कल्हणकृत राजतरङ्गिणी/तृतीयस्तरङ्गः
दिखावट
- ॥ तृतीयस्तरङ्गः ॥
- भुञ्जेभाजिनमस्य1 कुम्भकुहरे मुक्ताः कुचाग्रोचिताः किं भालज्वलनेन कज्जलमतः स्वीकार्यमक्ष्णोः कृते । करात_3_0001कख
- संधाने वपुरर्धयोः प्रतिवदन्नेवं निषेधेप्यहेः कर्तव्ये प्रिययोत्तरानुसरणोद्युक्तो हरः पातु वः ॥ करात_3_0001गघ
- अथोल्लसत्पृथुश्लाघमानिन्युर्मेघवाहनम् । करात_3_0002कख
- गान्धारविषयं गत्वा सचिवाधिष्ठिताः प्रजाः ॥ करात_3_0002गघ
- रक्तप्रजस्य भूभर्तुः पश्चाल्लोकानुरञ्जनम् । करात_3_0003कख
- तस्याज्ञायि जनैर्धौतक्षौमक्षालनसंनिभम् ॥ करात_3_0003गघ
- स पुनर्बोधिसत्त्वानामपि सत्त्वानुकम्पिनाम् । करात_3_0004कख
- चर्यामुदात्तचरितैरत्यशेत महाशयः ॥ करात_3_0004गघ
- तस्याभिषेक एवाज्ञां धारयन्तोधिकारिणः । करात_3_0005कख
- सर्वतोमार1मर्यादापटहानुदघोषयन् ॥ करात_3_0005गघ
- कल्याणिना प्राणिवधे तेन राष्ट्रान्निवारिते । करात_3_0006कख
- निष्पापां प्रापिता वृत्तिं स्वकोशात्सौनिकादयः ॥ करात_3_0006गघ
- तस्य राज्ये जिनस्येव मारविद्वेषिणः प्रभोः । करात_3_0007कख
- क्रतौ घृतपशुः पिष्टपशुर्भूतबलावभूत् ॥ करात_3_0007गघ
- स मेघवननामानमग्रहारं विनिर्ममे । करात_3_0008कख
- मयुष्टग्रामकृत्पुण्यज्येष्टं1 मेघमठं तदा3 ॥ करात_3_0008गघ
- भोगाय देश्य1भिक्षूणां वल्लभास्यामृतप्रभा । करात_3_0009कख
- विहारमुच्चैरमृतभवनाख्यमकारयत् ॥ करात_3_0009गघ
- देशैक1देशाल्लोर्नाम्नः प्राप्तस्तस्याः पितुर्गुरुः । करात_3_0010कख
- स्तुन्पा3 तद्भाषया प्रोक्तो लोस्तोन्पास्तूपकार्यकृत् ॥ करात_3_0010गघ
- चक्रे नडवने राज्ञो यूक1देव्यभिधा वधूः । करात_3_0011कख
- विहारमद्भुताकारं सपत्नीस्पर्धयोद्यता ॥ करात_3_0011गघ
- अर्धे यद्भिक्षवः शिक्षाचारास्तवार्पितास्तया । करात_3_0012कख
- अर्धे गार्हस्थ्यगर्ह्याश्च सस्त्रीपुत्रपशुस्त्रियः ॥ करात_3_0012गघ
- अथेन्द्रदेवीभवनमिन्द्रद्र्व्यभिधा व्यधात् । करात_3_0013कख
- विहारं सचतुःशालं स्तूपं भूपप्रियापरा ॥ करात_3_0013गघ
- अन्याभिः स्वादनासम्माप्रमुखाभिर्निजाख्यया । करात_3_0014कख
- देवीभिस्तस्य महिता विहारा बहवः कृताः ॥ करात_3_0014गघ
- अर्वाक्कालोद्भवस्यापि राज्यकालोस्य भूपतेः । करात_3_0015कख
- न्यक्कृतादिनृपोदन्तैर्वृत्तान्तैरद्भुतोभवत् ॥ करात_3_0015गघ
- स बहिर्विहरञ्जातु भूभृद्भीतैरुदीरितम् । करात_3_0016कख
- चौरश्रौरोयमित्यारादशृणोत्क्रन्दितध्वनिम् ॥ करात_3_0016गघ
- कः कोत्र बध्यतां चौर इत्युक्ते तेन सक्रुधा । करात_3_0017कख
- शशामाक्नदितध्वानो नच चौरो व्यभाव्यत ॥ करात_3_0017गघ
- पुनर्द्वित्रैर्दिनैस्तस्य निर्गतस्याग्रतस्त्रतः । करात_3_0018कख
- अभवन्नभयार्थिन्यो द्वित्रा दिव्यप्रभाः स्त्रियः ॥ करात_3_0018गघ
- ताः संश्रुतेप्सितास्तेन रुद्धाश्वेन कृपालुना । करात_3_0019कख
- अभ्यभावन्त सीमन्तपुञ्जिताaञ्जलयो वचः ॥ करात_3_0019गघ
- देव दिव्यप्रभावेण भुवने भवता धत्ते । करात_3_0020कख
- अपरस्माद्भयं जातु कस्य स्यात्करुणानिधे ॥ करात_3_0020गघ
- तदानीं दिव्यप्रभावेण भुवने भवता धृते । करात_3_0021कख
- अकाण्डकरकापातशङ्किभिः कार्यकैर्मृषा ॥ करात_3_0021गघ
- पक्वशालिवनस्हीतिर1क्षाक्षुभितमानसैः । करात_3_0022कख
- नागास्त्वत्कोपसंरम्भभूमितां2 गमिताः प्रभो ॥ करात_3_0022गघ
- 1.
- --1) A2 gloss इभस्य.
- 5.
- --1) A3 gloss अमारः अहिंसा.
- 8.
- --1) A3 ॰ज्येष्ठो.
- --2) A3 तथा.
- 9.
- --1) Thus A3; A1 चैष्य॰.
- 10.
- --1) Thus A1; corr. by later hand into देश्यैक॰.
- --2) A2 स्तुम्पा.
- 11.
- --1) A3 यूख॰.
- 14.
- --1) A3 gloss नृपस्त्रीभिः.
- 22.
- --1) A2 ॰स्फाति॰.
- --2) A3 भूमिं ते.
- [page 24]
- तेस्माकं पतयश्चौरश्चौर इत्यार्तभाषितम् । करात_3_0023कख
- श्रुत्वा देवेन बध्यन्तामित्यवादि यदा क्रुधा ॥ करात_3_0023गघ
- तदा त्वदाज्ञामात्रेण न्यपतन्पाशवेष्टिताः । करात_3_0024कख
- प्रसादः क्रियतां तेषामस्मत्करुणयाधुना ॥ चक्कलकम् ॥ करात_3_0024गघ
- तदाकर्ण्यावदद्राजा प्रसादविशदाननः । करात_3_0025कख
- सर्वे ते बन्धनान्नागास्त्यज्यन्तामिति सस्मितः ॥ करात_3_0025गघ
- तथा तस्याज्ञया राज्ञो नागा विधुतबन्धनाः । करात_3_0026कख
- प्रणम्य चरणौ तूर्णं प्रययुः सपरिग्रहाः ॥ करात_3_0026गघ
- अथ ग्राहयुतुं भूपानाज्ञां हिंसानिवृत्तये । करात_3_0027कख
- स दिग्जयाय निर्व्याजधर्मचर्यो विनिर्ययौ ॥ करात_3_0027गघ
- अभूदभीतजनतावेक्षणश्लाघ्यविक्रमः । करात_3_0028कख
- स्पृहणीयो जनस्यापि तदीयविजयोद्यमः ॥ करात_3_0028गघ
- प्रभावविजितान्कृत्वा सोहिंसादीक्षितान्नृपान् । करात_3_0029कख
- अर्णसां पत्युरभ्यर्णमवापावर्णवर्जितः ॥ करात_3_0029गघ
- तत्र तालीवनच्छायासुखविश्रान्तासैनिकः1 । करात_3_0030कख
- युक्तिं द्वीपान्तराक्रान्तौ क्षणमन्तर्व्यचिन्तयत् ॥ करात_3_0030गघ
- अथ वेलावनोपान्तात्तेनार्ताक्रन्दितध्वनिः । करात_3_0031कख
- मेघवाहनराज्येपि हतोहमिति शुरुवे ॥ करात_3_0031गघ
- तप्तायःशङ्कुनेवान्तर्ब्रणितः स द्रुतं ततः । करात_3_0032कख
- संचारिनातपत्रेण सत्रा तां वसुधामगात् ॥ करात_3_0032गघ
- अपश्यदथ केनापि चण्डिकायतनाग्रतः । करात_3_0033कख
- नरं शबर1सेनान्या हन्यमानम् अधोमुखम् ॥ करात_3_0033गघ
- अनात्मज्ञ धिगेतत्ते कुकर्मेति महीभुजा । करात_3_0034कख
- तर्जितः स भयादेवं शबरस्तं व्यजिज्ञपत् ॥ करात_3_0034गघ
- शिशुर्मुमूर्षुर्मे राजन्नयं रोगार्दितः सुतः । करात_3_0035कख
- कर्मैतद्दैवतैरुक्तमस्य श्रेयोलवावहम् ॥ करात_3_0035गघ
- उपहारनिरोधेन सद्य एव1 विपद्यते । करात_3_0036कख
- बन्धुवर्गमशेषं च विद्ध्येतज्जीवजीवितम् ॥ करात_3_0036गघ
- अरण्यगहनाल्लब्धमनाथं देव रक्षसि । करात_3_0037कख
- बहुलोकाश्रयं बालं कथमेतमुपेक्षसे ॥ करात_3_0037गघ
- अथाभ्यधान्महात्मा स वचोभिः शबरस्य तैः । करात_3_0038कख
- वध्यस्य दृष्टिपातैश्च विक्लवैर्विवशीकृतः ॥ करात_3_0038गघ
- किरात कातरो मा भूः स्वयम् संरक्ष्यते मया । करात_3_0039कख
- बहुबन्धुस्तव सुतो बध्योप्ययमबान्धवः ॥ करात_3_0039गघ
- उपहारीकरोम्येष चण्डिकायै स्वविग्रहम् । करात_3_0040कख
- मयि प्रहर निःशङ्कं जीवत्वेतज्जनद्वयम् ॥ करात_3_0040गघ
- तदद्भुतमहासत्त्वचित्तोदात्तत्वविस्मितः । करात_3_0041कख
- उन्मिषद्रोमहर्षस्तं ततः स शबरोभ्यधात् ॥ करात_3_0041गघ
- अतिकारुण्यमिषतस्तवायं पृथिवीपते । करात_3_0042कख
- कश्चिन्मतिविपर्यासप्रकारो हृदि रोहति ॥ करात_3_0042गघ
- त्रैलोक्यजीवितेनापि यो रक्ष्यो हेलयैव तम् । करात_3_0043कख
- पृथिवीभोगसुभगं कथं कायमुपेक्षसे ॥ करात_3_0043गघ
- न मानं न यशो नार्थान्न दारान्न च बान्धवान् । करात_3_0044कख
- न धर्मं न सुतान्भूपा रक्षन्ति प्राणतृष्णया ॥ करात_3_0044गघ
- तत्प्रसीद प्रजानाथ मा वध्येस्मिन्कृत्पां कृथाः । करात_3_0045कख
- शिशुश्चैष प्रजाश्चैता जीवन्तु त्वयि जीवति ॥ करात_3_0045गघ
- उपाजिहीर्षुरात्मानं दन्तद्योतार्घडम्बरैः । करात_3_0046कख
- अर्चयन्निव चामुण्डामथोवाच स पार्थिवः ॥ करात_3_0046गघ
- सदाचारसुधास्वादे के भवन्तो वनौकसः । करात_3_0047कख
- जाह्नवीमज्जनप्रीतिं न जानन्ति मरुस्थिताः ॥ करात_3_0047गघ
- ध्रुवापायेन कायेन क्रीणतः कीर्तिमव्ययाम् । करात_3_0048कख
- ममाभी1ष्टं प्रमार्ष्टुं ते मूढ रूढोयमाग्रहः ॥ करात_3_0048गघ
- मा वोचः किंचिदपरं प्रहर्तुं चेद्घृणा तव । करात_3_0049कख
- न किं निजः कृपाणो मे शक्तह् प्रक्रान्तसिद्धये ॥ करात_3_0049गघ
- इत्युक्त्वा स स्वयं देहमुपहर्तुम् समुद्यतः । करात_3_0050कख
- खण्डनाय स्वमुण्डस्य विकोशं शस्त्रमादधे ॥ करात_3_0050गघ
- ततः प्रहर्तुकामस्य तस्य द्युकुसुमैः शिरः । करात_3_0051कख
- करश्च दिव्यवपुषा रुद्धः केनाप्यजायत ॥ करात_3_0051गघ
- 30.
- --1) Thus corr. by later hand from A1 ॰कैः.
- 33.
- --1) A R G here and elsewhere शवर॰.
- 36.
- --1) A3 एष.
- 48.
- --1) Thus corr. by later hand drom A1 ॰भीष्टां.
- [page 25]
- अथापश्यत्तथाभूतः किंचिद्दिव्याकृतिं पुरः । करात_3_0052कख
- न चण्डिकां न तं वध्यं न किरातं न दारकम् ॥ करात_3_0052गघ
- स तं दिव्यस्तदावादीन्मां त्वम् सत्त्ववशीकृतम् । करात_3_0053कख
- विद्धि मध्यमलोकेन्दो वरुणं करुणानिधे ॥ करात_3_0053गघ
- यदेतत्त्वामुपास्तेद्य छत्त्रं तन्मत्पुरात्पुरा । करात_3_0054कख
- महाबलोहरद्भौमः पुराणश्वशुरस्तव ॥ करात_3_0054गघ
- रसातलैकतिलकं माहात्म्यवदिदम् विना । करात_3_0055कख
- उपद्रवाः प्राणहराः पौराणां नः पदे पदे ॥ करात_3_0055गघ
- तदिदं प्राप्तुकामेन त्वदौदार्यं परीक्षितुम् । करात_3_0056कख
- कारुण्यमय माथेयं निरमायि मयेदृशी ॥ करात_3_0056गघ
- त्वदादिर्यो व्यधाज्जन्तून्व्यसून्वसुकु1लात्मजः । करात_3_0057कख
- प्रायश्चित्तमभारेण चरसीव तदेनसः1 ॥ करात_3_0057गघ
- भयस्पृहाजन1कयोर्धरणीधारणोचिते । करात_3_0058कख
- शेषदेहे विषोद्गारफणारत्नौघयोरिव ॥ करात_3_0058गघ
- तमःप्रकाशावहयोस्तेजःक्रान्तदिगन्तरे । करात_3_0059कख
- उषर्बुधे धूमज्वालापल्लवयोरिव ॥ करात_3_0059गघ
- क्लमाप्यायक्रियाभाजो रुद्धतेजस्विमण्डले । करात_3_0060कख
- प्रावृट्पयोदच्छन्नेह्नि संतापासारयोरिव ॥ करात_3_0060गघ
- द्वयोरालोकितं चित्रं जन्मैकस्मिन्महाकुले । करात_3_0061कख
- तस्य त्रिकोटिहन्तुश्च तत्राहिंसस्य च प्रभोः ॥ चक्कलकम्॥ करात_3_0061गघ
- नम्रः सम्राडथैवम् स वदतो यादसाम् प्रभोः । करात_3_0062कख
- चकार पूजां स्तोत्रेण छत्त्रेण च कृताञ्जलिः ॥ करात_3_0062गघ
- तं च स प्रतिगृह्णन्तं प्रणयादुष्णवारणम् । करात_3_0063कख
- जगाद गुणिनामग्न्यो वरुणं धरणीधरः ॥ करात_3_0063गघ
- कल्पद्रुमाश्च सन्तश्च नार्हन्ति समशीर्षिकाम् । करात_3_0064कख
- अर्थिनां प्रार्थिताः पूर्वे फलन्त्यन्ये स्वयं यतः ॥ करात_3_0064गघ
- अवालम्बिष्यत छत्त्रं कथं नः पुण्यपण्यताम् । करात_3_0065कख
- तत्प्रार्थयिष्यत1 न चेदार्तोपकृतये भवान् ॥ करात_3_0065गघ
- वदान्यः1 संविभाग्येभ्यः2 पूर्णं कुर्यादनुग्रहम् । करात_3_0066कख
- छाययाप्याययन्दद्या3त्फलान्यपि महीरुहः ॥ करात_3_0066गघ
- तदेवं1 विहितोदात्तसंविभागाभिचोदितः । करात_3_0067कख
- जनोयं भ्गवन्किंचिद्वरम् प्रार्थयते परम् ॥ करात_3_0067गघ
- वशीकृतेयम् पृथिवी कृत्स्ना भवदनुग्रहात् । करात_3_0068कख
- जेतुम् द्वीपान्कथ्यतां तु युक्तिह् पाथोधिलङ्घने ॥ करात_3_0068गघ
- इत्यर्थ्यमानोकथयद्भूमिपालं जलेश्वरः । करात_3_0069कख
- तितीर्षौ भवति स्तम्भं नीयतेम्भो भयाम्बुधेः ॥ करात_3_0069गघ
- ततो महान्प्रससदोयमित्युक्ते पृथिवीभुजा । करात_3_0070कख
- तिरोबभूव भगवान्वरुणः सोष्णवारणः ॥ करात_3_0070गघ
- अन्येद्युर्विस्मयस्मेरैर्बलैः सीमन्तयञ्जलम् । करात_3_0071कख
- प्रभावस्तम्भितक्षोभं1 प्रोत्ततार स वारिधिम् ॥ करात_3_0071गघ
- गुणरत्नाaकरः शैलं स रत्नाकरशेखरम् । करात_3_0072कख
- नानारत्नाकरं सैन्यैरारुरोहाथ रोहणम् ॥ करात_3_0072गघ
- तत्र तालीतरुवनच्छायाध्यासितसैनिकम् । करात_3_0073कख
- प्रीत्या लङ्काधिराजस्तमुपतस्थे बिभीषणः ॥ करात_3_0073गघ
- समागमः स शुशुभे नरराक्षसराजयोः । करात_3_0074कख
- वन्दिनादा1श्रुतान्योन्य2प्रथमालापसंभ्रमः ॥ करात_3_0074गघ
- अथ रक्षःपतिर्लङ्कां नीत्वालंकरणं क्षितेः । करात_3_0075कख
- अमर्त्यसुलभाभिस्तं विभूतिभिरुपाचरत् ॥ करात_3_0075गघ
- यदासीत्पिशिताशा इत्यन्वर्थं नाम रक्षसाम् । करात_3_0076कख
- तदा तदाज्जाग्रहणे प्रापि तद्रूढिशब्दताम् ॥ करात_3_0076गघ
- रक्षःशिरःप्रतिच्छन्दैः1 स्थिरप्रणतिसूचकैः । करात_3_0077कख
- सनाथशिक्झरान्प्रादात्तस्मै रक्षःपतिर्ध्वान् ॥ करात_3_0077गघ
- पाराद्वारिनिधेः प्राप्ताः कश्मीरेष्वधुनापि ये । करात_3_0078कख
- राज्जां यात्रासु निर्यान्ति ख्याताः पारध्वजाः पुरः । करात_3_0078गघ
- इत्थमाराक्षसकुलं प्राणिहिंसाम् निष्ध सः । करात_3_0079कख
- स्वमण्डलं प्रति कृती न्यवर्तत नराधिपः ॥ करात_3_0079गघ
- 57.
