्रव इत्यादीना भवबन्धिनीत्यन्तेनग्रन्थजातेना।। ननु प्राप्यं सत्यज्ञानादिलक्षणं वस्तु साक्षात्प्रतिभासते चेत् किं करिष्यन्तीन्द्रियशत्रव इत्यत आह-सत्यमिति।। सत्यं ज्ञानादिलक्षणं वस्तु असत्यतामनृतदेहादिरूपतां यातम्। ननु मनः स्वानुकूलं चेन्नेन्द्रियशत्रुभ्यो भेतव्यमित्यत आह-प्रहरति।।
वस्तववस्तुतया ज्ञातं दत्तं चित्तमहंकृतौ।
अभाववेधिता भावा भावान्तो नोपलभ्यते।।[1-2-141]
मनसो रिपुत्वं साधयति-वस्त्विति।। कार्यकारणसंघातसाक्षिलक्षणं वस्तु अवस्तुतया कार्यकारणसंघातात्मना गृहीतम्। ननु संघातसाक्षितया वस्तुग्रहणसंभवादन्यथाग्रहणं निवर्तिष्यत इत्यत आह-दत्तमिति। कामाकुलं तच्चितं विवेकाक्षमत्वादहंकारमेवानुधावतीति न तत्साक्षिणमित्यभिप्रायः। ननु वस्तुनावगाहते चेच्चित्तं तर्हि यानहंकारादिभावानवगाहते तत्रैव रतिर्वध्यतामत आह-अभावेति।। भावाः पदार्था अभाववेधिता अभावविद्धाः। अनित्या इत्यर्थः। तर्हि न विनश्यद्वस्तु कूटस्थान्तं विनश्यतीति न्यायान्नाशावधितया ज्ञायतामात्मेत्यत आह-भावेति।। भावानामनित्यपदार्थानामन्तोऽवसानभूमिरात्मेत्यर्थः। भवान्त इति क्वचित्।।
तप्यते केवलं साधो मतिराकुलितान्तरा।
रागरोगो विलसति विरागी विरलो जनः।।[1-2-142]
अनात्मनि दोषदृष्टौ सत्यामात्मनि चाप्राप्ते फलितमाह-तप्यत इति।। अन्तरा वस्त्ववस्तुनोरन्तराले। ननु सर्वकामनात्यागात्तापनिवृत्तिसंभवे किमर्थं तप्यत इत्यत आह-राग इति।। तर्हि विरक्तसंपर्काद्रागो निवर्त्यतामित्यत आह-विरागीति।।
यत्नेन याति युवता दूरे सज्जनसंगतिः।
गतिर्न विद्यते काचित्क्वचिन्नोदेति सत्यता।।[1-2-143]
मनो विमुह्यतीवान्तर्मुदिता दूरतां गता।
नोज्ज्वला करुमोदेति दूरादायाति नीचता।।[1-2-144]
तर्हि त्वरा न कार्येदानीमित्यत आह-यत्नेनेति।। यौवने हि कार्यकारणानां पुरुषार्थसंपादनक्षमता न वार्धक इत्याशयः। तर्हि इदानीमेव तत्त्वविदः सेव्यन्तामित्यत आह-दूर इति।। तर्ह्यन्त उपायोऽन्वेष्यतामत आह-गतिरिति।। ननु कथमन्या गतिर्नास्ति तर्कबलात्स्वयमेव वा स्वयंप्रकाश आत्मा प्रतिभास्यतीत्यत आह-क्वचिदिति।। सत्यता सत्यभावः। सत्यखरूपमित्यर्थः। अथवा जगत्सत्यत्वाङ्गीकारे द्वैतिनामिवान्या गतिर्भविष्यतीत्यत आह-क्वचिदिति।। क्वचिदपि जगद्गते पदार्थे सत्यता नोदेति। न भातीत्यर्थः।।[1-2-143.144]
धीरताऽधीरतामेति पातोत्पातपरो जनः।
