। १०२ सत्यापाढविरचितं श्रौतसूत्र-- [श्मयमप्रमे वारसानपाकरोत्येतद्यथा सायं दोहायेत्यनेन संवध्यते । दोहायेति वदता दोहात्पूर्वतनः सर्वोऽपि विधिः समान इत्युक्तम् । तन्मध्ये देवो वः इति प्रस्थापनमेकस्या उपस्पर्शनं प्रस्थितानुमन्नणं चालुतानि न विद्यन्ते । अन्यन्सर्वं क्रियत उपगृहनान्तं, तस्या अपि शाखायाः प्रस्तरेण सह प्रतिपत्तिः । यदा तु वत्सापाकरणमिति पक्षस्तत्र न पुनः शाखाहरणं प्रयोजनामावात् । शाखापवित्रस्य च पूर्वस्यैव मन्त्रलिङ्गाद्विधानास्थिति- रुत्तरदोहार्थम् । अत्राऽऽरण्याशनपरिस्तरणं यद्यपि विधेयमस्मिन्समये तथाऽपि सायंदोहस्य प्रातदहस्य च समान विधानमौपदेशिकमेवेति दर्शयितुं न व्यवधानेनै- कप्रकरणतया प्रदश्यते । तथोमी सायंप्रातःही सानाय्यमतोऽप्यव्यवधानेन व्याख्येयौ। तत्रापि क्रमविशेष वक्तुमाह-
उपधाय कपालानि प्रातर्दोहं दोहयति तस्य सायंदोहेन कल्पो व्याख्यातः ।
स्पष्टमेतत् । विशेषमाह-
अप्रस्रꣳसाय यज्ञस्योखे उपदधाम्यहम् । पशुभिः संनीतं विभृतामिन्द्राय शृतमिति मन्त्रान्तꣳ संनमति ।
एवं पाठेन पठतीत्यर्थः। विशेषान्तरमाह-
उदगग्रꣳ शाखापवित्रमादधाति ।
सायं दोहे प्रागुदगग्रमत्रोदगग्रमिति विशेषः । संक्षालननिनयनान्तं समान, तूष्णी केनेत्येतन्नास्ति स्थालीगतेनाभिधारणस्याभिधास्यमानत्वात् । विशेषान्तरमाह-
नाऽऽतनक्ति।
अर्थलुप्तस्सानुवादोऽयमग्रिमपदार्थनिवृत्त्यर्थम् । तेनाग्निहोत्रोच्छेषणानयनमपिधानं शाखापवित्रनिधानं सांनाय्यनिधानं च निवर्तन्ते । एवमुभा दोहावृत्तौ दर्शमात्र प्रकृत्य संनयतः सानारयमिति । इदानी संनयदसंनयतोविभागमाह-
नासोमयाजी संनयेदतो खल्वाहुः कापेयाः संनेयमेवासोमयाजिनेति ।
नासोमयाजी संनयेदित्यस्मच्छाखास्थमयो खल्वाहुरिति शाखान्तरस्थमयो खलु कल्पान्तरं कापेयशाखिन आइत; तरिक, संनेयमेवेत्यादि । तथा च विहितप्रतिषि- दसोमा मनोऽपि विकल्पः । -