गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायः ०४
← अध्यायः ०३ | गणेशपुराणम्/खण्डः १(उपासनाखण्डम्) अध्यायः ४ [[लेखकः :|]] |
अध्यायः ०५ → |
।। अथ चतुर्थोऽध्यायः ।।
जातृभिषेकेराजासौ चकार द्विजपूजनम् ।
मणिमुक्ताप्रवालानि ददौ साङ्गं गवायुतम् ।।१।।
तोषयामास सर्वांस्तान् गजगोश्वधनांशुकैः ।
नानादेश्यानिवासांसिसुवर्णांतरितानि च ।।२।।
नानावर्णानि काश्मीर देशजानि महान्ति च ।
राजभ्योराजपत्नीभ्यो ग्राममुख्येभ्य एव च ।।३।।
तदृत्येभ्यो गुणिभ्यश्च ददौ राजा यथार्हतः ।
अमात्येभ्योददग्वन्यान् ग्रामान् बहुधनान्यपि ।।४।।
ततो वनं ययौ राजा दुःखशोकसमन्वितः ।
पूर्वजन्मार्जितैर्दोषैरत्यन्तमलिनोऽशुचिः ।।५।।
तस्मिन्प्रयाते लोकानां हाहाकारोमहानभूत् ।
स्वं स्वं कार्यं विहायैव प्रतिजग्मुर्जनाधिपम् ।।६।।
अमात्याराजभार्याश्च हेमकण्ठः सुहृद्वृतः ।
उत्तिष्ठन्प्रपतन्यातःस्खलन्धावन्रुदन्नपि ।।७।।
अमात्यानागरास्तन्तु दुःखिताअप्यवारयन् ।
गव्यूतिद्वितयंगत्वा तस्थौ राजा श्रमान्वितः ।।८।।
दृष्ट्वा वापीं शीतजलां नानावृक्षसमन्वितम् ।
उवाच नागरान्सर्वानमात्यान्स्वजनानपि ।।९।।
अपराद्धं मयायद्यच्चिरं राज्यं प्रकुर्वता ।
तत्क्षन्तव्यं नमाम्येष बध्वोंञ्जलिपुटं जनाः ।।१०।।
कृपाविधेया पुत्रे मे यदि दैवात्समागते ।
विज्ञापयामिवः सर्वान्मयिस्नेहोनहीयताम् ।।११।।
गच्छन्तु नगरं सर्वे सस्त्रीवृद्धाः समागताः ।
पुत्रेण पाल्यमाना मे तिष्ठन्तु विगतज्वराः ।।१२।।
अनुजानं तु मां सर्वे सुचित्तोयाम्यहं वनम् ।
युष्मासुतु प्रयातेषु मनो मे निश्चलं भवेत् ।।१३।।
उपकारं महान्तं मे कुर्वन्तु कृपयाखिलाः ।
दुःखितोनिष्ठुरं वक्तुंमर्तुकामोपिनोत्सहे ।।१४।।
महत्पापं मयैवैतज्जन्मजन्मान्तरार्जितम् ।
यद्वियोगो हि राज्यस्य लोकानां हितकारिणाम् ।।१५।।
परन्तु किं करोम्येष यद्गलत्कुष्ठवानहम् ।
सर्वोपि स्वकृतं भुङ्ते सुकृतं दुष्कृतं तथा ।।१६।।
सूत उवाच ।।
इति श्रुत्वा वचो राज्ञो मूर्च्छिता: सुहृदस्तथा ।
घ्नन्तः केचित्पाणितलैः शिरांसि भृशदुःखिताः ।।१७।।
केचित्परस्परंचक्रुरभिज्ञाः पण्डिताश्च ये ।
सान्त्वनं पूर्वजातानां नृपाणां चरितैर्नृपे ।।१८।।
अनिर्वाच्यामवस्थां तत्समीक्ष्येयुरथापरे ।
