अथर्ववेदः/काण्डं ७/सूक्तम् ०६६
दिखावट
← सूक्तं ७.०६५ | अथर्ववेदः - काण्डं ७ सूक्तं ७.०६६(७.०६४) ऋषिः - यमः |
सूक्तं ७.०६७ → |
दे. आपः, अग्निः, निर्ऋतिः। १. भुरिगनुष्टुप्, २. न्यङ्कुसारिणी बृहती। |
इदं यत्कृष्णः शकुनिरभिनिष्पतन्न् अपीपतत्।
आपो मा तस्मात्सर्वस्माद्दुरितात्पान्त्वंहसः ॥१॥
इदं यत्कृष्णः शकुनिरवामृक्षन् निर्ऋते ते मुखेन ।
अग्निर्मा तस्मादेनसो गार्हपत्यः प्र मुञ्चतु ॥२॥