सामग्री पर जाएँ

गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायः ०७

विकिस्रोतः तः
← अध्यायः ०६ गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)
अध्यायः ७
[[लेखकः :|]]
अध्यायः ०८ →

।। अथ सप्तमोऽध्यायः ।।
ऋषय ऊचुः ।।
तत्रगत्वा किमकरोत्सोमकान्तो नृपस्तदा ।
उपायः कथितः को वा भृगुणा सर्ववेदिना ।।१।।
कथयस्व कथामेतां शृण्वतां नो द्विजोत्तम ।
नतृप्तिमधिगच्छामः पीत्वा त्वद्वचनामृतम् ।।२।।
सूत उवाच ।।
सम्यक्पृष्टं महाभागा यूयं तु ज्ञानसागराः ।
यः कथां तं नप्रयाति श्रोतावक्ताथवाद्विजाः ।।३।।
लिख्यमानं वाचयति पुस्तकं हरतेपि वा ।
नृपृच्छति चयः शिष्यो गुरुः पृष्टो न वक्तिचेत् ।।४।।
उभौ तौ मूकबधिरौ लोकेदृष्टौ द्विजोत्तमाः ।
श्रृण्वन्तु कथयिष्यामि सोमकान्त कथामतः ।।५।।
तस्यां रात्र्यां व्यतीतायां दिननाथे तथोदिते ।
स्नानं सन्ध्यां जपं होमं कृत्वा स भृगुसत्तमः ।।६।।
स्नाताय कृतजप्याय पत्नीप्रकृतिसंयुजे ।
पूर्वजन्मकथां तस्मै राज्ञे कथितुमारभत् ।।७।।
भृगुरुवाच ।।
कोल्हारनगरे रम्ये विन्ध्याचलसमीपतः ।
चिद्रूप इति विख्यातो वैश्यो बहुधनो भवत् ।।८।।
तस्य भार्या तु सुभगा नाम्ना ख्याता सुलोचना ।
सुशीला दानशीला च पतिवाक्यपरासती ।।९।।
तस्यास्त्वं पुत्रतां यातो भवे पूर्वे नृपोत्तम ।
कामंद इति ते नाम चक्रतुस्तौ द्विजेरितौ ।।१०।।
अतिस्नेहं दिवारात्रावतिलालनमेकके ।
वार्धक्यकाल जेतौ तु पितरौ त्ययि चक्रतुः ।।११।।
विवाहं चक्रतुस्तातु धनकौतुकमङ्गलैः ।
मृगाक्षी सुकुमाराङ्गी नाम्ना ख्याता कुटुम्बिनी ।।१२।।
अनुरक्ता त्वयि सदा द्विजदेवातिथिप्रिया ।
बभूव योषिद्योषित्सु रत्नभूतादि सुन्दरी ।।१३।।
कुटुम्बिनीति स्वं नाम विदधे सार्थकं तु सा ।
सप्तपुत्रा पञ्चकन्या पञ्चबाणप्रियानुकिम् ।।१४।।
ततो बहुतिथे काले पञ्चत्वमगमत्पिता ।
माता तव सती तेन सहदग्धा दिवङ्गता ।।१५।।
ततस्त्वंसखिवर्गैस्तद्द्रव्यं नाशितवान्बहु ।
नीतं नष्टं भक्षितं च विनाशमगवद्धनम् ।।१६।।
चिन्तया धर्मपत्नी त्वां निराकृतवती भृशम् ।
न गृहीतं तु तद्वाक्यं ततो विक्रीतवान् गृहम् ।।१७।।
गता सा बालकैः सार्धमनुज्ञाता पितुर्गृहम् ।
अपत्यपोषणकृते ऋतेत्वां वंशकण्टकम् ।।१८।।
तत उद्धृत्ततांयात उन्मत्त इव मद्यपः ।
अन्यायकारी नगरे जातोमत्त इव द्विपः ।।१९।।
परस्वहारो वनितासुजारो ग्रामेषुचोरोजनतापकारः ।
द्यूतेषुवीरो वृजिनौघसारो हिंसाविहारो बलहीन शूरः ।।२०।।
ये ये जनास्ते सुखसङ्गतृप्तास्तेभ्यो गृहीत्वा बहुवित्तमादः ।
