अथर्ववेदः/काण्डं २०/सूक्तम् ००४

विकिस्रोतः तः
← सूक्तं २०.००३ अथर्ववेदः - काण्डं २०
सूक्तं २०.००४
इरिम्बिठिः
सूक्तं २०.००५ →
दे. इन्द्रः। गायत्री।

आ नो याहि सुतावतोऽस्माकं सुष्टुतीरुप ।
पिबा सु शिप्रिन्न् अन्धसः ॥१॥
आ ते सिञ्चामि कुक्ष्योरनु गात्रा वि धावतु ।
गृभाय जिह्वया मधु ॥२॥
स्वादुष्टे अस्तु संसुदे मधुमान् तन्वे तव ।
सोमः शमस्तु ते हृदे ॥३॥