- --1) The aksharas न्व्यसून्वसुकु and मारेण चरसीव तदेनसः supplied by A3 in spaces left by A1.
- 58.
- --1) भयस्पृहाजन supplied by A3, as above.
- 65.
- --1) त supplied by A3.
- 66.
- --1) Emended; A R G वदन्यः.
- --2) A1 gloss अर्थिभ्यः.
- --3) Thus corr. by A3 from A1 दध्यात्.
- 67.
- --1) Thus corr. by A3 from A1 तदयं.
- 71.
- --1) Thus A1; A3 जलं.
- 74.
- --1) दा supplied by A3.
- --2) न्योन्व supplied by A3 in space left by A1.
- 77.
- --1) A1 glosss प्रतिमाभिः.
- [page 26]
- त1तः प्रभृति तस्याज्ञा सार्वभौमस्य भूपतेः । करात_3_0080कख
- हिंसाविरतिरूपा सा न कैश्चिदुदलङ्घ्यः ॥ करात_3_0080गघ
- क्षुद्रैरुध्रादिभिर्नाप्सु सिंहाद्यैर्गहने न च । करात_3_0081कख
- न श्येनप्रमुखैर्व्योम्नि तद्राज्ये जन्तवो हताः1 ॥ करात_3_0081गघ
- अतिक्रामति कालेथ कोपि शोकाकुलो द्विजः । करात_3_0082कख
- पुत्रं गदार्तमादाय द्वारि चक्रन्द भूपतेः ॥ करात_3_0082गघ
- दुर्गया प्रार्थितं राजन्पश्वाहारं1 विनैष मे । करात_3_0083कख
- अनन्यसंततेः सूनुर्ज्वरेनाद्य विपद्यते ॥ करात_3_0083गघ
- यद्यहिंसाग्रहेणेमं क्षितिपाल न रक्षसि । करात_3_0084कख
- एतद्विपत्तौ तत्कोन्यो निमित्तं प्रतिभाति मे ॥ करात_3_0084गघ
- निणयो वर्णगुरुना त्वयैवैष प्रदीयताम् । करात_3_0085कख
- ब्राह्मणस्युa पशोर्वा स्यात्प्राणानां कियदन्तरम् ॥ करात_3_0085गघ
- तपःस्थानपि ये जघ्नुर्ब्राह्मणप्रानलब्धये । करात_3_0086कख
- हा मातस्तेधुना भूमे प्रजापालास्तिरोहिताः ॥ करात_3_0086गघ
- इति ब्रुवति साक्षेपं शोकरूक्षाक्षरं द्विजे । करात_3_0087कख
- आपन्नार्तिहरो राजा चिरमेवम् व्यचिन्तयत् ॥ करात_3_0087गघ
- न वध्याः प्राणिन इति प्राङ्मया समयः कृतः1 । करात_3_0088कख
- विप्रार्थमपि किं कुर्यां स प्रतिज्जातविप्लवम् ॥ करात_3_0088गघ
- निमित्तीकृत्य मामद्य विपद्येत द्विजो यदि । करात_3_0089कख
- तत्राप्यत्यन्तपापीयानर्थह् संकल्पविप्लवः ॥ करात_3_0089गघ
- नैति मे संशयभ्रान्तमेकपक्षावलम्बनम् । करात_3_0090कख
- संभेदावर्तपतितं प्रसूनमिव मानसम् ॥ करात_3_0090गघ
- तत्स्वदेहोपहारेण दुर्गां तोषयता मया । करात_3_0091कख
- प्रतिज्जया समं न्याय्यं रक्षितुं जीवितं द्वयोः ॥ करात_3_0091गघ
- इति संचिन्त्य सुचिरं देहदानोद्यतो नृपः । करात_3_0092कख
- श्वः प्रियं तव कर्तास्मीत्युक्त्वा विप्रं व्यसर्जयत् ॥ करात_3_0092गघ
- क्षपायां क्ष्मापतिमथ स्वमुपाहर्तुमुद्यतम् । करात_3_0093कख
- निषिध्य दुर्गा व्यधित प्रकृतिस्थं द्विजन्मजम् ॥ करात_3_0093गघ
- इत्याद्यद्यतनस्यापि चरितं तस्य भूपतेः । करात_3_0094कख
- पृथग्जनेष्वसंभाव्यं वर्णयन्तस्त्रपामहे ॥ करात_3_0094गघ
- अ1थवा रचनानिर्विशेषमार्षेण वर्त्मना । करात_3_0095कख
- प्रस्थिता2 नानुरुन्धन्ति श्रोतृचित्तानुवर्तनम् ॥ करात_3_0095गघ
- तस्मिन्नस्तम्गते भुक्त्वा क्ष्मां चत्रुस्त्रिंशतम् समाः । करात_3_0096कख
- अनादित्यमिवाशेषं निरालोकमभूज्जगत् ॥ करात_3_0096गघ
- अथ क्ष्माभृद्ररक्ष क्ष्मां श्रेष्ठसेनस्तदात्मजः । करात_3_0097कख
- आहुः प्रवरसेनं यम् तुज्जीनं चाञ्जसा जनाः ॥ करात_3_0097गघ
- दोःस्तम्भसंभृतासक्तौ कृपाणमणिदर्पणे । करात_3_0098कख
- संक्रान्तेवोन्मुखी यस्य भुवनश्रीर्व्यभाव्यत ॥ करात_3_0098गघ
- समातृचक्रं निमाय यः पूर्वं प्रवरेश्वरम् । करात_3_0099कख
- पुण्याः पुराणाधिष्ठाने प्रतिष्ठा विविधा व्यधात् ॥ करात_3_0099गघ
- गृहाङ्गनमिव क्षोणीं गणयन्वशवर्तिनीम् । करात_3_0100कख
- त्रिगर्तोर्वीं ग्राममध्ये1 प्रवरेशाय यो ददौ ॥ करात_3_0100गघ
- ईशो नृपाणां निःशेषक्ष्माकेदारकुटुम्बिनाम् । करात_3_0101कख
- स समास्त्रिंशतम् भूभृदानिस्त्रिंशाशयोभवत् ॥ करात_3_0101गघ
- हिरण्यतोरमाणाख्यौ व्यधत्तामथ तत्सुतौ । करात_3_0102कख
- साम्राज्ययुवराज्यत्वभाजने रञ्जनं क्षितेः ॥ करात_3_0102गघ
- बलाहतनां1 प्राचुर्यं विनिवार्यासमञ्जसम् । करात_3_0103कख
- तोरमाणेन दीन्नाराः2 स्वाहताः3 संप्रवर्तिताः ॥ करात_3_0103गघ
- मामवज्ञाय राज्ञेव कस्मादेतेन1 वल्गितम् । करात_3_0104कख
- इति तं पूर्वजो राजा क्रोधनो बन्धने व्यधात् ॥ करात_3_0104गघ
- चिरंस्थितित्यक्तशुचस्तत्र तस्याञ्जनाभिधा । करात_3_0105कख
- ऐक्ष्वाकस्यात्मजा राज्ञी वज्रेन्द्रस्यास्त गुर्विणी ॥ करात_3_0105गघ
- आसन्नप्रसवा भर्त्रा सा त्रपार्तेन1 बोधिता । करात_3_0106कख
- सुतं प्रविष्टा प्रासोष्ट कुलालनिलये क्वचित् ॥ करात_3_0106गघ
- स कुम्भकारगेहिन्या काक्येव पिकशाबकः । करात_3_0107कख
- पुत्रीकृतो राजपुत्रः प्र्याप्तं पर्यवर्धत ॥ करात_3_0107गघ
- 80--<81>.
- --1)--1) These two verses have been supplied in margin by A3.
- 83.
- --1) A3 राजन्नुपहारं.
- 88.
- --1) A3 प्राग्योस्मि समकल्पयम्.
- 95.
- --1) This verse is supplied by A3 in margin.
- --2) A3 gloss जनाः.
- 100.
- --1) Thus A3; A1 ॰सख्ये.
- 103.
- --1) Thus A; G R Edd. बाला॰.
- --2) A3 gloss सुवर्णमया रजताश्रमयाश्च.
- --3) A3 gloss स्वाहताः स्वनामाक्षरमुद्राङ्कदानेन आहताः संप्रवर्तिताः व्यवहारविषयाः कृताः.
- 104.
- --1) A3 gloss तोरमाणेन.
- 106.
- --1) A3 gloss त्रपार्तेन सलज्जेन.
- [page 27]
- जनयित्र्याः कुलाल्याश्च रक्षित्र्या विदितोभवत् । करात_3_0108कख
- रत्नसूते1र्भुजंग्याश्च प्रच्छन्न इव शेवधिः ॥ करात_3_0108गघ
- पौत्रः प्रवरसेनस्य गिरा मातुर्नृपात्मजः । करात_3_0109कख
- पैतामहेन नाम्नैव कुलाल्या ख्यापितोभवत् ॥ करात_3_0109गघ
- वर्धमानः स संपर्कं न सेहे सहवासिनाम् । करात_3_0110कख
- तेजस्विमैत्रीरसिकः शिशुः पद्म इवाम्भसाम् ॥ करात_3_0110गघ
- तं कुलीनैश्च शूरैश्च विद्याविद्भिश्च दारकैः । करात_3_0111कख
- अन्वीतमेव ददृशुः क्रीडन्तं विस्मयाज्जनाः ॥ करात_3_0111गघ
- स्ववृन्दस्यात्युदारौजा1 राजा चक्रे स दारकैः । करात_3_0112कख
- मृगेन्द्रशावः क्रीडद्भिर्वने बालमृगैरिव ॥ करात_3_0112गघ
- संविभेजेनुजग्राह वशीचक्रे च सोर्भकान् । करात_3_0113कख
- अराजोचितमाचारम् नैव कंचिद1सेवत ॥ करात_3_0113गघ
- भाण्डादि कर्तुम् मृत्पिण्डं कुम्भकारैः समर्पितम् । करात_3_0114कख
- स्वीकृत्य चक्रिरे तेन शिवलिङ्गपरंपराः ॥ करात_3_0114गघ
- तथा साश्चर्यचर्यः स क्रीडञ्जातु व्यलोक्यत । करात_3_0115कख
- मातुलेन जयेन्द्रेण सादरं चाभ्यनन्द्यत ॥ करात_3_0115गघ
- आवेद्यमानं शिशुभिस्तं जयेन्द्रोयमित्यसौ1 । करात_3_0116कख
- भूपालवत्सावहेलं पश्यन्नन्वग्रहीदिव ॥ करात_3_0116गघ
- संभाव्य सत्त्वावष्टम्भात्तमसामान्यवंशजम् । करात_3_0117कख
- सादृश्याद्भगिनीभिर्तुर्भागिनेयमशङ्कत ॥ करात_3_0117गघ
- सत्वरस्तत्त्वजिज्ञासारसेनानुससार तम् । करात_3_0118कख
- प्राप्तस्तद्गृहमौत्सुक्यात्स्वसारं च व्यलोकयत् ॥ करात_3_0118गघ
- सा स चान्योन्यमुन्मन्यू पश्यन्तौ भ्रातरौ चिरात् । करात_3_0119कख
- निःश्वासद्विगुणोष्माणि मुहुरस्रूण्यमुञ्चताम् ॥ करात_3_0119गघ
- कुलाल्या दारको मातः कावेताविति पृष्टवान् । करात_3_0120कख
- अकथ्यतेत्थं वत्सैषा मातायां मातुलश्च ते ॥ करात_3_0120गघ
- पितुर्बन्धेन सक्रोधं तम् कालापेक्षयाक्षमम् । करात_3_0121कख
- शिक्षयित्वा जयेन्द्रोथ कार्यशेषाय निर्ययौ ॥ करात_3_0121गघ
- उत्पिञ्जोत्पादनासज्जे1 तस्मिन्भ्रात्रा यदृच्छया । करात_3_0122कख
- बन्धात्त्यक्तो नृतरणिस्तोरमाणोस्तमाययौ ॥ करात_3_0122गघ
- निवार्य मरणोद्योगं मातुर्निर्वेदखेदितः । करात_3_0123कख
- ययौ प्रवरसेनोथ तीर्थौत्सुक्याद्दिगन्तरम् ॥ करात_3_0123गघ
- रक्षित्वा दशमासोनाः क्ष्मामेकत्रिंशतिम् समाः । करात_3_0124कख
- तस्मिन्क्षणे हिरण्योपि शान्तिं निःसंततिर्ययौ ॥ करात_3_0124गघ
- तत्रानेहस्युज्जयिन्याम् श्रीमान्हर्षापराभिधः । करात_3_0125कख
- एकच्छत्त्रश्चक्रवर्ती विक्रमादित्य इत्यभूत् ॥ करात_3_0125गघ
- भूपमद्भुतसौभाग्यं श्रीर्बद्धरभसाभजत् । करात_3_0126कख
- विहाय हरिबाहूंश्च चतुरः सागरांश्च यम् ॥ करात_3_0126गघ
- लक्ष्मिं कृत्वोपकरणं गुणे येन प्रवर्धिते1 । करात_3_0127कख
- श्रीमत्सु गुणिनोद्यापि तिष्ठन्त्युद्धुरकन्धराः ॥ करात_3_0127गघ
- म्लेच्छोच्छेदाय वसुधाम् हरेर1वतरिष्यतः । करात_3_0128कख
- शकान्विनाश्य येनादौ कार्यभारो लघूकृतः ॥ करात_3_0128गघ
- नानादिगन्तराख्यातं गुणवत्सुलभं नृपम् । करात_3_0129कख
- तं कविर्मातृगुप्ताख्यः सर्वा1स्थानस्थमासदत् ॥ करात_3_0129गघ
- स गम्भीरस्य भूभर्तुरनुभावं महाद्भुतम् । करात_3_0130कख
- विविधास्थानसंवृद्धस्तस्याभ्यूह्य व्यचिन्तयत् ॥ करात_3_0130गघ
- सोयमासादितः पुण्यैः क्षोणिपालो गुणिप्रियः । करात_3_0131कख
- परभागोपलम्भाय पूर्वेमुष्य महीभुजः ॥ करात_3_0131गघ
- यस्मिन्ना1जनि तत्त्वज्ञैः सूरिभिः संभृतश्रुतैः । करात_3_0132कख
- नाञ्जलिर्दीयते जातु मानाय च गुणाय च ॥ करात_3_0132गघ
- भङ्ग्यामुष्मिन्विदधती स्वाभिप्रायप्रकाशनम् । करात_3_0133कख
- वैदग्ध्यबन्ध्यतां नैति बुद्धिह् कुलवधूरिव ॥ करात_3_0133गघ
- खिलीकृतखलालापे युक्तायुक्तविवेक्तरि । करात_3_0134कख
- नायातिसेव्यमानेस्मिन्स्वगुणोनर्थकारिताम् ॥ करात_3_0134गघ
- अनाप्नुवद्भिः सावद्यदुर्विद्यसम्शीर्षिकाम् । करात_3_0135कख
- जीवन्मरणस्याग्रे गुणिभिर्नानुभूयते ॥ करात_3_0135गघ
- 208.
- --1) A3 gloss भूमेः.
- 112.
- --1) A2 gloss अतिशयेन उदारम् ओजः यस्य.
- 113.
- --1) Thus corr. by later hand from A. किंचिद॰ .
- 116.
- --1) A3 gloss प्रवरसेनः.
- 122.
- --1) Thus A1; A1 has given a varia lectio in margin of which only उत्पिञ्जोद्वास is legible ( उत्पिञ्जोद्वासनासज्ञ्जे ?). A3 उत्पिञ्जोत्पादने सज्जे, with gloss द्वन्द्वयुद्धस्य कोलाहले सज्जे सति.
- 127.
- --1) G Edd. गुणो येन प्रवर्धते.
- 128.
- --1) G sec manu and Edd. सभायास्था॰.
- 132.
- --1) A3 अस्मिन्ना॰.
