सामग्री पर जाएँ

गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायः ०५

विकिस्रोतः तः
← अध्यायः ०४ गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)
अध्यायः ५
[[लेखकः :|]]
अध्यायः ०६ →

।। अथ पञ्चमोऽध्यायः ।।
ततो मातरमभ्येत्य स्नेहकातरयाधिया ।
तां जगाद कथं मातस्त्यजसेऽनपराधिनम् ।।१।।
पुत्र उवाच ।।
सहैवयातु पुत्रोयमिति वाच्यस्त्वया पिता ।
तववाक्यानुरोधेन यदिमांसहनेष्यति ।।२।।
तदावां सेवनं कुर्यां न मे राज्ये मतिस्तथा ।
किं तद्राज्यं सुखं तद्याद्भवद्भ्यांरहितस्यमे ।।३।।
सुधर्मोवाच ।।
एतावद्दुःखशोकाभ्यां युक्तोराजानमेव च ।
करिष्यति महाबाहो तस्माद्गच्छ ममाज्ञया ।।४।।
पातिव्रत्येन धर्मेण परवत्यस्मि बालक ।
भर्तुरन्यो न देवोस्ति योषितां मान्यएव च ।।५।।
सूत उवाच ।।
इत्याकर्ण्य नमश्चक्रे मातरं ससुहृत्सुतः ।
प्रदक्षिणीकृत्य ततोनुज्ञांप्राप्य पुरं ययौ ।।६।।
अलङ्कृतैर्नागरिकैः पताकाध्वजपल्लवैः ।
सिक्तमार्गं सुगन्धाढ्यं यथेन्द्रनगरं तथा ।।७।।
दत्त्वाताम्बूलवासांसि विसृज्य स्वजनान्नृपः ।
प्रविवेश गृहं श्रीमद्धर्षशोकसमन्वितः ।।८।।
चकारराज्यं धर्मेण सुतवत्पालयन्प्रजाः ।
धर्मार्थकाममोक्षेषु यथा शिक्षं मनोदधे ।।९।।
ऋषय ऊचुः ।।
कथं राजा सोमकान्तः किं वनं समुपागतः ।
किं सहायश्च किं चक्रे कर्मनो वदविस्तरात् ।।१०।।
सूत उवाच ।।
हंतवः कथयिष्यामि सोमकान्तो यथा वनम् ।
गत्वा चकारयत्कार्यं सादरं श्रृणुतानघाः ।।११।।
सुबल ज्ञानगम्याममात्याभ्यां सुधर्मया ।
धर्मप ! यायुतोरण्यं प्रविवेशदुरासदम् ।।१२।।
अग्रतः प्रकृतियातो मध्येराजाथपृष्ठतः ।
धर्मपत्नी सुधर्मागात्सीतेवरामपृष्ठतः ।।१३।।
एकाशनाश्च चत्वार एकचित्तासनालयाः ।
समदुःखसुखाश्चापि वनाद्वनमुपाययुः ।।१४।।
क्षुधातृषाश्रमैर्वापि निम्नोन्नतगताध्वभिः ।
अत्यन्तकर्षितश्छायामाश्रित्योपाविशन्क्वचित् ।।१५।।
पुनर्वनान्तरं गत्वा ददृशुस्ते सरोमहत् ।
यत्र मातङ्गसदृशा नक्राभान्तिसकच्छपाः ।।१६।।
तालास्तमालाः सरलाः प्रियालाबकुलाः शुभाः ।
सरलाः पनसाजम्बुनिम्बाश्वत्थवटादयः ।।१७।।
वृक्षानानालताजालैर्वेष्टिताः परितोबभुः ।
यत्रास्ते तिमिरं गाढं गिरिदर्युदरे यथा ।।१८।।
यत्रवायुः सुखस्पर्शः कुमुदोत्पल गन्धवान् ।
यस्मान्नयन्ति मुनयो विसासन च फलानि च ।।१९।।
यत्र हंसा बकाः श्येनाः सुकाः काकाश्चकोकिलाः ।
सारिकाश्चक्रवाकाश्च नानारावान्विकुर्वते ।।२०।।
नयत्रशीतोष्णकरांशु संधिर्नानालतापुष्पकुजाश्रितानाम् ।
क्षुत्तृड्भयं यत्र न चैव मृत्युः स्वर्गे यथा पुण्यवतां द्विजेन्द्राः ।।२१।।
तत्रगत्वा जलं सर्वे पपुः शीतं श्रमापहम् ।
स्नात्वा नित्यक्रियां कृत्वा फलानि बुभुजुश्च ते ।।२२।।
सुष्वापचक्षणंराजाकच्छेकोमलवालुके ।
धर्मपत्नी सुधर्मा च पादसंवाहनेस्थिता ।।२३।।
तस्यानुमतमाज्ञाय द्वावमात्यावगच्छताम् ।
