सामग्री पर जाएँ

गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायः ०८

विकिस्रोतः तः
← अध्यायः ०७ गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)
अध्यायः ८
[[लेखकः :|]]
अध्यायः ०९ →

।।अथाष्टमोऽध्यायः ।।
भृगुरुवाच ।।
इति तेनोदितं वाक्यं मुहुर्ग्लानिं प्रकुर्वतः ।
करुणायुतमाकर्ण्य नोद्भिन्नं हृदयं तव ।।१।।
वज्रात्सारतरं किं नु ब्रह्मणा त्ययि निर्मितम् ।
हिंसनाद् बहुजन्तूनां मनुष्याणां सहस्रशः ।।२।।
अतिनिष्ठुरतां प्राप्तं कृतघ्नस्येव मानसम् ।
अवोचस्त्वं ततस्तन्तु कृतान्त इव निष्ठुरः ।।३।।
चोर उवाच ।।
किं ते वाक्यचयैर्विप्रः वृथामयि नियोजतैः ।
अश्रोचरितपाण्डित्यं न्युब्जे कुम्भे यथा जलम् ।।४।।
क्वेयं मम मतिर्मूढ क्वोपदेशस्तवाप्ययम् ।
तत्त्व चिन्तेव मधुपे साम्प्रतं मे न रोचते ।।५।।
अर्थासक्तय न क्वापि पितृबन्धुविचारणा ।
यथा कामातुरस्यापि न भीतिर्हृश्च विद्यते ।।६।।
शुद्धिः काके द्यूतकारे सत्यंधैर्यं नपुंसके ।
कामशान्ति स्त्रियां सर्पे क्षमा दृष्ट्वा त्वया नु किम् ।।७।।
अन्तिके त्वं निसृष्टोसि व्यापाररहितस्य मे ।
विधात्रा दैवयोगेन न त्वां मुञ्चामि कर्हिचित् ।।८।।
भृगुरुवाच ।।
इत्युक्त्वा शितिं खड्गं हस्तआदाय दक्षिणे ।
चकर्ताथ शिरस्तस्य बिडाल इव मौषकम् ।।९।।
एवं ते बह्महत्यानां संख्यां कर्तुं न शक्यते ।
स्त्रीबालवृद्धजन्तूनां हत्यानां च विशेषतः ।।१०।।
संख्यातापरपापानां विभागी जायते यतः ।
ततो बहुतिथे काले गते कामंदते जरा ।।११।।
अगता कफोग्लानिः स्वेदेहोहिक्काथवेपथुः ।
अभूत्तन्द्रीचोपविष्टे प्रसुप्तेन च सा भवत् ।।१२।।
अनादरं च चक्रुस्ते पुत्रा दास्योथसेवकाः ।
सुहृदश्च सुताश्चापि नप्तारोथापि मित्रकाः ।।१३।।
एक एवाभवत्तत्र दृष्टआप्तो रहस्यकृत् ।
अनिवार्य गतिर्विप्रः स चापि प्रेषितस्त्वया ।।१४।।
आकारयितुं सर्वांस्तान् मुनीन् काननवासिनः ।
ते चापि त्वद्भयादेव द्विजवाक्यात्समागताः ।।१५।।
अब्रवीस्तान्नमस्कृत्य मत्तो दानानि गृह्यताम् ।
ते ब्रुवन्न च गृह्णीमो दानानि पतितस्य ते ।।१६।।
यजनाध्यापनाद्यौनात्सम्बन्धाद्भाषणादपि ।
परं सञ्चरते पापं सहयानासनाशनात् ।।१७।।
इति ते भाषणास्त्वां गत्वा च निजमाश्रमम् ।
सस्नुः सचैलसर्वेपि पावमानीस्ततो जपन् ।।१८।।
ततोनुतापो मनसि जातः कामंदते भृशम् ।
आमयात्स्वजनैस्त्यागाद्ब्राह्मणैः परिवर्जनात् ।।१९।।
जीर्णदेवालयोद्धारे भवत्ते मतिरूर्जिता ।
