सामग्री पर जाएँ

पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०५
द्वितीयः सर्गः।

यति मायापलितोपपदादभूततद्भावे करणार्थे ख्युन्प्रत्ययः । 'खित्यनव्ययस्य' इति ह्रखः । 'अरुर्द्विषदजन्तस्य मुम्' इति मुमागमः । 'टिड्ढाणम्-' इत्यादिना डीप् । अमोघा अवितथारम्भाश्च ताः मायापलितकरग्यश्चेति समासः । दीधितयो मरीचयः। प्रायो बाहुल्येन भृशं प्रयुक्ताः। अत्र कल्पयतेति हेतौ शतृप्रत्ययः। सतश्चार्जयन्वसतीत्यत्रार्जनवत्फलस्यैवोद्देश्यतया हास्यरसं कल्पयितुमिवेति पर्यवसितोऽर्थः । अतः फलोत्प्रेक्षा। हास्यरसकल्पयितृतादात्म्यसभावनेति स्वरूपोत्प्रेक्षा वा । सा च कामविहारनाट्य इति रूपकेण कलावतेति तदुत्थापितश्लेषेण दिशां चन्द्रकिरणधावल्यावकुण्ठनस्य मायापलिततादात्म्यतया निगीर्याध्यवसानरूपानिशयोक्त्या चोत्थापितेति संकरः ॥ ७७ ॥ कदम्बमालाभिरधीतलास्यः कल्याणसंभूतिरभूत्प्रजानाम् । प्रियोदयस्फीतरुचो रजन्याः संतोषनिःश्वासनिभः समीरः ॥ ७८ ॥ कदम्बेति । कदम्बमालाभिः नीपराजिभिः । अधीत लास्य यस्मातथोक्तः तासां कम्पयितेत्यर्थः । एतेन मान्द्यसौरभे दर्शिते । शैत्यं तु चन्द्रिकासंपर्कात्सिद्धम् । प्रजानां जनानाम् । कल्याणसंभूतिः आनन्दोदयः । तद्धेतुत्वात्तद्व्यपदेशः । प्रियस्य चन्द्रस्य उदयन स्फीतरुचः सर्वत्र चन्द्रिकाप्रसरणात्प्रवृद्धकान्तेः । रजन्याः रात्रेः । संतोषनिःश्वास इव स्थितः । समीरो वायुः । अभूत् । यथा पत्युरभ्युदयं दृष्ट्वा प्रवृद्धमुखकान्तेः प्रियायाः संतोषनिःश्वासो भवति तद्वदिति भावः । अत्र अधीतलास्य इति कम्पनस्य निगीर्याध्यवसानादतिशयोक्तिः। कल्याणसभूतिरिति रूपकम् । तयो