सुलभो दुर्जनाश्लेषो दुर्लभः सत्समागमः।।[1-2-145]
संसारासज्जनमध्यवर्तिनः साम्यं दुर्लभमिति दर्शयितुं तत्स्थितेरस्थिरत्वमाह-दीरतेति।। पात ऐश्वर्यादिभ्रंशः। उत्पातस्तत्प्राप्तिः। अथवा पातो नाश उत्पात उद्भवः।।
आगमापायिनो भावा भावना भवबन्धिनी।
नीयते केवलं क्वापि नित्यं भूतपरम्परा।।[1-2-146]
दानवा अपि दीर्यन्ते ध्रुवोऽप्यध्रुवजीवितः।
अमरा अपि मार्यन्ते कैवास्था मादृशे जने।।[1-2-147]
भावना देहादिविषया। एवं पुरुषार्थानुकूलानां दुर्लभत्वं तत्प्रतिकूलानां सौलभ्यं च प्रतिपाद्य फलितमाह-नियत इति।। केवलं पुरुषार्थसाधनानुष्ठानविधुरे क्वापि पुरुषार्थपरिपन्थिनि मार्गे नीयते। विधिनेति शेषः।।ष1-2-146,147]
दिशोऽपि हि न दृश्यन्ते देशोऽप्यन्यापदेशभाक्।
शैला अपि विशीर्यन्ते कैवास्था मादृशे जने।।[1-2-148]
प्रदीप्तशिरसो जलावगाहन इव संसारदावाग्निदग्धस्य मम नित्यानन्दावगाहे अत्युत्कटेच्छास्तीति दर्शयितुमागमापायिनो भावा इत्युक्तमनित्यत्वं प्रपञ्चयति-दिश इत्यादिना अश्राव्येत्यतः पूर्वेण ग्रन्थसंदर्भेण।। स च स्पष्टार्थः। कानिचित्पदानि व्याख्यायन्ते। अन्यापदेशभागन्यशब्दभाक्। देशोऽप्यदेशशब्दभाग्भवतीत्यर्थः। अन्योपदेशभागिति क्वचित्तत्रान्यस्योपदेशमेव भजते न स्वयमेव प्रतीयते। नष्टत्वादित्यर्थः।।
अद्यतेऽसत्तया द्यौश्च भुवनं चापि भुज्यते।
धरापि याति वैधुर्यं कैवास्था मादृशे जने।।[1-2-149]
शुष्यन्त्यपि समुद्राश्च शीर्यन्ते तारका अपि।
सिद्धा अपि विनश्यन्ति कैवास्था मादृशे जने।।[1-2-150]
असत्तयेति पदच्छेदः। वैधुर्यं असत्ताम्।।[1-2-149,150]
परमेष्ठ्यपि निष्ठावान् ह्रियते हरिरप्यजः।
भवोऽप्यभावमायाति कैवास्था मादृशे जने।।[1-2-151]
निष्ठावान्नाशवान्। `निष्ठानिष्पत्ति नाशयोरि'त्यमरः।।४
कालोऽपि काल्यतेऽन्येन नियतिश्चापि नीयते।
व्योमापि लीयतेऽनन्तं कैवास्था मादृशे जने।।[1-2-152]
अनेन परमात्मना काल्यते संह्रियते इत्यर्थः। नियतिर्दैवम्। पूर्वकर्मेत्यर्थः। मर्यादा वा। नियतिः।।
अश्राव्यावाच्यतत्त्वेन दुर्दर्शज्ञानमूर्तिना।
भुवनानि विडम्बयन्ते केनचिद्भ्रमदायिना।।[1-2-153]