- [page 28]
- संभावनानुसा1रेण प्रवृत्तोस्माद्विवेकिनः । करात_3_0136कख
- शोच्यते नाञ्चितोच्छ्वासं प्रीतिदायो महाशयैः ॥ करात_3_0136गघ
- गृह्णन्यथागुणं स्वान्तमुचितप्रतिपत्तिभिः1 । करात_3_0137कख
- अन्तरज्ञः समस्तानामयमुत्साहवर्धनः ॥ करात_3_0137गघ
- सेवया दृष्टकष्टस्य दाक्षिण्योत्पादने श्रमः । करात_3_0138कख
- अस्य यो न स भृत्यानां हिमाद्रौ हिमविक्रयः ॥ करात_3_0138गघ
- मिथ्याख्यातगुणो नाप्तो नामात्यः कलहप्रियः । करात_3_0139कख
- असत्यसंधः स्थेयो वा नास्थानेस्य महीपतेः ॥ करात_3_0139गघ
- अश्लीलापिनोन्योन्यं नर्मोक्त्या मर्मभेदिनः । करात_3_0140कख
- अन्यप्रवेशासहनाः संहता नास्य सेवकाः ॥ करात_3_0140गघ
- छन्दानुवर्तिनामेष निजविज्ञानवन्दिनाम् । करात_3_0141कख
- सर्वज्ञंमन्यतान्धानां मुखप्रेक्षी न पार्थिवः ॥ करात_3_0141गघ
- अनेन सह संजातः संलापो विपुलोदयः । करात_3_0142कख
- लभ्यते नान्तराच्छेत्तुं दुर्जातैर्जातु दुर्जनैः ॥ करात_3_0142गघ
- सर्वदेदोषोज्झितं सेव्यं नृपमेवमिमं मम । करात_3_0143कख
- समासादयतः पुण्यैरदूरे स्वार्थसिद्धयः ॥ करात_3_0143गघ
- गम्भीरश्च गुणज्ञश्च स्थिरबुद्धिश्च पार्थिवः । करात_3_0144कख
- एष क्लेशभयं त्यक्त्वा निषेव्यः प्रतिभाति मे ॥ करात_3_0144गघ
- न चास्माद्धनमादाय रञ्जितादन्यराजवत् । करात_3_0145कख
- भ्राम्यते1 भूतलेमुष्मिन्सेव्योन्यः प्रतिभाति मे ॥ करात_3_0145गघ
- इति संचिन्त्य सुदृढं स नवामिव तां सभाम् । करात_3_0146कख
- नारञ्जयन्न1 चास्ते स्म गुणिगोष्ठीषु मध्यगः ॥ करात_3_0146गघ
- मृदुपूर्वं गुणानेवं दर्शयन्तं विशांपतिः । करात_3_0147कख
- विशिष्टयोग्यताज्ञप्त्यै विवेदाराधनोन्मुखम् ॥ करात_3_0147गघ
- अचिन्तयच्च नायं स्याद्गुणिमात्रं महाशयः । करात_3_0148कख
- उदात्तं सत्क्रियार्हत्वं वदत्यस्य गभीरता ॥ करात_3_0148गघ
- इति संचिन्त्य राज्ञापि ज्ञातुम् तस्यान्तरं मतेः । करात_3_0149कख
- नाक्रियन्त परीक्षार्थं यथावल्लाभसत्क्रियाः ॥ करात_3_0149गघ
- स तेनानुपचारेण तमुहात्ताशयम् नृपम् । करात_3_0150कख
- स्वीकर्तारं विदन्धीमान्सिषेवे प्रीतिमाश्रितः ॥ करात_3_0150गघ
- क्रमोपचीयमानेन सेवाभ्यासेन धीमतः । करात_3_0151कख
- तस्य नोद्वेगमगमत्स्वकाय इव पार्थिवः ॥ करात_3_0151गघ
- नातीव स्वल्पया स्थित्या नातीवाप्यथ दीर्घया । करात_3_0152कख
- शरन्निशाक्षणेनेव राजा1 निन्ये2 प्रसन्नताम् ॥ करात_3_0152गघ
- नर्मभिर्गर्भचेटानां द्वाःस्थानां विक्रियाक्रमैः । करात_3_0153कख
- मिथ्यास्तवैर्विटानां च न स क्षोभमनीयत ॥ करात_3_0153गघ
- प्रसन्नालापसंप्राप्तौ छायाग्रह इवाचलः । करात_3_0154कख
- प्रतिस्पर्धीव च क्रुध्यन्नावज्ञायामभूत्प्रभोः ॥ करात_3_0154गघ
- वीक्षणं राजदासीनाम् राजद्विष्टैः1 सहासनम् । करात_3_0155कख
- राजाग्रे च कथां नीचैः कालविन्नाच्चार सः ॥ करात_3_0155गघ
- स्वभावाद्राजपुरुषैः सजनै राजनिन्दकैः । करात_3_0156कख
- नास्मात्1प्रभोरुपालम्भो लेभे पैशुन्यजीविभिः ॥ करात_3_0156गघ
- वदद्भिरादरात्स्थैर्ये वैफल्याद्व्यन्वहं प्रभोः । करात_3_0157कख
- निन्ये नोत्साहशैथिल्यं सेवोत्साहासहिष्णुभिः ॥ करात_3_0157गघ
- अन्योत्कर्षाaनपि वदन्प्रसङ्गेन निराग्रहः । करात_3_0158कख
- स्वविद्याद्योतकः सोभूत्सभ्यानां हृदयंगमः ॥ करात_3_0158गघ
- एवं स सेवमानस्तमुद्योगेन बलीयसा । करात_3_0159कख
- अनिर्विण्णो1 मातृगुप्तः षदृतूनत्यवाहयत् ॥ करात_3_0159गघ
- अथ तं कृशसर्वाङ्गं धूसरं जीर्णवाससम् । करात_3_0160कख
- बहिर्जातु विनिर्यातो राजा वीक्ष्य व्यचिन्तयत् ॥ करात_3_0160गघ
- वैदेशिको निःशरणो गुणवान्बान्धवोज्झितः । करात_3_0161कख
- दार्द्यं जिज्ञासुना कष्टम् सोयमायासितो मया ॥ करात_3_0161गघ
- कोस्याश्रयः किमशनं कानि प्रावरणानि वा । करात_3_0162कख
- इत्यैर्श्वर्यविमूढेन मया हन्त न चिन्तितम् ॥ करात_3_0162गघ
- वसन्तेनेव न मया शोभयाद्यापि योजितः । करात_3_0163कख
- शीतवातातपैः शुष्यन्सोयं पुरुषपादपः ॥ करात_3_0163गघ
- 136.
- --1) संभावनानुसा supplied by A3 in space left by A1.
- 137.
- --1) A3 gloss प्रतिपत्तिः सत्कारः सत्क्रिया पूजनं माननमिति यावत्.
- 145.
- --1) Thus corr. by A3 from A1 भ्राम्यते.
- 146.
- --1) Thus corr. by A3 from A1 नारञ्जन्न॰.
- 152.
- --1) A1 gloss राजा चन्द्रोपि.
- --2) A3 gloss मातृगुप्तेन.
- 155.
- --1) A3 gloss राजशत्रुभिः.
- 156.
- --1) A3 gloss मातृगुप्तात्.
- 159.
- --1) Thus corr. by from A1 अनिविन्नो.
- [page 29]
- अस्य ग्लानस्य भैषज्यं निविण्णस्य विनोदनम् । करात_3_0164कख
- श्रान्तस्य वा क्लमच्छेदं को विदध्यादसंपदः ॥ करात_3_0164गघ
- नास्मै चिन्तामणिं दध्यां नामृतं वा निषेवितः1 । करात_3_0165कख
- मया यदयमेतावद्व्यामूढेन परीक्ष्यते ॥ करात_3_0165गघ
- तदमुष्य गुणित्वस्य तीव्रसेवाश्रमस्य च । करात_3_0166कख
- प्रतिपत्त्या1 कतमया तावदानृण्यमाप्नुयाम् ॥ करात_3_0166गघ
- इति चिन्तयतस्तस्य राज्ञस्तं सेवकं प्रति । करात_3_0167कख
- स्वप्रसादोचिता काचित्प्रत्यभा1न्नैव सत्क्रिया ॥ करात_3_0167गघ
- तत्ः प्रावर्तत स्फारनीहारलववाहिभिः । करात_3_0168कख
- दहन्निवाङ्गं प्रालेयपवमानैर्हिमागमः ॥ करात_3_0168गघ
- संततध्वान्तमिषतस्तीव्रशीतवशीकृताः । करात_3_0169कख
- आशाश्चकाशिरे नीलनिचोलाच्छादिता इव ॥ करात_3_0169गघ
- शीतार्त्या द्युमाणवौर्वदहनोष्माभिलाषतः । करात_3_0170कख
- द्रुतं यातीव जलधिं दिनानि लघुतां ययुः ॥ करात_3_0170गघ
- अथ दीपोज्ज्वले धाम्नि लसद्दीप्तहसन्तिके1 । करात_3_0171कख
- कदाचिन्नृपतिर्दैवादर्धरात्रे व्यबुध्यत ॥ करात_3_0171गघ
- स हेमन्तानिलैर्भूरिभांकारपरुषैः पुरः । करात_3_0172कख
- दीपान्प्रकम्पितानीषत्प्रविष्टैर्धाम्नि दृष्टवान् ॥ करात_3_0172गघ
- तानुज्ज्वलयितुं भृत्यानन्दिष्यन्नभ्यधात्ततः । करात_3_0173कख
- यामिकेषु1 बहिः सज्जः को वर्तत इति स्फुटम् ॥ करात_3_0173गघ
- सुखसुप्तेषु सर्वेषु बाह्यकक्ष्यान्तरत्ततः । करात_3_0174कख
- राजन्नयमहं मातृगुप्त इत्यशृणोद्वचः ॥ करात_3_0174गघ
- प्रविशेति स्वयं राञ्जा दत्तानुज्ञस्ततो गृहम् । करात_3_0175कख
- लक्ष्मीसांनिध्यरम्यं तदपृष्टो1न्यैर्विवेश सः ॥ करात_3_0175गघ
- दीपानुज्ज्वलयेत्युक्तो निष्पाद्य चतुरैः पदैः । करात_3_0176कख
- बहिर्यियासुरूचेथ1 क्षणं तिष्ठेति भूभुजा ॥ करात_3_0176गघ
- स भयद्वोगुणीभूतशीतकम्पः प्रभोः पुरः । करात_3_0177कख
- किं स्विद्वक्तीति विमृषन्नातिदूरेभ्युपाविशत् ॥ करात_3_0177गघ
- अथ पप्रच्छ भूपालः कियत्यस्ति निशेति तम् । करात_3_0178कख
- सोभ्यधाद्देव्य यामिन्या यामः सार्धोवशिष्यते ॥ करात_3_0178गघ
- ततो भूभृदुवाचैनं कथं सम्यङ्निशाक्षणः । करात_3_0179कख
- त्वयावधारितो निद्रा कथं नाभूच्च ते निशि ॥ करात_3_0179गघ
- अथ कृत्वा क्षणाच्छ्लोकमेतं तं स व्यजिज्ञपत् । करात_3_0180कख
- अवस्थावेदनादा1शां दैन्यं वा त्यक्तुमुद्यतः ॥ करात_3_0180गघ
- शीतेनोद्धृषितस्य माषशिमिवच्चिन्तार्णवे मज्जतः शान्ताग्निं स्फुटिताधरस्य धमतः क्षुत्क्षामकण्ठस्य मे । करात_3_0181कख
- निद्रा क्वाप्यवमानितेव दयिता संत्यज्य दूरं गता सत्पात्रप्रतिपादितेव वसुधा न क्षीयते शर्वरी ॥ करात_3_0181गघ
- तदाकर्ण्य महीपालः साधुवादैः परिश्रमम् । करात_3_0182कख
- अभिनन्द्य कवीन्द्रं तं पूर्वस्थानं व्यसर्जयत् ॥ करात_3_0182गघ
- अचिन्तयच्च धिङ्मां यः सगुणात्खिन्नचेतसः । करात_3_0183कख
- दुःखोत्तप्तं वचः शृण्वन्नेवमेवाधुना स्थितः ॥ करात_3_0183गघ
- निरर्थकान्साधुवादाननयस्येव विदन्मम । करात_3_0184कख
- अयमज्ञातहृदयो दुःखमास्ते ध्रुवं बहिः ॥ करात_3_0184गघ
- चिरं चिन्तयतो यत्नात्सदृशीमस्य सत्क्रियाम् । करात_3_0185कख
- देयं महार्हमद्यापि न किंचित्प्रतिभाति मे ॥ करात_3_0185गघ
- अथ वास्यैव सूक्तेन1 स्मारितोस्म्यधुना यथा । करात_3_0186कख
- वर्तते राजरहितं काम्यं कश्मीरमण्डलम् ॥ करात_3_0186गघ
- पात्रायास्मै मही तस्मात्सा मया प्रतिपाद्यते । करात_3_0187कख
- अवधीर्य महीपालान्महतोप्यर्थनापरान् ॥ करात_3_0187गघ
- इति निश्चित्य चतुरं क्षपायामेव पार्थिवः । करात_3_0188कख
- गूढं व्यसर्जयद्दूतान्काश्मीरीः प्रकृतीः प्रति1 ॥ करात_3_0188गघ
- आदिदेश च तान्यो वो दर्शयेच्छासनं मम । करात_3_0189कख
- मातृगुप्ताभिधो राज्ये निःशङ्कं सोभिषिच्यताम् ॥ करात_3_0189गघ
- अथ दूतेषु यातेषु लेखयित्वा स्वशासनम् । करात_3_0190कख
- क्ष्मापतिस्तं क्षपाशेषं कृतकृत्योत्यवाहयत् ॥ करात_3_0190गघ
- 165.
- --1) A3 gloss अनेन इत्यर्थः.
- 166.
- --1) A3 gloss सत्क्रियया.
- 167.
- --1) A3 gloss चित्तविषयं न गता इत्यर्थः.
- 171.
- --1) A3 gloss हसान्तिका मग्नाग्निका.
- 173.
- --1) A3 gloss रात्रिजागरेषु पुरुषेषु.
- 175.
- --1) A3 तददृष्टो.
- 176. --1) Thus corr. by A3 from A1 ॰रूचे च.
- 180.
- --1) A1 gloss अवस्थायाः आवेदनं तस्मात्.
- 186.
- --1) A3 gloss सत्पात्रेत्यादिना.
- 188.
- --1) A3 gloss सचिवान् प्रति.
- [page 30]
- मातृगुप्तस्तु नृपतेः संलापमपि निष्फलम् । करात_3_0191कख
- ध्यायन्गृहीतनैराश्यस्त्यक्तभार इवाभवत् ॥ करात_3_0191गघ
- अन्तर्दध्यौ च कर्तव्यं कृतं शान्तोद्य संशयः । करात_3_0192कख
- आशापिशाचिकात्यक्तश्चरिष्याम्यधुना सुखम् ॥ करात_3_0192गघ
- गतानुगतिकत्वेन कोयमासीन्मम भ्रमः । करात_3_0193कख
- जनप्रवादात्सेव्यत्वं येनास्य ज्ञातवानहम् ॥ करात_3_0193गघ
- भुञ्जानाः पवनं सरीसृपगणाः प्रख्यापिता भोगिनो गायद्भृङ्गनिवारका निगदिता विस्तीर्णकर्णा गजाः । करात_3_0194कख
- यश्चाभ्यन्तरसंभृतोष्मविकृतिः प्रोक्तः शमी च द्रुमो लोकेनेति निरर्गलं प्रलपता सर्वं विपर्यासितम् ॥ करात_3_0194गघ
- अथ वा विद्यतेमुष्य न काप्यनभिगम्यता । करात_3_0195कख
- लक्ष्मीप्रणयिनो येन कृताः प्रणयिनां गृहाः ॥ करात_3_0195गघ
- त्यागिनो निष्कलङ्कस्य को दोषोस्य महीपतेः । करात_3_0196कख
- ममापुण्यं तु तन्निन्द्यं यच्छ्रेयःप्रतिबन्धकम् ॥ करात_3_0196गघ
- रत्नोज्ज्वलाः प्रविक्रिरंल्लहरीः समीरैरब्धिः क्रियेत यदि रुद्धतटाभिमुख्यः । करात_3_0197कख
- दोषोर्थिनः स खलु भाग्यविपर्ययाणां1 दातुर्मन्नागपि न तस्य तु दातृतायाः ॥ करात_3_0197गघ
- उत्तानफललुब्धानां वरं राजोपजीविनः । करात_3_0198कख
- न तु तत्स्वामिन1स्तीव्रपरिक्लेशैः फलन्ति ये ॥ करात_3_0198गघ
- तिष्ठन्ति ये पशुपतेः किल पादमूले संप्राप्यते झटिति तैर्नहि भस्मनोन्यत् । करात_3_0199कख
- ये तद्वृषस्य तु समुज्ज्वलजातरूपप्राप्त्या न कानि सुदिनानि अदैव तेषाम् ॥ करात_3_0199गघ
- चिन्तयन्नपि पश्यामि न कंचिद्दोषमात्मनः । करात_3_0200कख
- यातो विरक्तिं यं ज्ञात्वा सेव्यमानोप्ययं नृपः ॥ करात_3_0200गघ
- अथ वानादृतोन्येन संप्राप्तोन्तिकमाप्नुयात् । करात_3_0201कख
- कः फलेनाभिसंबन्धं गतानुगतिकात्प्रभोः ॥ करात_3_0201गघ
- अन्तर्ये सततं लुठन्त्य1गणितास्तानेव पाथोधरैरात्तानापततस्तरङ्गवलयैरालिङ्ग्य गृह्णन्नसौ । करात_3_0202कख
- व्यक्तं मौक्तिकरत्नतां जलकणान्संप्रापयत्यम्बुधिः प्रायोन्येन कृतादरो लघुरपि प्राप्तोर्च्यते2 स्वामिभिः ॥ करात_3_0202गघ
- इदं संचिन्त्ययन्सोभूत्सेव्ये तस्मिन्निरादरः । करात_3_0203कख
- खिन्नस्य हि विपर्येति तत्त्वज्ञस्यापि शेमुषी ॥ करात_3_0203गघ
- प्रभातायां विभावर्यामथास्थानस्हितो नृपः । करात_3_0204कख
- आकार्यतां मातृगुप्त इति क्षत्तारमा1दिशत् ॥ करात_3_0204गघ
- ततः प्रधावितानेकप्रतीहारप्रविशेतः । करात_3_0205कख
- प्रविवेश महीभर्तुस्त्यक्ताश इव सोन्तिकम् ॥ करात_3_0205गघ
- तस्मै कृतप्रणामाय मुहूर्तादेव पार्थिवः । करात_3_0206कख
- भ्रूसंज्ञितेन व्यतरल्लेखं लेकहदिकारिणा ॥ करात_3_0206गघ
- स्वयम् च तमुवाचाङ्ग कश्मीरान्वेत्ति किं भवान् । करात_3_0207कख
- गत्वा तत्राधिकारिभ्य एतच्छासनमर्प्यताम् ॥ करात_3_0207गघ
- स शापितोस्मद्देहेन यो लेखं वाचयेत्पथि । करात_3_0208कख
- संविदे1षा प्रयत्नेन विस्मर्तव्या न जातु चित् ॥ करात_3_0208गघ
- अविज्ञाताशयो राज्ञस्तामाज्ञां क्लेशशङ्कितः । करात_3_0209कख
- सोबुद्ध दहनज्वालां न तु रत्नाङ्कुरद्युतिम् ॥ करात_3_0209गघ
- यथादेशस्त्तथेत्युक्त्वा मातृगुप्ते विनिर्गते । करात_3_0210कख
- निर्गर्वः पूर्ववद्राजा तस्थावाप्तैः सहालपन् ॥ करात_3_0210गघ
- अथा1क्लेशोचितं क्षाममपाथेयमबान्धवम् । करात_3_0211कख
- दृष्ट्वा यान्तं मातृगुप्तं निनिन्देति नृपं जनः ॥ करात_3_0211गघ
- अहो नरेश्वरस्येयं यत्किंचनविधायिता । करात_3_0212कख
- पृथग्जनोचिते कर्मण्यर्हतो1 निदधाति यः ॥ करात_3_0212गघ
- दुराशया धृतक्लेशं सेवमानमहर्निशम् । करात_3_0213कख
- ध्रुवं क्लेशार्हमेवैनं ज्ञातवानबुधो नृपः ॥ करात_3_0213गघ
- उपायं यं1 पुरस्कृत्य सेवते सेवकः प्रभुम् । करात_3_0214कख
- अनन्तरज्ञस्तत्रैव योग्यं तं किल मन्यते ॥ करात_3_0214गघ
- 197.
