पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्विसप्ततितमः सर्गः, २३१ २७ २८ स रुदित्वा चिरं कालं भूमौ विपरिवृत्य च । जननी प्रत्युवाचेदं शोकैर्बहुभिरावृतः॥ २६ अभिपेक्ष्यति रामं नु राजा यहं नु यक्ष्यते । इत्यहं कृतसंकल्पो हृष्टो यात्रामयासिषम् ।। तदिदं ह्यन्यथाभूतं व्यवदीर्णं मनो मम । पितरं यो न पश्यामि नित्यं प्रियहिते रतम् ॥ अम्ब केनात्यगाद्राजा व्याधिना मय्यनागते । धन्या रामादयः सर्वे यैः पिता संस्कृतः खयम् ।। २९ न नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान । उपजि द्धि मां मूर्ध्नि तातः संयम्य सत्वरम् ॥ ३० क स पाणिः सुखस्पर्शस्तातस्याक्लिटकर्मणः । येन मां रजसा ध्वस्तमभीक्षण परिमार्जति ॥ ३१ यो मे भ्राता पिता बन्धुर्यस्य दासोऽस्मि धीमतः । तस्य मां शीघ्रमाल्याहि रामस्यालिष्टकर्मणः ॥३२ पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानतः । तस्य पादौ ग्रहीष्यामि स हीदानी गतिर्मम ।। ३३ धर्मविद्धर्मनित्यश्च सत्यसन्धो दृढव्रतः । अर्यः किमब्रवीद्राजा पिता मे सत्यविक्रमः।। ३४ पश्चिम माधु संदेशमिच्छामि श्रोतुमात्मनः । इति पृष्टा यथातत्त्वं कैकयी वाक्यमब्रवीत् ॥ ३५ रामेति राजा विलपन हा सीने लक्ष्मणेति च । म महात्मा परं लोकं गतो गतिमतां वरः।। इमां तु पश्चिमां वाचं व्याजहार पिता तव । कालधर्मपरिक्षिप्तः पाशैरिव महागजः ।। सिद्धार्थास्ते नरा राममागतं सीतया सह । लक्ष्मणं च महाबाहु द्रक्ष्यन्ति पुनरागतम् ॥ तच्छ्रुत्वा विषमादैव द्वितीयाप्रियशंसनान । विषण्णवदनो भूत्वा भूयः पप्रच्छ मातरम् ।। ३९ क चेदानी म धर्मात्मा कौसल्यानन्दवर्धनः । लक्ष्मणेन सह भ्रात्रा सीतया च समं गतः ।। तथा पृष्ठा यथातत्त्वमाख्यातुमुपचक्रमे । मातास्य युगपद्वाक्यं विप्रियं प्रियशङ्कया' । ४१ स हि राजमुतः पुत्र चीरवासा महावनम् । दण्डकान सह वैदेह्या लक्ष्मणानुचरो गतः ।। ४२ तच्छ्रुत्वा भरतस्यन्तो भ्रातुश्चारित्रशङ्कया । स्वस्य वंशस्य माहात्म्यात् प्रष्टुं समुपचक्रमे ।। ४३ कचिन्न ब्राह्मणधनं हतं रामेण कचित् । कश्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिसितः॥ कभिन्न परदारान् वा राजपुत्रोऽभिमन्यते । कस्मान् स दण्डकारण्ये भ्रूणहेव विवासितः ॥ अथास्य चपला माता तत् स्वकर्म यथातथम् । तेनैव स्त्रीम्वभावेन व्याहतुमुपचक्रमे ।। एवमुक्ता तु कैकेयी भरतेन महात्मना । उवाच वचनं हृष्टा मूढा पण्डितमानिनी ।। न ब्रामणधनं किचिद्धृतं रामेण धीमता । कञ्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिसितः ।। न रामः परदारांश्च चक्षुर्भ्यामपि पश्यति । मया तु पुत्र श्रुत्वैवं रामम्यैवाभिषेचनम् ॥ ४९