कालोऽपि काल्यतेऽन्येनेत्युक्तमन्यं दर्शयति-अश्राव्येति।। निर्विकल्पतया अश्राव्यावाच्यं तत्त्वं परमार्थिकं स्वरूपं यस्य स तथा तेन। दुर्दर्शज्ञानमेव मूर्तिः स्वरूपं यस्य तेन। `तं दुर्दर्शं गूढमनुप्रविष्टमि'ति श्रुतेः। विडम्ब्यन्ते उपहास्यन्ते। तत्त्माच्छाद्य कल्पितमेव दर्शयता विप्रलभ्यन्ते मायाविनेत्यर्थः।।
अद्योत्सवोऽयमृतुरेष तथेह यात्रा ते बान्धवाः सुखमिदं स विशेषभोगः।
इत्थं मुधैव कलयन्सुविकल्पजालमालोलपेलमतिर्गलतीह लोकः।।[1-2-154]
अधिष्ठानभूतपरमात्मना दत्तं भ्रममेवावलम्ब्य भ्रामकं तमपरिज्ञाय नश्यति लोक इत्यनुक्रोशतिःअद्योत्सव इति।। आलोलपेलवमतिः परिचञ्चलतनुबुद्धिर्गलति नश्यतीत्यर्थः।।
इतस्ततो दूरतरं विहृत्य प्रविश्य गेहं दिवसावसाने।
विवेकिलोकाश्रयसाधुवृत्तरिक्तेऽह्नि याते क उपैति निद्राम्।।[1-2-155]
एवमविवेकिनः संसरतोऽनुक्रुश्य तन्मध्ये वर्तमानो मुमुक्षुरेकान्तप्रियब्रह्मनिष्ठसंनिधौ श्रवणाद्यसंभवाच्चिन्ताक्रान्ताकुलितत्वात् सहजामपि निद्रां नाद्रियत इत्याह-इत इति।। विवेकिलोका ब्रह्मविदस्तदाश्रयं तदधीनं यत्साधुवृत्तं श्रवणादिलक्षणं तेन रिक्ते शून्ये।।
पुत्रांश्च दाराश्च धनं च बुद्ध्या प्रकल्प्यते तात रसायनाभम्।
सर्वं तु तन्नाम करोत्यथान्ते यन्नातिरम्या विषमूर्च्छनैव।।[1-2-156]
ननु सर्वो जनः पुत्रदारादिकममृतकल्पं संकल्प्य तत्र प्रवर्तते न श्रवणादौ तद्वत्तव प्रवृत्तिः किं न स्यादत आह-पुत्रेति।। नातिरम्येत्येकं पदम्। अनतिरम्या विषमूर्च्छनैवेति यत्तदन्ते अन्तकाले करोतीति संबन्धः। नामशब्दः कुत्सायाम्। यत्रातिरम्येति क्वचित्तत्रायमर्थः। यत्र यस्मिन् दुःखे सति विषमूर्च्छनाप्यतिरम्यैव भवति तद्दुःखं करोतीत्यर्थः।।
विद्राविते शत्रुजने समग्रे समागतायामभितश्च लक्ष्म्याम्।
सेव्यन्त एतानि सुखानि यावत्तावत्समायाति कुतोऽपि मृत्युः।।[1-2-157]
क्वचित्तदुःखोदर्कमपि विषयसुखमननुभूय तत्संपादनप्रयासमनुभूय मृत्युग्रस्तो भवति विषयपर इत्याह-विद्रावित इति।।
इतोऽन्यतश्चोपगतास्तथैव समानसङ्केतनिबद्धभावाः।
यात्रा समासङ्गसमा नराणां कलत्रमित्रव्यवहारमायाः।।[1-2-158]
भोक्ता मृत्युवक्त्रमप्रविश्य यदा जीवति तदापि तस्य भ्रान्त्यात्मकः कलत्रादिव्यवहारोऽस्तिर इत्याह-इति इति।। समानेन साधारणेन संकेतेन निबद्धो भावोऽभिप्रायो भोगादिविषयो यासु व्यवहारमायासु तास्तथा। अयमर्थः-फाल्गुने मासि कृष्णचतुर्दश्यां विश्वेश्वरयात्रा विधेयेति संकेतेन सर्वसाधारणेन नाराणां यथानिबद्धाभिप्रायाः क्षणिका यात्राः समासङ्गा भवन्ति तथा विवाहादिकालीनेन साधारणसंकेतेन निबद्धाभिप्रायाः कलत्रादिव्यवहारभ्रान्तयः क्षणिका भवन्तीति।।
