सामग्री पर जाएँ

गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायः १५

विकिस्रोतः तः
← अध्यायः १४ गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)
अध्यायः १५
[[लेखकः :|]]
अध्यायाः १६-२० →

अध्याय १५ प्रारंभः –
भृगुरुवाच ॥
व्यासायाकथयच्चाग्रे ब्रह्मा लोकपितामहः ।
सोमकांत प्रवक्ष्यामि कथां शृणुत सादरम् ॥१॥
ब्रह्मोवाच ॥
ततोऽहं सुमहत्स्वप्नं ददर्श मुनिसत्तम।
भ्रमता भ्रमता व्योम जले दृष्टो वटो महान् ॥२॥
महावातातपाद्भिस्तु नष्टे स्थावरजंगमे ।
अवशिष्ट: कथमयमेक एव वटो महान् ॥३॥
एवं संशयमापन्नस्तत् पत्रे बालकं लघुम् ।
चतुर्बाहुं समुकुटं कुंडलाभ्यां विराजितम् ॥४॥
मणिमुक्तामयं दाम बिभ्रत्कंठे सुशोभितम् ।
अर्धचन्द्र रक्तवस्त्रं कटिसूत्रं तथैव च ॥५॥
एकदन्तं नखपुर्गजास्यं तेजसा ज्वलत् ।
दृष्ट्वैवं तर्कयामास बालकं कथमत्र वै॥६॥
पुष्करेण च तद्बालं जलं मन्मस्तकेऽक्षिपत् ।
ततोऽहमाजहासोच्चैश्चिंतानंद समन्वितः ॥७॥
मय्या हसति बालः स उत्ततार वटात्ततः ।
स ममांकं समागत्य मंजुवाक्यं जगाद ह॥८॥
बाल उवाच ॥
लघोर्लघुतरोऽसि त्वं वृथा वृद्धोऽपि मूढधीः ।
विघ्नैरभिहतोऽसि त्वं सृष्टिचिंता समावृतः ॥९॥
तपश्चिंता परो नित्यं बिभ्रमं जलमध्यगः ।
सर्वं चिंताहरं तेऽहमुपायं चतुरानन ॥१.१५.१०॥
उपादिशामि ते मंत्रमेकाक्षरमिमं मम ।
पुरश्चरण मार्गेण दशलक्षं जपस्व तम् ॥११॥
ततः प्रत्यक्षतां यास्ये दास्ये सामर्थ्यमुत्तमम् ।
दृष्ट्वैवं स्वप्नमाश्चर्यं प्रतिबुद्धोऽभवं ह्यहम् ॥१२॥
शुशोच च कदा मे स्याद्दर्शनं परमेशितुः ।
दृष्टस्वप्नोऽभवं मग्न आनंदमय सागरे ॥१३॥
ततः स्नात्वा परं मंत्रं जजाप बहुवासरम् ।
एकपादेन कमले तिष्ठन् ध्यायन् गजाननम् ॥१४॥
जितेन्द्रियो जिताहारः काष्ठपाषाणवत् स्थिरः ।
दिव्यवर्षसहस्रं स तपस्तेपे परं महत् ॥१५॥
ततो मे मुखतो ज्वालाः प्रादुरासन् दुरासदाः ।
ताभिः सर्वाणि भूतानि पीडामापुः सुदारुणाम् ॥१६॥
ततो गजाननो दृष्ट्वा तां निष्ठां मम सुदृढाम् ।
तुतोष परया भक्त्या प्रादुरासीत्ततः पुरः ॥१७॥
कोटि सूर्य समान श्रीर्ज्वालामालीव हव्यभुक् ।
दहन्निव त्रिलोकीं स संहरन्निव रोदसी ॥१८॥
परशुकमलधारी दिव्य माया विभूषः ।
सकल दुरितहारी सर्व सौन्दर्य कोशः ।
करिवर मुख शोभी भक्तवांछा प्रपोषः ।
सुर मनुज मुनीनां सर्व विघ्नैक नाशः ॥१९॥
तेजोराशिमहं दृष्ट्वा चकम्पे व्यास सन्मुने ।
