सामग्री पर जाएँ

पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९१
द्वितीयः सर्गः।

उत्तभ्यमानः इव । जज्ञ इत्यनुषङ्गः। पूर्व अन्धकारवृतत्वेनादर्शनात् पर्वतशिखराणि भूमौ निममानीवेत्युत्प्रेक्षा। तदुदयारम्भे भूमौ पतद्भिः किरणैरुपरिभागमारभ्य प्रकाश्यमानानि तान्युत्तम्भनेन पुनरुन्मजन्तीवेत्यपरात्प्रेक्षेति तयोः परस्परानुप्राणितत्वन सङ्करः ॥ ५४ ॥ दिशस्तदानीमवनीधराणां सगैरिकैः पारदपङ्कलेपैः। चकाशिरे चन्द्रमसो मयूखैः पञ्चायुधस्येव शरैः प्रदीप्तः ॥ ५५ ।। दिश इति । तदानीम् । दिश· अवनीधराणां पर्वतानाम् । सगैरिके पारदपङ्कलेपः कनकसहितरसकदमलेपः, तद्वदार के । चन्द्रमसः मयूखैः । प्रदप्तिः प्रज्वलितैः । पञ्चायुधस्य शररिव । चकाशिरे । अत्र सगैरिकेरित्यादिरूपकस्य पञ्चायुधरयेत्याद्यत्प्रेक्षायाश्च संसृष्टिः। 'गैरिक कनके धातो' इति । 'रसस्तु पारदे सूदे' इति च विश्वप्रकाश ॥ ५५ ॥ समुन्नान्ती कुटिलायतात्मा शशाङ्कलेखोदयदृश्यकोटिः। वियोगिचेतोलवने प्रवीणा कामोद्यता काञ्चनशङ्कलेव ॥ ५६ ॥ समुन्नमन्तीति । प्रथम समुन्नमन्ती समुद्गच्छन्ती। कुटिलायतात्मा वकदीर्घाकारा । शशाङ्कस्य लेखा। उदये प्रथमदृश्या कोटिः यस्याः सा। कामेन उद्यता । वियोगिनां विरहिजनानां चेतसो लवने । प्रर्वाणा । कावनशङ्खला कनकमयी लवनशस्त्रीव । चकाशे । स्वरूपोत्प्रेक्षालङ्कारः॥