यथास्वरूपेविज्ञाते योगिनो ज्ञानरत्तयः ।।१९।।
दुःखितं सोमकान्तं तं वनं गन्तुं समुत्सुकुम् ।
नियम्य दुःखं धैर्येण धीराः केचिदथाब्रुवन् ।।२०।।
जना ऊचुः ।।
पोषयित्वा पालयित्वा ननस्त्वं त्यक्तुमर्हसि ।
यथा न त्यजते शैत्यं जलमुष्णंतनूनपात् ।।२१।।
मर्यादां जलधिर्वापि सूर्यःप्रकाश्यमेव च ।
कथं वा नगरं यामस्त्वां विना जनवत्सल ।।२२।।
यथोडुपतिनाहीनं व्योमतारान्वितं नृप ।
पुरं तद्वन्नशोभेत त्वां विना शत्रुकर्षण ।।२३।।
सहै वयामस्तीर्थानि द्वित्राणि वयमप्युत ।
रूपं ते कान्तिमत्कान्त भविता तीर्थ सेवनात् ।।२४।।
ततः सहैवयास्यामो नगरं ध्वजसंकुलम् ।
हर्षेण महता युक्ता वाद्यबन्दिपुरःसराः ।।२५।।
सूत उवाच ।।
इति तद्वचनं श्रुत्वा क्रोधदूःखसमन्वितः ।
उवाच राजा तान्नत्वामैवंमैवं पुनः पुनः ।।२६।।
ततो ब्रवीद्धेमकण्ठः सामात्योवत्सलं नृपम् ।
स्नेहकारुण्यभावेन विनयेन समन्वितः ।।२७।।
पुत्र उवाच ।।
विना त्वां नोत्सहे गन्तुं कर्तुं राज्यं च जीवितुम् ।
नमया दृष्ट पूर्वस्ते विरहस्तं कथं सेहे ।।२८।।
राजोवाच ।।
एतदर्थं मया पूर्वं धर्मशास्त्रं सुनीतिमत् ।
उपदिष्टं तव शुभं न वृथाकर्तुमर्हसि ।।२९।।
श्रूयते जामदग्न्येन जननी निहतापुरा ।
पितृवाक्यानुरोधेन नीतिज्ञेन सुधीमता ।।३०।।
रामस्तु राज्यं त्यक्त्वैव वनं यातः सहानुजः ।
अपृष्ट्वा कारणं सीतां तत्त्याज लक्ष्मणो वने ।।३१।।
हेमकण्ठ पुरं शीघ्रममात्यैस्त्रिभिरन्वितः ।
अतो ममाज्ञया गच्छ कुरु राज्यं मयार्पितम् ।।३२।।
विज्ञेयथाकार्यसक्ते चित्तं तस्य परात्मनि ।
यथावस्थापिते वित्ते चित्तं लोकस्य वर्त्तते ।।३३।।
तथामयि वनं याते स्वान्तं मे त्वयिवर्त्तते ।
दैवयोगेन सुभगो जातोयास्ये पुनर्गृहम् ।।३४।।
भविष्यति तथा धर्मो मद्वाक्यं कारिणस्तव ।
न तथा सहया तेन तस्माद्गच्छ व्रजामि च ।।३५।।
सूत उवाच ।।
अमात्यानागरापुत्रः प्रयातुं कृतमानसाः ।
कष्टेन महतायुक्ता नमश्चक्रुर्नृपं तदा ।।३६।।
अनज्ञातास्ततस्तेन आशीर्भिभिनन्द्य च ।
प्रदक्षिणी कृत्य नृपं निवृत्ता नगरंप्रति ।।३७।।
अग्रेकृत्वा महासेनां गजाश्वरथपत्तिनाम् ।
छत्रध्वजयुतोमानी हेमकण्ठोऽगमत्पुरीम् ।।३८।।
।। इति श्रीगणेशपुराणे उपासनाखण्डे चतुर्थोऽध्यायः ।।४।।