- --1) A3 ॰पर्ययेण.
- 198.
- --1) A1 glosses राज्ञोपजीविनः पुरुषाः, तत्स्वामिनः तेषां स्वामिनः कर्तारः न वरं.
- 202.
- --1) Thus corr. by later hand from A1 लुठन्ति ग॰.
- --2) Thus A3; A1 ॰र्थ्यते.
- 204.
- --1) A1 gloss द्वास्स्थं.
- 208.
- --1) A3 glosss शिक्षा.
- 211.,
- --1) Thus corr. by later hand from A1 अथ क्ले॰.
- 212.
- --1) A3 gloss पूज्यान्.
- 214.
- --1) Doutful emendation; on account of an ink blot only the following is legible in the handwriting of A1: उपाय --- स्कृत्य. A4 reads उपायनं पुरस्कृत्य; this reading is found in R. G and Edd. read उपायं तं.
- p 31.
- सुखार्थी नागारिप्रतिभयशमात्प्रत्युत जहौ शेषस्तल्पीकृततनु निषेव्यासुररिपुम् । करात_3_0215कख
- यतस्तेनामुष्मिन्नधिगतवता क्लेशसहतां श्रमादायि न्यस्तं निरवधि धराभारवहनम् ॥ करात_3_0215गघ
- अयमेतद्गृहीतेषु गुनवत्सु गुणाधिकम् । करात_3_0216कख
- आत्मानं गुणवान्पश्यन्नास्थयैनमशिश्रियत् ॥ करात_3_0216गघ
- अनन्तरज्ञः1 कोन्योस्माद्गुणान्दर्शयतेधिकान् । करात_3_0217कख
- अस्मै गुणवते पूजां यश्चकार किलेदृशीम् ॥ करात_3_0217गघ
- यो नानाद्युतिमत्पदार्थरसिकोसरेपि शक्रायुधे सप्रेमा स विलोक्य वर्हमिह मे किं किं न कुर्यात्प्रियम् । करात_3_0218कख
- इत्याविष्कृतवर्हराजि नटते यो वर्हिणोम्भोलवान्नान्यन्मुञ्चति तं विहाय1 जलदं कोन्योस्ति शून्याशयः ॥ करात_3_0218गघ
- गच्छतो मातृगुप्तस्य निर्दैन्यस्यैव वर्त्मसु । करात_3_0219कख
- नाभूद्भाव्यर्थमाहात्म्याद्विकल्पः कोपि चेतसि ॥ करात_3_0219गघ
- अहंपूर्विकयोद्व्यद्भिर्निमित्तैः शुभशंसिभिः । करात_3_0220कख
- स वितीर्णकरालम्भ इव न श्रममाददे ॥ करात_3_0220गघ
- अपश्यत्स फणाकोटौ खञ्जरीटमहेः पथि । करात_3_0221कख
- स्वप्ने प्रासादमारुह्य स्वम् चोल्लङ्घितसागरम् ॥ करात_3_0221गघ
- अचिन्तयच्च शास्त्रज्ञो निमित्तैः शुभशंसिभिः । करात_3_0222कख
- एतैर्भूभर्तुरादेशो ध्रुवं मे स्याच्छुभावहः ॥ करात_3_0222गघ
- फलं मम तनीयोपि कश्मीरेषु भवेद्यदि । करात_3_0223कख
- अनर्घदेशमाहात्म्यात्किं किं नातिशयेत तत् ॥ करात_3_0223गघ
- अकृच्छ्रलङ्घ्याः पन्थानो वल्लभातिथयो गृहाः । करात_3_0224कख
- उपानमन्गच्छतोस्य सत्क्रियाश्च पदे पदे ॥ करात_3_0224गघ
- इत्थं विलङ्घिताध्वा स लोलानोकह1शाद्वलम् । करात_3_0225कख
- मङ्गल्यदधिपात्राभं ददर्शाग्रे हिमाचलम् ॥ करात_3_0225गघ
- सरलस्यन्दसुभगा गङ्गाशीकरवाहिनः । करात_3_0226कख
- प्रत्युद्ययुस्तं मरुतः पाल्यायाः1 संस्तुता भुवः ॥ करात_3_0226गघ
- क्रमवर्ताभिधाने स प्रदेशे प्राप्तवांस्ततः । करात_3_0227कख
- ढक्कं काम्बुवनामानं योद्य शूरपुरे स्थितः ॥ करात_3_0227गघ
- नानाजनपदाकीर्णे स्थाने तत्राथ शुश्रुवान् । करात_3_0228कख
- काश्मीरिकान्महामात्यान्स्थितान्केनापि हेतुना ॥ करात_3_0228गघ
- ततोपनीतप्राग्वेषः प्रावृतो धवलांशुकैः । करात_3_0229कख
- स जगामान्तिकं तेषां दातुं दातुं नृपतिशासनम् ॥ करात_3_0229गघ
- तं प्रयान्तं समुद्यद्भिः शकुनैः सूचितोद्यम् । करात_3_0230कख
- पान्थाः केप्यन्वयुर्द्रष्टुं निमित्तानां फलोद्गमम् ॥ करात_3_0230गघ
- श्रुत्वाथ विक्रमादित्यदूतः प्राप्त इति द्रुतम् । करात_3_0231कख
- द्वाःस्थाः काश्मीरमन्त्रिभ्यस्तमासन्नं न्यवेदयन् ॥ करात_3_0231गघ
- आगच्छत प्रविशतेत्युच्यमानोथ सर्वतः । करात_3_0232कख
- स तान्समस्तसामन्तानाससादानिवारितः ॥ करात_3_0232गघ
- यथाप्रधानं सचिवैर्विहितोचितसत्क्रियः । करात_3_0233कख
- ततः परार्ध्यमध्यास्त तन्निदर्शितमासनम् ॥ करात_3_0233गघ
- कृतार्हणैरथामात्यैराज्ञां पृष्टो महीभुजः । करात_3_0234कख
- शनैस्तच्छासनं तेभ्यो लज्जमान इवार्पिपत् ॥ करात_3_0234गघ
- तेभिवन्द्य प्रभोर्लेखमुपांशु1 मिलितास्ततः । करात_3_0235कख
- उन्मुच्य वाचयित्वैतमवोचन्विनयान्विताः ॥ करात_3_0235गघ
- मातृगुप्त इति श्लाघ्यं भवतामेव नाम किम् । करात_3_0236कख
- एवमेवैतदित्यूचे सोपि तान्विहितस्मितः ॥ करात_3_0236गघ
- कः कोत्र संनिधातॄणामित्यश्रूयत वाक्ततः । करात_3_0237कख
- राज्याभिषेकसंभारो दृश्यते स्म च संभृतः ॥ करात_3_0237गघ
- ततः कलकलोत्तालभूरिलोकसमाकुलः । करात_3_0238कख
- प्रदेशः क्षणमात्रेण सोभूत्क्षुभ्यन्निवार्णवः ॥ करात_3_0238गघ
- अथ प्राङ्मुखसौवर्नभद्रपीठप्रतिष्ठितः । करात_3_0239कख
- संनिपत्य प्रकृतिभिर्मातृगुप्तोभ्यषिच्यत ॥ करात_3_0239गघ
- तस्य विन्ध्यतटव्यूढवक्षसः परिनिर्लुठत् । करात_3_0240कख
- सशब्दमभिषेकाम्बु रेवास्रोत1 इवावभवौ ॥ करात_3_0240गघ
- अथ स्नातानुलिप्ताङ्गं सर्वाङ्गामुक्तभूषणम् । करात_3_0241कख
- व्यजिज्ञपंस्तं राजानं क्रान्तराजासनं प्रजाः ॥ करात_3_0241गघ
- 217,
- --1) A3 gloss मूर्खपुरुषः.
- 218.
- --1) A3 विलोक्य जलदमित्यन्यादर्शे.
- 225.
- --1) Thus A1; corr. by A3 into ॰नौकष्ठ॰, as also in G R.
- 226.
- --1) A1 gloss पाल्याया इति प्रभूभविष्यता तेनैवेत्यर्थः.
- 235.
- --1) A1 gloss परैर्न श्रूयते यत्तदुपांशु परिकीर्तितम्; A2 adds मन्त्रकरणे.
- 240.
- --1) Thus A3; A1 ॰स्रेव, corr. by later hand into ॰स्रव.
- [page 32]
- अर्थितेन स्वयं त्रातुं विक्रमादित्यभूभुजा । करात_3_0242कख
- निदिष्टः स्वसमानस्त्वं शाधि नः पृथिवीमिमाम् ॥ करात_3_0242गघ
- मण्डलानि विलभ्यन्ते1 येनानेन प्रतिक्षणम् । करात_3_0243कख
- मा मंस्था मण्डलं राजन्विलब्धं2 तदिदं परैः ॥ करात_3_0243गघ
- कर्मभिः स्वरिaवाप्तस्य जन्मनः पितरौ यथा । करात_3_0244कख
- राज्ञां तथान्ये राज्यस्य प्रवृत्तावेव कारणम् ॥ करात_3_0244गघ
- इत्थं स्थितेपरं कंचित्त्वदीयोस्मीति शंसता । करात_3_0245कख
- न नेया भवता राजन्व1यमात्मा च लाघवम् ॥ करात_3_0245गघ
- इति तैस्तथ्यमुक्तोपि संस्मरन्स्वामिसत्क्रियाम् । करात_3_0246कख
- मातृगुप्तो1 महीपालः क्षणमासीत्कृतस्मितः ॥ करात_3_0246गघ
- दानेन सुदिनं कुर्वन्नवराज्योर्जितेन सः । करात_3_0247कख
- तत्रैव मङ्गलोदग्रं तदहो निरवर्तयत्1 ॥ करात_3_0247गघ
- पुरप्रवेशायान्येद्युरर्थ्यमानोथ मन्त्रिभिः । करात_3_0248कख
- अद्भुतप्राभृतं दूतं राज्यदातुर्व्यसर्जयत् ॥ करात_3_0248गघ
- देशौन्नत्यानुसारेण स्पर्धामिव च ताम् विदन् । करात_3_0249कख
- स्वामिनो मनसि ह्रीतः सागसं स्वममन्यत ॥ करात_3_0249गघ
- अथाहूयापरान्भृत्यान्वक्तुं सेवास्मृतिं प्रभोः । करात_3_0250कख
- अल्पार्धाण्यपि सात्म्यानि1 प्राहिणोत्प्राभृतानि सः ॥ करात_3_0250गघ
- असामान्याब्गुणांस्तस्य स्मरन्पर्यस्रुलोचनः । करात_3_0251कख
- स्वयं लिखित्वा श्लोकं च स्वकमेकं व्यसर्जयत् ॥ करात_3_0251गघ
- नाकारमुद्वहसि नैव विकत्थसे त्वं दित्सां न सूचयसि मुञ्चसि सत्फलानि । करात_3_0252कख
- निःशब्दवर्षणमिवाम्बुधरस्य राजन्संलक्ष्यते फलत एव तव1 प्रसादः ॥ करात_3_0252गघ
- ततः प्रविश्य नगरं सैन्यैः पिहितदिक्तटैः । करात_3_0253कख
- क्रमागतामिव महीं यथावत्पर्यपालयत् ॥ करात_3_0253गघ
- त्यागे वा पौरुषे वापि तस्यौचित्योन्न1तात्मनः । करात_3_0254कख
- क्ष्माभुजस्तर्कुकस्येव2 नाभूत्परिमितेच्छता ॥ करात_3_0254गघ
- यष्टुं यज्ञान्धृतोद्योगस्त्यागी विततदक्षिणान् । करात_3_0255कख
- पशुबन्धमनुध्याय करुणाकूणितोभ1वत् ॥ करात_3_0255गघ
- अमारमादिशेशाथ यावद्राज्यं स्वमण्डले । करात_3_0256कख
- चूर्णीकृत्य सुवर्णादि प्रददौ च करम्भकम् ॥ करात_3_0256गघ
- करम्भके कीर्यमाणे मातृगुप्तेन भूभुजा । करात_3_0257कख
- वैतृष्ण्यमुन्मिषत्तोषो न को नाम न्यषेवत ॥ करात_3_0257गघ
- गुणी च दृष्टकष्टश्च वदान्यश्च1 स पार्थिवः । करात_3_0258कख
- विक्रमादित्यतोप्यासीदभिगम्यः शुभार्थिनाम् ॥ करात_3_0258गघ
- विवेकतया तस्य श्लाघ्यया सुरभीकृताः । करात_3_0259कख
- लक्ष्मीविलासाः क्ष्माभर्तुरशोभन्त मनीषिषु ॥ करात_3_0259गघ
- हयग्रीववधं1 मेण्ठस्तदग्रे दर्शयन्नवम् । करात_3_0260कख
- आसमाप्ति ततो नापत्साध्वसाध्विति वा वचः ॥ करात_3_0260गघ
- अथ ग्रथयितुं तस्मिन्पुस्तकं प्रस्तुते न्यधात् । करात_3_0261कख
- लावण्यनिर्याणभिया तदधः1 स्वर्णभाजनम् ॥ करात_3_0261गघ
- अन्तरज्ञतया तस्य तादृश्या कृतसत्कृतिः । करात_3_0262कख
- भर्तृमेण्ठः कविर्मेने पुनरुक्तं श्रियोर्पणम् ॥ करात_3_0262गघ
- स मातृगुप्तस्वाम्याख्यं निर्ममे मधुसूदनम् । करात_3_0263कख
- कालेनादत्त यद्वामान्मम्मः स्वसुरसद्मने1 ॥ करात_3_0263गघ
- इत्यासादितराज्यस्य शासतः क्ष्मां क्षमापतेः । करात_3_0264कख
- त्रिमासोना ययुस्तस्य सैकाहाः पञ्च वत्सराः ॥ करात_3_0264गघ
- कृतार्थतां तीर्थतोयैराञ्जनेयो1नयन्पितॄन् । करात_3_0265कख
- जातं तादृशमश्रौषीत्स्वस्मिन्देशे पराक्रमम्2 ॥ करात_3_0265गघ
- पितृशोकार्द्रता तस्य क्रोधेनान्तरधीयत । करात_3_0266कख
- तरोरिवार्कतापेन नैशाम्बुलवसिक्तता ॥ करात_3_0266गघ
- श्रीपर्वते पाशुपतव्रतिवेषस्तमा1गतम् । करात_3_0267कख
- आचख्यावश्वपादाख्यः सिद्धः कन्दाशनं ददत् ॥ करात_3_0267गघ
- 243.
- --1)
- --2) A1 indicates the vv. ll. विदीयन्ते and विदत्तं.
- 245.
- --1) Thus A3; A1 राजा.
- 246.
- --1) Thus corr. by later hand from A1 ॰गुप्तम॰; G R as above.
- 247.
- --1) A3 gloss अत्यवाहयत्.
- 250.
- --1) Thus A1; A3 स्वात्म्यानि, also G R; Edd. खाद्यानि.
- 252.
- --1) तव supplied by A3.
- 254.
- --1) Thus corr. by later hand from A1 ॰चित्यौन्न॰.
- 260.
- --1) A3 gloss काव्यम्.
- 261.
- --1) A3 राजाधः.
- 263.
- --1) A1 gloss स्वदेवगृहाय.
- 265.
- --1) A3 gloss प्रवरसेनः.
- --2) A3 पराभवम्.
- 267.
- --1) A3 gloss प्रवरसेनं.
