पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०६
यादवाभ्युदये

रुत्तरार्धगतालंकारैः परस्पर ससृष्टिः। उत्तरार्धे चन्द्रस्य प्रियतेन निगीर्याध्यवसानादतिशयोक्तिः। रजन्या विशेषणसाम्यान्नायिकात्वप्रतीतेः समा. सोक्तिः। सतोषनि श्वासनिभ इत्युत्प्रेक्षा च । एतेषां परस्परानुप्राणितत्वेन सङ्करः । यद्यपि निभशब्द उपमाया एव वाचकः, तथापि रजन्या निःश्वाससभावनायां निमित्तोपन्यासाद्रजनीनिःश्वासतादात्म्येनोत्प्रेक्षेति निभशब्दस्य तत्रैव पर्यवसानादुपमोपक्रमोत्प्रेक्षेयम् ॥ ७८ ॥ प्रायेण हंसैरवधूतसङ्गा चारुस्मिता संभृतभृङ्गनादा । सर्वोपभोग्ये समये प्रसुप्तं कुमुदती कोकनदं जहास ।। ७९॥ प्रायेणेति । हसैः मरालैः। अवधूतसङ्गा त्यक्तसङ्गा । हसाः कमलिन्यामेव रज्यन्ति न तु कुमुद्रत्यामिति भावः । चारुस्मिता रम्यविकासा। सभृतभृगनादा संपादितभ्रमरस्त्रना । कुमुदती । सर्वेषां उपभोग्ये उपभोगाहें । समये निशीथे। प्रसुप्तं निमीलितम्। कोकनद अरविन्दं। प्रायेण जहासेवेति दीधितिधावल्य हासत्वेनो प्रेक्ष्यते । अत्र रामासोक्त्या वेश्यासाम्य कुमुद्वत्यां प्रतीयते । यथा हसोगिभिर्वीनरागैरवधूतसङ्गा चारुमन्दहासा स्वकीयोपहाससमये सभृतसहोपहागिविटशब्दा वेश्या सर्वोपभोग्ये समये वनितारसानभिज्ञतया प्रसुप्त जनमुपहसति तद्वदिति । 'अलिचातकयोभृङ्गः षिद्धूम्याटयोरपि ।' इति रत्नमाला । हसो विहगभेदे स्याद विष्णौ हयान्तरे । योगिमन्त्रात्मभेदेषु परमात्मनि मत्सरे ॥' इति विश्वः ॥ ७९ ॥ कलङ्कलक्षण समेक्षि काचित कस्तूरिकापत्रविशेषकान्तिः।