कल्पाभिधानक्षणजीविनो हि कल्पौधसंख्याकलने विरिञ्च्याः।
अतः कलामालिनि कालजाले लघुत्वदीर्घत्वधियोऽप्यसत्याः।।[1-2-159]
नन्वस्मदादि भोक्तुर्भोक्तव्यभोगावसर एव मृत्युसंभवेऽप्यनेकसहस्रयुगजीविनां ब्रह्मादीनां नैवमित्यत आह-कल्पेति।। अनादौ संसारे कल्पौघसंख्याकलने कल्पसमूहसंख्यागणने क्रियमाणे विरिञ्च्याः कल्पाभिधानक्षणजीविनो हि कल्पनामकक्षणजीविनो भवन्ति तथाप्यस्मदादिलघुकालापेक्षया दीर्घजीवनो हि ब्रह्मेत्यत आह-अत इति।। लघुत्वादिकं यथा स्वप्ने मुहूर्ते वत्सरौघभ्रान्तिः तद्वज्जागरेऽपीति भावः।।
जनः कामासक्तो वविधकुकलाचेष्टनपरः स तु स्वप्नेऽप्यस्मिज्जगति सुलभो नाद्य सुजनः।
क्रिया दुःखासङ्गा विधुरविधुरा नूनमखिला न जाने नेतव्या कथमिव दशा जीवितमयी।।[1-2-160]
एवं संसारवृत्तमावेद्य तन्निवृत्त्युपायालाभनिमित्तं खेदं दर्शयति-जन इति।। कुकलाः कुविद्याः किं सुजनलाभेन क्रिययैव पुरुषार्थः साध्यतामत आह-क्रियेति।। अखिला क्रिया दुःखासङ्गा विधुरविधुरा भवति। दुःखैरासमन्तात्सङ्गो यस्याः सा तथोक्ता विधुरविधुरा। पुरुषार्थेनात्यन्तं रिक्तेत्यर्थः।।
दिवसास्ते महान्तस्ते संपदस्ताः क्रियाश्च ताः।
सर्वं स्मृतिपथं यातं यामो वयमतः परम्।।[1-2-161]
एवमनात्मवर्गस्यानित्यत्वं विस्तरेण प्रतिपादितं संक्षिप्याह-दिवसास्त इत्यादि श्लोकत्रयेण।।
ब्रह्मा विष्णुश्च रुद्रश्च सर्वा वा भूतजातयः।
नाशमेवानुधावन्ति सलिलानीव वाडवम्।।[1-2-162]
वाडवं वडवाग्निम्।।
आपदः क्षणमायान्ति संपदः क्षणमेव च।
क्षणं जन्माथ मरणं मुने किमिव न क्षणम्।।[1-2-163]
किमिव। किन्त्वित्यर्थः।।
अशूरेण हतः शूर एकेन बहवो हताः।
प्राकृताः प्रभुतां याताः सर्वमावर्त्यते जगत्।।[1-2-164]
अशूरेणेति स्पष्टार्थः।।
श्रीराम उवाच।।
इति मे दोषदावाग्निदग्धे सपदि चेतसि।
प्रस्फुरन्ति नभोगाश्च मृगतुष्णासरः स्विव।।[1-2-165]
एवं बहुधा संसारदोषान्निरूप्य तत्फलं निरतिशयं वैराग्यमाह-इतीति।।
नाभीनिन्दामि मरणं नाभिनिन्दामि जीवितम्।
यथा तिष्ठामि तिष्ठामि तथैव विगतज्वरः।।[1-2-166]
भोगेषु इच्छाभावेऽपि जीवानादौ प्रीतिः स्यादत आह-नाभिनिन्दामीति।।
अथ चेत्स्वच्छया बुद्ध्या मुनीन्द्र न चिकित्स्यते।
