अथर्ववेदः/काण्डं ७/सूक्तम् ०६७

विकिस्रोतः तः
← सूक्तं ७.०६६ अथर्ववेदः - काण्डं ७
सूक्तं ७.०६७(७.०६५)
ऋषिः - शुक्रः।
सूक्तं ७.०६८ →
दे. अपामार्गवीरुत्। अनुष्टुप्।

प्रतीचीनफलो हि त्वमपामार्ग रुरोहिथ ।
सर्वान् मच्छपथामधि वरीयो यवया इतः ॥१॥
यद्दुष्कृतं यच्छमलं यद्वा चेरिम पापया ।
त्वया तद्विश्वतोमुखापामार्गाप मृज्महे ॥२॥
श्यावदता कुनखिना बण्डेन यत्सहासिम ।
अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥३॥