पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ५८२ सत्यापाढविरचितं श्रौतसूत्र- [७ सप्तमप्रने- शुल्बसूत्रे पदे युगेऽरत्नावियति शम्यायां च मानार्थेषु यायाकामी शब्दार्थस्य विशयित्वादिति । विशयित्वात्, अनेकविधवादित्यर्थः । पदं पञ्चदशाङ्गुलमिति बौधायना । दशाङ्गुलं क्षुद्रपदमित्यपि सः । दशाङ्गुलं पदमिति कात्यायनः । एतानि प्रमाणानि सार्वत्रिकाणि । प्राची सर्वत्र लोकत एव ग्राह्या । तत्र बौधायन:-कृत्तिकाः खल्विमां प्राची न जहन्ति(ति) तासां दर्शनेनानुमापयेदित्येकं, श्रोणादर्शनेनानुमापये- दित्येके, चित्रास्त्रात्योरन्तरालेनानुमापयेदित्यपरमिति । एतानि लक्षणानि देशविशेषेषु व्यवतिष्ठन्ते । सर्वदेशसाधारणं लक्षणं कात्यायन आह-समे शकुं निखाय शर्छ- संमितया रज्ज्वा मण्डलं परिलिख्य यत्र रेखयोः शवप्रच्छाया पतति सा प्राचीति । अग्रे स्रक्तिवतीरोककरणविधानाद्विमितस्य चतुरश्रता गम्यते । पिज्येष्टौ दिक्षु सक्तय इति विधानाइवे कर्मणि चतुरश्रेषु विदिक्षेव सक्तयः । आपस्तम्बः स्पष्टमेवामुमर्थमाह- अवान्तरदिक्षु सक्तय इति ।

परिश्रयन्तः स्रक्तिष्वतीरोकान्कुर्वन्ति ।

प्राग्वंशं विमितमुपरिष्टादाच्छादितं परिश्रयन्तः परितः कटादिभिराच्छादयन्तः परिकर्मिणः स्रक्तिषु कोणेषु अतीरोकान्कुर्वन्ति । आरोकशब्दोऽन्तरालवाची गवाक्षाणीति यावत् । आरोकेष्वारण्यान्धारयन्तीत्यश्वमेधे श्रुतेः । दीर्घो लकारस्य रेफश्च च्छान्दसः । कोणेषु गवाक्षाणि कुर्वन्तीत्यर्थः । परिश्रयन्त इति शतृनिर्देशात्परिश्रयण- समकालमेवातीरोककरणम् ।

उत्तरपूर्वमवान्तरदेशं प्रति पञ्चमम् ।

उत्तरपूर्वावान्तरप्रदेशाभिमुखं पञ्चममित्यर्थः । अयमर्थः प्रतिशब्दाल्लभ्यते । उत्तर- पूर्व प्रति पञ्चममित्येतावत्युच्यमान उत्तरपूर्वशब्देन गवाक्षस्यैव ग्रहणं स्यात् । तथा च तत्समीपेऽवान्तरदेश एवं पञ्चमं गवाक्षं स्यात्तन्मा भूत्किंत्ववान्तरदेशव्यतिरिक्तसमी- पवर्तिनि पूर्वभाग उत्तरभागे वा यथा स्यादित्येतदर्थमवान्तरदेशवचनम् । दिक्स्थाश्च- त्वारो भागा विदिक्स्थाश्चत्वारस्तत्र पूर्वभाग उत्तरभागे वा पञ्चमं गवाक्षमिति द्रष्टव्यम् । उत्तरपूर्वग्रहणमितरावान्तरदेशव्यावृत्त्यर्थम् ।

दिक्षु द्वाराणि ।

कुर्वन्तीति शेषः । श्रुतौ दिक्ष्वतीकाशान्करोतीत्यतीकाशशब्दो द्वारवाच्येव । तानि अरत्निमात्राणि । पृष्ठ्यासूत्रपाश्चात्योदक्सूत्रसंपाताद्दक्षिणतः प्रादेशमिते देशे द्वारस्तम्भः । एवमुत्तरतो द्वारस्तम्भः । एवं प्रत्यग्द्वारं संपन्नं भवति । पृष्ठयासूत्रपौरस्त्योद- क्सूत्रसंपाताद्दक्षिणत उत्तरतश्च पूर्ववदेकैकं स्तम्भं दद्यात् । एवं प्राग्द्वारं संपन्नं भवति । उदक्सूत्रदक्षिणप्रान्तसूत्रसंपातात्प्राच्या प्रतीच्यां च पूर्ववदेकैकं स्तम्भं दद्यात् । एवं दक्षिणद्वारं संपन्नं भवति । उदक्सूत्रोत्तरप्रान्तसूत्रसंपातात्प्राच्यां प्रतीच्यां च पूर्ववद्द्वार- 1