यदि बिभेषि भजामि मनुष्यता मथ च मां नय नन्दगृहं क्षणात् । दुहितरं च समानय तस्य तां गतभयो भव दूरगते मयि ॥ २५ ॥ इदानी तदेव प्रस्तुतकार्यमाह-यदीति । यदि बिभेषि दुर्दर्शमिद रूपं दृष्ट्वा भयं प्राप्नोषि चत् । मनुष्यता भजामि । अथ तदनन्तरम् । मां नन्दगृह नय प्रापय । तस्य नन्दस्य । दुहितर तत्रेदानीमुत्पन्नां कन्यां च । ममानय । नन्दस्य मयि स्वापत्यत्वभ्रान्तये कसस्य तस्या त्वदपत्यत्वभ्रान्तये चेति भावः । मयि दूरगते नन्दागार गते सति । गतभयो भव शिशुरूपावलम्बने मयि यत्किचित्कसः करिष्यतीति भय त्यजेत्यर्थः ॥२५॥ अथ निशम्य नियोगमभङ्गुरं मधुजितो मधुराक्षरमन्थरम् । हितमिदं प्रतिपद्य तमाददे गुरुतरं कृपया लघुतां गतम् ॥ २६ ॥ अथेति । अय वसुदेवः। अभङ्गुर अभङ्गशील कदाचिदप्यन्यथाभावरहितम् । मधुराणि स्वादून्यक्षराणि यस्येति मधुराक्षर तच्च मन्थर मृदुप्रसर च। मधुजितः कृष्णस्य । नियोग आज्ञावचः । निशम्य श्रुत्वा । इद नन्दगृहे नयनम् । हितम्। प्रतिपद्य विचिन्त्य । गुरुतर स्वतः अतिशयेन गुरुम् । कृपया वसुदेवस्य भारो भविष्यतीति दयया । लघुतां गत प्राप्तम् । तम् । आददे, नन्दगृह नेतुमिति भावः ॥ २६ ॥
पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१८५
दिखावट