अथ षोडशः सर्गः-॥ १६ ॥
श्रीमदाचार्याणां शारदापीठवासवर्णनम ॥
अथ यदा जितवान्यतिशेखरोऽभिनवगुप्तमनुत्तममान्त्रिकम् ।
स तु तदाऽपजितो यतिगोचरं हतमनाः कृतवानपगोरणम् ॥ १
स ततोऽभिचचार मूढबुद्धियतिशार्दूलम, मरूहरोषः ।
अचिकित्स्यतमो भिषम्भिरस्मादनिष्ठास्य भगन्दराख्यरोगः ॥२
अचिकित्स्यभगन्दराख्यरोगपसरच्छोणितपङ्किलस्वशाट्याः ।
अजुगुप्सविशोधनादिरूपां परिचर्यामकृतास्य तोटकार्यः ॥३
भगन्दरव्याधिनिपीडितं गुरुं निरीक्ष्य शिष्याः समबोधयशनैः ।
नोपेक्षणीयो भगवन् महामयस्त्वपीडितः शत्रुरिवर्द्धिमानुयात् ॥४
ममत्वहानाद्भवता शरीरके न गण्यते व्याधिकृताऽऽतिरीशी ।
पश्यन्त एवान्तिकवतिनो वयं भृशातुराः स्मः सहसा व्यथासहाः ॥ ५
चिकित्सका व्याधि निदानकोविदाः संपच्छनीया भगवन्नितस्ततः ।
प्रत्यक्षवत्संपति सन्ति पूरुषा जीवातुवेदे गदितार्थसिद्धिदाः ॥ ६
उपेक्षमाणेऽपि गुरावनास्थया शरीरकादौ सुग्वपात्मनीश्वरैः ।
नोपेक्षणीय गुरुदुःखश्वभिदुःखं विनेयैरिति शास्त्रनिश्चयः ॥७
स्वस्थे भवत्पादसरोरुहद्वये स्वस्था वयं यन्मधुपायिवृत्तयः ।
तस्माद्भवेत्तावकविग्रहो यथा स्वस्थस्तथा वाञ्छति पूज्य ना मन: ॥ ८
व्याधिहि जन्मान्तरपापपाको भोगेन तस्मात् क्षपीय एषः ।
अभुज्यमानः पुरुषं न मुञ्चजन्मान्तरेऽपीति हि शास्त्रादः ॥९
व्याधिविधाऽसौ कथितो हि विद्भिः कर्माद्भवो धातुकृतस्तथेति ।
आद्यक्षयः कर्मण एवं लीनाचिकित्सया स्याचरमादितस्य ॥ १०
संक्षीयतां कर्मण एवं संक्षयायाधिः प्रवृत्तो न चिकित्स्यते मया ।
पतेच्छरीरं यदि तन्निमित्ततः पतत्ववश्यं न विभेमि किञ्चन ॥
पृष्ठम्:शङ्करदिग्विजयः.djvu/१७४
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
168
[षोडशः
श्रीमच्छङ्करदिग्विजये