पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८४
बृहत्स्तोत्ररत्नाकरे -प्रथमभागः

तस्मान्मत्तस्तुतिस्सेयमभ्रादृष्टिरिवाजनि ॥ १४
नमश्शिवाय साम्बाय नमश्शर्वाय शम्भवे ।
नमो नटाय रुद्राय सदसस्पतये नमः ॥ १५
पादभिन्नाहिलोकाय मौळिभिन्नाण्डभित्तये ।
भुजभ्रान्तदिगन्ताय भूतानां पतये नमः ॥ १६
क्वणन्नूपुरयुग्माय विलसत्कृत्तिवाससे ।
फणीन्द्रमेखलायास्तु पशूनां पतये नमः ॥ १७
कालकालाय सोमाय योगिने शूलपाणये ।
अस्थिभूषाय शुद्धाय जगतां पतये नमः ॥ १८
पात्रे सर्वस्य जगतो नेत्रे सर्वदिवौकसाम् ।
गोत्राणां पतये तुभ्यं क्षेत्राणां पतये नमः ॥ १९
शङ्कराय नमस्तुभ्यं मङ्गळाय नमोऽस्तु ते।
धनानां पतये तुभ्यमन्नानां पतये नमः॥ २०
अष्टाङ्गयोगहृष्टायं क्लिष्टभक्तेष्टदायिने ।
इष्टिघ्नास्तुतयूष्टाय पुष्टानां पतये नमः ॥ २१
पञ्चभूताधिपतये कालाधिपतये नमः ।