- [page 33]
- जन्मान्तरे लब्धसिद्धिस्त्वामस्म्यु1परि साधकम् । करात_3_0268कख
- वाञ्छामपृच्छं राज्यार्थमभिलाषस्तु तेभवत् ॥ करात_3_0268गघ
- सयत्रं तत्र कर्तुं तन्मनोरथमनन्यथा । करात_3_0269कख
- अथ मामित्थमादिक्ष1त्क्षपारमणशेखरः2 ॥ करात_3_0269गघ
- गणोयं मामकः सिद्धो यस्तवोपरि साधकः । करात_3_0270कख
- जन्मान्तरेस्य राज्येच्छां कुर्यामहमनन्यथा ॥ करात_3_0270गघ
- भावं भवस्तद्भवतो भगवान्दत्तदर्शनः । करात_3_0271कख
- साफल्यं नेष्यतीत्येवमभिधाय तिरोदधे1 ॥ करात_3_0271गघ
- साम्राज्येच्छोः समामेकां तत्र तस्य1 तपस्यतः । करात_3_0272कख
- लब्धस्मृतिः2 सिद्धगिरा प्रददौ दर्शनं शिवः ॥ करात_3_0272गघ
- व्रतिवेषं तमादिष्टवाञ्छितार्थसमर्पणम् । करात_3_0273कख
- स जगन्निर्जयोन्निद्रं नरेन्द्रत्वमयाचत ॥ करात_3_0273गघ
- उपेक्ष्य मोक्षं किम् क्ष्माभृद्भोगानिच्छसि भङ्गुरान् । करात_3_0274कख
- इति जिज्ञासुना भावं शंभुना सोभ्यधीयत ॥ करात_3_0274गघ
- स तं बभाषे शंभुं त्वां बुद्ध्वा व्याजतपोधनम् । करात_3_0275कख
- अभ्यधामिदमद्धा त्वं न स देवो जगद्गुरुः ॥ करात_3_0275गघ
- महान्तो ह्यर्थिताः स्वल्पं फलन्त्यल्पेतर1त्स्वयम् । करात_3_0276कख
- उदन्यया2 वदान्यो3दाद्दुग्धाब्धिं स4 पोयोर्थिने ॥ करात_3_0276गघ
- अस्य वैकल्यकैवल्यलाभनिश्चलचेतसः । करात_3_0277कख
- नो वेत्स्यभिजनस्याभिभूतिं1 मर्मव्यथावहाम् ॥ करात_3_0277गघ
- जगत्परिवृढः1 प्रौढप्रीतिस्तं सफलार्थनम्2 । करात_3_0278कख
- कृत्वा प्रादुष्कृतवपुस्ततो भूयोभ्यभाषत ॥ करात_3_0278गघ
- मज्जतो राज्यसौख्येषु सायुज्या1वाप्तिदूतिकाम् । करात_3_0279कख
- मदाज्ञयाश्वपादस्ते संज्ञां काले करिष्यति ॥ करात_3_0279गघ
- इत्युक्त्वान्तर्हिते देवे स कृतव्रतपारणः । करात_3_0280कख
- आ1गच्छदश्वपादं तमापृच्छयाभिमतां भुवम् ॥ करात_3_0280गघ
- ततो विदितवृत्ता1न्तो मातृगुप्ताभिषेणनात् । करात_3_0281कख
- निषिध्य सविधा2यातानमात्यानब्रवीद्वचः ॥ करात_3_0281गघ
- विक्रमादित्यमुत्सिक्तमुच्छेत्तुं यतते मनः । करात_3_0282कख
- मातृगुप्तं प्रति न नो रोषेणारूषितं मनः ॥ करात_3_0282गघ
- अप्रियैरपि निष्पिष्टैः किं स्यात्क्लेशासहिष्णुभिः । करात_3_0283कख
- ये तदुन्मूलने शक्ता जिगीषा तेषु शोभते ॥ करात_3_0283गघ
- यान्यब्जान्युदयं द्विषन्ति शशिनः कोन्यस्ततो1संमतस्तन्निर्माथिकरीन्द्रदन्तदलनं यन्नाम कोयं नयः । करात_3_0284कख
- सामर्थ्यप्रथनाय चित्रमसमैः2 स्पर्धां विधूयोन्नता ये तेषु प्रभवन्ति तत्र जहति व्यक्तं प्ररूढा रुषः ॥ करात_3_0284गघ
- त्रिगर्तानां भुवं जित्वा स व्रजन्नथ भूपतिः । करात_3_0285कख
- विक्रमादित्यमशृणोत्कालधर्ममुपागतम् ॥ करात_3_0285गघ
- तस्मिन्नहनि भूभर्त्रा शोकान्निःश्वस1तानिशम् । करात_3_0286कख
- नास्नायि नाशि नास्वापि स्थितेनावनताननम् ॥ करात_3_0286गघ
- अन्येद्युर्भुवमुत्सृज्य कश्मीरेभ्यो विनिर्गतम् । करात_3_0287कख
- शुश्राव मातृगुप्तं स नातिदूरे कृतस्थितिम् ॥ करात_3_0287गघ
- कैश्चिन्निर्वासितो मा स्विन्मदीयैरिति शङ्कितः । करात_3_0288कख
- ययौ प्रवरसेनोस्य पार्श्वं मितपरिच्छदः ॥ करात_3_0288गघ
- कृतार्हणं सुखासीनं ततः पप्रच्छ तं शनैः । करात_3_0289कख
- विनयावनतो राजा1 राज्यत्यागस्य कारणम् ॥ करात_3_0289गघ
- बभाषे तं क्षणं स्थित्वा स1 निःश्वस्य2 विहस्य च । करात_3_0290कख
- गतः स सुकृती2 राजन्येन भूमिभुजो वयम् ॥ करात_3_0290गघ
- यावन्मूर्ध्नि रवेः पादास्तावद्द्योतयते दिशः । करात_3_0291कख
- द्योतने नान्यथा किंचिद्ग्रा1वैव तपनोपल्2अः ॥ करात_3_0291गघ
- 268.
- --1) मस्म्यु supplied by A3 in space left by A1.
- 269.
- --1)
- --2) A3 glosses आदिदेश and ईश्वरः.
- 271.
- --1) A3 gloss अश्वपादः.
- 272.
- --1) A3 gloss प्रवरसेनस्य.
- --2) Thus A1; corr. by later hand into ॰स्मृतेः, as found also in R.
- 276.
- --1) A1 gloss स्वल्पमर्थिता बहु फलन्ति महान्तः.
- --2) A1 gloss उदन्यया पिपासया.
- --3) Emended: A R G वदन्यो.
- --4) A3 gloss शिवः.
- 277.
- --1) A3 gloss पराभवं.
- 278.
- --1) A3 gloss प्रभुः.
- --2) Thus corr. by A3 from A1 स फलार्थिनम्.
- 279.
- --1) Thus A1; corr. by later hand into सांयुज्या॰.
- 280.
- --1) A3 अगच्छ॰.
- 281.
- --1) त्त supplied by A3 in space left by A1.
- --2) A3 gloss निकटं.
- 284.
- --1) A3 gloss तेभ्यः.
- --2) A3 gloss नीचैः.
- 286.
- --1) Emended; A निश्वस॰.
- 289.
- --1) A3 gloss प्रवरसेनः.
- 290.
- --1) A3 gloss मातृगुप्तः.
- --2) Thus corr. by later hand from A1 निश्वस्य.
- --3) A3 gloss विक्रमादित्यः.
- 291.
- --1) Thus A1; corr. by A3 into द्योतयेन्नान्यथा किं न which reading is found also in G R Edd.
- --3) A2 gloss सूर्यकान्तः.
- [page 34]
- अथ राजाभ्यधात्केन राजन्नपकृतं तव । करात_3_0292कख
- यत्प्रत्यप1पचिकीर्षायै तमीशमनुशोचसि ॥ करात_3_0292गघ
- मातृगुप्तस्ततोवादीत्कोपस्मितसिताधरः । करात_3_0293कख
- अस्मानुत्सहते कश्चिन्नापकर्तुं बलाधिकः ॥ करात_3_0293गघ
- नयता गण्यतामस्मानन्तरज्ञेन तेन1 हि । करात_3_0294कख
- न भस्मनि हुतं सर्पिनोर्नोप्तं वा सस्यमूषरे ॥ करात_3_0294गघ
- उपकारं स्मरन्तस्तु कृतज्ञत्ववशंवदाः1 । करात_3_0295कख
- पदवीमुपकर्तॄणां यान्ति निश्चेतना अपि ॥ करात_3_0295गघ
- निर्वाणमनुनिर्वाति तपनं तपनोपलः । करात_3_0296कख
- इन्दुमिन्दुमणिः किं च शुष्यन्तमनुशुष्यति ॥ करात_3_0296गघ
- पुण्यां वाराणसीं गत्वा तस्माच्छमसुखोन्मुखः । करात_3_0297कख
- इच्छामि सर्वसंन्यासं कर्तुं द्विजनोचितम् ॥ करात_3_0297गघ
- मणिदीपमिवेशं1 तमन्तरेणान्धकारिताम् । करात_3_0298कख
- बिभेमि द्रष्टुमप्युर्वी भोगयोगे कथैव का ॥ करात_3_0298गघ
- इत्यौचित्यनिधेस्तस्य वाणीमाकर्ण्य विस्मितः । करात_3_0299कख
- धीरः प्रवरसेनोपि व्याजहारोचितं वचः ॥ करात_3_0299गघ
- सत्यं विश्वंभरा देवी भूपते रत्नसूरियम् । करात_3_0300कख
- उत्पत्त्या द्योतने धर्म्यैः कृतज्ञैर्या भवादृशैः ॥ करात_3_0300गघ
- अन्तरज्ञतया श्लाघ्यः कोन्यस्तस्मान्महीभुजः1 । करात_3_0301कख
- इत्थं जडे जगत्येकस्त्वां यथावद्विवेद यः ॥ करात_3_0301गघ
- चिरं खलु खिलीभूताः कृतज्ञत्वस्य वीथयः । करात_3_0302कख
- धीर त्वयैव न त्वामु1 संचारो यदि दर्श्यते2 ॥ करात_3_0302गघ
- पाकश्चेन्न शुभस्य मेद्य तदसौ प्रागेव नादात्किमु स्वार्थश्चेन्न मयास्य किं न भजते दीनान्स्वबन्धूनयम् । करात_3_0303कख
- मत्तो रन्ध्रदृशोस्य भीर्यदि न तल्लुब्धः किमेष त्यजेदित्यन्तःपुरुषाधमः कलयति प्रायः कृतोपक्रियः ॥ करात_3_0303गघ
- अत्युदात्तगुणेष्वेषा कृतपुण्यैः प्ररोपिता । करात_3_0304कख
- शतशाखीभवत्येव यावन्मात्रापि सत्क्रिया ॥ करात_3_0304गघ
- तत्त्वं गुणवतामग्र्यस्तत्त्वज्ञ्जैश्चाभिनन्दितः । करात_3_0305कख
- परीक्षितो मणिरिव व्यक्तं बहुमतः सताम् ॥ करात_3_0305गघ
- तस्मादनुगृहाणास्मान्मा स्म त्याक्षीर्नरेन्द्रताम् । करात_3_0306कख
- ममापि ख्यातिमायातु गुणवत्पक्षपातिता ॥ करात_3_0306गघ
- पूर्वं तेनाथ चरमं मयापि प्रतिपादिताम् । करात_3_0307कख
- भवान्प्रतिप्र1णयिनीं विदधातु पुनर्भुवम् ॥ करात_3_0307गघ
- अव्याजौदार्यचर्यस्य श्रुत्वेति नृपतेर्वचः । करात_3_0308कख
- कृतस्मितो मातृगुप्तः शनैर्वचनमब्रवीत् ॥ करात_3_0308गघ
- यान्यक्षराण्य1न्तरेण वाच्यं वक्तुं न पार्यते । करात_3_0309कख
- का गतिस्तदुपादाने मर्यादोल्लङ्घनं विना ॥ करात_3_0309गघ
- अ1तः परुषमप्यद्य किंचिदेव मयोच्यते । करात_3_0310कख
- अव्याजार्जवमप्येतदार्थत्वमवधीर्यते ॥ करात_3_0310गघ
- सर्वः स्मरति सर्वस्य प्रागवस्थासु लाघवम् । करात_3_0311कख
- आत्मैव वेत्ति माहात्म्यं वर्तमाने क्षणे पुनः ॥ करात_3_0311गघ
- पूर्वावस्था मदीया ते त्वदीया या च मे हृदि । करात_3_0312कख
- ताभ्यां विमोहितावावां न विद्वोन्योन्यमाशयम् ॥ करात_3_0312गघ
- राजा भूत्वा कथं मादृक्प्रतिगृह्णातु संपदः । करात_3_0313कख
- कथमेकपदे सर्वमौचित्यं परिमार्जतु ॥ करात_3_0313गघ
- असाधारणमौदार्यमाहात्म्यं तस्य भूपतेः । करात_3_0314कख
- भोगमात्रकृते मादृक्किं साधारणतां नयेत् ॥ करात_3_0314गघ
- अपि च स्पृहयालुः स्यां भोगेभ्यो यदि भूपते । करात_3_0315कख
- ध्रियमाणेभिमाने मे केन ते1 विनिवारिताः ॥ करात_3_0315गघ
- यन्ममोपकृतं तेन तद्विना प्रत्युपक्रियाम् । करात_3_0316कख
- जीर्णमेवाधुनाङ्गेषु प्रभवत्वेष निश्चयः ॥ करात_3_0316गघ
- या गतिर्भूभुजोमुष्य मया तामनुगच्छता । करात_3_0317कख
- पात्रापात्रविवेक्तृत्वख्यातिर्नेया प्रकाश्यताम् ॥ करात_3_0317गघ
- एतावत्येव कर्तव्ये यातेस्मि1न्कीर्तिशेषताम् । करात_3_0318कख
- भोगमात्रपरित्यागाद्विदध्यां सत्यसंधताम् ॥ करात_3_0318गघ
- 292.
- --1) Thus corr. by later hand from 1 यत्पत्युप॰.
- 294.
- --1) A3 gloss तेन हर्षदेवेन.
- 295.
- --1) A3 ॰वशीकृताः.
- 298.
- --1) A3 gloss विक्रमादित्यं.
- 302.
- --1) A3 gloss वीथीषु.
- --2) दर्श्यते supplied by A3 in space left by A1.
- 307.
- --1) Thus A1; A3 ॰न्पाणिप्र॰.
- 309.
- --1) Thus corr. by A3 from A1 यान्यक्षारा॰.
- 310.
- --1) This verse has been omitted by A1 and supplied in margin by A3; found in R G.
- 315.
- --1) A3 gloss ते भोगा इत्यर्थः.
- 318.
- --1) A3 gloss विक्रमादित्ये.
- [page 35]
- इत्युक्त्वा विरते तस्मिञ्ज्गाद जगातीपतिः । करात_3_0319कख
- त्वदीया न मया स्पृशयास्त्वयि जीवति संपदः ॥ करात_3_0319गघ
- अथ वाराणसीं गत्वा कृतकाषायसंग्रहः । करात_3_0320कख
- सर्वं संन्यस्य सुकृती मातृगुप्तोभवद्यतिः ॥ करात_3_0320गघ
- राजा प्रवरसेनोपि काश्मीरोत्पत्तिमञ्जसा । करात_3_0321कख
- निखिलां मातृगुप्ताय प्राहिणोद्दृढनिश्चयः ॥ करात_3_0321गघ
- स्स हठापतितां लक्ष्मीं भिक्षाभुक्प्रतिपादयन् । करात_3_0322कख
- सर्वाaर्थिभ्यः कृती वर्षान्दश प्राणानधारयत् ॥ करात_3_0322गघ
- अन्योन्यं साभिमानानामन्योन्यौचित्यशालिनाम् । करात_3_0323कख
- त्रयाणाम1पि वृत्तान्त एष त्रिपथगापयः ॥ करात_3_0323गघ
- राजा प्रवरसेनोथ नमयन्नवनीधरान् । करात_3_0324कख
- अकृच्छ्रलङ्घ्याः ककुभो वृद्धस्य यशसो व्यधात् ॥ करात_3_0324गघ
- पीताब्धिर्लङ्घितोर्वीभृत्कुम्भयोनिरिवानयत् । करात_3_0325कख
- तस्य प्रतापः प्रभवन्भुवनानि1 प्रसन्नताम् ॥ करात_3_0325गघ
- शुष्यत्तमालपन्नाणि शीर्णताडीदलानि च । करात_3_0326कख
- तत्सेनार्णवतीराणि चक्रेरिस्त्रीमुखानि च ॥ करात_3_0326गघ
- स गङ्गालिङ्गिताङ्गस्य पूर्ववारिनिधेर्व्यधात् । करात_3_0327कख
- सैन्येभमदनिष्पन्दैः कालिन्दीसंगमाश्रियम् ॥ करात_3_0327गघ
- रोधस्यपरपाथोधेः कटकैः स्पृष्टदिक्तटैः । करात_3_0328कख
- चकारोत्पाट्य सौराष्ट्रानसौ राष्ट्रविपाटनम् ॥ करात_3_0328गघ
- यशोर्थिनः पार्थिवेषु द्वेषरागवहिष्कृतः । करात_3_0329कख
- ववृधे धर्मविजयस्तस्य क्षितिशतक्रतोः ॥ करात_3_0329गघ
- वैरिनिर्वासितं पित्र्ये विक्रमादित्यजं न्यधात् । करात_3_0330कख
- राज्ये प्रतापशीलं स शीलादित्यापराभिधम् ॥ करात_3_0330गघ
- सिंहासनं स्ववंश्यानां तेनाहितहृतं ततः । करात_3_0331कख
- विक्रमादित्यवसतेरानीतं स्वपुरं पुनः ॥ करात_3_0331गघ
- हेतूनुदीर्य विविधानमन्वानं पराजयम् । करात_3_0332कख
- सप्त वारान्स1 तत्याज जित्वा मुम्मुनि1भूभुजम् ॥ करात_3_0332गघ
- धार्ष्ट्यादथाष्टमे वारे हेतुमाख्यातुमुद्यतम् । करात_3_0333कख
- धिक्पशून्बध्यतां सोयमित्यूचे नृपतिः क्रुधा ॥ करात_3_0333गघ
- अवध्योहं पशुत्वेन वीरेत्युक्त्वाभयोत्सुकः । करात_3_0334कख
- मध्येसमं ननर्तास्य सोनुकुर्वन्कलापिनम् ॥ करात_3_0334गघ
- नृत्तं केकां च शिखिनो1 दृष्ट्वास्मै द्रविणं नृपः । करात_3_0335कख
- अभयेन समं प्रादात्ताaलाव2चरणोचितम् ॥ करात_3_0335गघ
- वसतोस्य दिशो जित्वा नप्तुः पैतामहे पुरे । करात_3_0336कख
- कर्तुं पुरं स्वनामाङ्कं प्रथते स्म मानोरथः ॥ करात_3_0336गघ
- रात्रौ क्षेत्रं च लग्नं च दिव्यं ज्ञातुमथैकदा । करात_3_0337कख
- स वीरो वीरचर्यायां निर्ययौ पार्थिवार्यमा ॥ करात_3_0337गघ
- गच्छतः क्ष्मापतेस्तस्य मौलिरत्राग्र1बिम्बितः । करात_3_0338कख
- बभार ताराप्रकरो रक्षासर्षपविभ्रमम् ॥ करात_3_0338गघ
- अथानन्तचितालोकस्पष्टभीमतटद्रुमाम् । करात_3_0339कख
- श्मशानप्रान्ततटिनीं पर्यटन्नाससाद सः ॥ करात_3_0339गघ
- ततस्तस्य सरित्पारे मुक्तसंरावमग्रतः । करात_3_0340कख
- ऊर्ध्वबाहु महद्भूतं प्रादुरासीन्महौजसः ॥ करात_3_0340गघ
- नृपतिस्तस्य दृक्पातैर्ज्वलद्भिः कपिशीकृतः । करात_3_0341कख
- उल्काज्योतिःकृताश्लेषः कुलाद्रिरिव दिद्युते ॥ करात_3_0341गघ
- तमथ प्रतिशब्देन घोरेणापूरयन्दिशः । करात_3_0342कख
- अत्रासं विहसन्नुच्चैरुवाच क्षणदाचरः ॥ करात_3_0342गघ
- संत्यज्य विक्रमादित्यं सत्त्वोद्रिक्तं च शूद्रकम् । करात_3_0343कख
- त्वाम् च भूपाल पर्याप्तं धैर्यमन्यत्र दुर्लभम् ॥ करात_3_0343गघ
- वसुधाधिपते वाञ्छासिद्धिस्तव विधीयते । करात_3_0344कख
- सेतुमेतं समुत्तीर्य पार्श्वसीमन्तितां मम ॥ करात_3_0344गघ
- इत्युदीर्य निजं जानुं रक्षः पारात्प्रसारयत्1 । करात_3_0345कख
- तन्महासरितो वारि सेतुसीमन्तितं व्यधात् ॥ करात_3_0345गघ
- अङ्गेन रक्षःकायस्य ज्ञात्वा सेतुं प्रकल्पितम् । करात_3_0346कख
- वीरः प्रवरसेनोथ विकोशां क्षुरिकां दधे ॥ करात_3_0346गघ
- 323.