आद्रतुं कन्दमूलानि फलानि च विसानि च ।।२४।।
ददर्श तत्राद्भुतरूपमुग्रं बालं सुधर्मा प्रभयाज्वलन्तम् ।
उत्कृष्टरूपस्यकृतेस्मरन्तं जातं पुरा बालमितिस्ममेने ।।२५।।
दृष्ट्वैव सोतं जहृषे सुधर्मा मेने च तं साहितकारिणं च ।
क्षुब्धं प्रसन्नं हृदयं समीक्ष्यापकारिणं चोपकरं हि वक्ति ।।२६।।
पप्रच्छ तं कश्च कुतश्चयातः कस्यासि पुत्रो जननी च का ते ।
वदस्व शब्दामृतधारयामे सखेवकर्णौ परतोषयाशु ।।२७।।
सूत उवाच ।।
इतिस्मपृष्टः स जगाद बालस्तां राजपुत्रीं सुधयागिरामे ।
पिता भृगुर्भामिनि मे पुलोमा माता जलार्थी स्वगृहादिहागाम् ।।२८।।
च्यवनः खलु नाम्नाहं पितुराज्ञाकरः शुभे ।
त्वं च का कतमोयंते कथं वनमिदं गतः ।।२९।।
स्रवन्ति कथमंगानि वर्षाकालेगिरेरिव ।
अति दुर्गन्धता चास्य केन वा वद कर्मणा ।।३०।।
कृमिभार समाकीर्णममुंवासेवसे कथम् ।
स्वयंचारुतराभूत्वा सुकुमारी सुलोचना ।।३१।।
चारु प्रसन्नवदना चारुसर्वांगशोभिनी ।
कच्चित्पूर्वं न पित्रा ते सुहृद्भिर्भ्रातृभिर्द्विजैः ।।३२।।
विज्ञातोयं वरः कुष्ठीकृमिभाराकुलोपि च ।
कथमेनं वृतवती दुर्गमं चागता वनम् ।।३३।।
सूत उवाच ।।
इति पृष्टा सुधर्मा सा मुनिपुत्रेण धीमता ।
व्याचष्टे सकलं तस्मै शोकहर्षसमन्विता ।।३४।।
सुधर्मोवाच ।।
सौराष्ट्रदेशे विख्यातं देवताख्यं पुरं महत् ।
तत्रायं सोमकान्तो मे भर्त्ताराज्यं चकार ह ।।३५।।
अतिमानीवदान्यश्च शूरोदृढपराक्रमः ।
असंख्यातबलोपेतो रिपुराष्ट्रविमर्द्दनः ।।३६।।
यज्वाति सुन्दरः श्रीमान्सुहृदानंदकारकः ।
विवेक्तासर्वकार्याणां नीतिशास्त्रविशारदः ।।३७।।
राज्यं स्वं बुभुजे राजा बहुकालं द्विजोत्तम ।
इमामवस्थां संप्राप्तः पूर्वकर्म विपाकतः ।।३८।।
अमात्यद्वयसंयुक्तो वनमेतत्समागतः ।
भ्रमन्तीपृष्ठलग्नास्य पुत्रेराज्यं प्रयच्छतः ।।३९।।
सुबलज्ञानगम्याभ्यां प्रकृतिभ्यामिहागता ।
राज्ञोनुज्ञां समादाय फलार्थं तौ वने गतौ ।।४०।।
इहास्मान् राक्षसाः प्रेताभूतानिमृगपक्षिणः ।
नानाविधाभीषयन्ति कथं नोभक्षयन्तिन ।।४१।।
नजाने दुःखभोगाय स्थापयन्त्यग्रतोपि च ।
दुःखस्यान्तं नपश्यामि कर्मणो दुष्कृतस्य च ।।४२।।
कटुतिक्ताम्ललवणमधुरस्निग्धभोजने ।
न तथा रुचिरस्याभूत्परीतस्य द्विजातिभिः ।।४३।।
यथेदानीं कन्दमूल कषायाम्लफलादिषु ।
दरिद्राणां महाहारःपाकोपि भक्षितस्य च ।।४४।।
न तथा श्रीमतां शक्ति रशने पाक एव च ।
यः शेते कोमले दिव्ये शयनेस्म मनोरमे ।।४५।।
इदानीं यत्रकुत्रापि पश्यकाल विपर्ययम् ।
यस्यदिग्व्यापिनश्चासन्नानापरिमलाः शुभाः ।।४६।।
य आनन्दमये सिन्धौ मग्नोभूत्पण्डितैर्वृतः ।
पूयशोणितदिग्धस्य पूतिगन्धोपिसांप्रतम् ।४७।।
स इदानीं दुःखमये कृमिभिः परिवारितः ।
कथन्तरेम दुःखाब्धिं नजाने भृगुनन्दन ।।४८।।
भवपोतइवागाधे मज्जन्तं नौरिवार्णवे ।।४९।।
।। इति श्रीगणेशपुराणे उपासनाखण्डे सुधर्माच्यवनसंवादो नाम पञ्चमोऽध्यायः ।।५।।