भूयश्चित्तचिकित्सायास्तत्किलावसरः कुतः।।[1-2-167]
ननु विषयप्रवणस्य चित्तस्य चिकित्सा वार्धके कर्तुमुचिता यौवने किमिति क्रियत इत्यत आह-अथेति।। बाल्यान्तर्यमथशब्दार्थः। तत्तर्हि चित्तमिति वा। किलेत्यसंभावनायाम्।।
विषं विषयवैषम्यं न विषं विषमुच्यते।
जन्मान्तरघ्ना विषया एकदेहहरं विषम्।।[1-2-168]
विषयेषु एतच्चित्तं चिकित्सनीयमेवेति कुतस्तत्राह-विषमिति।। विषयेषु वैषम्यं शोभना शोभनत्वलक्षणरागद्वेषहेतुभूतम्।।
न सुखानि न दुःखानि न मित्राणि न बान्धवाः।
न जीवितं न मरणं बन्धाय ज्ञस्य चेतसः।।[1-2-169]
ननु ज्ञानवैराग्यैषधाभ्यां चिकित्सितचित्तेन किं फलं प्राप्तं येन त्वया चित्तचिकित्सा क्रियत इत्यत आह-न सुखानीति।। ज्ञस्य ब्रह्मविदः।।
आयुर्वायुविघाट्टिताभ्रपटलीलोलाम्बुवद्भुङ्गुरं भोगामेघवितानमध्यविलसत्सौदामिनीचञ्चलाः।
लोलो यौवनलालनाजलरयश्चेत्याकलय्याद्भुतं मुद्रैवाद्य मयार्पिता ननु दृढा चित्ते चिरं शान्तये।।[1-2-170]
चित्तचिकित्सायाः साफल्यं दर्शयित्वा फलितमाह-आयुरिति।। वितानमुल्लोचः। सौदामिनी विद्युत्। यौवनलालना यौवनोपलालानं सैव जलरयः जलवेगः। क्वचिल्लोलेति स्त्रीलिङ्गनिर्देशः। तत्र जलरय इति भिन्नं पदम्। जलरयो लोलत्वे दृष्टान्तत्वेनोच्यते। विषयधावनवारणाय विवेकलोहकारकृता वैराग्यमुद्राचित्तेर्पितेत्यर्थः।।
नावस्थितिमुपायाति न च याति यथेप्सितम्।
बुद्धिर्जीवेश्वरायत्ता कान्तेव प्रियसद्मनि।।[1-2-171]
एवं मुद्रार्पिता चेत् कृतं कृत्यमतःपरं किं तवावशिष्टं तत्राह-नावस्थितिमिति।। जीव एव विवेकित्वेनेश्वरो नियन्ता तदायत्त तदधीना जीवस्येश्वरैकत्वप्रवणा वा बुद्धिर्निर्दुःखे पदे अवस्थितिं नोपयाति। कान्तापक्षे जीवेश्वरः प्राणनाथो भर्ता। सापि प्रियसद्मनि भर्तृगृहे स्वेच्छास्थितिं भयादिना नोपयाति। यथेप्सितं च बहिर्न याति। चित्तेति क्वचित्तत्रापि बुद्धिरेव विवक्षिता। विमले क्वचित्पदे चित्तविश्रान्तिरेव शिष्टेति भावः।।
अतोऽतुच्छमनायासमनुपाधि गतभ्रमम्।
किं तत्स्थितिपदं साधु यत्र शङ्का न विद्यते।।[1-2-172]