- --1) A1 gloss त्रयाणां विक्रमादित्यमातृगुप्तप्रवरसेनानाम्.
- 325.
- --1) A3 gloss जलान्यपि.
- 332.
- --1) A3 gloss प्रवरसेनः.
- --2) Doubtful emendation:: मुंमु has been supplied by A3 in space left by A1; A3 has marked a different division of the words, जित्वाऽमुं । मुनिभूभुजम्, which is also indicated by the interlinear gloss of A3 प्रतापशीलं; C reads मुम्मुनि॰. For the name मुम्मुनि see iv. 167; v. 516; vii. 2180 (C).
- 335.
- --1) A3 gloss शिखिवद्दृष्ट्वा.
- --2) Thus A1; A3 तालार्धचरणो॰.
- 338.
- --1) Thus A3; A1 ॰त्राङ्ग॰.
- 345.
- --1) Thus apparently A1; A3 ॰यन्.
- [page 36]
- स तयोत्कृत्त्य तन्मांसं कृतसोपानपद्धतिः । करात_3_0347कख
- अतरद्यत्र तत्स्थानं क्षुरिकाबल1 उच्यते ॥ करात_3_0347गघ
- पार्श्वस्थं तं लग्नमुक्त्वा प्रातर्मत्सूत्रपातनम् । करात_3_0348कख
- दृष्ट्वा पुरं विधेहीति वदद्भूतं तिरोदधे ॥ करात_3_0348गघ
- देव्या शारिकयाट्टेन यक्षेणाधिष्ठिते1 च सः । करात_3_0349कख
- ग्रामे शारीटके1पश्यत्सूत्रं वेतालपातितम् ॥ करात_3_0349गघ
- भक्त्या प्रतिष्ठां प्राक्तस्मिन्निनीषौ प्रवरेश्वरम् । करात_3_0350कख
- जयस्वामी स्वयं पीठे भित्त्वा यन्त्रमुपाविशत् ॥ करात_3_0350गघ
- वेतलावेदितं लग्नं जानतो जगतीभुजा । करात_3_0351कख
- स्थपतेः स ज्याख्यस्य1 नाम्ना प्रख्यापितोभवत् ॥ करात_3_0351गघ
- नगराप्रतिलोम्याय भक्त्या तस्य विनायकः । करात_3_0352कख
- प्रत्यङ्मुखः प्राङ्मुखतां भीमस्वामी स्वयं ययौ ॥ करात_3_0352गघ
- सद्भावश्र्यादिका देव्यस्तेन श्रीशब्दलाञ्छिताः । करात_3_0353कख
- पञ्च पञ्चजनेन्द्रेण पुरे तस्मिन्निवेशिताः ॥ करात_3_0353गघ
- वितस्तायां स भूपालो बृहत्सेतुमकारयत् । करात_3_0354कख
- ख्याता ततः1 प्रभृत्येव तादृग्रौसेतुकल्पना ॥ करात_3_0354गघ
- श्रीजयेन्द्रविहारस्य बृहद्बुद्धस्य च व्यधात् । करात_3_0355कख
- मातुलः स नरेन्द्रस्य जयेन्द्रो विनिवेशनम्1 ॥ करात_3_0355गघ
- बुभोज सिंहलादीन्यो द्वीपान्स सचिवोकरोत् । करात_3_0356कख
- मोराकनामा मोराकभवनं भुवनाद्भुतम् ॥ करात_3_0356गघ
- षट्विंशद्गृहलक्षाणि पुरं तत्प्रमथे पुरा । करात_3_0357कख
- यस्यास्तां वर्धनस्वामी विश्वकर्मा च सीमयोः ॥ करात_3_0357गघ
- दक्षिणस्मिन्नेव पारे वितस्तायाः पुरा किल । करात_3_0358कख
- निर्मितं तेन नगरं विभक्तैर्युक्तमापणैः ॥ करात_3_0358गघ
- ते तत्राभ्रंलिहाः सौधा यानध्यारुह्य दृश्यते । करात_3_0359कख
- वृष्टिस्निग्धं निदाघान्ते चैत्रे चोत्कुसुमं जगत् ॥ करात_3_0359गघ
- तद्विना नगरं कुत्र पवित्राः सुलभा भुवि । करात_3_0360कख
- सुभगाः सिन्धुसंभेदाः क्रीडावसथवीथिषु ॥ करात_3_0360गघ
- दृष्टः क्रीडानगोन्यत्र न मध्येनगरं क्वचित् । करात_3_0361कख
- यतः सर्वोकसां लक्ष्मीः संलक्ष्या द्युपथादिव ॥ करात_3_0361गघ
- वैतस्तं वारि वास्तव्यैर्बृहत्तु1हिनशर्करम् । करात_3_0362कख
- ग्रीष्मोग्रेह्नि स्ववेश्माग्रात्क्व ततोन्यत्र लभ्यते ॥ करात_3_0362गघ
- प्रतिदेवगृहं कोशास्ते तस्मिन्नर्पिता नृपैः । करात_3_0363कख
- सहस्रशः शक्यते यैः क्रेतुं भूः सागराम्बरा ॥ करात_3_0363गघ
- पुरे निवसतस्तस्मिंस्तस्य राजप्रजासृजः । करात_3_0364कख
- शनैः साम्राज्यलाभस्य षष्टिः संवत्सरा ययुः ॥ करात_3_0364गघ
- ललाटे शूलमुद्राङ्के जराशुक्लाः शिरोरुहाः । करात_3_0365कख
- तस्य शंभुभ्रमासङ्गिगङ्गाम्भोविभ्रमं दधुः ॥ करात_3_0365गघ
- अथाश्वपादेनेशाननिदे1शात्तत्क्षणागतः । करात_3_0366कख
- काश्मीरिको जयन्ताख्यो द्विजमायोजि पार्श्वगः ॥ करात_3_0366गघ
- श्रान्तोस्यध्वन्य नान्यस्माद्देशात्तेभिमतं भवेत् । करात_3_0367कख
- राज्ञे प्रवरसेनाय लेख एष प्रदर्श्यताम् ॥ करात_3_0367गघ
- इत्युक्त्वार्पितलेखोसावसमर्थः पथः पृथून् । करात_3_0368कख
- गन्तुं प्रस्थानखिन्नोस्मि सद्यस्तेनेत्यगद्यत ॥ करात_3_0368गघ
- स्नाह्यद्य तावत्त्वं स्पृष्टो द्विजः कापालिना मया । करात_3_0369कख
- उक्त्वेति तेन क्षिप्तोसावासन्ने दीर्घिकाजले ॥ करात_3_0369गघ
- उन्मीलितेक्षणोद्राक्षीत्स्वं स्वदेशादथोत्थितम् । करात_3_0370कख
- तस्थुषश्चार्चने राज्ञो भृत्यान्व्यग्राञ्जलाहतौ ॥ करात_3_0370गघ
- स्वमावेदयितुं नद्या नीयमाने नृपान्तिकम् । करात_3_0371कख
- अव्याक्षिप्तोक्षिपल्लेखं स स्नानकलशे ततः ॥ करात_3_0371गघ
- प्रवरेशं स्नापयता स्रस्तं तत्कलशात्पुनः । करात_3_0372कख
- राञ्जा लेखं वाचयित्वा जयन्तः प्रापितोन्तिकम् ॥ करात_3_0372गघ
- कृतं कृत्यं महद्दत्तं भोगा भ्क्ता वयो गतम् । करात_3_0373कख
- किमन्यत्करणीयं ते यदि गच्छ शिवालयम् ॥ करात_3_0373गघ
- ततस्तं वृत्तसंकेतः संतोष्याभिमतार्पणात् । करात_3_0374कख
- भित्त्वा तमश्मप्रासादं जगाहे विमलं नभः ॥ करात_3_0374गघ
- जनैः स ददृशे गच्छन्कैलासतिलकां दिशम् । करात_3_0375कख
- विशदे घटयन्व्योम्नि द्वितीयतपनोदयम् ॥ करात_3_0375गघ
- 347.
- --1) Thus corr. by A3 from A1 ॰भाल; G ॰बाल.
- 349.
- --1) Thus corr. by later hand from A2 ॰ष्ठितं.
- --2) A2 gloss हारटठ्.
- 351.
- --1) स्य supplied by A3.
- 354.
- --1) Thus corr. by A3 from A1 तदा.
- 355.
- --1) A3 gloss स्थापनम्.
- [page 37]
- जयन्तेनाद्भुतोदन्तहेतुनावाप्य संपदः । करात_3_0376कख
- स्वनामाङ्काग्रहारादिकर्मभिर्निर्मलाः कृताः ॥ करात_3_0376गघ
- एवं स भुवनैश्वर्यं भुक्त्वा1 भूमिभृतां वरः । करात_3_0377कख
- अनेनैव शरीरेण भेजे भूतपतेः सभाम् ॥ करात_3_0377गघ
- प्रासादे प्रवरेशस्य सिद्धिक्षेत्रे क्षमापतेः । करात_3_0378कख
- स्वर्गद्वारप्रतिभटं द्वारम1द्यापि लक्ष्यते ॥ करात_3_0378गघ
- तस्य रत्नप्रभादेव्यां जातो राजा युधिष्ठिरः । करात_3_0379कख
- अपासीन्नवमासोनाः क्ष्मां चत्वारिंशतिं1 समाः ॥ करात_3_0379गघ
- सर्वरत्नजयस्कन्दगुप्तशब्दाङ्किताभिधाः । करात_3_0380कख
- आसन्विहारचैत्यादिकृत्यैस्तत्सचिवा वराः ॥ करात_3_0380गघ
- भवच्छेदा1भिधं ग्रामं स्तुत्यं चैत्यादिसिद्धिभिः । करात_3_0381कख
- यो व्यधात्सोस्य वज्रेन्द्रोप्यासीन्मन्त्री जयेन्द्रजः ॥ करात_3_0381गघ
- दिक्कामिनीमुखोत्कीर्णकीर्तिचन्दनचित्रकाः । करात_3_0382कख
- आसन्कुमारसेनाद्यास्तस्यान्येप्यग्र्यमन्त्रिणः ॥ करात_3_0382गघ
- पद्मावत्यां सुतस्तस्य नरेन्द्रादित्य इत्यभूत् । करात_3_0383कख
- लङ्खणा1परनामा यो नरेन्द्रस्वामिनं व्यधात् ॥ करात_3_0383गघ
- वज्रेन्द्रतनयौ वज्रकनकौ यस्य मन्त्रिणौ । करात_3_0384कख
- अभूतां सुकृतोदन्तौ राज्ञी च विमलप्रभा ॥ करात_3_0384गघ
- स विधायाधिकरणं लिखितस्थितये निजम् । करात_3_0385कख
- द्यां त्रयोदशभिर्वर्षैरारुरोह महाभुजः ॥ करात_3_0385गघ
- तस्यानुजो धरणिभृद्रणादित्यस्तनोभवत् । करात_3_0386कख
- तुञ्जीनापरनामानं यं जनाः प्राहुरञ्जसा ॥ करात_3_0386गघ
- जगद्विलक्षणं यस्य शङ्खमुद्राङ्कितं शिरः । करात_3_0387कख
- अपूर्वशर्वरीशान्तर्लीनभानुश्रियं दधे ॥ करात_3_0387गघ
- रिपुकण्ठाटवीष्वासीद्यस्य धाराधरः पतन् । करात_3_0388कख
- तद्वधूनेत्रकुण्डैस्तु जलाधिक्यमधार्यत ॥ करात_3_0388गघ
- अपूर्वो यत्प्रतापाग्निः प्रविश्योर्वी द्विषाम् न्यधात् । करात_3_0389कख
- नारीनेत्रेषु नीरोर्मीन्मन्दिरेषु तृणाङ्कुरान् ॥ करात_3_0389गघ
- यस्य पाणिप्रणयितां कृपाणे समुपागते । करात_3_0390कख
- कबन्धेभ्यः परो नृत्तं व्यधत्त द्विषद्बले1 ॥ करात_3_0390गघ
- तस्याव्यपोह्यमाहात्म्या देवी दिव्याकृतेः प्रिया । करात_3_0391कख
- विष्णुशक्तिः क्षितिं प्राप्ता रणारम्भाभिधाभवत् ॥ करात_3_0391गघ
- स हि जन्मान्तरे पूर्वं द्यूतकारोभवत्किल । करात_3_0392कख
- कदापि प्राप निर्वेदं सर्वस्वं कितवैर्जितः ॥ करात_3_0392गघ
- देहत्यागोद्यतोप्यासीत्प्राप्यं किंचिद्विचिन्तयन् । करात_3_0393कख
- न पर्यन्तेप्युपेक्षन्ते कितवाः स्वार्थसाधनम् ॥ करात_3_0393गघ
- अवन्ध्यदर्शनां विन्ध्ये देवीं भ्रमरवासिनीम् । करात_3_0394कख
- द्रष्टुमैच्छद्वराकाङ्क्षी निर्व्यपेक्षः स्वजीविते ॥ करात_3_0394गघ
- भ्रमरैः शङ्कुपुच्छाद्यैः खण्ड्यमानस्य देहिनः । करात_3_0395कख
- तदास्पदं हि विशतो दुर्लङ्घ्या पञ्चयोजनी । करात_3_0395गघ
- स वज्रशङ्कुपुच्छानां धीमांस्तेषां प्रतिक्रियाम् । करात_3_0396कख
- देहेवश्यपरित्याज्ये मन्वानोभूददुष्कराम् ॥ करात_3_0396गघ
- प्रागयोवर्मणा देहं ततो महिषचर्मणा । करात_3_0397कख
- तेन छादयता दत्तो मृल्लेपोथ सगोमयः ॥ करात_3_0397गघ
- अथ भानुकरोच्छुष्कमृल्लेपाम्रेडिताङ्गकः । करात_3_0398कख
- स लोष्ट इव संचारी प्रतस्थे क्रूरनिश्चयः ॥ करात_3_0398गघ
- सरलां सरणिं त्यक्त्वा जीवितस्पृहया समम् । करात_3_0399कख
- गुहा तेन ततः सान्द्रतमोभीमा व्यगाह्यत ॥ करात_3_0399गघ
- अथोदतिष्ठन्गर्तेभ्यो घोरा भ्रमरमण्डलाः । करात_3_0400कख
- पक्षशब्दैः श्रुतिं घ्नन्तो मृत्युतूर्यरवैरिव ॥ करात_3_0400गघ
- ते तमुच्छुष्कमृल्लेपरेणुव्रणितलोचनाः । करात_3_0401कख
- सहसा नाक्रमन्ते स्म प्रहन्तोपि बाधितुम् ॥ करात_3_0401गघ
- रेणुभिर्येन्धितदृशस्ते न्यवर्तन्त षट्पदाः । करात_3_0402कख
- तेखण्डयंस्तु मृल्लेपं न्यपतन्ये नवा नवाः ॥ करात_3_0402गघ
- तैः खण्ड्यमानमुच्चण्डैर्व्रजतो योजनत्रयीम् । करात_3_0403कख
- क्रमान्मृत्कवचं तस्य पथि संक्षयमाययौ ॥ करात_3_0403गघ
- ततो मुहुः प्रहरतां तेषां महिषचर्मणि । करात_3_0404कख
- घोरश्चटचटाघोषः प्रादुरासीद्भयंकरः ॥ करात_3_0404गघ
- 377.
- --1) Thus A3; A1 त्यक्त्त्वा.
- 378.
