सामग्री पर जाएँ

पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११७
द्वितीयः सर्गः।

च मेषमीनयोः स्वोच्चयोरवस्थानासंभवात्परिशेषाञ्चन्द्रादीनां पञ्चानामुञ्चस्थानस्थितिर्विवक्षितेस्यवसीयते । ‘पश्वोच्चो लोकनायकः' इति जातकशास्त्रविदस्तत्फलमाहुः । सितरुचिना चन्द्रेण युक्ते लमे वृषभलमे । मध्यमपदलोपी समासः । देवक्यव पूर्वसध्या प्रातःसन्ध्या। निखिलानि भुवनान्येव पद्मानि तेषां क्लेश एव निद्रा मुकुलीभावः तस्या अपनुत्त्यै निरासाय । अनपायं दिनकर अस्तमयरहितमादित्यमिति श्रीकृष्णे तथाध्यवसायः । व्यजनयत् प्रादुर्भावयति स्मेत्यर्थः । ‘जनी प्रादुर्भावे' इति धात्वर्थानुगमात् । 'देवकीपूर्वसध्यायामाविर्भूत महात्मना' इति पुराणवचनाच्च । रूपकातिशयोक्त्योः संकरः ॥ ९६ ॥ अवतरति मुकुन्द संपदामेककन्दे सुरभितहरिदन्तां स्वादुमाध्वीकदिग्धाम् । अभजत वसुदेवस्थानमानन्दनिम्नै रमरमिथुन हस्तैराहितां पुष्पवृष्टिम् ॥ ९७ ॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये श्रीकृष्णावतारवर्णनं नाम द्वितीयः सर्गः॥ अवतरतीति । संपदां त्रैलोक्यस्याभिवृद्धीनाम् । एककन्दे अन्यनिरपेक्षकारणे । सस्यमूलवाचकः कन्दशब्दः कारणसामान्ये लाक्षणिकः ।