सामग्री पर जाएँ

पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२४
यादवाभ्युदये

त्रिष्विति नानाथरत्नमालापि तदनुकूलैब । तथापि योग्यः प्रवीणयोगाहोपाधिशक्तेषु वाच्यवत्। क्लीबमृद्ध्यौषधे पुष्ये नाख्यभ्यासार्कयोषितोरिति मेदिनीकोशेन सुश्रुतादिप्रयोगबाहुल्येन च स्त्रीलिङ्गपाठ एवाहत इति दिक् ॥ तद्भोगबुन्दे युगपन्मुकुन्द श्वारीविशेषेण समैक्षि नृत्यन् । पर्याकुले वीचिगण पयोधेः ___ संक्रान्तबिम्बो बहुधेव चन्द्रः ॥ १२० ॥ तद्भांगेति । युगपत् । तद्भोगबृन्दे तस्य सहस्रफणस्य कालियस्य फणासमूहे । 'भोगो राज्ये धने सौख्ये पालनाभ्यवहारयोः । फणे देहे च सर्पस्य वेश्यादीनां भृतावपि' इति वैजयन्ती। चारीविशेषेण नृत्तसमये युगपत्कृतमङ्घ्रिजद्धोरुकटिकर्म चारी । चरतिधातोः करणार्थे इप्रत्ययः । ध्रिजबोरुकटिकर्म सकृत्कृतम्। चारी स्यात्करणे डीषि चरेरिञ्प्रत्ययान्ततः' इति । 'एकपादप्रचारो यः स चारीत्यभिधीयते' इति तु शारदातनयः । तस्या विशेषः समास्थिरावर्तेत्यादिरूपः तेन । नृत्यन् । मुकुन्दः । पयोधेः समुद्रस्य । पयर्याकुले चञ्चले। वीचिगणे । बहुधा सक्रान्तबिम्बः । चन्द्र इव । समेक्षि समीक्षित.। चन्द्रप्रतिबिम्बानां नृत्तवचाञ्चल्यार्थ पर्याकुल इति विशेषणम् ॥ १२० ॥ तदुत्तमाङ्गं परिकल्प्य रङ्गं तरङ्गनिष्पन्नमृदङ्गनादम्। प्रशस्यमानस्त्रिदशैरकार्षी दव्याहतामारभटीमनन्तः ॥ १२१ ॥