पुटमेतत् सुपुष्टितम्
१४३
स्कन्दवेदपादस्तवः
नश्चभूत्वा। संरक्षणायैव जगत्सु देवो विवेश भूतानि चराचराणि ॥२६
करौ युवामञ्जलिमेव नित्यमुमाङ्गजाताय विधत्त मस्मै । एष प्रसन्नस्सुकुमारमूर्तिरस्मासुदेवो द्रविणं दधातु॥२७
निधिःकलानामुदधिर्दयानां पतिर्जनानां सरणि- र्मुनीनाम् । कदा प्रसीदेन्मयि पार्वतेयः पिता विरा- जामुषभोरयीणाम् ॥२८
सौन्दर्थवल्लीतनुसौकुमार्यसरोजपुष्पन्धयमानमो यः । चचार कान्तारपथेषु देवः सनो दधातु द्रविणं सुवीर्यम् ॥२९
इतोऽपि सौन्दर्यवदस्तु देहमितीव हुत्वा शिव- फालनेत्रे। जातस्ततः किं स कुमार एव कामस्त- दग्रे समवर्तताधि॥३०
मुमुक्षुलोकाश्शृणुत प्रियं वो भजध्वमेनंगिरिजा- कुमारम् । अस्यैव देवस्य परात्मतेति हृदि प्रतीक्ष्या कवयोमनीषा ॥