निक्षेपतः पितृकतात्सहृद्भ्योमिषात्कुतश्चिनगरस्थितेभ्यः ।।२१।।
शपथाननृतांश्चकर्थनूनमनृतानां प्रमदा जनेषु साक्ष्यम् ।
इति सर्वजनाः सुभीतिमापुरुरगात्सद्मगतादिवोग्रवीर्यात् ।।२२।।
असह्यतां तेन जनस्ययातो गोक्षूरकः पायसगोययैव ।
राज्ञो गृहित्वानुमतिं जनास्ते निर्वापयामासुरतोपुरात्त्वाम् ।।२३।।
वनेस्थितस्त्वं बहुजन्तुघाती स्त्रीबालवृद्धान्विनिहंसि नित्यम् ।
महाजनं वीक्ष्य पलायसे च सिंहं निरीक्ष्येववृकोमृगोवा ।।२४।।
मत्स्यान्बकान्सारसकुक्कुटांश्च वृकान्मृगान्वानरकोकिलांश्च ।
हत्वात्सिखड्गान्शशकांश्चगोत्रामुधास्वदेशं वृजिनादपोषः ।।२५।।
सिंहान्व्याघ्रांश्च जम्बूकान्निःसार्य गिरिगह्वरात् ।
नानास्थानगताश्चेरान्मेलयित्वा सुदुर्धरान् ।।२६।।
काष्ठैर्लोष्टैश्च पाषाणैश्चकर्थ गृहमुत्तमम् ।
विशालं क्रोशविस्तारं नानाकौतुक मण्डितम् ।।२७।।
पित्राभीतेनपत्नी सा प्रापिता बालकैः सह ।
गुहागतं ते सदनं राजतोजनतोऽपि च ।।२८।।
नानालंकारवसना बालका अपि तेजसा ।
देवाङ्गनेव शुशुभे त्वं चचोरसमन्वितः ।।२९।।
त्वं च मार्गे जनान्दीनान् हत्वा हत्वा गुहां गतः ।
चोरैः सबालयोषिद्भिर्भासिराजेवतद्गतः ।।३०।।
कदाचिद् ब्राह्मणो विद्वान् विख्यातोगुणवर्धनः ।
मध्याह्ने मार्गमध्ये तु त्वयादृष्टः स एककः ।।३१।।
गृहीत्वा दक्षिणं पाणिं तं विप्रं धृतवानसि ।
स वेपमानस्त्वद्बुद्धिं जानन्धर्षणयातया ।।३२।।
ऊचे त्वां स्वांतकं मत्वा मूर्च्छितो जीवितेच्छया ।
अत्यन्तकरुणावाक्यैर्बोधयं स्वांसहेतुकैः ।।३३।।
गुणवर्धन उवाच ।।
धनवान्सुभगोभूत्वा कथं मां हन्तुमिच्छसि ।
द्विजं नवोढा भर्तारं शान्तं चानपराधिनम् ।।३४।।
दुर्बुद्धिवासनां त्यक्त्वा सद्धर्मेषु मतिं कुरु ।
प्रथमामेगता कान्ता प्राप्ता कान्ततरापरा ।।३५।।
स्वाचारापरमोदारा साध्वी सर्वगुणाकरा ।
पितृृणामनृणार्थाय धर्मसन्तानवृद्धये ।।३६।।
कृतासाति प्रयत्नेन गार्हस्थंधर्ममिच्छता ।
मद्विनातद्विनावांहि जन्मनी भवतो वृथा ।।३७।।
पितामेहि भवत्वं च मातापुत्रोप्यहं तव ।
जीवदाता भयत्राता पिताशास्त्रे निगद्यते ।।३८।।
दस्यवोपिहि रक्षन्ति द्विजं वा शरणागतम् ।
द्विजं योग्यं शरण्यं मामतत्स्त्वं मोक्तुमर्हसि ।।३९।।
नोचेत्कल्पसहस्रं त्वं निरयान्प्रतिपद्यसे ।
भोक्तारः सर्व एवैते स्त्रीपुत्राः सुहृदोजनाः ।।४०।।
न पापभागिनस्त्वे ते सुखिनस्त्वत्प्रतारकाः ।
कियद्भिर्जन्मभिः पापं भोक्ष्यसे नवितर्कये ।।४१।।
।। इति श्रीगणेशपुराणे उपासनाखण्डे सोमकान्तपूर्वजन्मकथनं नाम सप्तमोऽध्यायः ।।७।।