चिन्तावान्स्थितिस्तानमतिवादाय पृच्छति-अत इति।। यतः स्थितिं न याति चित्तमतः पृच्छामीत्यध्याहारः। अचुच्छं परमार्थसद्रूपं आनायासं निर्दुःखम्। अनायासत्वे हेतुर्गतभ्रममिति। गतभ्रमत्वे हेतुरनुपाधीति। उपाधिर्मनः। मनो हि सर्वभ्रान्तिमूलम्। तथाच प्रागुक्तं वक्ष्यति च-`आदौ मनस्तदनुबन्धविमोक्षदृष्टी पश्चात्प्रपञ्चरचना भुवनाभिधाने'ति। साधु शोभनम्। आनन्दरूपमित्यर्थः। यत्र पदे पुनर्दुःखसंबन्धशङ्का न विद्यते तदिति संबन्धः।।
कथं च धीरवर्याग्नौ पततापि न दद्यते।
पावके पारदेनेव वासानारसशालिना।।[1-2-173]
चित्तविश्रान्तिस्थानं पृष्ट्वा चित्तविक्षेपेऽपि दुःखासंस्पर्शोपायं पृच्छति-कथं चेति।। धीरवर्येति संबोधनम्। दाहप्राप्तिं दर्शयितुं वासनारसशालिनेति विशेषणम्। रस्यत इति रस आज्यादिः वासनैव रसस्तेन शालते शोभते पुरुष इति तथा तेन। अग्नौ संसाराख्ये पततापि पुरुषेण संसाराग्न्यर्चिर्भिः कथं न दह्यते केनोपायेन न दह्यते। पारदो रसः। `क्षीराकारोऽथ चपलो रसः सूतश्च पराद'इत्यमरः। रसेन रसशालिनेति पाठे रसेनेति पारदशब्दार्थकथनम्। पारदो दुर्दाह इति प्रसिद्धिः।।
यस्मात्किल महाबाहो व्यवहारक्रियां विना।
न स्थितिर्दग्धसंसारे विनाम्बुजलधाविव।।[1-2-174]
संसारे निर्व्यापारतयावस्थानमेव दाहोपाय इत्यत आह-यस्मादिति।। अम्बुस्पर्शं विना समुद्रमध्ये स्थितिर्यथा न संभवति तद्वदित्यर्थः।।
यथा जानासि भगवंस्तथा मोहनिवृत्तये।
ब्रूहि मे साधवो येन नूनं निर्दुःखतां गताः।।[1-2-175]
अथवा तादृशी युक्तिर्यदि ब्रह्मन्न विद्यते।
न वक्ति मम वा कश्चिद्विद्यमानामपि स्फुटम्।।[1-2-176]
स्वयं चैव न चाप्नोमि तां विश्रान्तिमनुत्तमाम्।
तदहं त्यक्तसंदेहो निरहंकारतां गतः।।[1-2-177]
न भोक्ष्ये न पिबाम्यम्बु नातः परिदधेऽम्बरम्।
करोमि नाहं व्यापारं स्नानदानाशनादिकम्।।[1-2-178]
न च तिष्ठामि कार्येषु संपत्स्वापद्दशासु च।
न किंचिदभिवाञ्छामि देहत्यागादृते मुने।।[1-2-179]
केवलं विगताशङ्कं निर्ममो गतमत्सरः।
मौनमेवाधितिष्ठामि लिपिकर्मस्विवार्पितः।।[1-2-180]
यथा जानासीत्यादिग्रन्थसमूहः स्पष्टार्थः।।[1-2-175,176,177,178,179,180]
वाल्मीकिरुवाच।।
इत्युक्तवानमलशीतकराभिरामो रामो महत्तरविवेकविकाशिचेताः।
तूष्णीं बभूव पुरतो महतां घनानां केकारवश्रमवशादिव नीलकण्ठः।।[1-2-181]
इति श्रीमोक्षोपाये वैराग्यप्रकरणे जगद्दोषप्रकाशो नाम द्वितीयः सर्गः।। 2 ।।
केका मयूरध्वनिः, नीलकण्ठो मयूरः।।
इति श्रीपरमहंसपरिव्राजकाचार्योत्तमसुखपूज्यपादशिष्यश्रीमदात्मसुखकृतौ वासिष्ठचन्द्रिकायां द्वितीयः सर्गः।। 2 ।।