- --1) A3 च्छिद्रं.
- 379.
- --1) Thus corr. by A3 from A1 चतुर्विंशतिं.
- 381.
- --1) A3 gloss भौच्छो.
- 384.
- --1) A1 ल X खणा॰.
- 390.
- --1) A3 indicates a varia lectio in the marginal note अन्यत् कबन्धेभ्यः परं नृत्तं न न्यधत्त द्विषद्बलम्; over the last word the gloss कर्तृ by the same hand.
- [page 38]
- चतुर्थयोजनस्यार्धमतिक्रम्य विवेद सः । करात_3_0405कख
- रणत्कारैर्द्विरेफांस्तानयोवर्मनिपातिनः ॥ करात_3_0405गघ
- धावंस्ततोतिवेगेन खण्ड्यमानेन षट्पदैः । करात_3_0406कख
- स शस्त्रवर्मणामोचि चित्तं1 धर्येण नो पुनः ॥ करात_3_0406गघ
- गव्यूतिमात्रमासन्ने देवीधामनि धैर्यवान् । करात_3_0407कख
- धुन्वन्कराभ्यां मधुपान्धावति स्म स धीरधीः ॥ करात_3_0407गघ
- अथ स्नाय्वस्थिशेषाङ्गो लूनमांसः षडङ्घ्रिभिः । करात_3_0408कख
- कराभ्यामक्षिणी रक्षन्देव्यायतनमासदत् ॥ करात_3_0408गघ
- प्रशान्ते भृग्गसंपाते प्रकाशमवलोकयत् । करात_3_0409कख
- स देव्याः पादयोरग्रे पपातोद्भ्रान्तजीवितः ॥ करात_3_0409गघ
- स्तोकावशेषप्राणं तं देव्याश्वासयितुं ततः । करात_3_0410कख
- अभिरामं वपुः कृत्वा पस्पर्शाङ्गेषु पाणिना ॥ करात_3_0410गघ
- दिव्येन पाणिस्पर्शेन तेन पीयूषवर्षिणा । करात_3_0411कख
- स क्षिप्रसादितस्वास्थ्यो दिक्षु चक्षेप चक्षुषी ॥ करात_3_0411गघ
- प्रविष्टमात्रः प्रैक्षिष्ट सिंहविटरसीम्नि याम् । करात_3_0412कख
- घोराकारां स तां देवीं तदाद्राक्षीन्न तां पुनः1॥ करात_3_0412गघ
- ददर्श पुनरुद्यानलतावासे विलासिनिम् । करात_3_0413कख
- स्थितां पुष्करिणीतीरे श्यामां पुष्करलोचनाम् ॥ करात_3_0413गघ
- गृहीतहारमुक्तार्घां बद्ध्वा1 पीनास्तनाञ्जलिम् । करात_3_0414कख
- महार्हैः कान्तिकुसुमैर्यौवनेनार्चिताङ्गकाम् ॥ करात_3_0414गघ
- यावकाहारिणौ पादौ दधतीं कृच्छ्रचारिणौ । करात_3_0415कख
- स्तनच्छन्नमुखं द्रष्टुं तपस्यन्ताविवान्वहम् ॥ करात_3_0415गघ
- भास्वद्बिम्बाधरां कृष्णकेशीं सितकराननाम् । करात_3_0416कख
- हरिमध्यां शिवाकाराम् सर्वदेवमयीमिव ॥ करात_3_0416गघ
- तां विभाव्यानवद्याङ्गीं निर्जने यौवनोर्जिताम् । करात_3_0417कख
- निन्ये1वारितवामेन स कामेन विधेयताम् । करात_3_0417गघ
- दधती रूपमाधुर्यपूरच्छन्नामधृष्यताम् । करात_3_0418कख
- अप्सराः प्रत्यभात्तस्य सा हि चित्ते न1 देवता ॥ करात_3_0418गघ
- कृपामृदुरवादीत्तं व्यथितोसि चिरम् पथि । करात_3_0419कख
- मुहुः सोम्य समाश्वस्य प्रार्थ्यतामुचितो वरः ॥ करात_3_0419गघ
- स तां बभाषे शान्तो मे भवत्या दर्शनाच्छ्रमः । करात_3_0420कख
- अदेवी किं तु भवती वरं दातुं कथं क्षमा ॥ करात_3_0420गघ
- देवी जगाद तं भद्र कोयं ते मनसि भ्रमः । करात_3_0421कख
- देवीं वा स्यामदेवी व्चा वरीतुं त्वां तु शक्नुयातम् ॥ करात_3_0421गघ
- इति सोभीष्टसंप्राप्तौ कारयित्वा प्रतिश्रवम् । करात_3_0422कख
- दूरमुत्क्रान्तमर्यादः संगमं तामयाचत ॥ करात_3_0422गघ
- तमभ्यधात्सा दुर्बुद्धे कोयं तेनुचितो विधिः । करात_3_0423कख
- प्रार्थयस्वेतरद्यस्मात्साहं भ्रमरवासिनी ॥ करात_3_0423गघ
- देवीं तां जानतोप्यस्य नाभूदवहितं मनः । करात_3_0424कख
- निरुद्धा वासनाः केन जन्मान्तरनिबन्धनाः ॥ करात_3_0424गघ
- स तामुवाच सत्यां1 चेद्देवि स्वां गिरिमिच्छसि । करात_3_0425कख
- प्रमाणीकुरु मद्वाणीमहमन्यन्न कामये ॥ करात_3_0425गघ
- पूर्वमेव हि जन्तूनां योधिवासो निलीयते । करात_3_0426कख
- तिलानामिव तेषां स पर्यन्तेपि न शीर्यते ॥ करात_3_0426गघ
- देवी वा भव कान्ता वा भीमा वा शोभनापि वा । करात_3_0427कख
- उआदृशीं पूर्वमद्राक्षं तादृश्येवावभासि मे ॥ करात_3_0427गघ
- तमित्थं कथयन्तं सा ज्ञात्वा निश्चलनिश्चयम् । करात_3_0428कख
- एवं जन्मान्तरे भावीत्यभ्यधादनुरोधतः ॥ करात_3_0428गघ
- उत्सहन्ते हि संस्प्रष्टुं न दिव्या1 मर्त्यधर्मिणः । करात_3_0429कख
- तद्गच्छ क्रूरसंकल्पेत्युक्त्वा सान्तर्दधे ततः ॥ करात_3_0429गघ
- अशून्यजन्मा भूयासं तया देव्येति चिन्तयन् । करात_3_0430कख
- प्रयागवटशाखाग्रादहासीत्स वपुस्ततः ॥ करात_3_0430गघ
- सोजायत रणादित्यो रणारम्भा च सा भुवि । करात_3_0431कख
- मर्त्यभावेपि या नैव जहौ जन्मान्तरस्मृतिम् ॥ करात_3_0431गघ
- रतिसेनाभिधश्चोलराजः सज्जोब्धिपूजने । करात_3_0432कख
- तां तरङ्गान्ताल्लेभे रत्नराजिमिवोज्ज्वलम् ॥ करात_3_0432गघ
- 406.
- --1) A3 चित्रं.
- 412.
- --1) Thus A1; A3 G पुरः; R and Edd. read पुनः.
- 414.
- --1) Thus A1; altered by A3 to ॰मुक्तार्घान्बद्ध्वा. A3 reads in margin गृहीतहारमुक्तार्घां बद्ध्वपीनस्तनाञ्जलिम्, with gloss मुक्ता एवार्घाः. G and R follow A1.
- 417.
- --1) A1 writes ऽ after निन्ये.
- 418.
- --1) This division of the words in indicated by A1.
- 425.
- --1) Thus corr. by later hand from A1 सत्यं; स्त्यां also in G and R.
- 429.
- --1) A3 देव्यो.
- [page 39]
- आ बाल्याद्व्यक्तिदिव्योक्तिं तामलंकृतयौवनाम् । करात_3_0433कख
- दिव्यार्हां पृथिवीशेभ्यो नार्थिभ्योपि ददौ नृपः ॥ करात_3_0433गघ
- रणादित्यनृपामात्ये दूत्यायाते तथैव तम् । करात_3_0434कख
- प्रत्याख्यानेच्छुमाचख्यौ सैव तद्वरणं वरम् ॥ करात_3_0434गघ
- तदर्थमेव कथितस्वोत्पत्तिं तां ततः पिता । करात_3_0435कख
- द्रुतं कुलूतभूभर्तुः सुहृदः प्राहिणोद्गृहान् ॥ करात_3_0435गघ
- प्रहृष्टो विप्रकृष्टं तं देशं गत्वा व्यधत्त ताम् । करात_3_0436कख
- परिणीय रणादित्यः शुद्धान्तस्याधिदेवताम् ॥ करात_3_0436गघ
- मर्त्यसंस्पर्शभीरुः सा महादेवी भवन्त्यपि । करात_3_0437कख
- तं मायया मोहयन्ती न पस्पर्श कदाचन ॥ करात_3_0437गघ
- व्यधान्मयामयीं राज्ञस्तल्पे स्वसदृशीं स्त्रियम् । करात_3_0438कख
- स्वयं सा भ्रमरीरूपा निर्जगाम बहिर्निशि ॥ करात_3_0438गघ
- स नाम्ना स्वस्य देव्याश्च कृत्वा सुरगृहद्वयम् । करात_3_0439कख
- माहेश्वरः शैललिङ्गे कारयामास कारुभिः ॥ करात_3_0439गघ
- श्वः प्रतिष्ठाप्रसङ्गेथ सज्जे तल्लिङ्गयोर्द्वयम्1 । करात_3_0440कख
- देशान्तरागतः कश्चिद्दूषयामास दैववित् ॥ करात_3_0440गघ
- स दृष्टप्रत्ययः शश्वत्तयोर्घटितलिङ्गयोः । करात_3_0441कख
- अश्मखण्डैः समण्डूकैर्बभाषे गर्भमावृतम् ॥ करात_3_0441गघ
- किंकर्तव्यतया मूढं प्रतिष्ठाविन्नविह्वलम् । करात_3_0442कख
- दिव्यदृष्टिः स्वयम् देवी ततो राजानमब्रवीत् ॥ करात_3_0442गघ
- राजन्गिरिसुतोद्वाहे पौरोहित्यं पुरा भजन् । करात_3_0443कख
- स्वमर्चादेवमादत्त1 पूजाभाण्डात्प्रजापतिः ॥ करात_3_0443गघ
- तां विष्णोः प्रतिमां वीक्ष्य पूजितां तेन धूर्जटिः । करात_3_0444कख
- शून्यामिव तदा मेने शक्तिरूपां विना शिवम् ॥ करात_3_0444गघ
- निमन्त्रितैर्ढौकितानि रत्नान्यथ सुरासुरैः । करात_3_0445कख
- पिण्डीकृत्य स्वयं चक्रे लिङ्गं भुवनवन्दितम् ॥ करात_3_0445गघ
- तां विष्णुप्रतिमां तच्च लिङ्गमीशानपूजितम् । करात_3_0446कख
- स्वयं प्रजासृजः पूज्यं कालेनादत्त रावणः ॥ करात_3_0446गघ
- तेनाप्यभ्यर्च्यमानं तल्लङ्कायामभवच्चिरम् । करात_3_0447कख
- देवद्वयं रावणान्ते नीतमासीच्च वानरैः ॥ करात_3_0447गघ
- तिर्यक्तया ते कपयो मुग्धा हिमनगौकसः । करात_3_0448कख
- शान्तौत्सुक्याः शनैर्देवौ न्यधुरुत्तरमानसे ॥ करात_3_0448गघ
- प्रागेव सरसस्तस्मात्कुशलैः शिल्पिभिर्मया । करात_3_0449कख
- तावद्धृतौ प्रातरत्र प्राप्तौ द्रक्ष्यस्यसंशयम् ॥ करात_3_0449गघ
- तयोः प्रतिष्ठा क्रियतामित्युक्त्वा पृथिवीभुजम् । करात_3_0450कख
- देवी प्रयाता श्र्द्धान्तं सिद्धान्सस्मार खेचरान् ॥ करात_3_0450गघ
- ते1 ध्यातमात्राः2 संप्राप्ता देव्यादेशेन पाथसः3 । करात_3_0451कख
- उद्धृत्य नृपतेर्धाम्नि देवौ हरिहरौ न्यधुः4 ॥ करात_3_0451गघ
- दिव्यैः प्रसूनैः संवीतौ हरनारायणौ जनः । करात_3_0452कख
- प्रातर्नृपगृहे दृष्ट्वा परं विस्मयमाययौ ॥ करात_3_0452गघ
- तज्जे प्रतिष्ठालग्ने1थ माहेश्वरतया नृपः । करात_3_0453कख
- रणेश्वरप्रतिष्ठायां पूर्वं यावत्समुद्यतः ॥ करात_3_0453गघ
- रणारम्भानुभावेन तावदेवाद्भुतावहः । करात_3_0454कख
- स्वयं पीठे रणस्वामी भित्त्वा यन्त्रमुपाविशत् ॥ करात_3_0454गघ
- कर्तुं प्रभावजिज्ञासाम् राज्ञ्या1 दत्तधनस्ततः । करात_3_0455कख
- स स्वयंभूः स्वयम् भक्तां1स्तांस्तान्ग्रामानदापयत् ॥ करात_3_0455गघ
- कुम्भदासतया छन्नः सिद्धो ब्रह्माभिधो वसन् । करात_3_0456कख
- परिज्ञाय तयोर्दिव्या प्रतिष्ठां गूढमादधे ॥ करात_3_0456गघ
- स वृत्तप्रत्यभिज्ञः सन्प्रतिष्ठाप्य रणेश्वरम् । करात_3_0457कख
- व्योम्ना व्रजन्रणस्वामिप्रतिष्ठां गूढमादधे ॥ करात_3_0457गघ
- जनास्त्वलक्षयन्यत्स स्वयं पीठमवातरत् । करात_3_0458कख
- इति केषामपि हृदि प्रवादो1द्यापि वर्तते ॥ करात_3_0458गघ
- सा1 ब्रह्मप्रतिभं सिद्धं देवी ब्रह्मविदां वरम् । करात_3_0459कख
- अकारयत्तमुद्दिश्य परार्ध्यं2 ब्रह्ममण्डपम्3 । करात_3_0459गघ
- रणारम्भास्वामिदेवौ दंपतिभ्यां व्यधीयत । करात_3_0460कख
- मठः पाशुपतानां च ताभ्यां प्रद्युम्नमूर्धनि1 ॥ करात_3_0460गघ
- 440.
- --1) A3 gloss शिवलिङ्गद्वयम्.
- 443.
- --1) Thus A3; A1 ॰धत्त.
- 451.
- --1)
- --2)
- --3) Thus corr. by later hand from A1 तं, ॰मात्र, पाथस.
- --4) Thus A3; A1 व्यधुः.
- 453.
- --1) Thus A1; A3 ॰लिङ्गे.
- 455.
- --1) Thus corr. by A3 from A1 राज्ञा.
- --2) Thus A3; A1 भक्तैस्तां॰.
- 456.
- --1) A3 gloss हरिहरयोः.
- 458.
- --1) Thus A3; A1 प्रवचो.
- 459.
- --1) Thus corr. by later hand from A1 स.
- --2) Thus corr. by A3 from A1 पराख्यं.
- --3) Thus !3; A1 ॰सत्तमम्.
- 460.
- --1) A3 gloss प्रद्युम्नमूर्धनि शारिकागिरौ.
