सायंसन्ध्यादिक्रमेण निशीथपर्यन्तं वयितुमुपक्रमते-तापेति । जगतां तापोपशान्ति सौरातपतापस्य प्रशमम् । दिशन्ती। साधुजनप्रतीक्ष्या काले सन्ध्याकर्म कर्नु परिपालनीया । अपरा सन्ध्या जयन्यास्तिथेः पश्चिमसन्ध्या । ता प्रकृताम् । इदृशी इत्थंभूतामासन्नाम् । विश्वपितुः प्रसूति सवेदयन्तीव । समाजगाम समागतवती । दुष्टनिग्रहार्थ भगवदाविर्भाव निवेद. यन्त्यपि जगतां मनस्तापशान्तेः सवित्री सज्जनस्य प्रतीक्ष्या पूज्या च भवतीति सन्ध्यायास्तादात्म्येनोत्प्रेक्षा। सा च मनस्तापसौरतापयोः पूज्यप्रतिपाल्ययोश्चाभेदाध्यवसायरूपातिशयोक्त्युत्थापितति सङ्करः॥ सुवर्णपीताम्बरवासिनी सा स्वधामसंछादितसूर्यदीप्तिः। उपासनीया जगतां वभासे मुरद्विषो मूर्तिरिव द्वितीया ॥ ३८ ॥ सुवर्णेति। शोभनो वर्णस्सुवर्णः सन्यालोहितरूपः तेन पीते ग्रस्ते अम्बरे आकाशे वस्तुं शीलमस्या इति तथोक्ता। मूर्तिपक्षे मुवर्णमिव पीत सुवर्णेन पीत कनकलिप्त वा अम्बरमंशुकं वसितु शीलमस्या इति तथोक्ता । एकत्र वस निवास इति, अन्यत्र वस आच्छा दन इति धातोस्ताच्छील्ये णिनिः । स्वधाम्ना खतेजसा सञ्छादिता सूर्यस्य दीप्तिर्यया सा तथोक्ता । सन्ध्यातेजसा हि सूर्यदीप्ति रारज्यते, मूर्तिपक्षे तिरस्कियत इति यावत् । जगतां उपासनीया पूज्या । सा सन्ध्या। मुरद्विषो नारायणस्य द्वितीया मूर्तिरिव बभासे इत्युत्प्रेक्षा। सा च सुवर्णपीताम्बरेत्यादिश्लेषमूलकाभेदाध्यवमायरूपातिशयोक्त्युत्थापितेति सङ्करः॥ ६८ ॥
पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१२५
दिखावट