सामग्री पर जाएँ

पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७८
यादवाभ्युदये

र्भस्य प्रभावान्माहात्म्यात् । र दुःख शालति प्राप्नोतीत्यदुःखशीलां गर्भभरणक्लेशरहिताम् । समये आसन्नप्रसवकालेऽपि । सुखैकतानां भवित्री मुखैकरूपां सती गर्भसञ्चलनक्लेश विनैव सुखमामीनाम् । देवी अवलोक्य । स्वस्य संपद अभिवृद्धिम्। सूचयतीति । मेने । इदमशरीरिवाक्यानुरोधेना न्यादशस्याटमगर्भस्य प्रभावादेवेति खाभिवृद्धि च निश्चितवानित्यर्थः । दुःखशीलामिति दु.खोपपदाच्छीलतिधाता' 'गालिकामिभिक्षाचरिभ्यो गः' इति णप्रत्ययः ॥ ३५ ॥ पितृत्वमासाद्य सुरासुराणां पितामहत्वं प्रतिपत्स्यमानः ।' अनन्तगर्भामवलोक्य देवी मतुष्यदन्येषु गताभिलाषः ॥ ३६॥ पितृत्वमिति। पुरा काश्यपरूपेण मुरासुराणां पितृत्व आसाद्य । पितामहत्वं अखिलपितुर्भगवतो जनकतया तेषां पितुः पितृत्वम् । प्रतिपस्यमानो वसुदेवः । अनन्तो विष्णु: गर्भो यस्त्रास्ताम् । देवी अवलो. क्य । अन्येषु गताभिलाषो विषयान्तरेप्वपेताभिलाषस्सन् । अतुष्यत् । 'अनन्तो नागराडिष्णुः' इति यादवः ॥ ३६ ॥ तापोपशान्ति जगतां दिशन्ती सन्ध्याऽपरा साधुजनप्रतीक्ष्या । तामीदृशीं विश्वपितुः प्रसूर्ति संवेदयन्तीव समाजगाम ।। ३७ ॥ अथ गर्भवर्णनानन्तरं जयन्त्या निशीथे भगवदवतारं वक्ष्यन् तदादी