चिंतामवाप परमां व्यग्रचित्तो जपाच्च्युतः ॥१.१५.२०॥
आच्छादितानीक्षणानि स्मृतिश्च विलयं गता ।
दृष्ट्वेदृशीमवस्थां तां शीघ्रं प्राहाथ विघ्नराट् ॥२१॥
गणेश उवाच ॥
न भयं कुरु लोकेश स एवाहं समागतः ।
येन ते मन्त्र आदेशि स्वप्न एकाक्षरः शुभः ॥२२॥
तेन सिद्धिरनुप्राप्ता वरं दातुं समागतः ।
सौम्यभावप्रपन्नोऽस्मि वरं वरय सुव्रत ॥२३॥
दास्यामि ते प्रसन्नोऽहं यद्यत्ते हृदि वर्तते ।
मयि प्रसन्ने सर्वं तद् भविता नात्र संशयः ॥२४॥
मुनिरुवाच ॥
इत्थं निशम्य गणनाथ वचो विशुद्धं ब्रह्मा जहर्ष परमप्रसमीक्षमाणः ।
नत्वा चराचरगुरूं सकलैः शिरोभिः प्राह प्रसन्नहृदयः सफलं जनुर्मे ॥२५॥
ब्रह्मोवाच ॥
यो वेदानां सशास्त्राणां ज्ञानिनां योगिनामपि ।
सर्वोपनिषदां चैव गोचरो न कदाचन ॥२६॥
स पुण्यनिचयैर्मेऽद्य यातः प्रत्यक्षतां विभुः ।
अनादि निधनोऽनंतोऽप्रमेयो निर्गुणोऽपि च ॥२७॥
यदि प्रसन्नो देवेश विघ्नेश करुणाकर ।
तव भक्तिं दृढां देहि यया दुःख न नः स्पृशेत् ॥२८॥
इदानीं देहि सामर्थ्यं नाना निर्माणने मम ।
विघ्नानि च शमं यान्तु यदि तुष्टोऽसि मे प्रभो ॥२९॥
स्मृतमात्रः सदा मे त्वं सर्वं कार्यं समापय ।
अन्ते मुक्तिं स्थिरां देहि ज्ञानं च विमलं मम ॥१.१५.३०॥
गजानन उवाच ॥
एवमस्तु कुरुष्व त्वं सृष्टिं नानाविधां बहुम ।
मां स्मृत्वा सर्व विघ्नानि नाशं यास्यन्ति सर्वतः ॥३१॥
दृढा भक्तिः शुभं ज्ञानं मत्प्रसादा द्भविष्यति ।
निःशंकं कुरु कार्याणि सर्वाणि चतुरानन ॥३२॥
मुनिरूवाच ॥
एवं लब्धवरो ब्रह्मा पूजयामास तं विभुम् ।
यद्यच्चिते ऽचिंतयत् स तत्तदेवोपतिष्ठते ॥३३॥
पूजार्थं देवदेवस्य गणेशस्य प्रसादतः ।
दक्षिणावसरे द्वे तु कन्यके समुपस्थिते ॥३४॥
चारुप्रसन्न नयन वदनैः सुविराजते।
अनेक रत्नखचित नानालंकार शोभिते ॥३५॥
दिव्यगन्धयुते दिव्य वस्त्र माला विभूषते ।
ते तस्मै दक्षिणार्थं स कल्पयामास पद्मभूः ॥३६॥
रंभागर्भेण नीराज्यं दिव्यपुष्पांजलिं ददौ ।
सहस्रनामभिः स्तुत्वा प्रदक्षिणमथाकरोत ॥३७॥
नमस्य प्रार्थयामास दीनानां शंकरो भव ।
एवं संपूजितस्तेन ब्रह्मणा परमेष्ठिना ॥३८॥
ततः प्रसन्नो भगवान् विघ्नहर्ता गजाननः ।
सिद्धिबुद्धी गृहीत्वा ते अन्तर्धानमगाद्विभुः ॥३९॥
कस्ततः कारयामास सृष्टिं पूर्ववदायताम् ।
आज्ञया परमेशस्य प्रसादाच्च प्रसन्नधीः ॥१.१५.४०॥ (५५०)
इति श्रीगणेशपुराण उपासनाखंडे गजाननपूजानिरूपणंनाम पंचदशोऽध्यायः ॥१५॥