- [page 40]
- आरोग्यशाला निरधाप्युल्लाघत्वाय रोगिणाम् । करात_3_0461कख
- तेन सेनामुखीदेवीभयशान्त्यै च कारिता ॥ करात_3_0461गघ
- ख्यातिं रणपुरस्वामिसंज्ञया सर्वतो गतम् । करात_3_0462कख
- स सिंहरोत्सिकाग्रामे मार्तण्डं प्रत्यपादयत् ॥ करात_3_0462गघ
- अमृतप्रभया तस्य राज्ञः पत्न्यान्यया कृतः । करात_3_0463कख
- दक्षिणेस्मिन्नणेशस्य पार्श्वे देवोमृतेश्वरः ॥ करात_3_0463गघ
- मेघवाहनभूभर्तृपत्न्या भिन्नाख्यया कृते । करात_3_0464कख
- विहारेपि तया बुद्धबिम्बं साधु निवेशितम् ॥ करात_3_0464गघ
- राज्ञे देव्यनुरक्ताय सानुक्रोशाय सैकदा । करात_3_0465कख
- पातालसिद्धिदं मन्त्रं प्रददौ हाटकेश्वरम् ॥ करात_3_0465गघ
- मा भून्मोघास्य मत्प्राप्तिरिति मत्वा तयार्पितम् । करात_3_0466कख
- असाधयत्स तं प्राप्य वशा1न्तं वत्सरान्बहून् ॥ करात_3_0466गघ
- कृत्वेष्टिकापये कष्टं तपो1 नन्दिशिलां गतः । करात_3_0467कख
- भूरिभिर्वत्सरैर्मन्त्रसिद्धेः प्रणयितां ययौ ॥ करात_3_0467गघ
- स्वप्नैश्च सिद्धिलिंगैश्च जाताभङ्गुरनिश्चयः । करात_3_0468कख
- चन्द्र1भागाजलं भित्त्वा नमुचेः प्राविशद्बिलम् ॥ करात_3_0468गघ
- विलेपावृततां याते दिवसान्येकविंशतिम् । करात_3_0469कख
- प्रविश्य पौरान्प्राग्निन्ये दैत्यस्त्रीभोगभोगिताम् ॥ करात_3_0469गघ
- एवं स भूपतिर्भुक्त्वा1 भुवं वर्षशतत्रयम् । करात_3_0470कख
- निर्वाणश्लाघ्यनिर्व्यूढि पातालै2श्वर्यमासदत् ॥ करात_3_0470गघ
- सानुगे नृपतौ याते दैवतेयदयितान्तिकम् । करात_3_0471कख
- देवी सा वैष्णवी शक्तिः श्वेतद्वीपमगाहत ॥ करात_3_0471गघ
- राजवंशेष्वनेकेषु राज्ञोर्वंशद्वये परम् । करात_3_0472कख
- द्वयोरेवात्र निर्व्यूढिं प्रजावात्सल्यमागतम् ॥ करात_3_0472गघ
- रणादित्यस्य गोनन्दवंशे रामस्य राघवे1 । करात_3_0473कख
- लोकान्तरसुखस्यापि ययो2रंशभुजः प्रजाः ॥ करात_3_0473गघ
- विक्रमाक्रान्तविश्वस्य विक्रमेश्वरकृत्सुतः । करात_3_0474कख
- तस्यासीद्विक्रमादित्यस्त्रिविक्रमपराक्रमः ॥ करात_3_0474गघ
- राजा ब्रह्मगलूना1भ्यां सचिवाभ्यां समं महीम् । करात_3_0475कख
- सोपासीद्वासवसमो द्वाचत्वारिंशतिं समाः ॥ करात_3_0475गघ
- चक्रे ब्रह्ममठं ब्रह्मा गलूनो लूनदुष्कृतः । करात_3_0476कख
- रत्नावल्याख्यया बध्वा विहारं निरमापयत् ॥ करात_3_0476गघ
- राज्ञोनन्तरजस्तस्य राजाभूत्तदन्तरम् । करात_3_0477कख
- तापितारातिभूपालो बालादित्यो बलेर्जितः ॥ करात_3_0477गघ
- लवणार्णवपानेन तर्षोत्कर्षमिवोद्वहन् । करात_3_0478कख
- यत्प्रतापो रिपुस्त्रीणां सनेत्राम्भोभजन्मुखम् ॥ करात_3_0478गघ
- आसन्येरिमनोगाधबोधदण्डा इवाहृताः । करात_3_0479कख
- यस्याद्यापि जयस्तम्भाः सन्ति ते पूर्ववारिधौ ॥ करात_3_0479गघ
- प्रभावाङ्केन वङ्काaलाञ्जित्वा येन व्यधीयत । करात_3_0480कख
- काश्मीरिकनिवासाय का1लम्ब्याख्यो जनाश्रयः ॥ करात_3_0480गघ
- कश्मीरेषु धनोदग्रमग्रहारं द्विजन्मनाम् । करात_3_0481कख
- राजा मडवराज्ये यो भेडरा1ख्यमकारयत् ॥ करात_3_0481गघ
- विशां विपाटितारिष्टमरिष्टोत्सादने1 व्यधात् । करात_3_0482कख
- वल्लभा यस्य बिम्बोष्ठी बिम्बा बिम्बेश्वरं हरम् ॥ करात_3_0482गघ
- भ्रातरो मन्त्रिणस्तस्य त्रयो मठसुरौकसोः । करात_3_0483कख
- सेतोश्च कारका1 आसन्खङ्खशत्रुघ्नमालवाः ॥ करात_3_0483गघ
- बभूव तस्य भूभर्तुर्भुवनाद्भुतविभ्रमा । करात_3_0484कख
- तनयानङ्गलेखाख्या शृग्गारोदधिकौमुदी ॥ करात_3_0484गघ
- तां वीक्ष्य लक्षणोपेतां मृगाक्षीं पितुरन्तिके । करात_3_0485कख
- अमोघप्रत्ययो व्यक्तं व्याजहारेति दैववित् ॥ करात_3_0485गघ
- भविता तत्र जामाता जगतीभोगभाजनम् । करात_3_0486कख
- त्वदन्तमेव साम्राज्यं गोनन्दान्वयजन्मनाम् ॥ करात_3_0486गघ
- सुतासंतानसाम्राज्यमनिच्छन्नथ पार्थिवः । करात_3_0487कख
- दैवं पुरुषकारेण जेतुमासीत्कृतोद्यमः ॥ करात_3_0487गघ
- 466.
- --1) Thus A; R G वंशान्तं; Edd. वसन्तं.
- 467.
- --1) Thus A3 -- A1 ततो.
- 468.
- --1) Thus corr. by later hand from A1 चान्द्र॰.
- 470.
- --1) Thus corr. by A3 from A1 भूत्वा.
- --2) Thus A3; A1 ॰लेश्वरम्.
- 473.
- --1) A1 gloss वंशे.
- --2) A3 gloss ययोः रामरणादित्ययोः.
- 475.
- --1) Emended; A R G ॰गलूरा॰.
- 480.
- --1) The words from कालाम्ब्याख्यो to कारका in verse 483 have been supplied by A1 at a later date and in a smaller handwriting., partly in space left for this purpose, partly in margin.
- 481.
- --1) Thus corr. by A3 from A1 भेरडा॰.
- 482.
- --1) A3 gloss रद्दोसाने.
- 483.
- --1) See note to verse 480 above.
- [page 41]
- अराजान्वयिने1 दत्त्वा नेयं साम्राज्यहारिणी । करात_3_0488कख
- मत्वेति प्रददौ कन्यां न कस्मैचन भूभुजे ॥ करात_3_0488गघ
- हेतुं स रूपतामात्रं कृत्वा जामा1तरं नृपः । करात_3_0489कख
- अथाश्वघासकायस्थं चक्रे दुर्लभवर्धनम् ॥ करात_3_0489गघ
- मातुः कार्कोटनागेन सुस्नातायाः समीयुषा1 । करात_3_0490कख
- राज्यायैव हि संजातो राज्ञा नाज्ञायि तेन सः2 ॥ करात_3_0490गघ
- निश्चिन्वते हि ज्ञंमन्या यमेवायोग्यमाग्रहात् । करात_3_0491कख
- जिगीषयेव तत्रैव निदधाति विधिः शुभम् ॥ करात_3_0491गघ
- मात्सर्येण जहद्ग्रहा1न्विसदृशे धूमध्वजे योग्यतां ज्ञात्वा स्वां निदधत्त्विषं दिनपतिर्हास्यः प्रशान्त्युन्मुखः । करात_3_0492कख
- दैवं वेत्ति न यः शिखी तु2 परतो3 नामास्तु तत्संभवाः स्युर्दीपा अपि यद्वशेन जगतस्तिग्मांशुविस्मारकाः ॥ करात_3_0492गघ
- धिया भाग्यानुगामिन्या चेष्टमानो नयोचितम् । करात_3_0493कख
- अभूत्सर्वस्य चक्षुष्यः स तु दुर्लभवर्धनः ॥ करात_3_0493गघ
- प्रज्ञया द्योतमानं तं प्रज्ञादित्य इति प्रथाम् । करात_3_0494कख
- कौवीरभाग्यस्वाभ्यां च शनकैः श्वशुरोनयत् ॥ करात_3_0494गघ
- पित्रोः प्रेयस्तयोद्वृत्ता1 तारुण्यादिमदेन च । करात_3_0495कख
- राजपुत्री यथावत्तु गणयामास नैव तम् ॥ करात_3_0495गघ
- स्वैरिणीसंगमो भोगा युवानोग्रे पितुर्गृहम् । करात_3_0496कख
- पत्युर्मृदुत्वमित्यस्याः किं नाभूच्छीलविघ्नकृत् ॥ करात_3_0496गघ
- सा नित्यदर्शनाभ्यासाच्छनकैर्विशता मनः । करात_3_0497कख
- अनङ्गलेखा खङ्खेन संप्रा1युज्यत मन्त्रिणा ॥ करात_3_0497गघ
- छन्नप्रेमसुखाभ्यासनष्टह्रीभीतिसंभ्रमा । करात_3_0498कख
- धार्ष्ट्यं दिनाद्दिनं यान्ती ततस्तन्मयतां ययौ ॥ करात_3_0498गघ
- स मन्त्री दानमानाभ्यां वशीकृतपरिच्छदः । करात_3_0499कख
- अन्तःपुरे यथाकामं विजहार तया सह1 ॥ करात_3_0499गघ
- उपलेभे च शनकैस्तस्यास्तं शीलविप्रलवम् । करात_3_0500कख
- विरागलिङ्गैरुद्यद्भिर्धीमा1न्दुर्लभवर्धनः ॥ करात_3_0500गघ
- सखीमध्ये रहः स्मेरा विवर्णा भर्तृदर्शने । करात_3_0501कख
- अकाण्ड एव प्रेत्याथ पश्यन्ती सस्मितं पथः ॥ करात_3_0501गघ
- पत्युः कोपे कृतावज्ञा भ्रूनेत्रचिबुकाञ्चनैः । करात_3_0502कख
- तदप्रियं भाषमाणे सस्मितं न्यस्तलोचना ॥ करात_3_0502गघ
- तत्तुल्यगुणनिर्विण्णा तद्विपक्षस्तुतौ रता । करात_3_0503कख
- रिरंसां तस्य संलक्ष्य सखीभिर्बद्धसंकथा ॥ करात_3_0503गघ
- तच्चुम्बने भुग्नकण्ठी तदाश्लेषेसहाङ्गका । करात_3_0504कख
- तत्संभोगे त्यक्तहर्षा तत्तल्पे व्याजनिद्रिता1 ॥ करात_3_0504गघ
- भवेद्धि प्रायशो योषित्प्रेमविक्रीतचेतना । करात_3_0505कख
- निवेदयन्ती दौःशील्यपिशाचावेशवैकृतम् ॥ कुलकम्॥ करात_3_0505गघ
- निगूढदारदौरात्म्यचिन्ताकृशवपुस्ततः । करात_3_0506कख
- शुद्धान्तमविशज्जातु निशि दुर्लभवर्धनः ॥ करात_3_0506गघ
- सोपश्यत्सुरतक्लान्तिसुलभस्वापनिःसहाम् । करात_3_0507कख
- दुर्जारभ1र्तुरङ्गेषु प्रत्युप्तामिव वल्लभाम्2 ॥ करात_3_0507गघ
- श्वासैरगलितावेगैः कम्पयद्भिः कुचाङ्कुरौ । करात_3_0508कख
- निवेदयन्तीं1 तत्कालमेव निर्वहणं रतेः ॥ करात_3_0508गघ
- अन्यस्यापि क्रुधो हेतुं पुनरप्यक्षमावहाम् । करात_3_0509कख
- तां तथावस्थितां वीक्ष्य सं प्रजज्वाल मन्युना ॥ करात_3_0509गघ
- प्रजिहीर्षुः स रोषेण विमर्शेन निवारितः । करात_3_0510कख
- प्रहृत्येव प्रहृत्येव निवृत्तं स्वममन्यत ॥ करात_3_0510गघ
- ततस्तथाविधः क्षुभ्यत्प्रकोपावेशसागरः । करात_3_0511कख
- विचारवेलया तस्य बलाच्छममनीयत ॥ करात_3_0511गघ
- नमस्तस्मै ततः कोन्यो गण्यते वशिनां धुरि । करात_3_0512कख
- जीर्यन्ते येन पर्याप्ता ईर्ष्याविषविषूचिकाः ॥ करात_3_0512गघ
- सोचिन्तयदहो कष्टाश्चेष्टा1रागानुगा इमाः । करात_3_0513कख
- विचारवन्ध्याः क्षिप्यन्ते क्षिप्रं याभिरधो नराः ॥ करात_3_0513गघ
- 488.
- --1) A3 gloss न्यूनकुलोद्भवाय दत्ता.
- 489.
- --1) कृत्वा जामा supplied by A3 in space left by A1.
- 490.
- --1) Thus corr. by A3 from A1 समेयुषा.
- --3) Thus corr. by A3 from A1 सा.
- 492.
- --1) Emended; A R G जहन्य॰.
- --2) Thus A3; A1 स.
- --3) A3 gloss दूरे इत्यर्थः.
- 495.
- --1) A3 gloss उल्लंघितमर्यादा.
- 497.
- --1) Emended; A संप्रयु॰.
- 499.
- --1) A3 समम्.
- 500.
- --1) The text from मान्दुर्लभवर्धनः to the end ofv verse 507 below has been supplied bv A3, partly in space left by A1, partly in margin.
- 504.
- --1) Emended with Edd.; A ॰निद्रता.
- 507.
- --1) A3 दुर्जात॰, with v.l. as above.
- --2) See note to verse 500 above.
- 508.
- --1) Thus corr. by A3 from A1 ॰यन्तौ.
- 513.
- --1) Thus corrected by A3 from A1 कष्टाः श्रेष्ठा॰.
- [page 42]
- स्त्रीति नामेन्द्रियार्थोयमिन्द्रियर्था यथा परे । करात_3_0514कख
- तथैव सर्वसामान्या वशिनामत्र काः क्रुधः ॥ करात_3_0514गघ
- निसर्गतरला नारीः को नियन्त्रयितुं क्षमः । करात_3_0515कख
- नियन्त्रणेन किं वा स्याद्यत्सतां स्मरणोचितम् ॥ करात_3_0515गघ
- यः शृणोरिव संघर्ष1 एकार्थाभिनिविष्टयोः । करात_3_0516कख
- रागिणोर्यदि मानः स कोवमानस्ततः परः ॥ करात_3_0516गघ
- ममकारो मृगाक्षीषु क्व इवायं सचेतसाम् । करात_3_0517कख
- स्वदेहेनुपपन्नोपि यः सोन्यत्र कथं मतः ॥ करात_3_0517गघ
- उद्वेगोत्पादनादेषा बध्या चेत्र्प्रतिभाति मे । करात_3_0518कख
- रागस्तद्विस्मृतः कस्मान्मूलमुद्वेगशाखिनः ॥ करात_3_0518गघ
- सप्तपातालनिक्षिप्तमूलो रागमहीरुहः । करात_3_0519कख
- भूमिभूतमनुत्पाद्य द्वेषमुन्मूल्यते कथम् ॥ करात_3_0519गघ
- द्वेषो नामैष दुर्धर्षो जितो येन विवेकिना । करात_3_0520कख
- क्षणार्धेनैव रागस्य तेन नामापि नाशितम् ॥ करात_3_0520गघ
- वीक्ष्यैतद्दिव्यया दृष्ट्या रागिणाम् वाच्यमौषधम् । करात_3_0521कख
- ईर्ष्या जेया ततो रागः स्वयमाशाः पलायते ॥ करात_3_0521गघ
- इति ध्यात्वालिखद्वर्णान्खड्खस्यां1शुकपल्लवे । करात_3_0522कख
- बध्योपि न हतो यत्त्वं स्मर्तव्यं तत्तवेत्यसौ ॥ करात_3_0522गघ
- जनैरलक्ष्यमानेथ याते दुर्लभवर्धने । करात_3_0523कख
- त्यक्तनिद्रः स मन्त्री त1द्दृष्ट्वा वर्णानवाचयत् ॥ करात_3_0523गघ
- दाक्षिण्यात्प्राणदस्यास्य खङ्खः स मनसा त1दा । करात_3_0524कख
- विसस्मारानङ्गलेखां दध्यौ तु प्रत्युपक्रियाम् ॥ करात_3_0524गघ
- तस्योपकर्तुरुचितं प्रतिकारमिच्छोश्चिन्ताविशन्न तु मनः स्मरबाणपंक्तिः । करात_3_0525कख
- दृग्गोचरे परिचयप्रणयं प्रपेदे निर्निद्रता न तु कदाचन राजपुत्री ॥ करात_3_0525गघ
- भूत्वा सप्त1त्रिंशतिमब्दान्स चतुर्भिर्मासैर्वन्ध्यां2 मूर्धनि रत्नं नृपतीनाम् । करात_3_0526कख
- तस्मिन्काले लोकमवापोज्ज्वलकृत्यो बालादित्यो बालशशाङ्काङ्कितमौलेः । करात_3_0526गघ
- पूर्वं विपन्नतनयेभिजनस्य शेषे गोनन्दसंततिरजायत तत्र1 शान्ते । करात_3_0527कख
- प्राग्दन्तिभुग्ननलिनाथ हठप्रविष्टतोयौघपाटितविसा नलिनीव दीना ॥ करात_3_0527गघ
- अथ शिथिलितमुख्यामात्यवैमत्यविघ्नः कनकघटविमुक्तैः पावनं तीर्थतोयैः । करात_3_0528कख
- कथमपि स1 कृतज्ञो राजजामातुरुच्चैर्व्यधितं विधिवदिष्टं मूर्ध्नि राज्याभिषेकम् ॥ करात_3_0528गघ
- कार्को1टप्रभवः प्रभुः मुकुटप्रत्युप्तमुक्ताकणद्योतश्रेणिफणाङ्कुराङ्कितबृहद्बाहुर्महीमुद्वहन् । करात_3_0529कख
- ज्ञातिप्रीतिसतोषशेषफणभृत्संफुल्लदृक्पल्लवन्यासावर्जकहाटकाब्जपटलस्रग्धामशोभोभवत् ॥ करात_3_0529गघ
- अथ विगलिता गोनन्दोर्वीभुजोभिजनाच्छुचेरतिशुचिनि भूः कार्कोटाहेः कुले व्यधित स्थितिम् । करात_3_0530कख
- चिरपरिचितात्स्वर्गाभोगाध्वनः पतनं श्रिता त्रिभुवनगुरोः शंभोर्मौलाविवामरनिम्नगा ॥ करात_3_0530गघ
- 10 ॥ 536 ॥ आदितः 53 ॥ ग्रं 1069 ॥
- इति श्रीकाश्मीरिकमहामात्यश्रीचण्पकप्रभुसूनोः कल्हणस्य कृतौ राजतरङ्गिण्यां तृतीयस्तरङ्गः ॥
- 516.
- --1) A3 gloss विरोधः.
- 522.
- --1) Thus corr. by A3 from A1 ॰न्खड्गस्था॰.
- 523.
- --1) मन्त्री त supplied by A3 in space left by A1.
- 524.
- --1) तदा वि supplied vy A3 in space left by A1.
- 526.
- --1) Thus A1; altered by A3 to सप्तात्रिं॰.
- --2) A3 gloss ऊनामित्यर्थः.
- 527.
- --1) A3 gloss तस्मिन्.
- 528.
- --1) Thus corr. by A3 from A1 कर्कोट॰.
- Colophon.
- --1) A1 adds here लिखितश्चैष मया राजानकरत्नकण्ठेन.
- [page 43]