धनं स्वं विपुलं वीक्ष्य कुप्यरत्नादि संयुतम् ।।२०।।
ततोनादिः परामूर्तिर्गणेशस्य वने शुभा ।
जीर्ण देवालये क्षुद्रे स्थिता ते कथिता द्विजैः ।।२१।।
ततोऽति विस्तृतं दीर्घं चतुस्तोरणसंयुतम् ।
चतुर्द्वारं सुरुचिरं चतुःशिखर शोभितम् ।।२२।।
नानास्तम्भभितं नाना वेदिभिः परिवारितम् ।
मुक्ताप्रवालरत्नाद्यैः रचितं रुचिराङ्गणम् ।।२३।।
नानापुष्पद्रुमयुतां नानाफलद्रुमैश्चितम् ।
चतुर्दिक्षुचारुवारिमयवापी विराजितम् ।।२४।।
प्रासादं निर्मितवतस्तद्द्रव्यं ते व्ययं गतम् ।
किञ्चित्स्त्रिया च पुत्रैश्च सुहृद्भिर्बन्धुभिर्हृतम् ।।२५।।
ततो नाति चिरेकाले पञ्चत्वं च गतो भवान् ।
याम्यदूतैः कशाघातैर्बद्धः सन्ताडितो भृशम् ।।२६।।
कण्टकैर्विद्धसर्वाङ्गः शिलायां पोथितोपि च ।
मज्जितो नरके घोरे पूयशोणितकर्दमे ।।२७।।
एवं नीतस्तुतैर्दूतैश्चित्रगुप्तयमान्तिके ।
यमेन पृष्टः किं पुण्यमुतभोक्ष्यसि पातकम् ।।२८।।
त्वमवोचः पुण्यमहं पूर्वं भोक्ष्यामि सूर्यज ।
ततः सौराष्ट्रदेशे त्वं राजत्वेन विनिर्मितः ।।२९।।
इति ते कथितं पूर्वजन्म पापकरं मया ।
शरणागत कारुण्यात्तपोबल समाश्रयात् ।।३०।।
कान्त प्रासादकरणात्सोमकान्तोऽभवोनृपः ।
कान्तया कान्ततरया भासिकान्त्या शशी यथा ।।३१।।
सूत उवाच ।।
भृगुणाभिहितं श्रुत्वा सोमकान्तो नृपाधमः ।
तद्वाक्ये संशयापन्न आसीदश्मेव निष्क्रियः ।।३२।।
वेदशास्त्रार्थविदुषो भूतभाविभवद्विदः ।
तपस्विनो भृगोर्वाक्ये यतः स संशयं दधौ ।।३३।।
निरगन्क्षणमात्रेण तस्याङ्गात्पक्षिणो भृशम् ।
नानावर्णाकृतिधरा बभक्षुर्नृपतिं तदा ।।३४।।
उडीयोड्डीयचञ्चोग्रैर्ददंशुर्नृपशुं दृढैः ।
उत्कृत्योत्कृत्य मांसानि निजक्षुस्ते मुनिसन्निधौ ।।३५।।
ततोतिदुःखित तनुः शरणं पुनरागतः ।
अवदद्दीनया वाचा भृगुं ज्ञानतपोनिधिम् ।।३६।।
राजोवाच ।।
त्वद्वने जातिवैराणां परस्पर भयं न हि ।
त्वत्समक्षं कथमिमे मृतं मां मारयन्ति च ।।३७।।
त्वत्पाद प्रवणं दीनं सकुष्ठं शरणागतम् ।
इदानीं मोचय मुने सर्वसत्वा भयङ्कर ।।३८।।
सूत उवाच ।।
इत्युक्तः पुनरप्याह भृगुस्तं दीनवत्सलः ।
मद्वाक्यसंशयादित्थमनुभूतं नृपत्यया ।।३९।।
प्रतीकारं वदिष्यामि स्वस्थो भव क्षणं नृप ।
मम हुंकार मात्रेण गमिष्यन्ति द्विजा इमे ।।४०।।
सूत उवाच ।।
द्विजस्य हुंकृतिं श्रुत्वा द्विजाश्चान्तर्हितास्तदा ।
तुतोष नृपतिश्चापि पत्न्यमात्यसमन्विता ।।४१।।
।। इति श्रीगणेशपुराणे उपासनाखण्डे नानापक्षिनिवारणं नामाष्टमोऽध्यायः ।।८।।